२३ अर्घ्याद्युपचारविधिः

अथार्घ्याद्युपचारविधिः

अत्र पुराणम् ।

सौवर्णराजताम्भोजमणिपात्राण्य् अथापि वा ।
अर्घार्थं संस्करोत्य् एव शुभपत्रपुटादि वा ॥

अर्घार्थम् अर्घ्योदकस्थापनार्थं दर्भेष्व् आसादनप्रोक्षणाभ्यां सौवर्णादिषु यथालाभम् अन्यतमानि पात्राणि संस्कुर्याद् एवेत्य् अर्थः । पत्रपुटादीत्य् आदिशब्देन चमसादिकं गृह्यते । अत एव विष्णुः - “दक्षिणाग्रेषु दर्भेषु चमसेषु दक्षिनापवर्गेषु त्रिषु पवित्रान्तर्हितेषु अप आसिंचेत् ऽशं नो देवीःऽ " इति । दक्षिणाग्रेषु दर्भेषु दक्षिणापवर्गतयासादितेषु चमसाद्यर्घ्यपात्रेषु त्रिषु पवित्रान्तर्हितेषु शं नो देवीर् इति मन्त्रेण प्रतिपात्रम् अपो निनयेद् इत्य् अर्थः । प्रचेता अपि - “यज्ञियवृक्षचमसेषु पवित्रान्तर्हितेष्व् एकैकस्मिन् अप आसिञ्चेत्” इति । शौनको ऽपि - “तैजसाश्ममयमृन्मयेषु पात्रेष्व् एकद्रव्येष्व् अनेकद्रव्येषु वा दर्भान्तर्हितेष्व् अपः प्रदाय सं नो देवीर् अभिष्टये इत्य् अनुमन्त्रितान् तिलान् आवपति, ऽतिलोसि पितृदेवत्यो गोसवओ देवनिर्मितः । पत्नवद्भिः पृक्तः स्वधया पितृन् इमान् लोकान् प्रीणयाहि नः स्वधा नमःऽ " इति । तैजसं कांस्यादिमयम् । अश्ममयं मरकतादिमणिमयम् । एकद्रव्येषु कांस्यराजतताम्रादीनाम् अन्यतेमेषु । अनेकद्रव्येषु कांस्यादिनानाद्रव्यमयेषु वा । दर्भान्तर्हितेषु पवित्रान्तर्हितेषु । । शं नो देवीर् इति मन्त्रेणापो निनीयानुमन्त्रितासु पूर्वोक्तमन्त्रेण नीतास्व् अप्सु तिलो ऽसीति मन्त्रेण तिलान् प्रक्षिपेद् इत्य् अर्थः । पात्रेष्व् इति बहुवचनं त्रिष्व् एवावतिष्ठते, प्रकृतिभूते त्रिदेवताके श्राद्धे प्रतिदैवतम् एकैकपात्रविधिपरत्वात् । अत एव प्रचेतसा “त्रीण्य् एवोदपात्राणि” इत्य् उक्तम् । पित्रादीनां त्रयाणाम् एकैकस्यानेकब्राह्मणनियोगजे सर्वेषाम् एकब्राह्मणनियोजने ऽपि श्राद्धस्य त्रिदेवताकत्वात् त्रीण्य् एवोदपात्राणि न तु ब्राह्मणसंख्यया संख्यातानीत्य् अर्थः । अत एव तिलैस् तथेत्य् अधिकृत्य वैजावापेनोक्तम् ।

नीत्वा पितॄणां त्रीण्य् एव कुर्यात् पात्राणि धर्मवित् ।
एकस्मिन् वा बहुषु वा ब्राह्मणेषु यथाविधि ॥ इति ।

तिलैर् नीत्वा तिलान् अर्घ्योदकेषु प्रक्षिपेद् इत्य् अर्थः । अर्घ्योदकसंस्कारार्थं पवित्रकरणप्रकारम् आह स एव ।

