२५ उभय-विधाग्नौ-करणार्थाग्नि-निर्णयः

अथोभयविधाग्नौकरणार्थाग्निनिर्णयः

तत्र याज्ञवल्क्यः ।

कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही ।
दायकालाहृते वापि श्रौतं वैतानिकाग्निषु ॥

स्मार्तं कर्म औपासनहोमवैश्वदेवकरणाग्नौकरणादिकम् । विवाहाग्नौ विवहकालोत्पन्नौपासनाग्नौ । दायकालाहृते दायकाले वैश्यादिकुलाद् आहृत्योत्पादिते औपासनाग्नौ कुर्वीतेत्य् अर्थः । सर्वाधाने औपासनासंभवे त्व् आपस्तम्बोक्ताग्नौकरणहोमस्य लोपः, न तु वैतानिकाग्नाव् अनुष्ठानम्, “श्रौतं वैतानिकाग्निषु” इत्य् अभिधानात् । न तु लौकिके, देवतादेर् इवाग्नेर् अपि प्रतिनिध्यभावात् । अत एव सर्वाधानेनौपासनासंभवे धूर्तस्वामिनोक्तम् - “श्राद्धम् ऊर्ध्वं होमात् कर्तव्यं ब्राह्मणस् त्व् आहवनीयार्थे इति तस्यापि प्रधानत्वात्” इति । तस्यापि होमाद् ऊर्ध्वं क्रियमाणस्यान्नप्रदानलक्षण्श्राद्धस्यापीत्य् अर्थः । पितृयज्ञधर्मकाग्नौकरणस्य तु सर्वाधानेनौपासनाभावे ऽपि न निवृत्तिः “कर्म स्मार्थं विवाहग्नौ” इत्यादिनोपदिष्टौपासनाग्न्यभावे ऽपि “पितृयज्ञवत्” इत्य् अतिदेशतःप्रातदक्षिणाग्नेः संभवाद् दक्षिणाग्नाव् अनुष्ठानम् । अनेनैवाभिप्रायेण मार्कण्डेयेनोक्तम् ।

आहिताग्निस् तु जुहुयाद् दक्षिनाग्नौ समाहितः । इति ।

आपस्तम्बोक्ताग्नौकरणे तु पिण्डपितृयज्ञातिदेशाभावान् न दक्षिणाग्निप्राप्तिर् इति सर्वाधाने धूर्तस्वाम्युक्ताग्नौकरणाभाव एव युक्तः । पूर्वोक्ताभिप्रायेण वायुपुराणे ऽप्य् उक्तम् ।

आहृत्य दक्षिणाग्निं तु होमार्थं वै प्रयत्नतः ।
अग्न्यर्थं लौकिकं वापि जुहुयात् कर्मसिद्धये ॥ इति ।

अस्यार्थः - अग्नौकरणहोमार्थं गृह्याग्न्यभावे दक्षिणाग्निं लौकिकं वाप्य् आहृत्य स्वीकृत्य होमकर्मसिद्धये जुहुयाद् इति । अग्न्यर्थम् इत्य् अनेन गृह्याग्निभावे (?) तु नाग्न्यन्तरस्वीकार इत्य् अर्थाद् उक्तम् । तत्र दक्षिनाग्निपक्षस्य प्रवासादिना असंभवे लौकिकाग्निपक्xअः, तस्योपदेशातिदेशरूपप्रमाणद्वयावगतस्य दक्षिनाग्निभादकत्वेनागत्याश्रयणियत्वात् । अत एव प्रयत्नतो दक्षिनाग्निम् आहृत्येत्य् उक्तम् । यत् तु स्मृत्यन्तरम् ।

साग्निर् अग्नाव् अनग्निस् तु द्विजपाणाव् अथाप्सु वा ।
कुर्याद् अग्नौ क्रियां नित्यं लौकिके नेति नित्श्चितम् ॥ इति ।

तस्यायम् अर्थः - अग्निमान् पुरुषः औपासनाग्नौ दक्षिणाग्नौ वा पूर्वोक्तव्यस्थयाग्नौकरणं कुर्यात् । दायात् प्राग् अस्वीकृतौपासनतया छिन्नाग्नितया वा भार्याविधुरतया वा यो ऽग्निर् अहितः स द्विजपाणाव् अप्सु वाग्नौकरणं कुर्यात्, न जातु लौकिकाग्नौ कुर्याद् इति । ततश् च न वायुपुराणवचनविरोधः । श्रौताग्निना साग्निकस्याप्य् अनिग्निकवत् क्वचिद् विषये द्विजपाणाव् अग्नौकरणं कार्यम् । तथा च स्मृत्यन्तरम् ।

