२२ पैतृकार्चनविधिः

अथ पैतृकार्चनविधिः

तत्र देवलः ।

द्विजातयो यथाप्रोक्ता नियताः स्युर् उदङ्मुखाः ।
पूजयेद् यजमानस् तु विधिवद् दक्षिणामुखः ॥

याज्ञवल्क्यो ऽपि ।

अपसव्यं ततः कृत्वा पितॄणाम् अप्रदक्षिणम् । इति ।

वैश्वदेवार्थम् उपवीतत्वेन स्थितं यज्ञसूत्रं ततो वैश्वदैविकार्चनानन्तरम् अपसव्यं प्राचीनावीतं कृत्वा पितॄणाम् उपचारभूतासनादिपदार्थान् अप्रदक्षिणं कुर्याद् इत्य् अर्थः । यद्य् अपि वैश्वदैविकासनदानानन्तरं पैत्रृकासनदानं वैश्वदैविकावाहनानन्तरं पैतृकावाहनम् इत्य् एवं पदार्थानुसमयेनैवासनावाहनार्घ्यगन्धुपुष्पधूपदीपाच्छादनाख्याः पदार्थाः वैस्वदैविकाः पैतृकाश् च अनुष्ठेयाः, न तु वैश्वदैविकासनाद्याच्छादनान्तपदार्थकाण्डाद् ऊर्ध्वं पैतृकासनादिपदार्थानां पदार्थानुसमयेनानुष्ठानम्, अन्याय्यत्वात् । तथाप्य् अत्र वैश्वदैविकपदार्थानां काण्डानुसमयेनानुष्ठानस्य वाचनिकत्वात् तथैवानुष्ठानं कार्यम्, वाचनिकत्वं च “अपसव्यं ततः कृत्वा” इत्यादिना वचनेन वैश्वदेविकार्चनपदार्थकाण्डाद् ऊर्ध्वं पैतृकार्चनविधानात् सिद्धम् । कथं पुनः पैतृकार्चनम् इत्य् अपेक्षिते स एवाह ।

द्विगुणांस् तु कुशान् दत्वा उशन्तस् त्वेत्य् ऋचा पितॄन् ।
आवाह्य तदनुज्ञातो जपेद् आयन्तु नस् ततः ॥

द्विगुणान् तिलान्, “पितॄणां द्विगुणांस् तिलैः” इत् स्मरणात् । कुशान् त्रिपञ्चादिविषमसंख्याकान् “पित्र्ये ऽयुग्मांस् तथैव् च” इत् स्मरणात् । दत्वा आसनस्य वामभागे,

प्रदद्याद् आसने दर्भान् न तु पाणौ कदाचन ।
पितृकर्मणि वामे स्यात् ।

इति स्मरणात् । आसनदानात् पूर्वं पश्चाच् च ब्राह्मणहस्ते अपाम् आसेचनं कार्यम् “अपः प्रदाय दर्भआन् द्विगुणान् आसनं प्रदायापः प्रदद्यात्” इति शौनकस्मरणात् । “पितॄन् आवाहयेत्” इत्य् अत्र पितृशब्देन कर्तुर् अतीताः पूर्वपुरुषाः पितृपितामहप्रपितामहा उक्ताः, तेषां श्राद्धकर्मणि हविःप्रत्युद्देश्यतया देवतात्वेन आवाह्यत्वात् । तथा च आपस्तम्बः - “अथैतन् मनुः श्राद्धशब्दं कर्म प्रोवाच प्रजातिःश्रेयसाय तत्र पितरो देवता ब्राह्मणस् त्व् आहवनीयार्थे” इति । श्राद्धशब्दं कर्म श्राद्धनामधेयं कर्म । प्रजानिःश्रेयसाय पुत्रपौत्रादिसंततिश्रेयःप्राप्त्यर्थम् । तत्र श्राद्धनामधेये कर्मणि । पितरो देवताः श्राद्धकर्तुः पितृपितामहप्रपितामहा लोकान्तरगताः संप्रदानत्वेन हविःप्रत्युद्देश्याः, न तु ब्राह्मणाः संप्रदानत्वेन हविःप्रत्युद्देश्याः । किं त्व् आहवनीयार्थे देवतोद्देशेन त्यक्तस्य हविषः प्रक्षेप्यमाणस्य धारणरूपे आहवनीयकार्ये केवलं वर्तन्त इत्य् अर्थः । तत्कर्ये वर्तनं च “ब्राह्मणस्य हस्ते होतव्यम्” इतिवद् अत्र वचनाभावान् न हस्तद्वारा, किं तु,

