२४ अग्नौकरणविधिः

अथाग्नौकरणविधिः

तत्र कात्यायनः ।

गन्धान् ब्रह्माणसात् (?) कृत्वा पुष्पाण्य् ऋतुभवानि च ।
धूपं चैवानुपूर्वेण अग्नौ कुर्याद् अतः परम् ॥

ऋतुभवानि पुष्पाणि स्वोद्भवकालत्वेन प्रसिद्धवसन्तादिकालप्रभवानि । चशब्दो ऽनुक्तसमुच्चयार्थः । एवं चायम् अर्थः - गन्धपुष्पालंकारधूपाच्छादनानि ब्राह्मणार्थानि कृत्वानन्तरम् अग्नौकरणाख्यं कर्म कुर्याद् इति । कथं कुर्याद् इत्य् अपेक्षिते हारीतः - “अथोद्धृतान्नः पङ्क्तिमूर्धनि सर्वान् प्र्च्छत्य् अग्नौ करिष्ये” इति । निगमो ऽपि - “अन्नम् उद्धृत्याभिघार्याग्नौ करिष्य इति पृच्छति” इति । विष्णुपुराणे ऽपि ।

अग्नौ करिष्य इत्य् उक्त्वा तैर् उक्तः क्रियताम् इति ।
गृह्योक्तेनैव विधिना हुत्वा पात्रेषु दापयेत् ॥

हुत्वा हुतशेषं पितृब्राह्मणभाजनेषु दद्याद् इत्य् अर्थः । गृह्योक्तेनैवेत्य् एवकारो न धर्मशास्त्राद्युक्तविधिनिवृत्त्यर्थः, धर्मशास्त्रोक्तविधेर् गृह्योक्तविधेश् च परस्परापेक्षत्वात् । तेनात्रैवकारः पुराणोक्तविधिनिवृत्त्यर्थः । अत एव गृह्योक्तविधानेनाग्नौकरणं कार्यम् इत्य् अभिधाय तस्मिन्न् एव पुराणे गृह्येष्व् अनुक्तो विधिर् दर्शितः ।

जुहुयाद् व्यञ्जनक्षारवर्जम् अन्नं ततो नरः ।
अनुज्ञातो द्विजैस् तैस् तु त्रिःकृत्वो भरतर्षभ ॥ इति ।

व्यञ्जनक्षारवर्जम् अन्नं हविष्यम् अन्न्म् इत्य् अर्थः । यत् तु पुराणान्तरे,

पुष्पाणां च फलानां च भक्ष्याणां च प्रयत्नतः ।
अग्रम् उद्धृत्य सर्वेषां जुहुयाज् जातवेदसि ॥

इति पित्रर्थपाकसिद्धलवनादिसंस्पृष्टाहविष्यहोमस्मरणं तद् येषां गृह्ये ऽग्नौकरणहोमान्तरम् अहविष्यहोमान्तरम् अमन्त्रकं कार्यम् इति विधीयते तद्विषयम् । अतो न पूर्वोक्तविरोधः । जातवेदसि उष्णभस्मगताग्नाव् इत्य् अर्थः । तथा च आपस्तम्बेनाग्नौकरनाङ्गतयोक्तम् - “न क्षारलवणहोमो विद्यते तथावरान्नसंसृष्टस्याहविष्यस्य होमः । उदीचीनम् उष्णं भस्मापोह्य तस्मिन् जुहुयात् तद् धुतम् अहुतं चाग्नौ भवति” इति । पारस्करो ऽप्य् अग्नौकरणम् आह ।

दत्वा गन्धादि धूपांश् च सर्पिष्मद् धविर् उद्धरेत् ।
पैतृकैर् अभ्यनुज्ञातो जुहोति पितृयज्ञवत् ॥ इति ।