हस्ते ऽग्नौकरणम् कुर्याद् अग्नौ वा साग्निको द्विजः । इति ।

अत्राग्निशब्देन न गृह्याग्निर् उच्यते, तस्मिन् विद्यमाने हस्तपक्षनवकाशात् । तेन श्रौताग्निर् उच्यते लौकिको वा । साग्निकशब्देन सर्वाधान्य् एवोच्यते । ततश् चायम् अर्थः - सर्वाधानेनौपासनाग्न्यभावे पितृयज्ञधर्मकाग्नौकरणं दक्षिणाग्नौ, तदसंनिधाने लौकिकाग्नौ द्विजपाणौ वा कुर्याद् इति । तत्रापि प्रवासादिना दक्षिणाग्न्यभावे लौकिकाग्निहस्तपक्षौ पूर्वोक्तन्यायवद् अवगन्तव्यौ । लौकिकाग्नेस् तादृशविशेषानवगमात् पाणिना सह समविकल्प एव । यद्य् अपि न्यायतो ऽग्नेः प्रतिनिध्यभावः, तथापि न प्रतिनिधिन्यायेनात्र दक्षिणाग्न्यादेर् उपादानम् । किं तु गृह्याग्न्यभावेन तत्साध्यकर्मणो ऽननुष्ठाने प्राप्ते वचनेनागृह्याग्न्यादाव् अपि गृह्याग्निसाध्यं कर्म विधीयत इति न कश्चिद् दोषः । एवं चानाहिताग्नेर् औपासनवद् आहिताग्नेर् अप्य् अर्धाधानिनः उभयविधाग्नौकरणहोमः औपासन एव । सर्वाधानेनौपासनरहितस्याहिताग्नेर् आपस्तम्बोक्ताग्नौकरणाभाव एव । पिण्डपितृयज्ञधर्मकाग्नौकरणस्य तु दक्षिणागौ, तदसंनिधौ लौकिकाग्नौ द्वुजपाणौ वानुष्ठानम् । अनग्निकस्य द्विजपाणाव् अप्सु वा उभयविधम् अग्नौकरणम् इति सिद्धम् । अनाहिताग्नेर् औपासनवद् आहिताग्नेर् अर्धाधानेनौपासनवतः प्रवासादिना कथंचिद् औपासनासंनिधाने द्विजपाणाव् अप्सु वाग्नौकरणं कर्तव्यम् । तथा च विष्णुधर्मोत्तरे मार्कण्डेयः ।

अनाहिताग्निश् चौपसदे ऽग्न्यभावे द्विजे ऽप्सु वा । इति ।

औपसदो गृह्याग्निः । अनाहिताग्निश् चेति चशब्द आहिताग्नेः समुच्चयार्थः । ततश् चायम् अर्थः - अनाहिताग्निर् आहिताग्निश् चार्धाधानेनौपासनवान् गृह्याग्निसंनिधौ तत्रौवाग्नौकरणं कुर्यात् । अग्न्यभावे गृह्याग्न्यसंनिधाने ऽप्सु द्विजपाणौ वाग्नौकरणं कुर्याद् इति । अत्राप्स्व् इति पक्षस्य विषयविशेषः कात्यायनेन दर्शितः ।

अग्नौकरणहोमं तु कुर्याद् अप्स्व् इति यन् मतम् ।
स यदापां समीपे स्यात् श्राद्धं ज्ञेयो विधिस् तदा ॥

एवं चापां समीपाद् अन्यत्र यदा श्राद्धं तदैव द्विजपाणाव् इति पक्षो ग्राह्यः । अयं च विषयविभागः “अनग्निस् तु द्विजपाणाव् अथाप्सु वा” इत्य् अत्रापि द्रष्टव्यः, विष्णुधर्मोत्तरे मार्कण्डेय इत्य् उक्तस्मृत्यन्तरविवक्षायां कारणाभावात् । यत् तु मनुनोक्तम्,

अग्न्यभावे तु विप्रस्य पाणाव् एवोपसादयेत् ।

इति, तत् भार्यापरिग्रहात् पूर्वम् अनुष्ठेयनित्यनैमित्तिकश्राद्धविषयम् । अयम् एव विषयो जातूकर्णेन स्पष्टीकृतः ।

अग्न्यभावे तु विप्रस्य पाणौ दद्यात् तु दक्षिणे ।
अग्न्यभावः स्मृतस् तावद् यावद् भार्यां न विन्दति ॥ इति ।

दक्षिणे पाणौ दद्यात् उभयविधाग्नौकरणाहुत्यर्थम् अन्नम् इति शेषः । यस् तु गृह्यपरिशिष्टकारेणोक्तम् ।

