२७ निमन्त्रितब्राह्मणविषयान्तरम्

**अथान्यान्य् अपि निमन्त्रितब्राह्मणविषयाणि **

कानिचिद् वचनानि लिख्यन्ते

तथा च प्रचेताः ।

पीत्वापोशनम् अश्नीयात् पात्रदत्तम् अगर्हितम् ।
सर्वेन्द्रियाणां चापल्यं न कुर्यात् पाणिपादयोः ॥

इन्द्रियादिषु चापल्यं भोजनार्थव्यापाराद् अभ्यधिकव्यापारः । तस्मिंस् तु कृते भुक्तम् अन्नं न पितॄन् प्रीणातीत्य् आह हारीतः ।

उद्धृत्य पाणी विहसन् सक्रोधो विस्मयान्वितः ।
श्राद्धकाले तु यत् भुङ्क्ते न तत् प्रीणाति वै पितॄन् ॥

बोधायनो ऽपि ।

पादेन पादम् आक्रम्य यो भुङ्क्ते ऽनापदि द्विजः ।
नैवासौ भोज्यते श्राद्धे निराशाः पितरो गताः ॥

वाग्व्यापारः सर्वो ऽपि न कार्यः । यद् आह निगमः - “तूष्णीं भुञ्जीरन्न् अविलोकमाना अनुद्धृत्य पात्रम्” इति । अविलोकयमानाः दिश इति शेषः । मनुर् अपि ।

अत्युष्णं सर्वम् अन्नं स्याद् अश्नीरंश् चैव वाग्यताः ।
न च द्विजातयो ब्रूयुः दात्रा पृष्टान् हविर्गुणान् ॥

अश्नीरंश् चैवेत्य् एवशब्देन एकपङ्क्त्युपविष्टब्राह्मणेषु भुञ्जानेषु कथंचिद् अन्योन्यस्पर्शने सत्य् अपि भोजनोपरमो नैव कार्य इत्य् आह । अत एव शङ्खः ।

श्राद्धपङ्क्तौ तु भुञ्जानो ब्राह्मणो ब्राह्मणं स्पृशेत् ।
तद् अन्नम् अत्यजन् भुक्त्वा गायत्र्यष्टशतं जपेत् ॥

वाग्यमनविधानाद् एव हविर्गुणवचननिषेधसिद्धौ पुनर्निषेधो हस्तसङ्केतेनाप्य् अतत्सूचनार्थः । अतो हस्तसङ्केतेनापि हविर्गुणकथने दोषम् आह अत्रिः ।

हुङ्कारेणापि यो ब्रूयाद् धस्ताद् वापि गुणान् वदेत् ।
भूतलाञ् चोद्धरेत् पात्रं मुञ्चेद् धस्तेन वापि तत् ॥
प्रौढपादो बहिःकक्षो बहिर्जानुकरो ऽथ वा ।
अङ्गुष्ठेन विनाश्नाति मुखशब्देन वा पुनः ॥
पीतावशिष्टतोयादि पुनर् उद्धृत्य वा पिबेत् ।
खादितार्थं पुनः खादेत् मोदकादि फलानि वा ॥
मुखेन वा धमेद् अन्नं निष्ठीवेत् भाजने ऽथ वा ।
इत्थम् अश्नन् द्विजः श्राद्धं हत्वा गच्छत्य् अधोगतिम् ॥

प्रौढपाद आसनाध्यारोपितपादः । बहिःकष उत्तरवासोबहिर्भूतकक्षद्वयः । भूतलात् पात्रोद्धरणे दोषो ऽन्नाद्याधारमहाभाजनविषयः । पानाद्याधारलघुपात्रस्य “पुनर् उद्धृत्य वा पिबेत्” इत्य् अनेनोद्धाराभ्यनुज्ञावगमात् । यत् तु देवलेनोक्तम्,

अन्नपानकशीतोदं ददद्भिर् अवलोकितः ।
वक्तव्ये कारेणे संज्ञां कुर्वन् भुञ्जीत पाणिना ॥ इति ।