द्वौ दैवे पितृकृत्ये त्रीन् एकैकम् उभयत्र वा ।
भोजयेत् । (म्ध् ३।१२५)

इति वचनात्, त्यक्तान्नप्राशनद्वारेति गम्यते । पितृकृत्ये यजमानस्य पितृपितामहप्रपितामहान् उद्दिश्य त्यक्तान्नबोजनकृत्ये । अत एव ब्रह्मपुराणे ।

पितॄन् पितामहान् यक्ष्ये भोजनेन यथाक्रमम् ।
प्रपितामहान् वै सर्वांश् च तत्पितॄंश् चानुपूर्वशः ॥

तत्पितॄन् प्रपितामहस्य पितृपितमहप्रपितामहान् । पिण्डदानसमये हस्तलग्नेन लेपनेन यक्ष्ये इत्य् अर्थः । वैजवापिनापि यजमानस्य पितृपितामहप्रपितामहानां श्राद्धदेवतात्वम् अभिधाय सुस्पष्टं तेषाम् एवावाहनम् उक्तम् - “तिष्ठन् पितॄन् आवाहयिष्ये” इत्य् आमन्त्र्य “उशन्तस् त्वा इत्य् अनया यजमानस्य पितरं पितामहं प्रपितामहं नामभिर् आवाह्य” इति । पुराणे ऽपि श्राद्धकर्तुः पूर्वपुरुषाणाम् एव श्राद्धदेवतत्वम् अभिसंधाय सुस्पष्टं तेषाम् एव कव्यभागित्वम् उक्तम् ।

या तु पिण्डक्रिया तत्र ब्राह्मणानां तु भोजनम् ।
यजमानस्य पूर्वेषां तत् तु गच्छति नान्यथा ॥

तत्र श्राद्धकर्मणि या पिण्डक्रिया आद्यपिण्डक्रिया पितृसंबन्धिनी कृता “ब्राह्मणानांतु भोजनम्, यथासुखं जुषध्वम्” इति यद् यद् अन्नं ब्राह्मणभोजनाय निवेदितं तद् द्विविधम् अन्नं यजमानस्य पूर्वेषां श्राद्धकर्तुः पितृपितामहप्रपितामहानाम् उपभ्होगाय गच्छति नान्यथा नान्येषाम् उपभोगाय गच्छतीत्य् अर्थः । कथं पुनः सर्वेषां पुरुषाणां प्रातिस्विकशौभाशुभकर्मवशेन स्वर्गनरकादिगतानां दूरस्थकव्यभोक्तृत्वसामर्थ्यरहितानाम् उपभोगाय नेतृपुरुषशून्यम् अचेतनम् अन्नादि द्रव्रं (?) गच्छतीत्य् अनुपपत्तिनिराकरणार्थम् उक्तं तत्रैव ।

यथा गोषु प्रणष्टेषु वत्सो विन्दति मातरम् ।
एवं श्राद्धे ऽन्नम् उद्दिष्टं मन्त्रः पापयते पितॄन् ॥

मन्त्रो मन्त्रसामर्थ्यम् । मन्त्रसामर्थम् अपि ब्राह्मणभोजनादिना नष्टम् अन्नं कथं प्रापयतीत्य् अनुपपत्तिनिराकरणाय मत्स्येनोक्तम् ।