पैतृकैद् (?) ब्राह्मणैर् इति शेषः,

अग्नौ कुर्याद् अनुज्ञातो ब्राह्मणो ब्राह्मणैः सह ।

इति मनुस्मरणात् । ब्राह्मणैः पैतृकैः सर्वैः सह युगपद् अनुज्ञात इत्य् अर्थः । पितृयज्ञव्ज् जुहोतीत्य् अस्यार्थो हारीतेन प्रपञ्चितः - “कुरुष्वेत्य् अनुज्ञातः पूर्वोद्धृते ऽग्नौ सकृद् आच्छिन्नैर् उपमूललूनैः परिस्तीर्णे समित् तन्त्रेण प्राङ्मुखो मेक्षणेनाहुतिद्वयं हुत्वा मेक्षणम् अग्नाव् एव कुर्यात्” इति । पूर्वोद्धृते ऽग्नौ परिस्तरणात् पूर्वम् एवोद्बोधिते ऽग्नौ मूलसमीपप्रदेशे सकृद् एकयत्नेन छिन्नैर् दर्भैः परिस्तीर्णे समित् तन्त्रेण प्राङ्मुखो मेक्षणेन आहुतिद्वयार्थम् एकाम् एव समिधम् आदाय मेक्षणेन यज्ञियकाष्ठकृतेन आहुतिद्वयं हुत्वा अग्नाव् एव मेक्षणं प्रक्षिपेद् इत्य् अर्थः । समित् तन्त्रेणेत्य् अनेन न पितृयज्ञधर्म उक्तः, पितृयज्ञे समिदाधानस्याभावात् । किं त्व् इह धर्मान्तरम् उपदिष्टम् । तेन सुयज्ञो ऽप्य् उपदिष्टधर्माभ्यां सहातिदिष्टधर्मान् आह - “पर्समूह्य पर्युक्ष्य परिस्तीर्य दक्षिणं जान्व् आच्य यज्ञोपवीती प्राङासीनो (?) मेक्षणेन जुहोति” इति । अत्र परिसमूहनपर्युक्षणे उपदिष्टे । “जुहुयात् पितृयज्ञवत्” इत्य् अतिदेशतः प्राप्तौ होममन्त्रौ मदालसया दर्शितौ ।

अग्नये कव्यवाहनाय स्वाहेति प्रथमाहुतिः ।
सोमाय वै पितृमते स्वाहेत्य् अन्या तथा भवेत् ॥

वैशब्दः पादपूरणार्थत्वात् स प्रयोगकाले न प्रयोज्यः । गोबिलेन तु विपरीतक्रमेण पुरस्तात् स्वाहाकारौ होममन्त्रौ अग्नौकरणम् अधिकृत्योक्तौ - “मेक्षणेनोपघातं जुहुयात् स्वाहा सोमाय पितृमते इति प्रथमाम्, स्वाहाग्नये कव्यवाहनायेति द्वितीयाम्, अत ऊर्ध्वं प्राचीनावीती” इति । होमान्तरं प्राचीनावीतीत्य् अभिधानाद् अर्थाद् धोमे यज्ञोपवीतीत्य् एवेति गम्यते । मेक्षणेनोपघातं मेक्षणेनावदाय जुहोतीत्य् अर्थः । पुराणे त्व् आहुतित्रयपक्षः स्वधानमोऽन्तैर् मन्त्रैर् उक्तः ।

अन्तर् निधाय समिधं जुहुयाज् जातवेदसि ।
अग्नये कव्यवाहनाय स्वधा नम इति ब्रुवन् ॥
सोमाय च पितृमते स्वधा नम इति ब्रुवन् ।
इत्य् एते होममन्त्रास् तु त्रयाणाम् अनुपूर्वशः ॥
उत्तरतो ऽग्नये नित्यं सोमायेति च दक्षिणे ।
एतयोर् अन्तरे नित्यं जुहुयाद् वै विवस्वतः ॥ इति ।