कुशौ समावशीर्णाग्राव् अनन्तर्गर्भकौ कुशैः ।
छिनत्ति तत् पवित्रं स्याच् छ्राद्धे कर्मणि सर्वदा ॥ इति ।

कुशाव् इति युग्मसंख्या वैश्वदैवकार्घ्यपात्रपवित्रविषया । पैतृकार्घ्यपात्रपवित्रविषये अनुचितत्वात् । अत एव चतुर्विंशतिमते पैतृकार्घ्यपवित्रे अयुग्मसंख्या दर्शिता ।

तिस्रस् तिस्रः शलाकास् तु पितृपात्रेषु पार्वणे । इति ।

शलाकाः शलाकासंनिभा दर्भाः, अच्छिन्नाग्रा इति यावत् । अर्घ्यपात्रेषु तिलप्रक्षेपानन्तरं ब्रह्मपुराणे कर्तव्यम् उक्तम् ।

अर्घ्याः पुष्पैश् च गन्धैश् च ताः प्रपूज्याश् च शास्त्रवत् । इति ।

अर्घ्या अर्घ्यार्था या आपः तिलमिश्रास् ताः गन्धैः पुष्पैश् च प्रपूज्याः । तासु गन्धपुष्पाणि प्रक्षिपेद् इत्य् अर्थः । गन्धादिप्रक्षेपानन्तरं शौनकः - “ताः प्रतिग्राहयिष्यंश् च स्वधार्घ्याः” इति । ताः अर्घ्यार्था अपः ब्राह्मणैः प्रतिग्राहयिष्यन् स्वधार्घ्या इति मन्त्रेण ब्राह्मणानां पुरः स्थापयेद् इत्य् अर्थः । स्थापनानन्तरं पैठीनसिः - “ततो ब्राह्मणहस्तेषूदकपूर्वं दर्भान् प्रदायोदकपूर्वम् अर्घ्योदकं ददाति या दिव्या आपः इत्य् ऋचैतत् ते अर्घ्योदकम् इत्य् अप उपस्पृशेद् इत्य् एवम् एवेतरयोः” इति । अर्घ्यस्थापनानन्तरं ब्राह्मणहस्तेषु प्रथमम् अपो निनीयार्घ्यपवित्रदर्भान् दक्षिणाग्रतया क्षिप्त्वा पुनर् अपो निनीय “या दिव्या आपः” इति मन्त्रम् उक्त्वा मन्त्रान्ते “अस्मत्पितर् अमुकगोत्र अमुकशर्मन् वसुरूपसपत्नीकैतत् ते अर्घ्योदकम्” इति दक्षिणहस्ते पितृतीर्थेनार्घ्यं दत्वाप उपस्पृशेत् । एवम् एवेतरयोः पितामहप्रपितामहयोर् अपि ब्राह्मनहस्ते अर्घ्यं दद्याद् इत्य् अर्थः । अस्मत् पितामह अमुकगोत्र अमुकशर्मन् रुद्ररूप सपत्नीक, अस्मत्पितामहासित्यरूपेति तु विशेषः । कात्यायनेन “या दिव्या आपः” इति मन्त्रं कृत्स्नं पठित्वार्घ्यसमर्पणम् उक्तम् - “सपवित्रेषु हस्तेषु ऽया दिव्या आपः पयसा संबभूवुः या अन्तरिक्ष उत पार्थिवीर्याः । हिरण्यवर्णा यज्ञियास् ता न आपः शंस्योना सुहवा भवन्तुऽ इति । पितरस् ते अर्घ्यं पितामहैतत् ते अर्घ्यं प्रपितामहैतत् ते अर्घ्यम् इति ब्राह्मणाञ् जलेषु पात्राणि निनीय पितृभ्यो ऽक्षय्यम् अस्तॄइत् (?) शेषं दर्भेष्व् अवनेजयति इति” पात्राणि पात्रस्थोदकानीत्य् अर्थः । धर्मेण गोत्रग्रहणं च कार्यम् इत्य् उक्तम् - “या दिव्या आपः इति पात्रं पानिभ्याम् उद्धृत्य नाम गोत्रं च गृहीत्वा सपवित्रे हस्ते ऽर्घ्यं दद्यात्” इति । पाणिभ्याम् उद्धृतेन पात्रेण दद्याद् इति गम्यते । प्रचेता अपि ।