नाम गोत्रं पितॄणां तु प्रापकं हव्यकव्ययोः ।
नाममन्त्रास् तथादेशाः भवान्तरगातान् अपि ॥
प्राणिनः प्रीणयन्त्य् एते तदाहारत्वम् आगतान् ।
देवो यदि पिता जातः शुभकर्मनियोगतः ॥
तस्यान्नम् अमृतं भूत्वा दिव्यत्वे ऽप्य् अनुगच्छति ।
देवत्वे भोग्यरूपेण पशुत्वे तु तृणं भवेत् ॥
श्राद्धान्नं वायुरूपेण नागत्वे ऽप्य् उपगच्छति ।
पानं भवति यक्षत्वे गृध्रत्वे तु तथामिषम् ॥
दनुजत्वे तथा मांसं प्रेतत्वे रुधिरोदकम् ।
मानुष्ये त्व् अन्नपानादि नानाभोगकरं तथा ॥
रतिशक्तिः स्त्रियः कान्ता भोज्यं भोजनशक्तिता ।
दानशक्तिः सविभवा रूपम् आरोग्यम् एव च ॥
श्राद्धपुष्पम् इदं प्रोक्तं फलं ब्रह्मसमागमः । इति ।

नामानि देवदत्तयज्ञदत्तादीनि । मन्त्राः “पृथिवी ते पात्रम्” इत्यादयः । आदेशाः “इदम् अन्नादिकम् अमुष्मै भवतु” इत्येवमादयो निर्देशाः । तदाहारत्वम् आगतान् तत्तज्जात्युचिताहारत्वं प्राप्तान् । तस्यान्नं तद्तदुद्देशेन त्यक्तम् अन्नम् अमृतं भूत्वा यत्रासौ स्थितः तत्र मन्त्रसामर्थात् तत्तद्भोगयोग्यं द्रव्यान्तरं भूत्वानुगच्छति भोगसाधनं भवति । दिव्यत्वे दिविस्थितत्वे देवत्वे । भोग्यरूपेण दिवो ऽन्यत्र लोकान्तरे वर्तमाने देवत्वे स्थिते देवोचितभोग्यरूपेण । इदं स्वकर्मानुसारिशरीरोचितान्नादिरूपेण भोगसाधनत्वं श्राद्धकर्मणः पुष्पम् अवान्तरफलम् । ब्रह्मसमागमो ब्रह्मलोकप्राप्तिः परमफलं प्रोक्तम् इत्य् अर्थः । अत्रावान्तरफलप्राप्तिः कालादिविशेषलाभे भवति । तथा च हारीतः ।

काले न्यायागतं पात्रे विधिना प्रतिपदितम् ।
प्राप्नोत्य् अन्नं यथादत्तं जन्तुर् यत्रावतिष्ठते ॥ इति ।

परमफलप्राप्तिस् तु गयादिदेशविशेषलाभे भवति,

यन्नाम्ना पातयेत् पिण्डं तं नयेद् ब्रह्म शाश्वतम् ।

इति गयादिदेशवेशेषकृतस्य श्राद्धस्य फलत्वेन श्रवणात् । शाश्वतं ब्रह्म नयेत् ब्रह्मणा सह ब्रह्मप्राप्त्यापादकं ब्रह्मलोकं नयेद् इत्य् अर्थः । एवम् आपस्तम्बादिवचनैः श्राद्धकर्मणि न ब्राह्मण उद्देश्यः । किं तु श्राद्दकर्तुः पितृपितामहप्रपितामहा लोकान्तरगता उद्देश्या इति सिद्धम् । तेषूद्देश्यपित्रादिषु वस्वादिरूपतया उद्देशार्थं यथाक्रमं वस्वादिबुद्धिः कर्येत्य् आह शातातपः ।

वसवः पितरो ज्ञेयाः रुद्राः ज्ञेयाः पितामहाः ।
प्रपितामहास् तथादित्या इत्य् एषा वैदिकी श्रुतिः ॥

