२९ पिण्डदानविधिः

अथ पिण्डदानविधिः

तत्र मनुः ।

पिण्डनिर्वापणं केचित् पुरस्ताद् एव कुर्वते । इति ।

ब्राह्मणभोजनात् पुरस्तात् तेषाम् अर्चनानन्तरम् अग्नौकरणानन्तरं वा पिण्डनिर्वापणं केचित् कुर्वत इत्य् अर्थः । एवम् एव स्मृत्यन्तरेषु भोजनात् पुरस्तात् पिण्डनिर्वापणस्य कालद्वयदर्शनात् । केचिद् इति वचनाद् अपरे ब्राह्मणभोजनात् परस्ताद् आचमनात् प्राग् ऊर्ध्वं वा (ब्राह्मणविसर्जनाद् पूर्वं वा) (?) पिण्डनिर्वपणम् कुर्वत इत्य् अवगम्यते, स्मृत्यन्तरेषु ब्राह्मणभोजनाद् ऊर्ध्वम् एव कलद्वयदर्शनात् । अत्र यथास्वशाखं व्यवस्था । तथा च स्मृत्यन्तरम् ।

मुनिभिर् भिन्नकालेषु पिण्डदानं तु यत् स्मृतम् ।
तत् स्वशाखामयं यत्र तत्र कुयाद् विचक्षणः ॥

तत् भिन्नकालेxउ स्मृतं पिण्डदानं यस्मिन् काले कृतं स्वशाखायाम् अनुमतम् अनुगृहीतं भवति तस्मिन् काले कुर्याद् इत्य् अर्थः । ब्राह्मणभोजनात् पुरस्तात् परस्ताद् वेति पक्षद्वये व्यवस्थाम् आह लोकाक्षिः ।

अप्रशस्तेषु यागेषु पूर्वं पिण्डावनेजनम् ।
भोजनस्य प्रशस्तं तु पश्चाद् एवोपकल्पयेत् ॥

अप्रशस्तेषु यागेषु सपिण्डीकरणाख्यश्राद्धात् पूर्वं विहितश्राद्धेषु । अवनेजनम् अवाचीनपाणिना निर्वपणम् । भोजनस्य निमन्त्रितब्राह्मणभोजनस्य । प्रशस्तं सपिण्डीकरणादिश्रद्धेxउ क्रियमाणं भोजनत् पश्चाद् एव यथाकालम् उपकल्पयेत् । एवं च पार्वणश्राद्धे भोजनात् पश्चाद् एव स्वशाखानुमते काले पिण्डं दद्यात् । तत्र आश्वलायनशाखिनां ब्राह्मणभोजनाद् ऊर्ध्वं तेष्व् आचान्तेषु पिण्डदानकालः । तथा आश्वलायनः - “भुक्तवत्स्व् आचान्तेषु पिण्डं निदध्याद् अनाचान्तेष्व् एके” इति । तत्र अनाचान्तेष्व् एके इति इति पक्षस्य सौकर्यात् स्वगृह्यानुक्तकालविशेषैर् अप्य् अयम् एव पक्षो ग्राह्यः । याज्ञवल्क्यस् तु पिण्डदानप्रकारम् आह ।

सर्वम् अन्नम् उपादाय सतिलं दक्षिणामुखः ।
उच्छिष्टसंनिधौ पिण्डान् दद्यात् तु पितृयज्ञवत् ॥

श्राद्धार्थपाकसिद्धं सर्वप्रकारम् अन्नं स्तोकं स्तोकम् उद्धृत्य क्वचित् पात्रे समवदाय तदन्नमयान् पिण्डान् स्वशाखाविहितपिण्डपितृयज्ञविधानेन स्मृतिकारोपदिष्टेन सतिलत्वदक्षिणामुखत्वादिविशेषसहितेनोच्छिष्टसंनिधौ दद्याद् इत्य् अर्थः । ननूच्छिष्टसंधिर् अशुचिर् देशो भवतीति तत्र कथं पिण्डदानं विधीयत इत्य् आशङ्क्याह अत्रिः ।

पितॄणाम् आसनस्थाद् अग्रतिस्रष्व् अरत्निषु ।
उच्छिष्टसंनिधानं तन् नोच्छिष्टासनसंनिधौ ॥

उच्छिष्टसंपर्करहितासन्नदेशोपलक्षणार्थं त्रिष्व् अरत्निष्व् इत्य् उक्तम् । तेन नात्र त्र्यरत्निनियमः । अत एव जातूकर्ण्यः ।

व्यायाममात्रं समुत्सृज्य पिण्डांस् तत्र प्रदापयेत् । इति ।

पारस्करो ऽपि ।

पात्राणां बाहुमात्रेण पिण्डदानं विधीयते । इति ।

पात्राणाम् उच्छिष्टाशनवद् अमात्राणाम् आधारस्थानात् । बाहुमात्रेण बाहुमात्रम् उत्सृजेद् इत्य् अर्थः । व्यासो ऽपि ।

अरत्निमात्रम् उत्सृज्य पिण्डांस् तत्र प्रदापयेत् ।
यत्रोपस्पृशतां वापि प्राप्नुवन्ति न बिन्दवः ॥ इति ।

