२८ अन्नकिरणादिविधिः

**अथान्नकिरणादिविधिः **

तृप्तिं भुद्ध्वान्नम् आदाय सतिलं पूर्ववज् जपेत् ।
तृप्तिं पृच्छेत् ॥॥॥॥॥॥॥॥॥॥॥। ॥ इति ।

पूर्ववज् जपेद् इत्यादेर् अर्थः कात्यायनेन प्रपञ्चितः - “गायत्रीं मधु मध्व् इति च जपित्वा तृप्याः स्थ इति पृच्छति” इति । एवं पृष्टाः ते विप्राः तृप्ताः स्मः, इत् ब्रूयुः,

तृप्ताः स्थ इति पृष्टास् ते ब्रूयुस् तृप्ताः स्म इत्य् अपि ।

इति व्यासस्मरणात् । तृप्ताः स्मः इत्य् उक्ते अनन्तरं ब्राह्मण्डपुराणम् ।

प्रोक्ष्य भूमिम् अथाद्भिस् तु भूमौ पितृपरायणः ।
ततो विकिरणं कुर्याद् विधिदृष्टेन कर्मणा ॥

किं पुनर् विधिदृष्टं कर्मेत्य् अपेक्षिते मनुः ।

सार्ववर्णिकम् अन्नाद्यं संनीयाप्लाव्य वारिणा ।
समुस्तृजेद् भुक्तवताम् अग्रतो विकिरन् भुवि ॥

सर्वे विप्रभुक्तान्नव्यञ्जनवर्णाः प्रकारा यस्मिन्न् अन्नाद्ये तत्सार्ववर्णिकम् अन्नाद्यं संनीय यद् यद् अन्नं विप्रैर् उपभुक्तं ततस् तत एकदेशम् अवदायावदाय क्वचित् पात्रे एकीकृत्येत्य् अर्थः । मत्स्यपुराणे ।

भुक्तवत्सु ततस् तेषु भाजने वान्तिके नृप ।
सार्ववर्णिकम् अन्नाद्यं संनीयाप्लाव्य वारिणा ॥
समुत्सृजेद् भुक्तवताम् अग्रतो विकिरेद् भुवि ॥

आप्लाव्य अवोक्ष्येत्य् अर्थः । समुत्सृजेत् विनिक्षिपेत्, “ये अग्नीति भुवि क्षिपेत्” इति प्रचेतसाभिधानात् । ये अग्नीति मन्त्रः कात्यायनेन दर्शितः -

ये अग्निदग्धा ये अनग्निदग्धा ये वा जाताः कुले मम ।
भूमौ दत्तेन पिण्डेन तृप्ता यान्तु परां गतिम् ॥ इति ।

यद्य् अपि भूमौ दत्तेनेति मन्त्रवर्णात् विधायकसर्ववचनेषु भुवीत्यभिधानाच् च न दर्भास्तरणमात्रास्तीति प्रतिभाति । तथापि “दर्भेषु विकिरश् यः” इति मनुवचने दर्भसत्त्वानुवाददर्शनाद् दर्भान् आस्तीर्य तत्र विकिरो देय इति विधिः कल्प्यते । तेन दर्भास्तृतभूमौ विकिरो देयः न केवलायाम् इति मन्तव्यम् । सार्ववर्णिकान्नोद्दरणादि सर्वं प्राचीनावीतिना कार्यम्, सूक्तादिजपव्यतिरिक्ते श्राद्धकर्मणि प्राचीनावीतित्वाभिधानात् । विकिरनिक्षेपस्थाने विक्षेपात् पूर्वं पिण्डदानोक्तप्रकारेण तूष्णीं सतिलं वारि क्षिप्त्वा विकिरस्योपरि पुनः सतिलं वारि निक्षेप्तव्यम्,

उदङ्मुखानां विप्राणां पुरः सोदकं ततः ।
अन्नं तु किरेत् भक्त्या ॥॥॥॥॥॥ ॥

इति मार्कण्डेयेनोक्तत्वात् । अन्नं विकीर्यानन्तरम् उपवीती भूत्वाचामेत्, अनाचमने दोषस्मरणात् । तथा च मरीचिः ।

श्राद्धेषु विकिरं दत्वा यो नाचामेन् मतिभ्रमात् ।
पितरस् तस्य षण्मासं भवन्त्य् उच्छिष्टभोजिनः ॥

तदनन्तरं ब्राह्मणांश् चाचमयेत् । तथा च मदालसावाक्यम् ।

॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥ प्रकीर्य भुवि सर्वतः ।
तदन्वाचमनार्थाय दद्याद् आपः सकृत् सकृत् ॥

तदनु अन्नविकिरणात् पश्चाद् आचमनार्थाय नित्यभोजननियमेषु उक्तं “अमृतापिधानम् असि” इति मन्त्रपूर्वकं यद् गण्डूषं तदर्थं वैस्वदैविकविप्रपूर्वकं प्रतिविप्रं सकृत् सकृद् अपो निनयेद् इत्य् अर्थः । गण्डूषकरणं च विप्रैर् हस्तलेपप्रक्षालनम् अकृत्वैव कार्यम् इति सूचयितुं सकृत् सकृद् अद्याद् इत्य् उक्तम् । एवं च यथा हस्तप्रक्षालनं क्र्त्वा गण्डूषकरणे नित्यभोजने पुरुषार्थविध्यतिक्रमात् पुरुषदोषः, तथात्र श्राद्धार्थविध्यतिक्रमाच् छ्राद्धस्य वैगुण्यं भवति । तथाह मरीचिः ।

हस्तौ प्रक्षाल्य गण्डूषं यः पिबेद् अविचक्षणः ।
आसुरं तद् भवेच् छ्राद्धं पितॄणां नोपतिष्ठते ॥ इति ।

गण्डूषं यः पिबेद् भोजने विरते “अमृतापिधानम् असि” इति मन्त्रेणापो यः पिबेद् इत्य् अर्थः । गण्डूषर्थोदकदानानन्तरं विष्णुः - “उदङ्मुखेष्व् आचमनम् आदौ दद्यात् प्राङ्मुखेषु ततः प्रोक्षणम् इति श्राद्धशेषं प्रोक्ष्य दर्भपाणिः सर्वं कुर्वीत” इति । पैतृकब्राह्मणेषु प्रथमं हस्तप्रक्षालनपूर्वकाचमनार्थम् अपो दत्वा पश्चाद् वैश्वदैविकब्राह्मणेषु दत्वा “सुप्रोक्षितम्” इति मन्त्रेण श्रद्धदेशं प्रोक्ष्य दर्भपाणिः सर्वम् उपरितनं कर्म कुर्याद् इत्य् अर्थः । एवंभूतहस्तप्रक्षालनपूर्वकाचमनक्रमविधिं हेतुवन् निगदार्थवादसहितम् आह शातातपः ।

विश्वेदेवनिविष्टानां चरमं हस्तधावनम् ।
विसर्जनं च निर्दिष्टं तेषु रक्षा यतः स्थिरा ॥ इति ।

इति स्मृतिचन्द्रिकायाम् अन्नविकिरणादिविधिः