२६ परिवेषणविधिः

अथ परिवेषणविधिः

तत्रादाव् अमत्राणि सति संभवे श्रेष्ठानि संपाद्यानि । दैवे सौवर्णानि श्रेष्ठानि । पित्र्ये राजतानि । तथा च श्रेष्ठानीत्य् अनुवृत्ताव् अत्रिः ।

भोजने हेमरूप्याणि दैवे पित्र्ये यथाक्रमम् । इति ।

एतेषाम् अलाभे विष्णुः - “तैजसानि पात्राणि दद्यात्” इति । तैजसानि कांस्यताम्रादीनि । तेषाम् अलाभे पालाशपर्णनिर्मितानि,

पालाशेभ्यो विना न स्युः पर्णपात्राणि भोजने ।

इत्य् अत्रिणाभिधानात् । पर्णपात्रपक्षे ऽपि घृतादिद्रव्यधारणार्थं तैजसानि सति संभवे संपाद्यानि, “घृतादिदाने तैजसानि पात्राणि” इति विष्णुस्मरणात् । तेषाम् अभावे पालाशपर्णनिर्मितपत्रपुटानि घृतादिधारणार्थानि भवन्ति न कदाचिन् मृन्मयपात्राणि,

न मृन्मयानि कुर्वीत भोजने दैवपित्र्ययोः ।

इत्य् अत्रिस्मरणात् । यथासंभवलब्धानां चैतेषां पात्राणां द्विः प्रक्षालनं कार्यम्, तत्रादाव् अपो निनीये हस्तेन निर्मृज्य प्रक्षालनम्, अनन्तरं जलेनैव । तथा च ब्रह्माण्डपुराणम् ।

प्रक्षाल्य हस्तपात्रादि पश्चाद् अद्भिर् विधानवत् ।
प्रक्षालनं जलं दर्भैः तिलैर् मिश्रं क्षिपेच् छुचौ ॥

हस्तपात्रादीति मध्यमपदलोपी समासः । हस्तनिर्मृष्टं पात्रादि प्रक्षाल्येत्य् अर्थः । पात्रशब्देन तलम् उक्तम्, आदिशब्देन घृतादेर् धारणार्थानि गृह्यन्ते । पात्रप्रक्षालनानन्तरं याज्ञवल्क्यः ।

हुतशेषं प्रदद्यात् तु भाजनेषु समाहितः ।
यथालाभोपपन्नेषु रौप्येषु तु विशेषतः ॥

भाजनेषु पित्र्यब्राह्मणार्थभाजनेष्व् इत्य् अर्थः, रौप्येषु तु विशेषत इति पित्र्यकर्मणि प्रशस्तरौप्यसमभिव्याहारात् । शौनकेन तु स्पष्टम् उक्तम् ।

हुत्वाग्नौ परिशिष्टं तु पितृपात्रेष्व् अनन्तरम् ।
निवेद्यैवापसव्येन परिवेषणम् आचरेत् ॥

अपसव्येनेति पूर्वेणैव संबध्यते, न पुनर् उत्तरेण,

अपसव्येन कर्तव्यं पित्र्यं कृत्यं विशेषतः ।
अन्नदानाद् ऋते सर्वम् एवं मातामहेष्व् अपि ॥

इति कार्ष्णाजिनिस्मरणात् । अन्नदानम् अन्नप्रक्षेपः परिवेषणम् इति यावत् । एवं च श्राद्धकर्त्रा परिवेषणं कार्यम् इत्य् अर्थाद् उक्तम् । उक्तं च साक्षान् मनुना ।

पाणिभ्याम् उपसंगृह्य स्वयम् अन्नस्य बन्धुकम् ।
विप्रान्तिके पितॄन् ध्यायन् शनैर् उपरि निक्षिपेत् ॥

अन्नस्य बन्धुकम् अन्नेन पूर्णं परिवेषणपात्रम् इति यावत् । पाणिभ्याम् उपसंगृह्य विप्रभोजनपात्रे शनैर् निक्षिपेत् । पितॄन् ध्यायन्न् इति पित्र्यविप्रविषयम्, दैवविप्रविषये अन्नम् इत्य् उक्तत्वात् । यत् तु वायुपुराणे ऽभिहितम्,

परिवेषणं प्रशस्तं स्याद् भार्यया पितृतृप्तये ।
पितृदेवमनुष्याणां स्त्रीसाहाय्यं यतः स्मृतम् ॥

इति, तत्र प्रशस्तम् इत्य् अत्र परिचारककर्तृकपरिवेषणाद् इति शेषो द्रष्टव्यः । स्वयंकर्तृकपरिवेषणापेक्षया प्राशस्त्यासंभवात् । अत एवानन्तरम् उक्तं तत्रैव ।