कार्ष्णाजिनिर् अपि पिण्डपितृयज्ञविधानेन क्रियमाणे पिण्डदाने विशेषम् आह ।

अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य तु ।
शेषान्नप्रश्नपूर्वं तु दद्यात् पिण्डान् क्रमेण तु ॥ इति ।

शेषम् अन्नं पिण्डार्थम् उद्धृताच् छेषं सर्वं प्रकृतम् अन्नम् । तस्य एवंविधशेषान्नस्य प्रश्नः तत्पूर्वकं पिण्डान् दद्यात् । शेषम् अप्य् अस्तिकं क्रियताम् इत्य् एवंविधं प्रश्नं कृत्वा तदनुगुणं विप्राणाम् उत्तरं च श्रुत्वा पश्चात् पिण्डदानविधिं कुर्याद् इति यावत् । किं पुनस् तदनुगुणम् उत्तरं विप्रैर् वक्तव्यम् इत्य् अपेक्षिते तत्सूचनार्थम् उशनसोक्तम् - “तैर् अनुज्ञातः शेषम् इष्टेभ्यो दद्यात् स्वयं वा भुञ्जीत” इति । इष्टेभ्यो दद्याद् इष्टान् भोजयेत् स्वयं वा भुञ्जीतेत्य् अर्थः । वाशब्दो ऽत्र चशब्दार्थे द्रष्टव्यः, “भुञ्जीत पितृसेवितम्” इति याज्ञवल्क्येन नित्यवद् भोजनविधानात् । यत एव पितृसेवितावशिष्टभोजनं नित्यम् अत एवैकाद्श्याम् उपवाससिद्धये पितृसेवितशेषभोजनस्थाने प्रत्याम्नायः स्मर्यते ।

उपवासो यदा नित्यः श्राद्धं नैमित्तिकं भवेत् ।
उपवासं तदा कुर्याद् आघ्राय पितृसेवितम् ॥ इति ।

यत् पुनर् औशनसवचनगतवाशब्दस्य प्रसिद्धार्थत्वम् अभिसंध्याभिहितं देवस्वामिना - “भुञ्जीत पितृसेवितम् इत्य् एतन् न नैयमिकम्” इति, एवं च स्वयं भुञ्जीतेत्य् औशनसवचस्थवाशब्देन पितृसेवितशेषभोजनस्य पाक्षिकत्वावगतेर् भुञ्जीत पितृसेवितम् इत्य् एतद् याज्ञवल्कीयं विधानं न नैयमिकं न नित्यम् इति तदीयग्रह्थस्यार्थः — तद् एतच् चिन्त्यम्, याज्ञवल्कीयं च वचनं नित्यम्, प्रत्याम्नायवचनस्य दर्शितत्वात्,

श्राद्धं कृत्वा तु यो विप्रो न भुङ्क्ते तु कदाचन ।
देवा हविर् न गृह्णन्ति कव्यानि पितरस् तथा ॥

इति देवलेन पितृसेवितशेषभोजनाकरणे दोषस्मरणाच् च । एवं चेष्टैः सह भुज्यताम् इत्य् अभ्यनुज्ञारूपम् उत्तरं विप्रैर् देयम् इत्य् उशनसा सूचितम् इति मन्तव्यम् । देवलो ऽपि पितृयज्ञविधानेन पिण्डदाने विशेषम् आह ।

ततः सर्वाशनं पात्रे गृहीत्वा विधिवत् स्वयम् ।
तेषाम् उच्छेषणस्थाने तेन पात्रेण निक्षिपेत् ॥

तेषां भुक्तवतां ब्राह्मणानाम् उच्छेषणस्थाने उच्छिष्टसंनिधाव् इत्य् अर्थः । पात्रेण निक्षेपो नैयमिको न भवति । यद् आह मरीचिः ।

पात्राणां खड्गपात्रेण पिण्डदानं विधीयते ।
राजतौदुम्बराभ्यां वा हस्तेनैवाथ वा पुनः ॥

हस्तेनेति पक्षः श्रेयान् इत्य् अर्थम् एवकारः कृतः, न पुनर् अवधारणार्थः । तथात्वे पूर्वापरविरोधो देववचनविरोधश् च स्यात् । पिण्डनिर्वापणस्थाने प्रथमं यत् कर्तव्यं तद् ब्रह्माण्डपुराणे दर्शितम् ।

सव्योत्तराभ्यां पाणिभ्यां कुर्याद् उल्लेखनं द्विजः ।
प्रघर्षणं ततः कुर्याच् छ्राद्धकर्मण्य् अतन्द्रितः ॥
खण्डनं प्रेषणं चैव तथैवोल्लेखनक्रिया ।
सकृद् एव पितॄणां स्याद् देवानां तु त्रिर् उच्यते ॥

खण्डनं बर्हिरादेच्छेदनम् (?) । पेषणं भूमिघर्षणादिकम् । उल्लेखनक्रिया पिण्डनिर्वापणलेखाकरणम् । केनोल्लेखनं कार्यम् इत्य् अपेक्षायाम् उक्तं तत्रैव ।

