२१ वैश्वदैविकार्चनविधिः

अथ वैश्वदैविकार्चनविधिः

तत्र याज्ञवल्क्यः ।

यवैर् अन्ववकीर्याथ भाजने सपवित्रके ।
शन् नो देव्या अपः क्षिप्त्वा यवोसीति यवांस् तथा ॥ इति ।

अयम् अर्थः - वैश्वदैविकब्राह्मणयोः पादाद्यङ्गेषु यवान् समारोप्य “विश्वेदेवाः शृणुत” इत्यादिकं जपित्वा अर्घ्यभाजने द्वे उत्ताने निधाय तत्रैकैकस्मिन् भाजने द्विदर्भम् एकैकं पवित्रं प्रागग्रम् उदगग्रं वा निधाय “शन् नो देवीर् अभिष्टये” इत्य् ऋचा प्रतिपात्रं जलं निषिच्य,

यवोऽसि धान्यराज् त्वं वारुणो मुधुसंयुतः (?) ।
निर्णोदः सर्वपापानां पतित्रम् ऋषिभिः कृतम् ॥

इति मन्त्रेण यवान् प्रतिपात्रं प्रक्षिपेत् । तथान्यद् अपि गन्धादिकं क्षिपेद् इति । अत्राद्यपादस्यार्थो मत्स्यपुराणे स्पष्टम् उक्तः ।

विश्वान् देवान् यवैः पुष्पैर् अभ्यर्च्यासनपूर्वकम् ।
पूरयेत् पात्रयुग्मं तु स्थाप्य् दर्भपवित्रके ॥ इति ।

प्रचेतसा त्व् अन्त्यपादत्रयस्यार्थः स्पष्टम् उक्तः ।

एकैकस्यापि विप्रस्य अर्घ्यं पात्रे विनिक्षिपेत् ।
यवोसीति यवान् क्षिप्त्वा गन्धपुष्पैः सुपूजितम् ॥

अर्घ्यम् अर्घ्यार्थं जलम्, तद् एकैकस्य विप्रस्य एकैकस्मिन् पात्रे मन्त्रावृत्त्या विनिक्षिपेत्, तदैव यवान् क्षिप्त्वा गन्धपुष्यैः सुपूजितं कुर्याद् इत्य् अर्थः । अर्घ्यपात्रे विशेषम् आह कात्यायनः - “सौवर्णराजतौदुम्बरखड्गमणिमयानाम् अन्यतमेषु यानि विद्यन्ते पत्रपुटादिषु वा” इति । वैजवापो ऽपि ।

राजतानि प्रशस्तानि पित्र्ये हैमाइ दैविके ।
अपि वा ताम्रपात्राणि दैवे पित्र्ये ऽर्घ्यकर्मणि ॥

उत्तरार्धे ऽपि प्रशस्तानीत्य् अनुषज्यते । राजतानि तु पात्राणि दैवे निन्दितानि, तथा च राजतं पात्रम् अधिकृत्य मत्स्येनोक्तम् ।

शिवनेत्रोद्भवं यस्माद् अतस् तत् पितृवल्लभम् ।
अमङ्गलं तद् यत्नेन देवकार्येषु वर्जितम् ॥

शिवनेत्रोद्भवं शिवनेत्र्रजलप्रभवम्, तथा च श्रुतिः - “सो ऽरोदीद् यद् अरोदीत् तद् रुद्रस्य रुद्रत्वं यद् अश्र्व् अशीयत तद् रजतं हिरण्यम् अभवत्” इति । अमङ्गलं तद् इत्य् अत्राश्रुप्रभवत्वाद् इत्य् अभिप्रायो ऽवसेयः । अर्घ्यपात्रान्तर्धायकपवित्रे प्रत्यर्घ्यपात्रं भेदेन कार्ये इति चतुर्विंशतिमते ऽभिहितम् -

द्वे द्वे शलाके देवानां पात्रे कृत्वा पयः क्षिपेत् । इति ।

दर्भादिषु साग्रेषु शलाकाशब्दो वर्तते । द्वे द्वे इति वीप्सया प्रतिपात्रं द्वे द्वे शलाके निधातव्ये इति दर्शितम् । पवित्रकरणप्रकारम् आह याज्ञवल्क्यः ।

पवित्रे स्थ इति मन्त्रेण द्वे पवित्रे च कारयेत् ।
अनन्तर्गर्भे कुशच्छिन्ने कौशे प्रादेशसंमिते ॥

कुशछिन्ने कुशम् अन्तर्धाय छिन्ने कौशे कुशमये पवित्रे स्थ इति मन्त्रेण “पवित्रे स्थो वष्णवी (?) । वायुर् वां मनसा पुनातु” इति मन्त्रेण । यज्ञपार्श्वो ऽपि ।

ओषधिम् अन्तरे कृत्वाङ्गुष्ठाङ्गुलिवर्वणोः ।
छिन्द्यात् प्रादेशमात्रं तु पवित्रं विष्णुदैवतम् ॥
न नखेन न काष्ठेन न लोहेन न मृन्मयात् ।
नखेन तु भवेद् व्याधिः काष्ठेनार्थो न सिध्यति ॥
आयसेन भवेन् मृत्युः मृन्मये कलहो ध्रुवम् ॥ इति ।