फलस्यानन्तता प्रोक्ता स्वयं तु परिवेषणे । इति ।

एवं च स्वयं पत्नी अन्ये वा नियताः शूद्रव्यतिरिक्ताः परिवेशणं कर्तुम् अर्हन्तीत्य् अवगन्तव्यम् । पत्न्य् अप्य् असवर्णा न परिवेषणार्हा । अत एव नारायणेनोक्तम् ।

यद् धव्यं यत् पवित्रं च यत् पित्र्यं यत् सुखावहम् ।
द्विजातिभ्यः सवर्णाया नार्या हस्तेन दीयते ॥ इति ।

हस्तेन हस्तद्वयेनेत्य् अर्थः,

उभाभ्याम् अपि हस्ताभ्याम् आहृत्य परिवेषयेत् ।

इति मत्स्येनोक्तत्वात् । हस्तद्वयेनापि न साक्षाद् देयम्, किं तु दर्व्यादिद्वारा,

हस्तदत्तास् ये स्नेहलवणव्यञ्जनादयः ।
दातारं नोपतिष्ठन्ति भोक्ता भुञ्जीत किल्बिषम् ॥

इति वृद्धशातातपेन साक्षाद् धतदत्तस्य दोषहेतुत्वस्मरणात् । दर्व्यादिकं च सति संभवे सुवर्णादिमयं ग्राह्यम्,

सौवर्णराजताभ्यां वा खड्गेनोदुम्बरेण वा ।
दत्तम् अक्षय्यतां याति फल्गुपात्रेण वा पुनः ॥

इति हारीतस्मरणात् । खड्गेन खड्गमृगशृङ्गकृतदर्व्यादिना । फल्गुपात्रेण काकोदुम्बरिकाख्यवृक्षदारुकृतदर्व्यादिना । पुराणे तु परिवेषणसाधनानि निषिद्धानि दर्शितानि ।

नापवित्रेण हस्तेन नैकेन न विना कुशम् ।
नायसेनायसे नैव श्राद्धे तु परिवेषयेत् ॥

अपवित्रेण दुर्लेपसंसर्गादिना अपवित्रेण । आयसेन अयोमयदर्व्यादिना । आयसे अयोमयपात्रे ऽपि नैव परिवेषयेत् । अनिषिद्धदर्व्याद्यसंभवे ऽपि तत्रैवोक्तम् ।

तस्माद् अन्तरितं देयं पर्णेनाथ तृणेन वा । इति ।

यस्माद् आहृत्य हस्तेन दानं निषिद्धं तस्माद् अनिषिद्धदर्व्याद्यसंभवे पर्णादिना प्रान्तरितं कृत्वा देयम् इत्य् अर्थः । भोक्तारं द्विजं प्रत्य् आह वसिष्ठः ।

उभयोर् हस्तयोर् मुक्तं पितृभ्यो ऽन्नं निवेदितम् ।
तद् अन्नं संप्रतीच्छन्ति असुरा दुष्टचेतसः ॥
तस्माद् अशून्यं हस्तेन कुर्याद् अन्नम् उपस्थितम् ।
भाजनं तु समालभ्य तिष्ठेद् ओच्छेषणाद् द्विजः ॥ इति ।

परिवेषणोपक्रमप्रभृति भुक्तशिष्टस्य भाजनाद् बहिष्करणपर्यन्तं वामहस्तेन भाजनम् अपरित्यजन्न् एव वर्तेत । कण्डूयनर्थं वामहस्तव्यापारसमये दक्षिणहस्तेन भजनं समालभ्य वर्तेतेति तात्पर्यर्थः । परिवेषणारम्भप्रकारम् आह शौनकः ।

पाकं सर्वम् उपानीय संवेद्य च पृथक् पृथक् ।
विधिना दैवपूर्वं तु परिवेषणम् आचरेत् ॥ इति ।

संवेद्य भोक्तॄणां संविदितं कृत्वेत्य् अर्थः,

भक्ष्यभोज्यगुणान् उक्त्वा भोजयेद् ब्राह्मणान् शनैः ।

इति बृहस्पतिस्मरणात् । पाकं सर्वम् इत्य् अस्यार्थो मनुना प्रपञ्चितः ।

भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च ।
हृद्यानि चैव मांसानि पानानि सुरभीणि च ॥
उपानीय च तत् सर्वं शनकैः सुसमाहितः ।
परिवेषयेत् तु प्रयतो गुणान् सर्वान् प्रचोदयन् ॥