वज्रेण वा कुशैर् वापि उल्लिखेत् तु महीम् द्विजः । इति ।

वज्रेण स्फ्येनेत्य् अर्थः । “वज्रो वै स्फ्यः” इत् श्रुतेः । पारस्करेण तु स्फ्यशब्देनैवोक्तम् ।

कराभ्याम् उल्लिखेत् स्फ्येन कुशैर् वापि महीं द्विजः । इति ।

कराभ्यां गृहीतेन स्फ्येन गृहीतैः कुशैर् वा महीं लिखेद् इत्य् अर्थः । अत्र मन्त्रम् आह कात्यायनः - “उल्लिख्यापहताः” इति । “अपहता असुरा रक्षांसि पिशाचा वेदिषदः” इति मन्त्रेणोल्लिख्येत्य् अन्वयः । अनेन मन्त्रेण स्प्येनोल्लेखनं पितृयज्ञवद् इत्य् अनेन प्राप्तम् । उल्लेखनानन्तरम् उल्लिखितदेशम् अवोक्षेत्, “स्प्येन तेषाम् उल्लिखेद् अपहता असुरा रक्षांसि पिशाचा वेदिषद इति ताम् अवोक्ष्य” इति आश्वलायनेन पिण्डपितृयज्ञधर्मकथने ऽभिधानात् । रेखां दक्षिणाप्राचीम् उल्लिखेत्, “सर्वकर्मणि तां दिशम्” इत् परिभाषायां तेनैवोक्तत्वात् । अवोक्षितदेशे कुशान् आस्तृणुयात्, “क्षिपेत् कुशांस् तत्र च दक्षिणाग्रान्” इति पुराणे ऽभिधानात् । इदम् अपि पिण्डपितृयज्ञवद् इत्य् अनेनैव प्राप्तम्, सकृदाच्छिन्नैर् अवस्तीर्येति पिण्डपितृयज्ञे विहितत्वात् । एवं च दक्षिणाग्रत्वमात्रम् एव पौराणिको विशेषः । कुशालाभे विष्णुधर्मोत्तरे ऽभिहितम् ।

पिण्डनिर्वपणं कार्यं कुशालाभे विचक्षणैः ।
काशेषु राजदूर्वासु पवित्रे परमे स्मृते ॥

राजदूर्वासु अतिदीर्घदूर्वासु । कुशास्तरणे विशेषो वायुपुराणे दर्शितः ।

सकृद् एवास्तरेद् दर्भान् पिण्डार्थं दक्षिणामुखः ।
प्राग्दक्षिणाग्रान् नियतः ॥ इति ।

एवं च दक्षिणाग्रतया सह दक्षिणाप्रागग्रताया विकल्पो वेदितव्यः । दर्भास्तरणानन्तरं सुमन्तुः ।

असाव् अवनेनिङ्क्ष्वेति पुरुषं पुरुषं प्रति ।
त्रिस् त्रिर् एकेन हस्तेन विदधीतावनेजनम् ॥

असाव् इत्य् अत्र पित्रादीनां गोत्रसहितनामग्रहणं संबोधनरूपेण कृत्वा अवनेनिङ्क्ष्वेति वक्तव्यम्,

पिण्डोदकप्रदानं तु नित्यनैमित्तिकेष्व् अपि ।
आलभ्य नाम गोत्रेण कर्तव्यं सर्वदैव हि ॥

इति व्यासस्मरणात् । आलभ्य पित्रादीन् संबोध्येत्य् अर्थः । एकेन हस्तेनेत्य् अञ्जलिनिवृत्त्यर्थम् उक्तम् । तथा च सुमन्तुः ।

श्राद्धे सेचनकाले तु पाणिनैकेन दीयते ।
तर्पणे तूभयं कुर्याद् एष एव विधिः सदा ॥ इति ।

एकेन पाणिना सव्येतरेण,

अपसव्येन हस्तेन निर्वपेद् उदकं भुवि ।

इति मनुस्मरणात् । अपसव्यहस्ते प्रदेशविशेषो मदालसयोक्तः ।

पितृतीर्थेन तोयं च दद्यात् तेभ्यः समाहितः । इति ।

तेभ्यः पितृभ्यः । चशब्दात् सतिलं तोयं प्रत्येतव्यम् । तथा च उशनसोक्तम् - “तिलमिश्रितोदकेनासिच्य दर्भास्तीर्णायां भूमौ पिण्डान् (?) दद्यात्” इति । कात्यायनस् त्व् अवनेजनम् उदपात्रेण कर्तव्यम् इत्य् आह - “उदपात्रेणावनेजयत्य् असाव् अवनेनिङ्क्ष्वेति यजमानस्य पितृप्रभृतींस् त्रीन्” इति । आश्वलायनस् त्व् अवनेजने मन्त्रान्तरम् आह - “प्राचीनावीती रेखं त्रिर् उदकेनोपनयेच् छुन्दन्तां पितरः शुन्धन्तां पितामहाः शुन्धन्तां प्रपितामहाः” इति । कात्यायनस् त्व् अवनेजनानन्तरं बर्हिरास्त्रणं कार्यम् इत्य् आह - “उपमूलं च सकृद् आच्छिन्नं रेखायां कृत्वा यथवनिक्तं पिण्डान् ददाति” इति । अवनेजनबर्हिरास्तरणयोः पौर्वापर्यविकल्पे यथास्वशाखं व्यवस्था । एवम् एवावनेनिङ्क्ष्व शुन्धन्तां पितर इत्यादिमन्त्राणाम् अपि यथास्वशाखं व्यवस्था । एवम् एवावनेजनकरणभूतहस्तोदपात्रयोर् अपि । यथावनिक्तं पिण्डदाने मन्त्रान् आह कात्यायनः - “असाव् एतत् ते इति, ये च त्वाम् (?) अन्व् इति चैके” इति । असाव् इत्य् अत्र पित्रादीनां संबोधनरूपेण गोत्रसहितनामग्रहणं कृत्वा एतत् ते इति वक्तव्यम्,