एवं ज्ञात्वा श्राद्धे कृते वस्वादीनाम् अपि प्रीतिर् भवतीत्य् आह पैठीनसिः - “वसवः पितरो रुद्राः पितामहा आदित्याः प्रपितामहा य एवं विद्वान् पितॄन् यजते वसवो रुद्रा आदित्याश् चास्य प्रीता भवन्ति” इति । पित्रादिष्व् एव वस्वादिरूपम् अनुसंधायानुष्ठितेन श्राद्धेन प्रीता वस्वादयः श्राद्धजनितप्रीतिशालित्वेन श्राद्धदेवताभूतपित्रादिकल्पाः पुत्रादिदत्तान्ननिदानकस्यामृताद्यन्नपानान्तस्य प्राप्तिं नामगोत्रमन्त्रादिवस्तुसामर्थ्येन कुर्वतां मनुष्याणां पितॄन् शुभाशुभकर्मारब्धशरीरान्तरगतान् प्रीणयन्तीत्य् अर्थः । तेन पुत्रादिभिर् अवश्यं नामगोत्रमन्त्राद्युच्चारणवद् वस्वादिरूपेण पित्रादयो ध्यातव्याः । तथाह याज्ञवल्क्यः ।

वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः ।
प्रीणयन्ति मनुष्याणां पितॄन् श्राद्धेन तर्पिताः ॥

अदितिसुता आदित्याः । एवं च आपस्तम्बादिवचनानां शातातपादिवचनानां च न परस्परविरोधः । तेन श्राद्धकर्तुः पूर्वपुरुषा एव लोकान्तरगताः श्राद्धदेवता इति सिद्धम् । यत् तु देवलेनोक्तम्,

वसवः पितरो ज्ञेयाः रुद्रा ज्ञेयाः पितामहाः ।
प्रपितामहास् तथादित्याः श्रुतिर् एषा सनातनी ॥
प्रेतान् उद्दिश्य यत् कर्म क्रियते मानुषैर् इह ।
तुष्यन्ति पितरस् तेन न प्रेताः पितरः स्मृताः ॥ इति ।

अयम् अर्थः - मानुषैः पुत्रादिभिर् इह मनुषलोके यच् छ्राद्दाख्यं कर्म प्रेतान् परलोकगतान् पित्रादीन् श्राद्धे उद्धेश्यभूतान् वस्वादिरूपेण ध्यातान् उद्दिश्य क्रियते तेन तथाकृतेन कर्मणा तस्मिन् कर्मणि वस्वादिरूपेण ध्यात्वोद्दिष्टाः पितरः पित्रादयस् तुष्यन्ति न पुनः स्वरूपेणोद्दिष्टाः यतो न प्रेताः परलोकगताः स्वरूपमात्रेण श्राद्धदेवताभूताः पितरः स्मृता इति । अतः अनेनापि सह आपस्तम्बादिवचनानां न विरोधः । एवं निरूपितं श्राद्धकर्तुः पित्रादीनां देवतात्वं मातृपितामह्यादिसहितानाम् एव न तु केवलानाम् इत्य् आह शातातपः ।

एकमूर्तित्वम् आयाति सपिण्डीकरणे कृते ।
पत्नी पतिपितॄणां तु तत्तदंशेषु भागिनी ॥

एतद् वचनं पित्रादिदैवत्ये श्राद्धे तत्पत्नीनां सहभावेन देवतात्वं बोधयति । ततश् च सपत्नीकाः पितरो देवता इत्य् एषो ऽर्थ उक्तो भवति । एवं च पार्वणादिश्राद्धे पित्रादीनां सपत्नीकानां च तृप्तिर् भवति न पुनः केवलानाम् इति मन्तव्यम् । अत एव बृहस्पतिः ।

स्वेन भ्र्त्रा समं श्राद्धे माता भुङ्क्ते सुधामयम् ।
पितामही च स्वेनैव स्वेनैव प्रपितामही ॥ इति ।

एवम् एव वस्वादिरूपेण मातामहादीनाम् अपि श्राद्धदेवतात्वं तत्पत्नीनां च सहभावेन देवतात्वम् अवगन्तव्यम्, “मातामहानाम् इत्य् एवम्” इति याज्ञवल्क्यादिभिर् उक्तत्वात् । एवं निरूपितश्राद्धदेवतावाहने विशेषः पुराणे दर्शितः ।