प्रचोदयन् प्रख्यापयन्न् इत्य् अर्थः । देवपूर्वं परिवेषेयेद् इति विधेर् अर्थवादः पुराणे दर्शितः ।

तप्यमानास् तपस् तीव्रं प्रेषिता ब्रह्मशासनात् ।
विश्वेदेवास् तु रक्षार्थं पितृयज्ञेषु सर्वदा ॥
अतः पूर्वं प्रदातव्यं तेभ्यो ऽन्नं पितृकर्मणि । इति ।

प्रदातव्यं भाजनेषु प्रक्षेप्तव्यम् । देवपूर्वं परिवेषणम् आचरेद् इति वदन् परिवेषणार्थं प्रथमम् आज्येनोपस्तरणं दैवपूर्वं कृत्वा अन्नं दत्वा एवम् एव पायसादि सर्वं पृथक् पृथक् परिवेषणीयम् इति दर्शयति । अन्यान्य् अपि परिवेषणीयान्य् आह मनुः ।

गुणान् साक्षाद् भुजिक्रियानिर्वर्तकान् न तु ग्राहकतया गुणभूतान् सूपशाकमध्वादीन् भूमौ निहितेषु स्वल्पभाजनेषु प्रक्षिपेत् न प्रधानान्नार्थमहाभाजने निहितेष्व् इत्य् अर्थः । तथा च हारीतः - “भूमाव् एव निदध्यान् नोपर्य् उपरि पात्राणि” इति । अस्यार्थः - यान्य् उपरिपात्राणि महाभाजनोपरि निधेयानि घृताद्याधारभूतानि स्वल्पपात्राणि तान्य् अत्र भूमाव् एव निदध्यात् न महाभाजनस्योपरीति । महाभाजनम् अप्य् अत्र पूर्वोक्तपिष्टकादिरचितपरितकाख्यचतुरश्रमण्डलोपरि निधाय पायसापूपादि विविधम् अन्नं प्रक्षिपेत् । न तु यन्त्रिकादेर् उपरि निधायेति “भूतलान् नोद्धरेत् पात्रम्” इत्यादिवचनसिद्धं बोद्धव्यम् । श्राद्धार्थं यद् यत् पाकादिनोपकल्पितं तत् सर्वं किंचित् किंचिद् आदायावश्यं परिवेषणीयम् । अत एव प्रचेतसोक्तम् - “सर्वं च प्रकृतं दत्वा पात्रम् आलभ्य जपेत्” इति । जप्यम् आह पैठीनसिः - “पृथिवी ते पात्रं द्यौर् अपिधानं ब्राह्मणस्य मुखे जुहोमि स्वधा” इति । जपानन्तरं कात्यायनः - “वैष्णव्य् अर्चा यजुषा चाङ्गुष्ठम् अन्ने ऽवग्राह्य” इति । का पुनर् अत्र वैष्णवी ऋक्, कस्य वाङ्गुष्ठम् इत्य् अपेक्षिते याज्ञवल्क्यः ।
इदं विष्णुर् इति त्व् अन्ने द्विजाङ्गुष्ठं निवेशयेत् । इति ।

यमस् तु सार्थवादम् अङ्गुष्ठनिवेशनविधिं वदन् अत्र विनियुक्तयजुर्मन्त्रस्वरूपम् आह ।

अङ्गुष्ठमात्रो भगवान् विष्णुः पर्यटते महीम् ।
राक्षसाणां वधार्थाय को ऽल्पवान् प्रहरिष्यति ॥
तस्माच् छ्राद्देषु सर्वेषु अङ्गुष्ठग्रहणं स्मृतम् ।
विष्णो हव्यं च कव्यं च ब्रूयाद् रक्षेति च क्रमात् ॥

ब्रूयात् दैवे पित्र्ये चान्न इति शेषः । अत्र दैवे ऽन्ने अङ्गुष्ठनिवेशनात् प्राग् विष्णो हव्यं रक्षेति यजुर् ब्रूयात् । पित्र्ये ऽन्ने तु विष्णो कव्यं रक्षेति यजुर् ब्रूयाद् इति । अत्रैवं वृद्धाचारानुसारी प्रयोगः - यज्ञोपवीती दक्षिणं जान्व् आच्य उदङ्मुखः प्रथमं देवतार्थपरिविष्टम् अन्नम् अभ्युक्षणेनावोक्ष्य पात्रम् आलभ्य “पृथिवी ते पात्रम्” इति जपाद्यङ्गुष्ठनिवेशनान्तं कृत्वा प्राचीनावीती सव्यं जान्व् आच्य दक्षिणामुखः पित्र्यं परिविष्टम् अन्नम् अभ्युक्षणेनावोक्ष्य पात्रम् आलम्भ्य जपाद्यङ्गुष्ठनिवेशनान्तं कुर्यात् । एवं मातामहादिपात्रस्थानेषु अभ्युक्षणावोक्षणाद्यङ्गुष्ठनिवेषनान्तं कार्यम् । अभ्युक्षणावोक्षणाद्यङ्गुष्ठनिवेशनान्तं दैवे पित्र्ये च ब्राह्मणान् एकत्वे प्रतिब्राह्मणपात्रं कार्यम्,