पिण्डोदकप्रदानं तु नित्यनैमित्तिकेष्व् अपि ।
आलभ्य नाम गोत्रेण कर्तव्यं सर्वदैव हि ॥

इति व्यासस्मरणात् । एवं च अमुकगोत्रामुकशर्मन्न् एतत् ते इति पिण्डदानमन्त्र उन्नेयः । “ये च त्वाम् अनु इत् चैके” इति पक्षे मन्त्रत्रये ऽप्य् एतत् ते इत्य् अस्माद् अनन्तरम् “ये च त्वाम् अनु” इति मन्त्रशेषो द्रष्टव्यः । आश्वलायनस् त्व् अन्यथा पिण्डदानमन्त्रान् आह - “एतत् ते ऽसौ, ये च त्वाम् अनु” इति । अत्रापि असाव् इत्य् अत्र संबोधनरूपेण पित्रादीनां गोत्रसहितनामग्रहणं कर्तव्यम् । नन्व् एतत् ते इत्य् अत्रैतद् इति कथं नपुंसकलिङ्गनिर्देशः, पिण्डस्यैतच् छब्दाभिधेयत्वात् तस्य च पुंलिङ्गत्वात् (?) । अत एव गोभिलेन - “असाव् एष ते पिण्डो ये च त्वाम् अनु” इत्य् उक्तम् । अत्र केचिद् एतत् ते पिण्डरूपम् अन्नम् इत्य् अध्याहारः कार्य इत्य् आहुः, तद् अयुक्तम् । अगत्याध्याहार आश्रयणीयः । अस्ति चात्र गतिः “क्रुद्धस्य पिण्डं पतति” इति वृद्धप्रयोगदर्शनात् । नपुंसकलिङ्गो ऽपि भूरिप्रयोगसिद्धः पिण्डशब्दो ऽस्ति । तेन पिण्डदानमन्त्रे ऽपि एतत् पिण्डं तवेत्य् अध्याहारं विनैवार्थो ऽवगन्तव्यः । अवनेजनादिकं च सर्वं पितृयज्ञवद् इत्य् अनेनैव प्राप्तम् । सतिलत्वमात्रं तु विशेषः । पिण्डे ऽपि सतिलत्वरूपो विशेषो मदालसयोक्तः ।

सतिलेन ततो ऽन्नेन पिण्डांस् त्रीन् एव पुत्रकः ।
पितॄन् उद्दिश्य दर्भेषु दद्याद् उच्छिष्टसंनिधौ ॥

पितॄन् यजमानस्य जनकादीन् इत्य् अर्थः । तथा च कार्ष्णाजिनिः ।

तेषां लोकान्तरस्थानां बान्धवैर् नामगोत्रतः ।
अपसव्येन दर्भेषु पिण्डा देयास् त्रयस् तु वै ॥

तेषां पितृपितामहप्रपितामहानाम् । अपसव्येन दक्षिणहस्तेन । लोकान्तरस्थानाम् इत्य् अत्र मृतानाम् इति ज्ञापयितुम् आह स एव ।

नाना तु जातय इह तिर्यग्योनिषु जतिषु ।
पिण्डभाजो भवन्त्य् एते तासु तासु च योनिषु ॥

इह इहलोक इत्य् अर्थः । अनेन पिण्डदानरूपश्राद्धे ऽपि यजमानस्य पूर्वपुरुषा एव देवताः न वस्वादय इति गम्यते । एवं च यद् युक्तं स्मृत्यन्तरे,

प्रथमो वरुणो देवः प्रजापतिस् तथापरः ।
तृतीयो ऽग्निः स्मृतः पिण्ड एव पिण्डविधिः स्मृतः ॥