अत्र निधेयायाः समिधो ग्राह्याग्राहत्वनिरूपणार्थम् उक्तं तत्रैव ।

पलाशफल्गुन्यग्रोधप्लक्षाश्वत्थविकङ्कताः ।
उदुम्बरशमीबिल्वचन्दना यज्ञियाश् च ये ॥
पनसो देवदारुश् च सालश् च खदिरस् तथा ।
समिदर्थे प्रशस्ताः स्युर् एते वृक्षा विशेषतः ॥
ग्राह्याः कण्टकिनश् चैव यज्ञिया ये च केचन ।
श्लेष्मातको नक्तमालः कपित्थः शाल्मलिस् तथा ॥
नीपो विभीतकश् चैव श्राद्धकर्मणि गर्हिताः ।
चिरिबिल्वस् तथा टङ्कस् तिन्दुकाम्रातकौ तथा ॥
तिल्बकः कोविदारश् च एते श्राद्धविगर्हिताः ॥

फल्गुः काकोदुम्बरिका । एमसुक्ताहुतिसंख्याविकल्पो (?) व्यपदेशाद् एव सिद्धः । प्रकृतौ पिण्डपितृयज्ञे पक्षद्वयम् अप्य् उक्तम् । तथा आपस्तम्बः पिण्डपितृयज्ञम् अधिकृत्याह - “अध्वर्युर् उपवीती दक्षिणं जान्व् आच्य मेक्षणे उपस्तीर्य तेनावदायाभिघार्य सोमाय पितृपीताय स्वधा नम इति दक्षिणाग्नौ जुहोति । यमायाङ्गिरस्वते पितृमते स्वधा नम इति द्वितीयाम्, अग्नये कव्यवाहनाय स्वधा नम इत् त्र्तीयां ये मेक्षणे तण्डुलास् तान् हुत्वा तूणीं मेक्षणम् आदधाति न यमाय जुहोतीत्य् एके” इति । स्वधानमोऽन्तमन्त्राणां स्वाहारान्तमन्त्रैः सह विकल्पो ऽपि पूर्ववद् अतिदेशत एव सिद्धाः, प्रकृतौ द्विविधमन्त्राणाम् अभिधानात् । तत्र स्वधानमोऽन्ता मन्त्रा आपस्तम्बेनोक्ता दर्शिताः । स्वाहान्तमन्त्रास् तु पिण्डपितृयज्ञे साङ्ख्यायनेनोक्ताः - “दक्षिणं जान्व् आच्य यज्ञोपवीती प्राङासीनो मेक्षणेन जुहोत्य् अग्नये कव्यवाहनाय स्वाहा सोमाय यमायाङ्गिरस्वते (?) पितृमते स्वाहा” इति । सोमायेत्य् अत्र पितृमते स्वाहेत्य् अनुषज्यते । अतो ऽग्नये स्वाहा सोमाय स्वाहेति विशेषविहिताव् अपि मन्त्राव् अतिदेशतो ऽग्नौकरणे (?) स्थः, प्रकृताव् एवंविधयोर् अपि मन्त्रयोर् उपदेशात् । तथा च पिण्डपितृयज्ञम् अधिकृत्य वैजावापः - “आज्यम् आसिच्योद्वास्य यज्ञोपवीतीत्य् अन्वाहार्यपचने मेक्षणेन द्वे आहुती जुहोत्य् अग्नय इति पूर्वां सोमायेत्य् उत्तराम्” इति । अन्वाहार्यपचनो दक्षिणाग्निः । एवं पिण्डपितृयज्ञहोमे यज्ञोपवीतित्वम् “उपवीतं देवानाम्” इति श्रुत्या दैवैकधर्मत्वेनावगतं ब्रुवाणा आपस्तम्बसाङ्ख्यायनवैजवापकल्पसूत्रकाराः पिण्डपितृयज्ञे होमात्मकं प्रधानं दैविकम् इति मन्यन्ते । कात्यायनो ऽप्य् एवम् एव मन्यते । यद् आह ।

अग्नौकरणहोमस् तु कर्तव्य उपवीतिना ।
प्राङ्मुखेनैव देवेभ्यो जुहोतीति श्रुतिश्रुतेः ॥ इति ।