अप्रदक्षिणम् एतेषाम् एकैकं तु पितृक्रमात् ।
संबोध्य गोत्रनामभ्याम् एष ते ऽर्घ्यम् इतीरयेत् ॥

एतेषां पितृपितामहप्रपितामहानां पितृक्रमात् पित्रादिक्रमाद् एकैकं गोत्रनामभ्यां संबोध्य एष ते ऽर्घ्यम् इत्य् उक्त्वा एकैकं ब्राह्मणम् एकैकेनार्घ्येणार्चयेद् इत्य् अर्थः । तथा चाह गौतमः - “पूर्ववत् पृथग् एकैकम् एकैकेनार्चयेत् क्रमात्” इति । एतत् “त्रीन् पित्र्ये” इत्य् उक्तब्राह्मणसंख्यापक्षाभिप्रायेणोक्तम् । “त्रीन् त्रीन्” इत्य् उक्तब्राह्मणसंख्यापक्षे तु त्रीन् ब्राह्मणान् एकैकेनार्घ्येणार्चयेत् । अत एव पैठीनसिना “हस्तेषु” इत्याद्य् उक्तम् । न च वाच्यम् “त्रीन् पित्र्ये” इति पक्ष एव हस्तेष्व् इत्य् उपपद्यते, त्रिषु पितृवर्गब्राह्मणेषु दक्षिणहस्तत्रयसंभवाद् इति । यतस् तेन “पितृस्थानस्थब्राह्मणार्चन एव हस्तेषु” इत्य् उक्त्वा “एवम् इतरयोः” इत्य् अभिधानात् । तस्मात् त्रीन् त्रीन् पित्र्ये इति पक्षे पितृस्थानस्थब्राह्मणदक्षिणहस्तेष्व् अपाम् आसेचनाद्यर्घ्यनिनयनान्तं सकृत् कुर्यात् । तथा पितामहस्थानस्थब्राह्मणहस्तेषु चैवं निनयेत्, “एवम् इतरयोः” इत्य् अभिधानात् । एवं मातामहादीनाम् अर्घ्यपात्रासादानादि (?) ब्राह्मणहस्तेष्व् अर्घ्यदानान्तं यथोक्तं नामगोत्रसहितं पदार्थानुसमयेन कुर्यात्, “मातामहानाम् अप्य् एवम्” इत्य् अतिदेशस्मरणात् । पित्रादिब्राह्मणहस्तेष्व् अर्घ्यदानानन्तरं याज्ञवल्क्यः ।

दत्वार्घ्यं संस्रवांस् तेषां पात्रे कृत्वा विधानतः ।
पितृभ्यः स्थानम् असीति न्युब्जं पात्रं करोत्य् अधः ॥

तेषां प्रतिविप्रं दत्तानाम् अर्घ्याणां संस्रवान् विप्रहस्तेभ्यः अन्येषु पात्रेषु गलितान् पितृपात्रे संभृत्य तत् पत्रम् “पितृभ्यः स्थानम् असि” इति मन्त्रेण न्युब्जम् अधोबलिं अधःकरोति भूम्यां निदध्यात् न पात्रादेर् उपरीत्य् अर्थः । तथा च प्रचेताः ।

प्रथमे पितृपात्रे तु सर्वान् संभृत्य संस्रवान् ।
पितृभ्यः स्थानम् असीत्य् उक्त्वा कुर्याद् भूमाव् अधोमुखम् ॥