अन्वष्टक्यं च पूर्वेद्युर् मासि मास्य् अथ पार्वणम् ।
काम्यम् अभ्युदये ऽष्टम्याम् एकोद्दिष्टम् अथाष्टमम् ॥
चतुर्ष्व् आद्येषु साग्नीनाम् अग्नौ होमो विधीयते ।
पित्र्यब्राह्मणहस्ते स्याद् उत्तरेषु चतुर्ष्व् अपि ॥

इति, “हेमन्तशिशिरयोर्श् चतुर्णाम् अपरपक्षाणाम् अष्टमीष्व् अष्टकाः” इति विहितान्य् अष्टकाश्राद्धानि । तत्र अष्टकाश्राद्धदिनाद् उत्तरदिने नवम्यां क्रियमाणं श्राद्धम् अन्वष्टक्यम्, पूर्वे ऽह्नि सप्तम्यां क्रियमाणं श्राद्धं पूर्वेद्युर् इति पदेन लक्षणयोक्तम् । प्रतिमासं क्रियमाणम् आपरपक्षिकं श्राद्धं मासि मासीत्य् अनेनोक्तम् । पार्वणं सर्वश्राद्धप्रकृतिभूतं दर्शश्राद्धम् । काम्यं पुत्रादिकामनया क्रियमाणं श्राद्धम् । आभ्युदयिकं श्राद्धम् अभ्युदयपदेनोक्तम् । अष्टकाख्यं श्राद्धम् आष्टम्याम् इति पदेनोक्तम् । एकोद्दिष्टम् इति पदेन सपिण्डीकरणं लक्षणयोक्तम्, सपिण्डीकरणे एकोद्दिष्टस्यापि सद्भावात् । एषां मध्ये आद्येषु चतुर्षु साग्निकानाम् अग्नाव् एवाग्नौकरणहोमः । उत्तरेषु तु साग्नीनां पित्र्यब्राह्मणहस्त एवेति तस्यार्थः । तद् एतत् येषां गृह्यपरिशिष्टं तेषाम् एव व्यवस्थापकं न सर्वेषाम् । अतो न पूर्वोक्तव्यवस्थाविरोध इति सर्वम् अनवद्यम् । यदा तु पाणिहोमपक्षः तदैकस्यैव विप्रस्य पाणौ होमो न सर्वविप्राणाम् इत्य् आह कात्यायनः ।

पित्र्ये यः पङ्क्तिमूर्धन्यः तस्य पाणाव् अनग्निकः ।
हुत्वा मन्त्रवद् अन्येषां तूष्णीं पात्रेषु निक्षिपेत् ॥ इति ।

पित्र्यप्रथमब्राह्मणपाणौ होमो ऽयं न नित्यः,

दैवविप्रकरे ऽनग्निः कृत्वाग्नौकरणं द्विजः ।

इति यमेन वैश्वदैविकब्राह्मणपाणाव् अग्नौकरणहोमविधानात् । एवं च व्रीहियववत् पित्र्यवैश्वदैविकब्राह्मणपाण्योर् विकल्पो वेदितव्यः । दैवविप्रहरहोमपक्षे ऽपि हुतशेषं पित्र्यब्राह्मणभोजनपात्रेष्व् एव निक्षिपेत् । तथा च वायुपुराणम् ।

हुत्वा दैवकरे ऽनग्निः शेषं पित्र्ये निवेदयेत् ।
न हि स्मृताः शेषभाजो विश्वेदेवाः पुराणगैः ॥

दैवविप्र्कराद् अन्यत्र पितृविप्रपाण्यग्नौ होमे ऽपि हुतशेषभाजो विश्वेदेवा न भवन्तीति ज्ञापयितुं न हि स्मृताः शेषभाजो विश्वेदेवा इति सामान्येनोक्तम् । यत एव सामान्येन शेषभाजो विश्वेदेवा न भवन्तीति अत एव विशेषेण पुराणान्तरे शेषदानं प्रतिषिध्यते ।

अग्नौकरणशेषं तु न दद्याद् वैश्वदैविके । इति ।

अग्नौकरणहोमं वैश्वदैविकब्राह्मणपाणौ कुर्वन्न् अप्य् एकब्राह्मणपाणाव् एव कुर्यात्, गुणानुरोधेन प्रधानानावृत्तेर् अग्नित्वेनैकविप्रपाणाव् एवानुष्ठेयत्वात् । तद् एतद् उक्तं वायुपुराणे ।