अयम् अर्थः - अग्नौकरणहोमप्रकृतिभूतपिण्डपितृयज्ञहोमविधायकस्रुतौ “स उद्वास्याग्नौ द्वे आहुती जुहिति देवेभ्यः” इति श्रुतेः तद्बलात् प्रकृतिदैविकधर्मवत् तद्विकृतिभूआग्नौकरणहोमो ऽप्य् उपवीतित्वादिदैविकधर्मेण कर्तव्य इति । अत्र “द्वे आहुती जुहोति” इति विहितहोमद्वये “सोमाय पितृमते स्वाहाग्नये कव्यवाहनाय स्वाहा” इति मन्त्रवर्णे देवतात्वेनावगतयोः सोमाग्न्योः चातुर्मास्यान्तर्गतपितृयज्ञवाक्यशेषादिषु क्वचित् पितृरूपेण क्वचिद् देवरूपेण व्यपदेशदर्शनाद् इह किं पितृरूपयोर् देवतात्वम् उत देवरूपयोर् इति संदेहे देवेभ्यो (?) इत्य् अनुवादसरूपर्थवाददर्शनाद् इह देवरूपयोर् एव देवतात्वम् इति गम्यत इत्य् अभिप्रायेण देवेभ्यो जुहोतीति श्रुतिश्रुतेर् इत्य् उक्तम् । न तु साक्षाद् देवरूपयोर् एव देवतात्वम् इति श्रुतौ श्रूयत् इत्य् अभिप्रायेणेति मन्तव्यम् । अत एवानन्तरम् अपरितोआत् पक्षान्तरम् उक्तं तेनैव ।

अपसव्येन वा कार्यो दक्षिनाभिमुखेन वा ।
निरूप्य हविर् अन्यस्मा अन्यस्मै न हि हूयते ॥ इति ।

अस्यार्थः - पिण्डपितृयज्ञे “पितृभ्यो जुष्टं निर्वपामि” इति मन्त्रेण सकृद् एव होमार्थं पितृदेवतार्थं च निर्वापः क्रियते । ततश् च निर्वापमन्त्रसामर्थ्यात् पितृरूपयोर् एव सोमाग्न्योर् होमदेवतात्वम् इति गम्यते । देवरूपयोस् तु देवतात्वे देवेभ्य इति वाक्यसेषबलाद् आश्रियमाणे अन्यस्मै निरुप्तम् अन्यस्मै हूयत इत्य् अयुक्तं स्यात् । तस्मात् पितृऊपयोर् एव देवतात्वं तेन प्रकृतिभूतो होमः प्राचीनावीतिना दक्षिणाभिमुखेन च क्रियते इति विकृतिभूताग्नौकरणहोमो ऽपि प्राचीनावीतिना दक्षिणामुखेन च कार्य इति । अयम् एव पक्षः श्रेयान् इति मन्यमान आश्वलायनः स्वमतत्वेन पिण्डपितृयज्ञहोमं पैतृकधर्मकं परमतत्वेन दैविकधर्मकम् आह - “प्राचीनावीतीध्मम् उपसमाधाय मेक्षणेनावदायावदानसंपदा