अत्र गोभिलेनोक्तो विशेषः - “न्युब्जं कुर्यात् पवित्रवत्” इति । ब्राह्मणहस्तेषु निक्षिप्तानि पवित्राण्य् आदाय पितृपात्रे निधाय तैः सह भूमौ न्युब्जं कुर्याद् इत्य् अर्थः । कात्यायनेनात्र विशेष उक्तः - “कुशवत्यां भूमौ अधोमुखं कुर्यात् तस्योपरि च कुशम्” इति । निदध्याद् इति शेषः । मत्स्येनापि -

दत्वा संस्रवम् आदितः ।
पितृपात्रे निधायाथ न्युब्जम् उत्तरतो न्यसेत् ॥ इति ।

आदितः प्रथमम् अर्घ्यं दत्वा पितृपात्रे संस्रवं निधाय तत् पात्रं ब्राह्मणाध्यासितदेशाद् उत्तरतः किंचिद् दूरे अधोमुखं निदध्याद् इत्य् अर्थः । अत्रिणापि पितृपात्रं प्रकृत्य विशेष उक्तः - “गन्धादिभिस् तद् अभ्यर्च्य” इति । आदिशब्देन पुष्पाणि गृह्यन्ते । “गन्धमाल्यैस् तद् अभ्यर्च्य” इति शौनकस्मरणात् । एवं न्युब्जकरणम् अनित्यम्,

अपसव्यं ततः कृत्वा पिण्डपार्श्वे समाहितः ।
क्षिप्त्वा दर्भपवित्राणि मोचयेत् संस्रवांस् ततः ॥

इत्य् अत्रिवचने स्वधावाचनकालपर्यन्तं संस्रवोदकधारणदर्शनात् । धारणं च पितृपात्रस्योत्तानतया स्थापने (?) सति भवति न तु न्युभतया स्थापने । तस्माद् उत्तानतया स्थापनपक्षो ऽपि गम्यते । अस्मिन् पक्षे पितृपात्रस्य पितामहादिपात्रेणापिधानं कार्यम् । तथा च कात्यायनः ।

पैतृकं प्रथमं पात्रं तस्मिन् पैतामहं न्यसेत् ।
प्रपितामहं ततो न्यस्य नोद्धरेन् न च चालयेत् ॥

पितृपात्रं पितामहपात्रे ऽपिधाय प्रपितामहपात्रेण पिदध्याद् इत्य् अर्थः । (प्रपितामहपात्राभावे ऽन्येन केनचित् पात्रेण पिदद्याद् इत्य् अर्थः । ) (??) अधोमुखतया उत्तानतया वा न्यस्तस्य पात्रस्यान्यथाकरणे कात्यायनेन दोषो दर्शितः ।

स्पृष्टम् उद्धृतम् अन्यत्र नीतम् उद्घाटितं तथा ।
पात्रं दृष्ट्वा व्रजन्त्य् आशु पितरः प्रस्रवन्ति च ॥

उद्घाटितं पिधायकपितामहादिपात्रापसारणेन विवृतम् इत्य् अर्थः । अत एव उशनाः ।

उत्तानं विवृतं वापि पितृपात्रं यदा भवेत् ।
अभोज्यं तद् भवेद् अन्नं क्रुद्धैः पितृगणैर् गतैः ॥ इति ।

न्युब्जं कृतं पितृपात्रं यदोत्तानं भवेत् । उत्तानतया स्थापितं पात्रान्तरेण पिहितं पितृपात्रं यदा वा विवृतं भवेद् इति पूर्वार्धस्यार्थः । न्युब्जं पात्रं कृत्वाह वैजवापः ।

तस्योपरि कुशान् दत्वा प्रदद्याद् देवपूर्वकम् ।
गन्धपुष्पाणि धूपं च दीपं वस्त्रोपवीतके ॥