अपेक्षानुसारेणान्नपानशीतलवार्यादिदातृभिर् अपेक्षां ज्ञातुम् अवलोकितः क्षुत्पिपासादिलक्षणे अपेक्षादेः कारणे वक्तव्ये पाणिना संज्ञां सङ्केतम् अपेक्षादिसूचकं कुर्वन् भुञ्जीतेति तस्यार्थः प्रत्येतव्यः । न तु स्वादुत्वादिहविर्गुणरूपे अपेक्षाकारणे संज्ञां कुर्वन्न् इति, एवंविधार्थपरिग्रहे पूर्वोक्तवचनविरोधापत्तेः । अन्नपानदात्रा तु हविर्गुणप्रश्नो ऽत्यर्थं दोषत्वान् न कार्य इत्य् आह शङ्खः ।

श्राद्धे नियुक्तान् भुञ्जानान् न पृच्छेल् लवणादिषु ।
उच्छिष्टाः पितरो यान्ति पृच्छतो नात्र संशयः ॥
दातुः पतति बाहुर् वै जिह्वा भोक्तुश् च भिद्यते । इति ।

लवणादिषु न्यूनाधिक्याभावेन हविषः साद्गुण्यं पुनर् अपि प्रदानार्थं न पृच्छेत् । न च पृष्ट्वा सम्यक्त्वेन ज्ञानं दद्यात्, “दातुः पतति बाहुः” इति दोषस्रवणात् । “जिह्वा भोक्तुश् च भिद्यते” इति निन्दाबलाद् धविःसाद्गुण्णं (?) सङ्केतेनापि भोक्ता। न सूचयेद् इति निषेधविधिर् गम्यते । पादुकयोर् उपविष्टपीठे वा पादौ निधाय न निमन्त्रिता अश्नीयुर् इत्य् आह विष्णुः - “अश्नीयुर् ब्राह्मणा न सोपानत्काः न पीठोपरि निहितपादाः” इति । अत्र द्वितीयनिषेधातिक्रमेण यो भुङ्क्ते तस्य दोषम् आह वृद्धशातातपः ।

आसने पादम् आरोप्य यो भुङ्क्ते द्विजसत्तमः ।
हन्ति दैवं च पित्र्यं च तद् अन्नं च प्रजाः पशून् ॥

निषेधान्तरम् आह प्रचेताः ।

न स्पृशेद् वामहस्तेन भुञ्जानो ऽन्नं कदाचन ।
न पादौ न शिरो बस्तिं (?) न पदा भजनं स्पृशेत् ॥

निगमो ऽपि ।

मांसापूपफलेक्ष्वादि दन्तच्छेदं न भक्षयेत् ।
ग्रासशेषं न पात्रे ऽस्येत् पीतशेषं न नो पिबेत् (?) ॥

दन्तच्छेदं न भक्षयेत् हस्तेन मांसादि धृत्वा स्वल्पं स्वल्पं दन्तैश् छित्वा न भक्षयेत् ग्रासशेषं आस्यार्पितग्रासशेषं पुनर् भाजने नास्येत् न क्षिपेत् । उशनापि ।

भाजनं तु न निःशेषं कुर्यात् प्राज्ञः कथंचन ।
अन्यत्र धध्नह् क्षीराद् वा क्षौद्रात् सक्तुभ्य एव च ॥

इति, यत् तु जमदग्निनोक्तम् “न निन्देयुर् नावशेषयेयुः” इति, तद् अधिकावशेषविषयम् । यतो ऽनन्तरम् आह स एव - “अल्पं पुनर् उत्स्रष्टव्यं तस्यासंस्कृतप्रमीतानां भागधेयत्वात्” इति । प्रचेता अपि वर्जनीयम् आह ।

दन्तच्छेदं हस्तपानं वर्जयेच् चातिभोजनम् । इति ।

हस्तपानं हस्तेन पेयादिपानं वर्जयेत् । अपित् तु लुघुपात्रेण (?) कुर्यात् । अतिभोजनं तृप्तौ सत्याम् अपि भोजनम् ॥

**इति स्मृतिचन्द्रिकायां निमन्त्रितभोक्तृविषयाणि **