जुहुयात् सोमाय पितृमते स्वधा नमो ऽग्नये कव्यवाहनाय स्वधा नम इति स्वाहाकारेण वाग्निपूर्वं यज्ञोपवीती” इति । एवं प्रकृतिभूतपिण्डपितृयज्ञस्योभयविधत्वेन विकल्पितधर्कत्वात् तद्विकृतिभूताग्नौकरणहोमो ऽप्य् अतिदेशत एव विकल्पितधर्मक इति यज्ञोपवीतिना प्राचीनावीतिना वा कार्यः । तत्र आश्वलायनगृह्यानुसारिणां पैतृकधर्मकः कार्यः । तथा च तेनैव स्वकृतगृह्ये ऽभिहितम् - “उद्धृत्य घृताक्तम् अन्नम् अनुज्ञापयत्य् अग्नौ करिष्ये करवै करवाणीति वा । प्रत्यभ्यनुज्ञा क्रियतां कुरुष्व कुर्विति वा । अथाग्नौ जुहोति यथोक्तं पुरस्तात्” इति । कात्यायनगृह्ये तु - “उद्धृत्य घृताकम् अन्नं पृच्छ्त्याग्नौ (?) करिष्य इति कुरुष्वेत्य् अनुज्ञातः पिण्डपितृयज्ञवद् धुत्वा” इत्य् उक्तम्, तत्र यद्य् अपि पिण्डपितृयज्ञशब्देन पिण्डैः साध्यः पितृयज्ञः पिण्डपितृयज्ञ इति व्युत्पत्त्या पिण्डदानात्मकपितृयज्ञस्यैव नामधेयम्, न तु होमात्मकपिण्डपितृयज्ञस्येति प्रतिभाति, तथापि पिण्डादानात्मकपितृयज्ञस्य होमात्मकपितृयज्ञस्य च दण्डिन इतिवल्लक्षणया नामधेयम्, चातुर्मास्येषु प्रथमपर्वणि क्रियमाणानाम् आग्नेयादिसप्तयागानां वैश्वदेवयागस्य च वैश्वदेवनामधेयवत् । एवं च पिण्डदानं होमश् चात्र प्रधानम्, न तु पिण्डदानम् एव प्रधानं होमो ऽङ्गम् । यत एवं होमो ऽपि प्रधानम्, अत एवोक्तम् आपस्तम्बेन - “यदि जीवपिता दद्याद् आ होमात् कृत्वा विरमेत्” इति । यदि तु होमो ऽङ्गम्, तदा पिण्डदानाख्यप्रधाननिवृत्तौ प्रयोजकप्रधानस्याभावाद् अङ्गभूतहोमस्यापि निवृत्तेः “आ होमात् कृत्वा विरमेत्” इत् सूत्रम् अत्यन्तानुपपन्नं स्यात् । ततो ज्ञायते होमात्मको ऽपि पितृयज्ञः प्रधानभूत इति । एवं च पितृयज्ञवद् धुत्वा, इत्य् अस्यायम् अर्थः - होमात्मकपिण्डपिऋयज्ञवद् अग्नौकरणं कुर्याद् इति । एवं वदतस् तस्य स्वकीयस्मृतौ ।