इति, तत् न वरुणादीनां देवतात्वप्रतिपादनपरम्, किं तु यथा वसुरुद्रादित्यत्वरूपाः पितरः श्राद्धदेवता इति याज्ञवल्क्येनान्नत्यागादौ वस्वादिरूपेण पित्रदयो ध्यातव्याः इत्य् एवंपरतयोक्तम्, तथा पिण्डदाने वरुणादिरूपेण पित्रदयो ध्यातव्याः इत्य् एवंपरतयोक्तम् इत् मन्तव्यम् । तेन यथान्नत्यागे वस्वादिरूपान् सपत्नीकान् पित्रादीन् चतुर्थ्यन्तेन पित्रादिपदेन गोत्रनमसहितेनोद्दिश्यान्नत्यागः क्रियते तथैतत् ते इति मन्त्रोच्चारणानन्तरं वरुणादिरूपान् सपत्नीकान् पित्रादीन् उद्दिश्य पिण्डत्यागः कर्तव्यः । अथ वा आवाहनादौ अन्नत्यागपर्यन्ते पिण्डनिर्वापणादौ च सर्वत्रात्मानम् अनिरुद्धत्वेन प्रद्युम्नसंकर्षणवसुदेवरूपेण पितृपितामहप्रपितामहांश् च यथाक्रमेण ध्यत्वा आवाहनादिकं कुर्यात् । तथा च भविष्यत्पुराणे ।

अनिरुद्धः स्वयं देवः प्रद्युम्नस् तु पिता स्मृतः ।
सङ्कर्षणस् तज्जनको वासुदेवस् तु तत्पिता ॥

स्वयं श्राद्धकर्ता अनिरुद्धो देवः । श्राद्धकर्तुः पिता प्रद्युम्नः स्मृतः । तज्जनकः श्राद्धकर्तृपितृजनकः सङ्कर्षणः स्मृतः । तत्पिता श्राद्धकर्तृपितृजनकपिता वसुदेवः स्मृत इत्य् अर्थः । पिण्डदाता पिण्डदानसमये सव्यं जान्व् आच्य पिण्डदानं कुर्याद् इति वायुपुराणे ऽभिहितम् ।

मधुसर्पिस्तिलयुतान् त्रीन् पिण्डान् निर्वपेद् बुधः ।
जानु कृत्वा तथा सव्यं भूमौ पितृपरायणः ॥

सव्यं जानु भूमौ कृत्वा सव्यं जान्व् आच्येत्य् अर्थः । एतत् पितृयज्ञवद् इत्य् अनेनैव सिद्धम् । त्रीन् पिण्डान् इति वदन् मात्रादीनां पृथक्पिण्डनिर्वापणाभावं दर्शयति । तेन सपत्नीकस्य पित्रादेर् एकैकः पिण्डो निर्वपणीयः । पिण्डप्रमाणम् आह व्यासः ।

द्विहायनस्य वत्सस्य विशत्य् आस्ये यथासुखम् ।
तथा कुर्यात् प्रमाणं तु पिण्डानां व्यासभाषितम् ॥

द्विहायनो द्विवर्षो वत्सः । प्रमाणान्तराण्य् आह अङ्गिराः ।

कपित्थबिल्वमात्रान् वा पिण्डान् दद्याद् विधानतः ।
कुक्कुटाण्डप्रमाणान् वा यदि वामलकैः समान् ॥
बदरेण समान् वापि दद्याच् छ्राद्धासमन्वितः ॥ इति ।

आमलके तु विशेषम् आह मरीचिः ।

आर्द्रामलकमात्रांस् तु पिण्डान् कुर्वीत पार्वणे ।

अमावास्याख्ये पार्वणे । पिण्डपितृयज्ञानन्तरम्,

पितृयज्ञं तु निर्वर्त्य विप्रश् चन्द्रक्षये ऽग्निमान् ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यान् मासानुमासिकम् ॥

इति वचनेन यद् विहितं तद् इदम् अमावास्यारूपपर्वसंबन्धलक्षणप्रवृत्तिनिमित्तेन योगेन रूढ्या वा पार्वणशब्देनोच्यते । तथा च शातातपः ।

दर्शश्राद्धं च यत् प्रोक्तं पार्वणं तत् प्रकीर्तितम् । इति ।

तत्र ब्राह्मणनिमन्त्रनादिसर्वधर्माणाम् आम्नानात् श्राद्धान्तराणां सर्वेषां प्रकृतिभूतं तद् इत्य् अवगन्तव्यम्, तद्विकृतिभूतम् इतरद् एकोद्दिष्टादिश्राद्धम् । एवं च पार्वणग्रहणम् अन्तरेण आर्द्रामलकप्रमाणस्य प्रकरणाद् एव पार्वणार्थत्वे लब्धे पार्वणग्रहणं विस्पष्टार्थम् । एतेषु प्रमाणेषु शक्त्यनुसारेण व्यवस्था कल्प्या । प्रमाणान्तरम् अपि ब्रह्माण्डपुराणे वचोभङ्ग्या दर्शितम् ।

त्रीन् पिण्डान् आनुपूर्वेण साङ्गुष्ठमुष्टिबन्धनात् । इति ।

साङ्गुष्ठमुष्टिग्राह्यप्रमाणकात् किंचिद् अभ्यधिकानीत्य् अर्थः । आनुपूर्व्येण दक्षिणापवर्गत्वदक्षिणाप्रागपवर्गत्वादिविरुद्धानुपूर्व्येण । पितृयज्ञव्द् इत्य् अतिदेशेन पिण्डानां दक्षिणापवर्गत्वस्य दक्षिनाप्रागपवर्गत्वस्य वा प्राप्तत्वात् । पिण्डनिर्वापणानन्तरं मनुः ।