एकैकस्याथ विप्रस्य गृहीत्वाङ्गुष्ठम् आदरात् ।

इति ब्रह्माण्डपुराणे ऽभिधानात् । सर्वभाजनस्थेष्व् अन्नेषु अङ्गुष्ठनिवेशनानन्तरं चतुर्विंशतिमते ऽभिहितम् ।

पात्रालम्भं द्विजः कुर्याद् इदं वो ऽन्नम् इति ब्रुवन् । इति ।

अयम् अर्थः - परिविष्टान्नाधारभूतपात्रालम्भनं वामहस्तेन कृत्वान्न्यत्यागात् पात्रम् अनुत्सृजन्न् एव “विश्वेदेवा इदं वो ऽन्नम्” इत्य् उच्चारयन्न् अन्नत्यागं कुर्याद् इति । विष्णुस् त्व् अन्नत्यागात् प्राक् स्मर्तव्यम् आह - “नमो विश्वेभ्यो देवेभ्यः इत्य् अन्नम् आदौ प्राङ्मुखयोर् निवेदयेत् । पित्रे पितामहाय प्रपितामहाय च नामगोत्राभ्याम् उदङ्मुखेषु” इति । चशब्दात् प्रपितामहाय च निवेदयेद् इत्य् आह । विश्वेभ्यो देवेभ्यः पित्रे पितामहाय चेति चतुर्थ्या विश्वेषां देवानां पित्रादेश् च देवतात्वं प्रदर्श्यते । विश्वेदेवा देवता पित्रादयो देवतेति स्मृत्वा निवेदनार्थम्, प्राक्मुखयोर् उदङ्मुखेष्व् इति सप्तम्या ब्राह्मणानाम् आहवनीयार्थत्वं प्रदर्श्यते । आहवनीयार्थे ब्राह्मण इति स्मृत्वा निवेदनार्थम् । एतद् उक्तं भवति - परिविष्टान्नत्यागात् पूर्वम् अमुकनामानौ विश्वेदेवा देवता इदम् अन्नं हविः ब्राह्मण आहवनीयार्थे इत्यादि स्मृत्वा नमः शब्दोच्चारणपूर्वकम् अन्नं निवेदयेद् इति । तथा पितामुकगोत्रो ऽमुकशर्मा देवता इदम् अन्नं हविर् ब्राह्मण आहवनीयार्थे पितामहो ऽमुकगोत्रो ऽमुकशर्मा देवता इदम् अन्नं हविर् ब्राह्मण आहवनीयार्थे इत्यादि स्मृत्वा नमः शब्दोच्चारणपूर्वकं निवेदयेद् इति । एवं च श्राद्धाख्यं कर्म होमात्मकम् इत्य् अवगम्यते । ततश् च निवेदयेद् इत्य् अनेन होमात्मकं कर्म कुर्याद् इति वचोभङ्ग्या द्योत्यते । अत एव श्राद्धाख्यं कर्म होमात्मकम् । अत एव ब्रह्मपुराणे - “एतद् वो अन्नम् इत्य् उक्त्वा विश्वान् देवांश् च यजेत्” इत्य् उक्तम् । होमयागयोर् अत्यल्पभेदत्वाद् धोमात्मके श्राद्धे अनास्थया यजेद् इत्य् उक्तिर् युज्यते । अहोमात्मकत्वे तु यजेद् इत्य् उक्तिर् अत्यन्तासमञ्जसा स्यात् । तेनात्र श्राद्धाख्यं कर्म होमात्मकम् इत्य् अवगम्यते, “ब्राह्मण आहवनीयार्थए” इत्य् स्मरणात् । अनन्तरं ब्राह्मणाध्यासितां भूमिं गयारूपां ध्यात्वा ब्राह्मणं च गधाधररूपं ध्यात्वान्नं निवेदयेत्,

श्राद्धभूमौ गयां ध्यात्वा ध्यात्वा देवं गदाधरम् ।
ताभ्यां चैव नमस्कृत्य ततः श्राद्धं प्रवर्तयेत् ॥