प्राङ्मुखेनैव देवेभ्यो जुहोतीति श्रुतिश्रुतेः ।
निरुप्य हविर् अन्यस्मा अन्यस्मै न हि हूयते ॥

इत्य् एताभ्याम् उक्तदैविकपैतृकधर्मपिण्डपितृयज्ञवद् इत्य् अभिप्रायः प्रयेतव्यः, पिण्डपितृयज्ञविधायकसूत्रविशेषानुक्तेः । बैजवापगृह्य - “यज्ञोपवीत्य् अग्नौ अक्रवाणीत्यामन्त्र्यग्नौकरणम्” इत्य् अभिधानात् स्वसूत्रोक्तपिण्डपितृयज्ञवद् अग्नौकरणहोमो दैविकधर्मवान् इति स्फुटम् । यत् तु याज्ञवल्क्येन पिण्डपितृयज्ञम् अनुक्त्वैवोक्तम्,

ॐ कुरुष्वेत्य् अनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् ।

इति, यच् च पारस्करेण,

पैतृकैर् अभ्यनुज्ञातो जुहोति पितृयज्ञवत् ।

इति, अत्र सर्वत्र दैविकधर्मकपितृयज्ञवद् इत्य् अर्थो ग्राह्यः “दैविकधर्मकपितृयज्ञवत्” इत् बहुभिः सूत्रकारैर् उक्तत्वात् । न च बहुभिर् उक्तत्वम् अप्रयोजकम् इति वाच्यम् “भूयसां स्यात् सधर्मत्वम्” इति जैमिनिना प्रयोजकत्वस्याभिधानात् । ननु भूयसाम् अपि मतम् “निरूप्य हविर् अन्यस्मा अन्यस्मै न हि हूयते” इति न्यायविरुद्धत्वाद् अप्रयोजकम् । मैवम्, ते खल्व् आपस्तम्बादयो ऽप्य् एवं मन्यन्ते यथा दर्शयोगेनैकदेवतासंबन्धित्वेन निरुप्तेषु शूर्परूपैकस्थानगतेषु प्रोक्षितव्येषु “अग्नये वो जुष्टं प्रोक्षामि” इति प्रोक्षणमन्त्रस्थो व इत्य् अयं शब्दः केषुचित् पर्यवस्यति न सर्वेषु वर्तते । यथा च तेष्व् एव व्रीहिषु “इन्द्राग्निभ्यां वो जुष्टं प्रोक्षामि” इति प्रोक्षणमन्त्रस्थो व इत्य् अयं शब्दः केषुचित् पर्यवस्यति न सर्वेषु वर्तते । तथा स्थालीरूपैकस्थानगतेषु व्रीहिषु “पितृभ्यो वो जुष्टं निर्वपामि” इति निर्वापमन्त्रस्थो व इत्य् अयं शब्दः केषुचित् पर्यवस्यति न सर्वेषु व्रीहिषु वर्तते इति न स्थालिस्थं सर्वं पितृभ्यो निरुप्तं किं तु तदर्धम्, तेन पितृभ्यो निरुप्तं पितृमदन्तसोमादिभ्यो हूयते अतो न भूयसां मतं न्यायविरुद्धम् इति सर्वम् अनव्द्यम् । तूष्णीम् एव सर्वनिर्वापपक्षे तु न्यायाविरोधः सुतराम् । सो ऽपि पक्ष आपस्तम्बेनोक्तः - “मृण्मये निर्वपति पितृभ्यो वो जुष्टं निर्वपामीति तूष्णीं वा” इति । भेदेन निर्वापपक्षे दूरोत्सारितो न्यायविरोधः । अयं तु पक्षो वत्सेनोक्तः - " पवित्रान्तर्हिते चरुं निर्वपति त्रिर् यज्ञोपवीती दक्षिणेन हस्तेन त्रिः प्राचीनावीती सव्येन हस्तेन यज्ञोपवीती मेक्षणेन जुहुयात् सोमाय पितृमते स्वधा नमो यमायाङ्गिरस्वते पितृमते स्वधा नमो ऽग्नये कव्यवाहनाय स्वधा नमः" । तस्मात् स्मृतिषु पितृयज्ञशब्देन दैविकधर्मपितृयज्ञाभिधानं युक्तम् । यत् तु मनुनोक्तम्,

अपसव्यम् अग्नौ कृत्वा सर्वम् आवृत्परिक्रमम् ।

तद् आश्वलायनशाखीयविषयम्,

स्वाहा स्वधा नमः सव्यम् अपसव्यं तथैव् च ।
आहुतीनां तु या संख्या सावगम्या स्वसूत्रतः ॥