अपसव्यं ततः कृत्वा तिलान् आदाय संयतः ।
पितृन् आवाहयामीति पृच्छेद् विप्रान् उदङ्मुखान् ॥
आवाहयेत्य् अनुज्ञात उशन्तस् त्वेत्य् ऋचा पितॄन् ।
ततः क्षिप्त्वापसव्यं च पितॄन् ध्यायन् समाहितः ॥
जपेद् आयन्तु न इति मन्त्रं सम्यग् अशेषतः ॥ इति ।

उशन्तस् त्वेत्य् ऋचा प्तॄन् इत्यादेर् अयम् अर्थः - उशन्तस् त्वेत्य् ऋचा पितृपितामहप्रपितामहान् आवाह्य अनन्तरम् अप्रदक्षिणं पूर्वोपात्तांस् तिलान् “नमो वः पितरः” इति मन्त्रेण शिरःप्रभृति पादान्तं क्षिप्त्वा पितॄन् ध्यायन् “आयन्तु नः” इति मन्त्रं जपेद् इति । तथा प्रचेताः ।

शिरःप्रभृति पादान्तं नमो व इति पैतृके ।

पैतृके कर्मणि “नमो वः पितरः” इति मन्त्रेण शिरःप्रभृति पादान्तम् अप्रदक्षिणं पुष्पतिलादिभिः पूजनं कुर्याद् इत्य् अर्थः । वैजवापेनाप्य् आवाहने विशेषो दर्शितः - “तिष्ठन् पितॄन् आवाहयिष्यामीत्य् आमन्त्र्योशन्तस् त्वेत्य् अनया यजमानस्य पितरं पितामहं प्रपितामहं नामभिर् आवाह्य ऽआयन्तु नः पितरःऽ इति जप्त्वा” इति । नामभिः द्वितीयादिविभक्त्यन्तैः । तथा च श्लोकसङ्ग्रहकारः ।

अक्षय्यासनयोः षष्ठी द्वितीयावाहने तथा ।
अन्नदाने चतुर्थी स्याच् छेषाः संबुद्धयः स्मृताः ॥ इति ।