इति पुराणे ऽभिधानात् । वैश्वदेवान्नत्यागप्रकारम् आह अत्रिः ।

हस्तेन मुक्तम् अन्नाद्यम् इदम् अन्नम् उदीरयेत् ।
स्वाहेति च ततः कुर्यात् स्वसत्ताविनिवर्तनम् ॥

अयम् अर्थः - परिवेषकहस्तेन निर्मुक्तं परिविष्टम् अन्नाद्यं पुरोवर्तित्वाद् इदम् अन्नम् इति प्रदेयहविर्निर्देशार्थं देवतोद्देशकशब्दोच्चारणानन्तरम् उदीरयेत् । तत इदम् अन्नम् इत्य् उदीरणानन्तरं स्वाहेति हविर्दानप्रकाशकं शब्दम् उदीरयेत् । ततः स्वाहाशब्दोदीरणानन्तरं स्वसत्ताविनिवर्तनं कुर्यात् । स्वशब्देनात्र स्वत्वं निर्दिश्यते । स्वत्वस्य सद्भावः स्वसत्ता तस्या विनिवर्तनं निवर्तकं कर्म यन् मानसं न ममेति बुद्धिरूपं स्वत्वत्यागाख्यं तत् कुर्याद् इति । पित्रादिभ्यो ऽन्नत्यागप्रकारम् अपि स एवाह ।

गोत्रसम्बन्धनामानि इदम् अन्नं ततः स्वधा ।
पितृकर्मण्य् उदीर्याथ स्वसत्तां विनिवर्तयेत् ॥

अयम् अर्थः - पितृपितामहादिक्रमाद् एकैकं देवतात्वेनोद्दिष्टं पित्रे अमुकगोत्रायामुकशर्मणे पितामहायामुकगोत्रायामुकशर्मणे इत्यादिगोत्रसंबन्धनामानि चतुर्थ्यन्तान्य् उदीर्य ततः प्रदेयहविर्द्रव्यनिर्देशकम् इदम् अन्नम् इत्य् उदीर्य ततः कुर्याद् दानप्रकाशकं स्वधाशब्दम् उदीर्य स्वसत्तां विनिवर्तयेत् । स्वत्वध्वंसकरं न ममेति बुद्धिरूपं मानसं कर्म कुर्याद् इति । एवं विष्णुत्रिवचनविहितान्नत्यागप्रकार एव व्यक्तीकरणार्थं प्रयोगसौकर्यार्थं च पुनः प्रपञ्चेनोच्यते । मातुः प्रपितामहार्थे ऽन्ने अङ्गुष्ठनिवेशनानन्तरं वैश्वदैविकब्राह्मणसंनिधाव् उदङ्मुख उपविश्योपवीती दक्षिणं जान्व् आच्य दक्षिणहस्तेन यवसहितम् उदकम् आदाय सव्यहस्तेन पात्रम् आलभ्य पुरूरवार्द्रवसंज्ञिका विश्वेदेवा देवता इदम् अन्नं हविर् ब्राह्मण आहवनीयार्थे इयं भूर् गया अयं भोक्ता ब्राह्मणो गदाधरः पुरूरवार्द्रवसंज्ञिकेभ्यो विश्वेभ्यो देवेभ्य इदं परिविष्टम् अन्नम् आ तृप्तेः परिवेक्ष्यमाणं च स्वाहा नमो न ममेत्य् उक्त्वा भाजनसमीपे यवसहितम् उदकं निनीय भक्त्या प्रणामं कुर्यात् । वैश्वदैविकब्राह्मणानेकत्वे तत्तद्भाजने परिविष्टम् अन्नम् एवं त्यजेत् । ततः पित्र्यब्राह्मणसंनिधौ दक्षिणामुख उपविश्य सव्यं जान्व् आच्य प्राचीनावीती हस्तेन तिलान् उदकं चादाय वामहस्तेन पात्रम् आलभ्य अस्मत्पितामुकगोत्रो ऽमुकशर्मा वसुरूपः सपत्नीको देवतेदम् अन्नं हविर् इत्यादि ब्राह्मणो गदाधर इत्यन्तं पूर्ववद् उक्त्वा अस्मत्पित्रे ऽमुकगोत्रायामुकशर्मणे वसुरूपाय सपत्नीकाय परिविष्टम् अन्नम् आ तृप्तेः परिवेक्ष्ययाणं (?) च स्वधा नमो न ममेत्य् उक्त्वा भाजनसमीपे तिलसहितम् उदकं निनीय भक्त्या प्रणमं कुर्यात् । ब्राह्मणानेकत्वे तत्तद्ब्राह्मणभाजने परिविष्टम् अन्नम् एवं त्यजेत् । पितामहादिभ्यो ऽप्य् एवम् एवान्नत्यागः । अस्मत्पितामहो ऽमुकगोत्रो ऽमुकशर्मा रुद्ररूपः सपत्नीकः ॥॥॥॥॥॥ अस्मत्पितामहायामुकगोत्रायामुकशर्मणे रुद्ररूपायेति पितामहीयान्नत्यागे विशेषः । अस्मत्प्रपितामहो ऽमुकगोत्रो ऽमुकशर्मादित्यरूपः सपत्नीकः ॥॥॥॥। प्रपितामहायामुकगोत्रायामुकशर्मणे आदित्यरूपायेति प्रपितामहीयान्नत्यागे विशेषः । अस्मन्मातामहो ऽमुकगोत्रो ऽमुकशर्मा वसुरूपः सपत्नीकः ॥॥॥॥॥॥॥ मातामहायामुकगोत्रायामुकशर्मणे वसुरूपायेत्यादिविशेषः । मातुः पितामहीयान्नत्यागे विशेषः मातुः प्रपितामहीयान्नत्यागे विशेषश् च स्वयम् ऊह्यः । मातुः पितामहादिस्थाने ऽपि ब्राह्मणानेकत्वे पूर्वोक्तप्रकारेणान्नत्यागावृत्तिः । यदा तु पित्रादीनाम् एक एव ब्राह्मणस् तदा यावन्त उद्देश्यास् तावतो भागान् एकस्मिन् भाजने परिविष्टस्यान्नादेर् बुद्ध्या कृत्वा एकैकं भागम् एकैकं पित्रादिकम् उद्दिश्य त्यजेत् । यदा त्व् अतिथिर् भोजनार्थम् उपविष्टस् तदा तं गन्धपुष्पादिभिर् अर्चयित्वा पितृभ्यो ऽन्नत्यागानन्तरं अस्मै ब्राह्मणाय विष्णुरूपाय शिवरूपाय वा इदम् अन्नम् आ तृप्तेः परिवेक्ष्यमाणं च नमो न ममेति परिविष्टम् अन्नं त्यजेत् । अत्र विष्णुपुराणम् ।