तस्योपरि कुशान् दत्वा तस्य न्युब्जकृतपितृपात्रस्योपरि कुशगन्धपुष्पाणि दत्वा वैस्वदैविकब्राह्मणपूर्वकं गन्धादि दद्याद् इत्य् अर्थः । अनेन गन्धदानं वैस्वदैविकब्राह्मणेषु कृत्वा पैतृकब्राह्मणेषु कार्यम् इत्य् उच्यते । एवम् एव पुष्पदानाद्य् अपि । ततश् च वैस्वदैविकब्राह्मणार्चनं च पदार्थानुसमयेन सहैव कार्यम् इति वचोभङ्ग्याभिहितम् । एवं च वैश्वदैवे याज्ञवल्क्येन काण्डानुरूपसमयक्रम उक्तः, तेन सह अनेनोक्तपदार्थानुसमयरूपक्रमस्य विकल्पो वेदितव्यः । न चायं विकल्पो गन्धदानप्रभृत्य् एव न पुनः प्राग् अपीति वाच्यम्, अर्थवैशमापत्तेः, “देवांश् च पितॄंश् चावाहयिष्ये इत्य् अनुज्ञाप्य” इत्यादिना गन्धादिदानात् प्राग् एव सहानुष्ठानस्य पैठीनसिना स्मृतत्वाच् च । विष्णुनापि गन्धादिदानम् उक्तम् - “अनुलेपनवस्त्रालंकरणपुष्पधूपैर् यथाशक्ति विप्रान् समभ्यर्च्य” इति । अनुलेपनादीनि पित्रादिदेवतोद्देशेन विप्रेभ्यो दद्याद् इत्य् अर्थः । अत एव पैठीनसिः - “गन्धान् पितृगोत्रनाम गृहीत्वापः स्पृशेद् एवम् इतरयोर् धूपदीपमाल्याच्छादनम् एवम्” इति । पित्रर्थब्राह्मणहस्ते ऽपो निनीय गन्धान् चन्दनकुङ्कुमकर्पूरादीन् आदाय अस्मत्पितरो ऽमुकगोत्रा अमुकशर्माणो वसुरुद्रादित्यरूपाः सपत्नीका अमी वो गन्धा इति ब्राह्मण्हस्त एव गन्धान् दत्वा उदकं स्पृशेत् । एवम् एवेतर्योः पितामहप्रपितामहयोर् गन्धसमर्पणम् । रुद्ररूपेति पितामहे, प्रपितामहे आदित्यरूपेति विशेषः । पुष्पधूपदीपमाल्याच्छादनादिदानं चैवं गन्धदानवद् एव कार्यम् इत्य् अर्थः । तथा च ब्रह्मपुराणम् ।

इदं वः पुष्पम् इत्य् उक्त्वा पुष्पाणि च निवेदयेत् ।
अयं वो धूप इत्य् उक्त्वा धूपं सौम्यं निवेदयेत् ॥
इदं वो माल्यम् इत्य् उक्त्वा दद्यान् माल्यं सुशोभनम् ॥ इति ।

एवम् अनया रीत्या इदं वो ज्योतिर् इत्य् उक्त्वा दीपं निवेदयेत् । इदं व आच्छादनम् इत्य् उक्त्वा वस्त्रं निवेदयेद् इत्यादि द्वयम् एवोह्यम् । अत एवोहप्रकारप्रदर्शनार्थं देवलेनोक्तम् ।

इदं ज्योतिर् इति ज्योतिः सुज्योतिर् इति ते ऽपि च । इति ।

इदं वो ज्योतिर् इति ज्योतिर् निवेदयेत् । सुज्योतिर् इति ते विप्रा भ्रूयुर् इत्य् अर्थः । “सुज्योतिर् इति ते ऽपि च” इति चशब्दात् स्वासनम् अस्तु स्वर्घ्यं सुगन्धाः सुपुष्पाणि सुधूपः सुदीपः स्वाच्छादनम् इत्य् आसनादिषु यथालिङ्गं प्रतिवचनानि विप्रा ब्रूयुर् इति सूचितम् इति मन्तव्यम् । अत एव गृह्यसंग्रहकारेणैतानि प्रतिवचनान्य् उक्तानि । कीदृशा गन्धा देया इत्य् अपेक्षिते ब्रह्मपुराणम् ।