एतासु षष्ठ्यादिविभक्तिषु सर्वत्र एकवचनबहुवचनयोर् विकल्प एव स्मृतिपुराणगृह्यादिषु पितृपितामहप्रपितामहादिशब्दानां क्वचिद् एकवचनान्ततया क्वचिद् बहुवचनान्ततया च तत्र तत्र प्रअयोगदर्शनात् । एवं चासनदानावाहनयोर् एवं प्रयोगः - प्राचीनावीती उदङ्मुखतया प्रथमोपविष्टविप्रहस्ते जलं निनीय कुशासनयुग्मान् मथ्यभङ्गतो द्विगुणीकृतान् सतिलान् गृहीत्वा दक्षिनामुख आसीनो ऽस्मत्पितुर् वसुरूपस्यामुकगोत्रस्यामुकशर्मणः सपत्नीकस्येदम् आसनम् इति विप्रस्यासनस्य वामभागे पूर्वगृहीतात् सतिलान् कुशान् निक्षिप्य विप्रहस्ते पुनर् जलं निनयेत् । एवम् अनन्तरोपविष्टब्राह्मणहस्ते तदनन्तरोपविष्टब्राह्मणहस्ते च जलनिनयनादि पुनर्जलनिनयनान्तं कुर्यात् । पितामहस्य रुद्ररूपस्य प्रपितामहस्यादित्यरूपस्येति विशेषः । एवम् एव मातामहस्थानस्थविप्रत्रयहस्तेषु जलदानादि कुर्यात् । मातामहस्य वसुरूपस्य मातुः पितामहस्य रुद्ररूपस्य मतुः प्रपितामहस्यादित्यरूपस्येति विसेषः । एवं षट्सु विप्रेषु पदार्थानुसमयेनासनं दत्वानन्तरं प्रतिविप्रं निमन्त्रणं पूर्वप्रकरणोक्तप्रकारेण कुर्यत् । दैवे क्षणः क्रियताम् इत्यादिवाक्यस्थदैवपदस्थाने श्राद्धे इति सप्तम्यन्तपदं षट्सु विप्रेषु प्रयोक्तव्यम् । ॐ तथेत्यादिकं तु पूर्वप्रकरणोक्तप्रकारेणैव प्रयोक्तव्यम् । षष्ठं विप्रं निमन्त्र्याथ तिलान् आदाय प्राचीनावीती दक्षिणाभिमुखस् तिष्ठन्न् अस्मत्पितृपितामहप्रपितामहान् वसुरुद्रादित्यरूपान् आवाहयिष्ये इत्य् उदङ्मुखतयासीनान् ब्राह्मणान् पृष्ट्वा आवाहयेत्य् अनुज्ञातः " उशन्तस् त्वा हवामहे" इत्य् ऋचम् उक्त्वा ऋगन्ते ऽस्मत्पितरं वसुरूपम् अमुकगोत्रम् अमुकशर्माणं सपत्नीकम् अस्मत्पितामहं रुद्ररूपम् अमुकगोत्रम् अमुकशर्माणं सपत्नीकम् आवाहयामीति प्रथमे विप्रे पितरम्, द्वितीय पितामहम्, गृतीये प्रपितामहम्, आवाह्य “नमो वः पितरः” इति मन्त्रेण शिरसि सव्यांसे दक्षिणांसे सव्यजानुनि दक्षिणजानुनि सव्यपादे दक्षिणपादे च प्रतिविप्रं तिलान् आरोप्य प्रथमे विप्रे पितरं वसुरूपं सपत्नीकम्, द्वितीय पितामहं रुद्ररूपं सपत्नीकम्, तृतीये प्रपितामहम् आदित्यरूपं सपत्नीकं ध्यायन् “आयन्तु नः पितरः” इत्यादिकाम् ऋचं सकृज् जपेत् । एवं मातामहाद्यावाहनं कुर्यात् । तत्रायं विशेषः - अस्मन्मात्महमातुःपितामहमातुःप्रपितामहान् वसुरुद्रादित्यरूपान् आवाहिष्ये इति मातामहादिस्थानस्थान् विप्रान् पृच्छेत् । उशन्तस् त्वेति मन्त्रान्ते मातामहं वसुरूपम् अमुकगोत्रम् अमुकशर्माणं सपत्नीकम्, एवं मातुःपितामहं सपत्नीकं रुद्ररूपम् अमुकगोत्रम् अमुकशर्माणम्, एवं मातुःप्रपितामहम् आदित्यरूपम् अमुकगोत्रम् अमुकशर्माणं सपत्नीकम् आवाहयामीति प्रथमे विप्रे मातामहम्, द्वितीये मातुःपितामहम्, तृतीये मातुःप्रपितामहम् आवाह्य प्रतिविप्रम् एकैकं ध्यायन् “आयन्तु नः” इति जपेत् । ऽउशन्तस् त्वा, आयन्तु नः" इति मन्त्रद्वयगतपितृशब्दस्थाने मातामहशब्दः न प्रयोक्तव्यः । “न पिता वर्धते” इति श्रुत्या जनकैकनिष्ठपितृशब्दव्यतिरिक्तपितृशब्दोहप्रतिषेधात् । “आयन्तु नः पितरः” इति जपानन्तरं कर्तव्यम् उक्तं पुराणे ।

जपेद् आयन्तु न इति मन्त्रं सम्यग् अशेषतः ।
रक्षार्थं पितृसत्रस्य त्रिःकृत्वः सर्वतोदिशम् ॥
तिलांस् तु प्रक्षिपेन् मन्त्रैर् उच्चार्यापहता इति ॥

“अपहता असुरा रक्षांसि (?) पिशाचा ये क्षयन्ति पृथिवीम् अनु । अन्यत्रेतो गच्छन्तु यत्रैषां गतं मनः” इति मन्त्रम् उच्चार्य सर्वतोदिशं ब्राह्मणान् परितस् त्रिवारम् अप्रदक्षिणं तिलान् प्रक्षिपेद् इत्य् अर्थः । पितृसत्रं पितृयागः, श्राद्धम् इति यावत् ॥

इति स्मृतिचन्द्रिकायां पैतृकार्चनविधावाहनान्तोपचारविधिः (?)