न्युप्य पिण्डान् पितृभ्यस् तु प्रयतो विधिपूर्वकम् ।
तेषु दर्भेषु तं हस्तं निमृज्याल् लेपभागिनाम् ॥

प्रपितामहपितृपितामहप्रपितामहाः लेपभागिनः । “लेपभाजश् चतुर्थाद्याः” इति मत्स्येनाभिधानात् । लेपनिर्मार्जनमन्त्रम् आह विष्णुः - “अत्र पितरो मादयध्वम् इति दर्भमूलेषु करावघर्षण्म्” इति । करावघर्षणं हस्तलेपनिर्मार्जनम् । करावघर्षणानन्तरं कात्यायनः - “अत्र पितर इत्य् उक्त्वा उदङ्ङ् आस्ते आतमनाद् आत्मानम् आवृत्यामी मदन्त इति जपति” इति । दक्षिणम् आत्मानम् आवृत्य आतमनात् प्राणायामेन वायुपीडावधि उदङ्मुख आसीत । ततः यथाशक्यम् अनुच्छ्व्सन्न् एवाभिपर्यावृत्य “अमी मदन्त” इत् जपित्वा प्राणान् मोचयेत् इति । कर्मप्रदीपे विशेष उक्तः ।

वामेनावर्तनं केचिद् उदगन्तं प्रचक्षते ।
आवृत्य प्राणान् आयम्य पितॄन् ध्यायन् यथार्हतः ॥
जपंस् तेनैव चावृत्य ततः प्राणान् प्रमोचयेत् ॥

वामेनावर्तनं सव्येनावर्तनम् । उदगन्तं यावद् आवर्तनेनोदङ्मुखो भवति तावद् आवर्तनं कार्यं नाधिकावर्तनम् इति गौतमादिव्यतिरिक्ता मुनयः प्रचक्षते,

सर्वं गौतमशाण्दिल्यौ शाण्डिल्यायन एव च ॥

इति तत्रैवाभिधानात् । जपन् अमी मदन्तेति तेनैवावृत्य वामेनैव दक्षिणामुखान्तम् आवृत्य प्राणान् मोचयेद् उच्छ्वसेद् इत्य् अर्थः । विष्णुस् तु न्युप्तप्ण्डानुमन्त्रणादिवादोदशादानान्तम् आश्वलायनोक्तपितृयज्ञानुसारेणाह - “दत्वा च पिण्डान् निवृतान् अनुमन्त्र्यीतात पितरो मादयध्वं यथाभागम् आवृषायध्वम्” इति । ततः सव्यावृदुदङ्मुखः परावृत्य यथाशक्ति प्राणानां निरोधान्तं कृत्वा पर्यावृत्यामी मदन्तेत्य् अनुमन्त्र्य शेआवघ्राणं कृत्वा शुन्धन्तां पितर इति पूर्वदुदकं (?) निनीय पिण्डोपरि ततो ऽसाव् अभ्यङ्क्ष्वेत्य् अभ्यञ्जनं दद्याद् अङ्क्ष्वेत्य् अञ्जनम् अथ वस्त्रम् अभावे दशाम् ऊर्णां वा ऽएतद् वः पितरो वासो मानोतोन्यत् (?) पितरो युङ्ध्वम्ऽ इति । पिण्डान् उप्त्वा शेषावघ्राणं पात्रस्थशेषाभिघ्राणं पूर्ववद् उदकनिनयनं तिलमिश्रोदकावनेजनं ततो ऽवनेजनानन्तरम् असाव् अभ्यङ्क्ष्य इति मन्त्रेणाभ्यञ्जनं पिण्डोपरि प्रतिपिण्डं दद्यात् असाव् इत्य् अत्र संबोधनरूपेण पित्रादीनां नामग्रहणम्, असाव् अङ्क्ष्येति मन्त्रेण पिण्डोपरि प्रतिपिण्डम् अञ्जनं दद्याद् एतद् इति मन्त्रेण प्रतिपिण्डं यथालाभं दशादिकं दद्यात् । यत् तु शङ्खेनोक्तम्,

क्षुमासूत्रं प्रदातव्यं कार्पासम् अथ वा नवम् ।
दशां विवर्जयेत् प्राज्ञो यद्य् अप्य् अहतवत्रजाम् ॥। इति ।

क्षुमा अतसी । अत्र यद्य् अपि नित्यवद् दशाप्रतिषेधः प्रतिभाति (?), तथापि पूर्वोक्तस्मृतौ दशाया विधानात् षोडशिग्रहणाग्रहणवद् विकल्पो ऽनुसंधेयः । वस्त्राभावे पुराणे ऽप्य् उक्तम् ।

सूत्राण्य् ऊर्णा दशा वापि पतिर् लोम प्रदापयेत् । इति ।

पतिः यजमानः । लोमप्रदानपक्षः पूर्ववयसि न भवति तद् आह कात्यायनः - “एतद् वः पितरः, इति सूत्राणि प्रैपिण्डं वयस्य् उत्तरे यजमानस्य लोमानि वा” इति । उत्तरे वयसि पञ्चाशद्वर्षाद् ऊर्ध्वम् इत्य् अर्थः । वाशब्दाद् उत्तरे वयसि लोमपक्षः पक्षान्तराण्य् अपि । एतत् सर्वं “पितृयज्ञवत्” इत्य् अनेन प्राप्तम् । अवनेजने तु पितृयज्ञाद् विशेषम् आह व्याघ्रः ।