श्वेतचन्दनकर्पूरकुङ्कुमानि शुभानि तु ।
विलेपनार्थं दद्यात् तु यच् चान्यत् पितृवल्लभम् ॥ इति ।

लेपनं च विप्राः स्वयं कुर्युः श्राद्धकर्ता वा । तत्र श्राद्धकर्त्रा विलेपनपक्षे विशेषम् आह व्यासः ।

विपवित्रकरो गन्धैर् गन्धद्वारेति पूजयेत् । इति ।

गन्धद्वारेति मन्त्रेण तदन्ते नामगोत्रग्रहणपूर्वकम् अमी वो गन्धा इत्य् उक्त्वा ब्राह्मणहस्ते गन्धान् प्रदाय तैर् गन्धैः पूजयेत् । विपवित्रकरो विप्रललाटे गन्धं विलेपयेद् इत्य् अर्थः । स्वयं विलेपनपक्षे ऽपि गन्धद्वारेति मन्त्रो ऽस्ति, गन्धदाने करणमन्त्रत्वात् । विपवित्रकरत्वलक्षणधर्म एव न विद्यते । अत एव श्राद्धकर्त्रा विलेपनपक्ष एव सपवित्रकरेण विलेपने कृते वृद्धशातातपेन दोषो दर्शितः ।

पवित्रं तु करे कृत्वा यः समालभते द्विजान् ।
राक्षसानां भवेच् छ्राद्धं विराशाः पितरो गताः ॥

समालम्भनं गन्धैर् विलेपनम् । पक्षद्वयसाधारणदोषो देवलेन दर्शितः ।

यज्ञोपवीतं विप्राणां स्कन्धान् नैवावतारयेत् ।
गन्धादिपूजासिद्ध्यर्थं दैवे पित्र्ये च कर्मणि ॥

विप्राणां यज्ञोपवीतं गन्धाद्यनुलेपनसिद्ध्यर्थम् अनुलेपको नावतारयेद् इत्य् अर्थः । स्कन्धाद् अवतार्यानुलेपने कृते शङ्खेन दोष उक्तः ।

उपवीतं कटौ कृत्वा कुर्याद् गात्रानुलेपनम् ।
एकवासाश् च यो ऽश्नीयात् निराशाः पितरो गताः ॥

क्रतुना तु ललाटे वर्तुलतया पुण्ड्रे कृते दोष उक्तः ।

ललाटे पुण्ड्रकं दृष्ट्वा स्कन्धे मालां तथैव च ।
निराशाः पितरो यान्ति दृष्ट्वा तु वृषलीपतिम् ॥

इति दोषस्मृतिबलेन कल्प्यस्य निषेधस्य कॢप्तोर्ध्वपुण्ड्रविध्यवाधेन (?) कल्प्यत्वाद् वर्तुलपुण्ड्रविषयम् एतत् । स्कन्धे मालाधारणे दोषस्मरणात् शिरस्य् एव विप्रेण माला धर्या । तत्रापि शिखायाम् एव,

न नियुक्तः शिखावर्जं मालां शिरसि वेष्टयेत् ।

इति वृद्धमनुस्मरणात् । नियुक्तः श्राद्धे निमन्त्रितो विप्रः । माल्यं च विहितपुष्पमयं देयम् । कानि पुनर् विहितानि पुष्पाणीत्य् अपेक्षिते ब्रह्मपुराणे ।