इति कात्यायनस्मरणात् । एवं च या आपस्तम्बेनोक्ताहुतीनां त्रयोदशस्ंख्या सा आपस्तम्बसूत्रिणामित्य् अवगन्तव्यम् । आपस्तम्बेन धर्मशास्त्रसूत्रे - “उद्ध्रियताम् अग्नौ च क्रियताम् इत्य् आमन्त्रयते । कामम् उद्ध्रियतां कामम् अग्नौ च क्रियताम् इत्य् अतिसृष्टम् उद्धरेज् जुहुयाच् च” इत्य् अग्नौकरणविधानाद् आहुतिसंख्या यद्य् अपि वक्तव्या । तथापि स्वकृतगृह्यसूत्र अनूदितमन्त्रविधान्मुखेनार्थाद् आहुतीनां त्रयोदशसंख्या दर्शिते ऽपि तत्र संख्या नोक्तेति मन्तव्यम् । अतिसृष्टो ऽअभ्यनुज्ञातः । एवं चोद्धरणप्रश्नादिकं कृत्वान्नम् उद्धृत्याग्नेर् उपसमाधानाद्याज्यभागान्तं कुर्यात्, आपस्तम्बीयगृह्योक्तक्रमेण वक्ष्यमाणतत्तत्प्रधानहोमसाधारणतया प्राच्याङ्गकलापस्य विहितत्वात् । आज्यभागान्ते, “यन् मे माता” इत्यादिमन्त्रैर् जुहुयात् । तथा च आपस्तम्बीयगृह्यम् - “अन्नस्योत्तराभिर् जुहोत्य् आज्याहुतीर् उत्तराः” इति । उद्धृतस्यान्नस्य किंचित् किंचिद् अवदानधर्मेणावदाय दर्व्यां निधाय “यन् मे माता प्रलुलोभ चरति, यास् तिष्ठन्ति” इति द्वाभ्यां ऋग्भ्यां अमुष्मै स्वाहेत्य् अन्ताभ्यां अमुष्मा इत्य् अत्र चतुर्थ्यन्ततया पितुर् नाम गृहीत्वा द्वे आहुती जुहोति । एवम् एव “यन् मे पितामही प्रलुलोभ चरति अन्तर्दधे पर्वतैः” इति द्वाभ्याम् ऋग्भ्याम् अमुष्मै स्वाहेत्य् अन्ताभ्यां अमुष्मा इत्य् अत्र चतुर्त्यन्ततया पितामहस्य नाम गृहीत्वा द्वे आहुती जुहोति । एवम् एव “यन् मे पितामही प्रलुलोभ चरति, अन्तर्दधे पर्वतैः” इति द्वाभ्याम् ऋग्भ्याम् अमुष्मै स्वाहेत्यन्ताभ्याम् अमुष्मा इत्य् अत्र चतुर्थ्यन्ततया पितामहस्य नाम् गृहीत्वा द्वे आहिती जुहोति । एवम् एव “यन् मे प्रपितामही प्रलुलोभ चरति, अन्तर्दध ऋतुभिः” इति द्वाभ्याम् अमुष्मै स्वाहेत्यन्ताभ्यां अमुष्मा इत्य् अत्र चतुर्थ्यन्ततया प्रपितामहस्य नाम् गृहीत्वा द्वे श्हुती जुहोति । “यन् मे मातामही प्रलुलोभ चरति, यास् तिष्ठन्ति” इति द्वाभ्यां मातामहाय द्वे आहुती जुहोति । “यन् मे मातुःपितामही प्रलुलोभ चरति, अन्तर्दधे पर्वतैः” इति द्वाभ्यां मातुःपितामहाय द्वे आहुती जुहोति । इति द्वाभ्यां मातुःप्रपितामहाय द्वे आहुती जुहोति । अत्र प्रथममन्त्रे यन् मे मातामही प्रलुलोभ चरत् ॥॥॥॥॥॥॥॥॥॥ तन् मे रेतो मातामहो वृङ्क्ताम् इत्य् ऊहः कार्यः । द्वितीये मन्त्रे अन्तर् अन्यं मातामहाद् वध इत्य् ऊहः । मन्त्रद्वये ऽप्य् अमुष्मा इत्य् अत्र मातामहस्य चतुर्त्यन्ततया नामग्रहणं कार्यम् । तृतीये मन्त्रे यन् मे मातुः पितामही प्रलुलोभ चरत् ॥॥॥॥॥॥॥ तन् मे मातुः पितामहो वृङ्क्ताम् इत्य् ऊहः । चतुर्थे मन्त्रे मतुः पितामहाद् वध इत्य् ऊहः । मन्त्रद्वये ऽप्य् अमुष्मा इत्य् अत्र मातुः पितामहनामग्रहणं कार्यम् । पञ्चमे मन्त्रे यन् मे मातुः प्रपितामही प्रलुलोभ चरति ॥॥॥॥॥॥ तन् मे मातुः प्रपितामहो वृक्क्ताम् इत्य् ऊहः । षष्ठे मन्त्रे अन्तर् अन्यं मातुः प्रपितामहाद् वध इत्य् ऊहः । मन्त्रद्वये ऽप्य् अमुष्मा इत्य् अत्र मातुः प्रपितमहनामग्रहणं कार्यम्,