वैश्वदैवे यदैकस्मिन् भवेयुः द्व्यादयो द्विजाः ।
तदैकपाणौ होतव्यं स्याद् विधिर् विहितस् तथा ॥

यदैकस्मिन् वैश्वदैविकब्राह्मणभोजनकर्मणि द्वौ चत्वारः षड् इत्य् एवं युग्मसंख्यया द्व्यादयो विप्रा दैविकत्वेन भवेयुः तदैकस्य प्रथमोपविष्टस्य विप्रस्य पाणौ होतव्यं तत्राहुतिविधिर् विहितः स्याद् अनुष्ठितो भवेद् इत्य् अर्थः । एवं ब्राह्मणपाणाव् अग्नौकरणहोमं करिष्ये करवै करवाणीति वा ब्राह्मणानुज्ञापनम्, तथास्त्व् इति ब्राह्मणैः प्रतिवचनं भवेद् इत्य् आह शौनकः - “अनग्निकश् चेद् आद्यं गृहीत्वा भत्स्व् एवाग्नौकरणहोमं कुर्याच् चेत् । आद्यं घृताक्तम् अन्नम् । पूर्ववत् ब्राह्मणानुज्ञापनम् इति शेषः । तथास्त्व् इति ब्राह्मणानां प्रतिवचनम् इति शेषः । यत् तु स्मृत्यर्थसारे ऽभिहितम् - “पाणिहोमे त्व् इध्ममेक्षणविप्रानुज्ञा न सन्ति” इति, तत्र विप्रानुज्ञाभावोक्तिर् एतद्वचनादर्शननिबन्धनेत्य् उपेक्षणीया । मेक्षणाभावोक्तिर् अपि चिन्त्या, मेक्षणकार्यस्य विध्यदर्शनात् । यच् च तत्रैवाभिहितं “परिस्मूहनपर्युक्षणे स्थः” इति, तद् अप् चिन्त्यम्, तयोर् दृष्टकार्यस्य धूल्यपगमादेर् अत्राभावात्, नियमादृष्टमात्रस्याप्रयोजकत्वात् । यस्य त्व् अदृष्टसंस्कारः कार्यं परिस्तरणस्य तद् अत्रास्ति । तथा च यमः ।

अग्नौकरणवत् तत्र होमो दैवकरे भवेत् ।
पर्यस्तदर्भान् आस्तीर्य यतो ह्य् अग्निसमो हि सः ॥ इति ।

दैवकरो वैश्वदैविकब्राह्मणपाणिः । पर्यस्तदर्भाः परितः सर्वतो न्यस्नीयदर्भाः परिस्तरणदर्भा इति यावत् । दैवकरग्रहणं पित्र्यब्राह्मणकरस्याप्य् उपलक्षणार्थम् । ब्राह्मणपाणौ हुतं तदानीय तदानीम् एव ब्राह्मणेन न भ्होक्तव्यम्, अपि तु भोजनकाले । तथा च बह्वृचगृह्यपरिशिष्टम् ।

अन्नं पाणितले दत्तं पूर्वम् अश्नन्त्य् अबुद्धयः ।
पितरस् तेन तृप्यन्ति शेषान्नं न लभन्ति ते ॥
यच् च पाणितले दत्तं यच् चान्यद् उपकल्पितम् ।
एकीभावेन भोक्तव्यं पृथग्भावो न विद्यते ॥

शेषान्नं विप्रभोजनार्थं संपादितम् अन्नम् । पित्र्यब्राह्मणपाणितलाद् अन्यत्र पितृयज्ञवद् अग्नौकरणम् । पितृकश्राद्धे मातामहश्राद्धे च वैश्वदैविकं तन्त्रम्, द्रव्यदेवतावद् अधिकरणकारकैक्यस्यापि संप्रतिपन्नत्वात् । पित्र्यब्राह्मणपाणितले क्रियमाणं तु मातामहब्राह्मणपाणितले ऽप्य् आवृत्त्या कार्यम्, अधिकरणकारकैक्यस्यासंप्रतिपन्नत्वात् । अत एव कात्यायनः ।

मातामहस्य भेदे ऽपि कुर्यात् तन्त्रे च साग्निकः । इति ।

अयम् अर्थः - मातामहस्य ब्राह्मणपाणौ पृथग् अग्नौकरणं कुर्यात् । एतच् च वैश्वदैविकभेदपक्षे तन्त्रपक्षे च समानम् इति । यस्मिन् विषये साग्निकस्य पाणौ अग्नौकरणम् उक्तं तस्मिन् विषये इदं वचनं द्रष्टव्यम् ॥

**इति स्मृतिचन्द्रिकायाम् उभवविधाग्नौकरणार्थाग्निनिर्णयः **