पिता पितामहश् चैव तथैव प्रपितामहः ।
तृप्तिं प्रयान्तु ते भक्त्या यन् मयैतद् इहाहृतम् ॥
मातामहस् तृप्तिम् उपैतु तस्य तथा पिता तस्य पिता व यो ऽन्यः ।
विश्वे च देवाः परमां प्रयान्तु तृप्तिं प्रणश्यन्तु च यातुधानाः ॥
यज्ञेश्वरो हव्यसमस्तकव्यभोक्ताव्ययात्मा हरिर् ईश्वरो ऽत्र ।
तत्संनिधानाद् अपयान्तु सद्यः रक्षांस्य् अशेषाण्य् असुराश् च सर्वे ॥

एवम् उक्तपौराणिकश्लोकजपानन्तरं लघुयमः ।

अन्नहीनं क्रियाहीनं मन्त्रहीनं च यद् भवेत् ।
सर्वम् अच्छिद्रम् इत्य् उक्त्वा ततो यत्नेन भोजयेत् ॥

अच्छिद्रं जायताम् इत्य् अध्याहारेणाच्छिद्रभाषणवाक्यं पूरणीयम्, साकाङ्क्षत्वात् । बोधायनेन तु अच्छिद्रं जायताम् इत्य् एवोक्तम् । यद्य् अपि लघुयमवचनाद् अच्छिद्रभाषणानन्तरम् एव भोजनप्रतीतेर् आपोशनहस्तेषु ब्राह्मणेषु सत्स्व् अच्छिद्रभाषणं कार्यम् इति प्रतिभाति, तथापि प्राग् एवापोशनतः कार्यं न पश्चात् । तथाह प्रचेताः ।

आपोशनकराग्राणाम् अच्छिद्रस्य च भाषणात् ।
निराशाः पितरो यान्ति देवैः सह न संशयः ॥

किं तर्हि आपोशनदानानन्तरं कर्तव्यम् इत्य् उक्ते स एवाह ।

आपोशनं प्रदायाथ सावित्रीं त्रिर् जपेद् अथ ।
मधु वाता इति त्यृचं (?) मध्व् इत्य् एव त्रिकं तथा ॥