गन्धपुष्पैः सुपूजितकरणान्तरं गार्ग्यः ।

स्वाहेति चैव देवानां होमकर्मण्य् उदाहरेत् ।

होमशब्दो ऽत्र त्यागसद्भावसामान्याद् दाने वर्तते । ततश् चायम् अर्थः - देवानाम् अर्घ्यदानकर्मणि करिष्यमाणतया प्रस्तुते देवेभ्यो ऽर्घ्यं निवेदयितुं स्वाहेत्य् उदाहरेत् । “स्वाहार्घ्यम्” इत्य् उच्चार्य विप्रसमीपे अर्घ्यपात्रं स्थापयेद् इत्य् अर्थः । स्थापनानन्तरं याज्ञवल्क्यः ।

या दिव्या इति मन्त्रेण हस्तेष्व् अर्घ्यं विनिक्षिपेत् । इति ।

“या दिव्या आपस् सुहवा भवन्तु” इति मन्त्रेण मन्त्रान्ते पुरूरवार्द्रवसंज्ञिका विश्वेदेवा इदं वो अर्घ्यम् इत्य् उक्त्वा वैश्वदैविकब्राह्मणस्यैकस्य हस्ते दक्षिणे अर्घ्यपवित्रेणान्तर्हिते एकपात्रस्थम् उदकं कृत्स्नं दद्याद् इत्य् अर्थः,

दत्वा हस्ते पवित्रं तु हस्तेष्व् अर्घ्यं विनिक्षिपेत् ।

इति गार्ग्यस्मरणात् । यद्य् अप्य् अत्रोपक्रमोपसंहारगतवचनयोर् विरोधः प्रतिभाति । तथाप्य् अनुपजातविरोधित्वाद् उपक्रमानुरोधेनैवोपसंहारस्य वर्णनं कार्यम् इति न्यायेन बहुवचनम् अत्र श्लोकसिद्ध्यर्थं प्रयुक्तम् इति वर्णयितव्यम् । एवं च याज्ञवल्क्यवचने ऽपि “हस्तेष्व् अर्घ्यं विनिक्षिपेत्” इत्य् अत्र हस्तेष्व् अपि बहुवचनं श्लोकसिद्ध्यर्थं कृतम्, हस्तस्याधिकरणत्वप्रतिपादनमात्रे तु तात्पर्यम् इति मन्तव्यम् । ब्राह्मणहस्तेष्व् अर्घ्यसेचनानन्तरं याज्ञवल्क्यः ।

दत्वोदकं गन्धमाल्यं धूपदानं सदीपकम् । इति ।

गन्धमाल्यधूपदीपदानानि प्रत्येकमुदकम् आदौ दत्वा कार्याणीत्य् अर्थः । तथा च गौतमः - “भिक्षादानम् अप्पूर्वं ददात्षु चैवम्” (ग्ध् ५।१८–१९) इति । आपः पूर्वं दत्ता यस्माद् भिक्षादानात् तद् अप्पूर्वम्, ददातिषु भिक्षातो वस्त्वन्तरदानेष्व् अप्य् एवम् अप्पूर्वं दानं कार्यम् । वैश्वदैविकदानेषु समर्पणाय प्रयोक्तव्या मन्त्रा ब्रह्मपुराणे दर्शितः ।

इदं वः पाद्यम् अर्घ्यं च पुष्पदानविलेपनम् ।
अयं दीपप्रकाशश् च विश्वेदेवाः समर्प्यते ॥ इति ।

विशेवेदेवा इदं वः पाद्यं विश्वे देवा इदं वो अर्घ्यं इति नपुंसकलिङ्गनिर्देशेन पाद्यादिकम्, विश्वे देवा एष वो धूपः विश्वे देवा अयं वो दीपप्रकाशे इति पुल्लिङ्गनिर्देशेन धूपादिः समर्प्यते विश्वेभ्यो देवेभ्यः समर्पणीयम् इत्य् अर्थः । गन्धदानादाव् एवं प्रयोगः - ब्राह्मणहस्ते उदकं निनीय पुरूरवार्द्रवसंज्ञका विश्वेदेवा अयं वो गन्ध इति गन्धं ब्राह्मणहस्ते दद्यात् । पूर्ववद् उदकं निनीय पुरूरवार्द्रवसंज्ञकविश्वेदेवा इदं वो माल्यं इति माल्यं दद्यात् । पूर्ववद् उदकं निनीय पूर्ववत् तेषां नाम गृहीत्वा अयं वो धूम इति धूपार्पणम्, पूर्ववद् उदकं निनीय देवतानाम गृहीत्वा अयं वो दीप इति दीपार्पणम्, पुनर् आपो दत्वा नाम गृहीत्वा इदं व आच्छदनम् इति वस्त्रतन्मूल्ययज्ञोपवीतेषु यथालाभम् एकं दद्यात् । अर्चनं सर्वं संपूर्णम् अस्त्व् इति कर्ता ब्रूयात् । अस्तु संपूर्णम् इति विप्रो ब्रूयात् । संकल्पसिद्धिर् अस्त्व् इति भवन्तो ब्रुवन्त्व् इति कर्ता ब्रूयात् । अस्तु संकल्पसिद्धिर् इति भवन्तो ब्रूयात् । आसनादौ सर्वत्र स्वासनं स्वर्घ्यं सुगन्धः सुमाल्यं सुधूपः सुदीपः स्वाच्छादनम् इति विप्रो ब्रूयात् । एतत् सर्वं गद्यसंग्रहकारेणोक्तम् । देवपित्रर्चनार्थं यानि गन्धपुष्पधूपदीपाच्छादनान्य् उपादेयानि वर्ज्यानि च यानि प्रागुपकल्प्यद्रव्यकथनावसरे कथितानीतीह नोक्तानि । तेनोपकल्प्यद्रव्यकथनावसरोक्तणीहोपदेयानि ॥

इति स्मृतिचन्द्रिकायां वैस्वदैविकार्चनविधिः