अद्भिः प्रक्षाल्य तत् पात्रं प्रतिपिण्डं तु पूर्ववत् ।
कृत्वावनेजनं कुर्यात् पिण्डपात्रम् अधोबिलम् ॥ इति ।

पूर्ववत् पिण्डप्रदानात् पूर्वं विहितावनेजनवत् । एवं च द्वितीयावनेजनम् अपि पिण्डपात्रप्रक्षालनोदकेन कार्यम्, न तु पितृयज्ञवद् उदकान्तरेण । अत एव,

पात्रनिर्णेजनेनैव पुनः प्रत्यवनेजयेत् ।

इति पुराणे एवकारः कृतः । एतद् व इति मन्त्रेण दशादानानन्तरं पितृयज्ञाद् विशेषम् आह व्याघ्रः ।

गन्धपुष्पाणि धूपं च दीपं चैव निवेदयेत् ।
एतद् वः पितरो वासोदशां दत्वा पृथक् पृथक् ॥

एतद् व इति मन्त्रेण प्रतिपिण्डं वाससो दशां दत्वा गन्धदिकम् अपि प्रतिपिण्डं दद्याद् इत्य् अर्थः । यत् तु विष्णुनोक्तम् - “पिण्डनिर्वापणं कृत्वार्घ्यपुष्पधूपानुलेपनान्नाद्यभक्ष्यभोज्यानि निवेदयेत् । उदपात्रं मधुघृतनिलैः संयुक्तं चेति” इति तत्, पिण्डनिर्वापणानन्तरम् अर्घ्यादिविशेषप्रात्यर्थम् । अन्यथा,

न्युप्य पिण्डान् पितृभ्यस् तु प्रयतो विधिपूर्वकम् ।
तेषु दर्भेषु तं हस्तं निमृज्याल् लेपभागिनाम् ॥

इति मनूपदिष्टयुक्ततरक्रमविरोधापत्तेः । तेनार्घादिप्रदर्शन्मात्रार्थं विष्णुवचनम्, न तु पिण्डनिर्वापणानन्तर्यप्रतिपादनार्थम् अपीति न व्याघ्रोक्तानन्तर्यपरिपन्थीति (?) मन्तव्यम् । यत् तु मत्स्यपुराणे ऽभिहितम्,

गन्धधूपादिकं दद्यात् कृत्वा प्रत्यवनेजनम् ।

इति, तत् प्रत्यवनेजनात् पूर्वं न गन्धादिदानम् इत्य् एवंपरम् । न तु प्रत्यवनेजनानन्तरम् एव गन्धादिदानं कर्तव्यम् इत्य् एवंपरम् । “प्रकृतेः पूर्वोक्तत्वा अपूर्वम् अन्ते स्यात्” इति न्यायेनावनेजनानन्तरम् अभ्यञ्जनादिदानं तदनन्तरं गन्धादिदानम् इति न्यायमूलकक्रमाभिदायकप्रागुक्तव्याघ्रवचनविरोधापत्तेः । अतः एतद् अपि न व्याघ्रोक्तानन्तर्यपरिपन्थि । यत एव प्रत्यवनेजनगन्धादिदानयोः परस्परक्रमपरं न मत्स्यपुराणवचनम् । अत एव विष्णुना प्रकृतिभूतपिण्डपितृयज्ञक्रम एवात्रोक्तः - “शुन्धन्तां पितर इति पूर्ववद् उदकनिनयनं पिण्डोपरि ततो ऽसाव् अभ्यङ्क्ष्वेत्य् अभ्यञ्जनं दद्यात्” इति । तस्माद् व्याघ्रवचनावगतक्रमेण दशां दत्वानन्तरं गन्धादिना पिण्डार्चनं कार्यम् इति सिद्धम् । पिण्डार्चनं प्रकृत्य पुराणे ।

यत् किंचित् पच्यते गेहे भक्ष्यं भोज्यम् अगर्हितम् ।
अनिवेद्य न भोक्तव्यं पिण्डमूले कथंचन ॥

तेन सर्वस्माद् आदाय पिण्डार्चने उपहारो देय इत्य् अभिप्रायः । पिण्डार्चनानन्तरं कर्तव्यम् आह बृहस्पतिः ।

धूपदीपैर् माल्यगन्धैः तदा वस्त्राञ्जनादिना ।
समभयर्च्योदपात्रं तु तेषाम् उपरि निक्षिपेत् ॥