मध्व् इत्य् एतावत् त्रिर् आवर्तनीयम् इति चतुर्थपादस्यार्थः । व्याहृतीर् जपित्वा सावित्रीं जपेत्, “सव्याहृतिकां गायत्रीम्” इत् याज्ञवल्क्यस्मरणात् । आपोशनदानविधानान् नित्यभोजनाश्रितनियमाः पर्युक्षणादयः प्राणाहुत्यन्ता भोक्तॄणाम् अत्रापि सन्तीति गम्यते । अत एव कस्यचिद् भोजननियमस्यात्र प्रतिषेधर्थं तदनुष्ठाने दोषम् आह भरद्वाजः ।

पितॄणाम् अन्नम् आदाय बलिं यस् तु प्रयच्छति ।
स्तेयेन ब्रह्महा तेन सुवर्णस्तेयकृद् भवेत् ॥

पितॄणाम् अन्नं देवपित्रर्थं परिविष्टम् अन्नम् । अत एव सामान्येनोक्तम् अत्रिणा ।

दत्ते वाप्य् अथ वादत्ते भूमौ यो निक्षिपेद् बलिम् ।
तद् अन्नं निष्फलं याति निराशैः पितृभिर् गतैः ॥

बलिं नित्यभोजननियमविधिपूर्वकं बलिम्,

भोजनात् किंचिद् अन्नाग्रं धर्मराजाय वै बलिम् ।
दत्वाथ चित्रगुप्ताय प्रयतश् चेदम् उच्चरेत् ॥

इति विहितम् इति यावत् । व्याहृत्यादिजपानन्तरं याज्ञवल्क्यः - “जप्त्वा यथासुखं वाच्यम्” इति । यथासुखम् इति पदम् अपरिपूर्णत्वाद् अन्विताभिधानात् पदान्तरम् अपेक्षते । तेन जुषध्वम् इति पदम् अध्याहार्यम् । अत एव,

जुषध्वम् इति ते चोक्ताः सम्यग् विधृतभाजनाः ।
कृतमौनाः समश्नीयुर् आपोशनाद् अनन्तरम् ॥

इति व्यासेनोक्तम् । आपोशनाद् अनन्तरम् अमृतोपस्तरणम् असीति मन्त्रेणापः पीत्वा तदनन्तरम् इत्य् अर्थः । प्राणाहुतयस् त्व् अशनक्रियायाम् अनुप्रविष्टा इति तासां करणे ऽपि समश्नीयुर् आपोसनाद् अनन्तरम् इत्य् अस्य न कश्चिद् विरोधः । भोक्तुम् उपक्रान्तेषु ब्राह्मणेषु श्रद्धकर्तुः कर्तव्यम् आह कात्यायनः - “अश्नत्सु जपेद् व्याहृतिपूर्वां गायत्रीं सप्रणवां सकृत् त्रिर् वा रक्षोघ्नीः पित्र्यमन्त्रान् पुरुषसूक्तम् अप्रतिरथम् अन्यानि च पवित्राणि” इति । रक्षोघ्नीः “कृणुष्व पाजः प्रसितिं (?) न पृथ्वीम्” इत्यद्या ऋचः । पित्र्यमन्त्राः - “उदीरताम् अवरे” इत्यादयः । अप्रतिरथः - “आशुः शिशानः” इति सूक्तम् । मनुर् अपि ।

स्वाध्यायं श्रावयेत् पित्र्ये धर्मशास्त्राणि चैव हि ।
आख्यानानीतिहासांश् च पुराणान्य् अखिलानि च ॥

श्रावयेद् यज्ञोपवीतीति शेषः,

अपसव्येन कर्तव्यं सर्वं श्राद्धं यथाविधि ।
सूक्तस्तोत्रजपं मुक्त्वा विप्राणां च विसर्जनम् ॥

इति जमदग्निस्मरणात् । सूक्तस्तोत्रग्रहणं भुञ्जानेषु विप्रेषु यद् यज् जप्यं तस्य सर्वस्योपलक्षणार्थम् । बृहस्पतिस् तु मन्त्रादिजपाद् अन्यद् अपि कर्तव्यम् आह ।

भक्ष्यभोज्यगुणान् उक्त्वा भोजयेद् ब्राह्मणान् शनैः । इति ।

भोक्तारं भोजयितारं च प्रत्य् आह वृद्धशातातपः ।

अपेक्षितं याचितव्यं श्राद्धार्थम् उपकल्पितम् ।
न याचते द्विजो मूढः स भवेत् पितृघातकः ॥
अपेक्षितं यो न दद्याच् छ्राद्धार्थम् उपकल्पितम् ।
कृपणो मन्दबुद्धिश् च स श्रद्धफलं लभेत् ॥

न केवलं श्राद्धफलालाभः अपि तु कष्टतमजन्मपाप्तिर् अपि । तथा च निगमः ।

अपेक्षितं न दद्याद् यः श्राद्धार्थम् उपकल्पितम् ।
अथ कृच्छासु घोरासु तिर्यग्योनिषु जायते ॥