योज्याः पित्रादिशब्दानां स्थाने मातामहादिकाः ।
अन्नहोमे तथा स्पर्शे जलपिण्डादिदानके ॥
यन् मे मातामहीत्यादि तत्रोदाहरणम् भवेत् ॥

इति गृह्यभाष्यार्थसंग्रहकारेणोक्तत्वात् । स्पर्शे “एष ते तत मधुमान् ऊर्मिः सरः स्वान्” (?) इत्यादिमन्त्रत्रयेण ब्राह्मणभोजनार्थान्नस्पर्शे । ततः पूर्ववद् अवदाय “ये चेह पितरः” इत्य् ऋचा एकाम् आहितिं जुहोति एवम् अन्नाहुतीर् हुत्वा षडाज्याहुतीर् जुहोति — तत्र “स्वाहा पित्रे” इति पुरस्तात् स्वाहाहुतिं जुहोति । उपरिष्टात् स्वाहाकारेण द्वितीयाम् । एताभ्याम् एव मन्त्राभ्यां तृतीयां चतुर्थीम् आहुतिं हुत्वा स्वधा स्वाहेति पञ्चमीं जुहोत्य् अग्नये कव्यवाहनाय स्वाहेति षष्ठीं ततः स्विष्टकृतं हुत्वा भक्ष्यभोज्यसर्वविधाह्विष्यान्नात् किंचिद् आदायोदीचीनं भस्मापोह्य तस्मिन्न् उष्णे भस्मनि तूष्णीं जुहोति । ततो लेपयोः प्रस्तरवत् तूष्णीं बर्हिर् अक्त्वाग्नौ प्रहरतीत्यादि परिषेचनान्तं पाश्चात्याङ्गकलापम् आग्नेयस्थालीपाकोक्तं कृत्वा हुतशेषं ब्राह्मणभोजनपात्रेषु निदध्यात् । एतत् सर्वं तद्भाष्यार्थसंग्रहकारेणोक्तम् ।

अग्नीन्धनादि प्रतिपद्य कर्म कृत्वाज्यभागान्तम् अथावदाय ।
यन् मेति मन्त्रैः प्रतिमन्त्रम् अग्नौ कुर्युस् तथा सप्तभिर् अन्नहोमान् ॥
स्वाहादिमन्त्रैर् अपि सर्पिषा स्युर् होमास् ततः स्विष्टकृतं च हुत्वा ।
भस्माप्य् अपोह्याहविरन्नहोमो लेपेषु दर्व्योश् च समञ्जनादि ।
शेषं च कृत्वा परिषेचनान्तं पात्रेषु दद्याद् धुतशेषम् अन्नम् ॥ इति ।

सप्तभिर् अन्नहोमा इत्य् अनूहितमन्त्राभिप्रायोक्तम्, ऊहितमन्त्रसाहित्ये त्रयोदशसंख्यासंपत्तेः सप्तभिर् इत्य् अयोगात् । एवम् एतद् अग्नौकरणं प्राचीनावीतिना कार्यम्, पैतृकत्वात् । तथा च आपस्तम्बेन स्वकृतगृह्यशास्त्रादाव् उक्तम् - “अपरपक्षे पित्र्याणि प्राचीनावीतिना प्रसव्यं दक्षिणतोपवर्गः” इति । तत्रापि यद् अपैतृकम् आघारसमिन्धनादिकं तत् यज्ञोपवीतिना कार्यम्, अत एव भाष्यार्थसंग्रहकारेणोक्तम् ।

आघारदार्वग्निमुखाज्यभागप्रदक्षिणानुव्रजनेषु तद्वत् ।
आघारयोः स्विष्टकृति प्रदिष्टं यज्ञोपवीतं हि कपर्दिनः स्यात् ॥

इति स्मृतिचन्द्रिकायाम् अग्नौकरणविधिः