शौल्काः सुमनसः श्रेष्ठाः तथा पद्मोत्पलानि च ।
गन्धधूपोपन्नानि यानि चान्यानि कृत्स्नशः ॥ इति ।

विष्णुस् तु पुष्पदाने मन्त्रम् आह - “पुष्पावतीर् इति पुष्पम्” इति । दद्याद् इति पुर्ववाक्यश्रुतम् इहानुषज्यते ।

ओषधयः प्रतिमोदध्वं पुष्पावतीः सुपिप्प्लाः ।
अयं वो गर्भऋत्वियः प्रत्नं सधस्थम् आसदत् ॥

इति मन्त्रस्य मध्यमप्रतीकोपादानम् एतत् पुष्पावतीर् इति । मन्त्रान्ते नामगोत्रग्रहणपूर्वकम् इदं वः पुष्पम् इति पुष्पं देयम् । धूपद्रव्ये विशेषः शङ्खेनोक्तः ।

धूपार्थे गुग्गुलं दद्यात् घृतयुक्तं मघूत्कटम् । इति ।

व्यासस् तु धूपदाने मन्त्रम् आह - “धूपं च धूर् असीत्य् उक्त्वा” इति । “धूर् असि धूर् व धूर्वन्तम्” इति यजुर्वेदमन्त्रम् उक्त्वा धूपं दद्याद् इत्य् अर्थः । पुराणे तु मन्त्रान्तरम् उक्तम् ।

वनस्पतिरसो दिव्यो गन्धाढ्यः सुमनोहरः ।
आध्रेयः सर्वदेवानां धूपो ऽयं प्रतिगृह्यताम् ॥ इति ।

धूर् असीत्य् अनेन सहास्य विकल्पो वेदितव्यः । अत्रापि मन्त्रान्ते नामगोत्रग्रहणपूर्वकम् अयं वो धूप इति धूपो देयः । हस्तवातप्रापितो धूपो न विप्रेण सेव्यः तस्य निषेधात् । शातातपः ।

हस्तवाताहतं धूपं ये पिबन्ति द्विजोत्तमाः ।
वृथा भवति तच् छ्राद्धं तस्मात् तं परिवर्जयेत् ॥

दीपे तु विशेषम् आह मरीचिः ।

घृताद् वा तिलतैलाद् वा नान्यद् द्रव्यात् तु दीपकम् । इति ।

आच्छादने मन्त्रम् आच्छादनाभावे तत्प्रतिनिधिं चाह शातातपः - “युवा सुवासा इति वस्त्रं दद्यात् तदभावे यज्ञोपवीतम्” इति । अत्रापि मन्त्रान्ते नामगोत्रग्रहणपूर्वकम् इदं व आच्छादनम् इदं वो यज्ञोपवीतम् इति वा उक्त्वा आच्छादनं यज्ञोपवीतं वा देयम् । अन्यान्य् अपि ग्राह्यवर्जनीयगन्धपुष्पधूपदीपाच्छादनविषयाणि स्मृत्यन्तरवचनानि सन्ति, तानि चास्माभिः श्राद्धाङ्गद्रव्योपकल्पनप्रकरणे लिखितानीहाप्य् अनुसंधेयानि । एवं मातामहादीनाम् अपि गन्धपुष्पादिदानं नामगोत्रसहितं पदार्थानुसमयेन कार्यम्, “मातामहानाम् अप्य् एवम्” इत्य् अतिदेशस्मरणात् । मातुःप्रपितामहाच्छादनानन्तरम् अर्चनं पूर्णम् अस्त्व् इति कर्ता ब्रूयात् । अस्त्व् इति विप्रा ब्रूयुः । संकल्पसिद्धिर् अस्त्व् इति भवन्तो ब्रुवन्त्व् इति कर्ता वदेत् । अस्तु संकल्पसिद्धिर् इति विप्रा वदेयुः ॥

इति स्मृतिचन्द्रिकायाम् अर्घ्याद्युपचारविधिः