धूपदीप इत्यादिपाठक्रमो नात्र विवक्षितः श्लोकसिद्धिपर्त्वात् । ततश् चायम् अर्थः - अभ्यञ्जनाञ्जनवस्त्रगन्धमाल्यधूपदीपसार्ववर्णिकान्नोपहारैः पिण्डान् समभ्यर्च्य तेषां पिण्डानाम् उपरि पात्रपूर्णम् उदकं तेनैव पात्रेण निनयेद् इति । उदपात्रनिनयनानन्तरं विष्णुः - “अथैनान् उपतिष्ठते ऽनमो वः पितरःऽ इत्यादिना ऽमनो ऽन्वाहुवामहेऽ इत्य् ऋगन्तेन । अथैतान् पिण्डांश् चालयेत् ऽपरेत नः पितरः सौम्या गम्भीरेभिः पथिभिः पूर्वेभिः दत्वाअथात्म्भ्यं द्रविणेह भद्रं रयिं च नः सर्ववीरान् नियछत” इति । नमो वः पितर इत्यादिना मन्त्रेण आश्वलायनपठितेनेति शेषः । आश्वलायनोक्तपितृयज्ञकल्पानुसारित्वाद् विष्णुस्मृतेः । मनो ऽन्वाहुवामह इति त्यृचः (?) अन्ते यस्य नमो वः पितर इत्यादिमन्त्रस्य असौ मनो ऽन्वाहुवामह इति त्यृचान्तः । तेनात्र नमस्काराञ्जलिं बध्वा उपस्थानं कर्तव्यम्, मन्त्रलिङ्गानुगुण्यात् । अत एव नमस्काराञ्जलिम् आश्रित्य नियममात्रम् उक्तं ब्राह्मणपुराणे ।

सव्योत्तराभ्यां पाणिभ्यां वदेन् मन्त्रम् इमं सदा ।
नमो वः पितर इष इति सम्यग् अतन्द्रितः ॥

“नमो वः पितरः” इति सम्यग् वदतः सव्योत्तराभ्यां पाणिभ्यां दक्षिणपाणिम् उत्तानं कृत्वा तदुपरि सव्यपाणिना अधोमुखेन नमस्काराञ्जलिं बध्वा “नमो वः पितर इषे” इतीदम् आश्वलायनोक्तं मन्त्रं वदेद् इत्य् अर्थः । पिण्डवालनानन्तरं “अग्ने तद् अद्य” इत्य् एतया ऋचा अग्नौकरणाग्निं प्रतिगच्छेत् । “यद् अन्तरिक्षम्” इत्य् एतयर्चा गार्हपत्यं प्रतिगच्छेत् । तथा च पिण्डपितृयज्ञकल्पे आश्वलायनेनोक्तम् - “अग्निं प्रत्येयाद् अग्नि तम् अद्याश्वं न स्तोमैः” इति । गार्हपत्यम् “यद् अन्तरिक्षं पृथिवीम् उत द्यां यन् मातरं पितरं वा जिहिंसि म अग्निर् मा तस्माद् एनसो गार्हपत्यः प्र मुञ्चतु दुरिता यानि चकृम करोतु माम् अनेनसम्” इति । एवम् उक्तम् उल्लेखनाद्यग्निस्मीपगमनान्तं पिण्डदानविधानं मातामहाद्यर्थपिण्डदाने ऽप्य् अवगन्तव्यम्,

मातामहानाम् अप्य् एवं दद्याद् आचमनं ततः ।

इति याज्ञवल्क्येनोक्तत्वात् । यथा पित्रादीनां विप्रनिमन्त्रणादितद्विसर्जनान्तश्राद्धकल्पः एवं मातामहादीनाम् अपि विप्रनिमन्त्रणादि कृत्स्नश्राद्धकल्पो ज्ञेय इत्य् अर्थः । मातामहादीनाम् अप्य् एवं पित्रादीनाम् इव पिण्डदानं कुर्याद् इति । तथा च मदालसावाक्यम् ।

तद्वन् मातामहानां च दद्यात् पिण्डान् यथाविधि । इति ।

तद्वत् पितृवद् इत्य् अर्थः । यद्य् अप्य् अस्मिन् वाक्ये पितृवर्गस्य पिण्डदानविधानम् उक्त्वा तद्वद् इत्य् अनेन मातामहवर्गस्य पिण्डदानाभिधानात् पितृवर्गार्थपिण्डदानविधिं समाप्य मातामहवर्गार्थपिण्डदानं भिन्नतन्त्रतया कार्यम् इति प्रतिभात् । तथापि कृत्स्नश्राद्धानुष्ठानं समानतन्त्रतया वर्गद्वयस्येति “तन्त्रं वा वैश्वदैविकम्” इत्य् अत्रैवोक्तत्वात् पिण्डदानम् अपि समानतन्त्रतयैव वर्गद्वयस्य कार्यम् । अत एव पुराणे समानतन्त्रेणानुष्ठानम् उक्तम् ।

उपमूलात् समास्तीर्य दर्भानुच्छिष्टसंनिधौ ।
कृत्वावनेजनं दद्यात् त्रीन् त्रीन् पिण्डान् यथाक्रमम् ॥

उपमूलात् मूलसमीपात् त्रीन् इति वीप्सया वर्गद्वयस्य समानतन्त्रेण पिण्डनिर्वपणम् इत्य् उक्तम् ।

इति स्मृतिचन्द्रिकायां पिण्डदानविधिः