यत् तु वायुपुराणे ऽभिहितम्,

याचते यदि दातारं ब्राह्मणो ज्ञानवर्जितः ।
पितरस् तस्य रुष्यन्ति दातुर् भोक्तुर् न संशयः ॥

यच् च यमेन,

कृच्छ्रद्वादशरात्रेण मुच्यन्ते कर्मिणस् ततः ।
तस्माद् विद्वान् नैव दद्यान् न याचेन् न तु दापयेत् ॥ इति ।

तत् श्राद्धार्थम् अनुपकल्पितवस्तुविषयम्, सामान्येनाभिधानात् । श्राद्धार्थम् उपकल्पितान्नादिविषये ऽप्य् अत्यन्ताधिकं दाता न दद्यात् । भोक्ता च न प्रतिगृह्णीयात् । तथा च शङ्खलिखितौ - “नात्यधिकं दद्यान् न प्रतिगृह्णीयात्” इति । अत्यधिकान्नस्यापरिग्रहणार्थं पूर्वपरिविष्टं प्रभूतम् अत्रास्ति । किम् अन्येनेति भोक्त्रा न वक्तव्यम्, किं तु हस्तसंज्ञया सूचनीयम् । तथा ताव् एव - “अन्नपानादि न प्रभूतम् इति ब्रूयुर् अन्यत्र हस्तसंज्ञायाः” इति । निगमो ऽपि ।

नान्नपानादिकं श्राद्धे वारयेन् मुखतः क्वचित् ।
अनिष्टत्वाद् बहुत्वाद् वा वारणं हस्तसंज्ञया ॥

एवं याचनम् अपि न मुखतः कुर्यात्, मौनभङ्गप्रसङ्गात् । तेन तद् अपि हस्तसंज्ञया कार्यम् । एवं दात्रापि पुनर्दानसमये अत्यधिकदानं न भविष्यतीति ज्ञापनार्थम् ईषद् ददामीति मुखतो न वक्तव्यम् । किं तु तूष्णीं किंचित् प्रदर्श्य प्रतिषेधसूचकहस्तसङ्केताभावे ऽभ्यनुज्ञासूचकहस्तसङ्केते वा देयम् । यद् आह यमः,

यावद् धविष्यं भवति यावद् इष्टं प्रदीयते ।
तावद् अश्नन्ति पितरो यावन् नाह ददाम्य् अहम् ॥ इति ।

परिविष्टान्नेषु यन् निरवशेषतया भुक्तं यच् च भोक्तुं पुनः पुनर् गृह्यते तत् तस्येष्टम् इत्य् अनुमाय तद् आनीय प्रदर्श्य प्रतिषेधसूचनाभावे देयम् । तथा च स एव ।

यद् यद् रोचेत विप्रेभ्यस् तद् दद्याद् अविमत्सरः । इति ।

मत्सरग्रहणं दोषान्तराणाम् उपलक्षणार्थम् । अत एव ब्रह्माण्डपुराणम् ।

न चाश्रु पातयेज् जातु न शुक्तां गिरम् ईरयेत् ।
न चोद्वीक्षेत भुञ्जानं न च कुर्वीत मत्सरम् ॥
न दीनो न च वा क्रुद्धो न चैवान्यमना नरः ।
एकाग्रम् आधाय मनः श्राद्धं कुर्यात् सदा बुधः ॥ इति ।

शुक्तां निष्ठुराम् । कार्ष्ण्याजिनिर् अपि ।

कुर्याद् अथापरिश्रान्तो दम्भाहङ्कारवर्जितः ।
क्रोधं लोभं तथा मोहं वर्जयेच् छ्राद्धकर्मणि ॥ इति ।

समानेषु स्वस्य श्रैष्ठ्यसिद्धये परमश्रेष्ठानि भक्ष्यभोज्यानि दद्याद् इत्य् आह स एव ।

भक्ष्यभोज्यानि चोष्याणि पेयलेह्ययुतानि च ।
सर्वश्रेष्ठानि यो दद्यात् सर्वश्रेष्ठो भवेन् नरः ॥

दत्तेषु भक्ष्यादिषु आ तृप्तेः स्वेच्छया न किंचिद् अवशेषयेत् । तथा च सुमन्तुः ।

अक्रोधनो रसान् सम्यग् अद्याद् यद्य् अस्य रोचते ।
आ तृप्तेर् भोजनं तेषां कामतो नावशेषणम् ॥

इति स्मृतिचन्द्रिकायां परिवेषणविधिः