२० अवान्तर-संकल्पादि-कृत्यम्

अथावान्तर-संकल्पादि-कृत्यम्

तत्र पुराणम् ।

श्राद्धभूमौ गयां ध्यात्वा ध्यात्वा देवं गदाधरम् ।
ताभ्यां चैव नमस्कृत्य ततः श्राद्धं प्रवर्तयेत् ॥

श्राद्धावान्तरसंकल्पं कुर्याद् इत्य् अर्थः । अत्रावान्तरसंकल्पः उपविष्टब्राह्मणानुज्ञालाभार्थम्, तथा च तत्रैवोक्तम् ।

उभौ हस्तौ समौ कृत्वा जानुभ्याम् अन्तरे स्थितौ ।
सप्रश्रयश् चोपविष्टान् सर्वान् पृच्छेत् द्विजोत्तमान् ॥

नमस्काराञ्जलिकरणाद् उभौ हस्तौ समौ जान्वोर् अन्तरे यथा स्थितौ स्यातां तथा कृत्वा सप्रश्रयः नमस्काराञ्जलिबन्धनादिविनयसंपन्नो निमन्त्रितान् उपविष्टान् द्विजोत्तमान् सर्वान् पृच्छेद् इत्य् अन्वयः । कथं पृच्छेत् कथं च तैर् उत्तरं देयम् इत्य् अपेक्षिते तत्रैवोक्तम् ।

श्राद्धं करिष्ये इत्य् एवं पृच्छेद् विप्रान् समाहितः ।
कुरुष्वेति च तैर् उक्तो दद्याद् दर्भासनं तदा ॥ इति ।

दर्भासनदानात् पूर्वम् “देवताभ्यः पितृभ्यश् च” इति मन्त्रः त्रिर् आवर्तनीयः । तथा च ब्रह्माण्डपुराणे ।

एवताभ्यः पितृभ्यश् च तथा योगिभ्य एव च ।
नमः स्वधायै स्वाहायै नित्यम् एव भवत्व् इति ॥
आद्यासने तु श्राद्धस्य त्रिर् आवृत्तं जपेत् सदा ।
पठ्यमानम् इदं श्रुत्वा श्राद्धकाल उपस्थिते ॥
पितरः क्षिप्रम् आयान्ति राक्षसाः प्रद्रवन्ति च ॥

चशब्दाद् असुराः पिशाचाः प्रद्रवन्तीति सूचितम् । राक्षसादीनाम् अपनुत्तये कर्तव्यान्तरम् आह निगमः - “अपहता इति तिलान् विकिरेत्” इति ।

अपहता असुरा रक्षांसि पिशाचा ये क्षयन्ति पृथिवीम् अनु ।
अन्यत्रेतो गच्छन्तु यत् त्रैषां (?) गतं मनः ॥

इति मन्त्रलिङ्गाद् असुरादीनाम् अपहत्यर्थम् अनेन मन्त्रेण तिलविकिरणं कर्तव्यम् इति गम्यते । श्राद्धे दैवपूर्वकं सर्वम् अनुष्ठानं राक्षसाद्यपनुत्तये कर्तव्यम् इत्य् आह क्रतुः ।

सदैवं भोजयेच् छ्राद्धं तत्पूर्वं च प्रवर्तयेत् ।
अन्यथा ह्य् अवलुम्पन्ति सदैवासुरराक्षसाः ॥

सदैवं श्राद्धं वैश्वदैविककर्मोपेतम् । सदैव सर्वदैव । मनुर् अपि ।

देवकार्याद् द्विजातीनां पितृकार्यं विशिष्यते ।
दैवं हिअ पितृकार्यस्य पूर्वम् आप्यायनं स्मृतम् ॥
तेषाम् आरक्षभूतं तु दैवं पूर्वं नियोजयेत् ।
रक्षांसि विप्रलुम्पन्ति श्राद्धम् आरक्षवर्जितम् ॥ इति ।

देवकार्यात् पितृकार्यं विशिष्यते, देवकार्यस्याङ्गत्वात् पितृकार्यस्य प्रधानत्वाद् इत्य् अभिप्रायः । पूरम् आप्यायनं दैवं कर्म पूर्वानुष्ठेयं पितृकार्यस्योपबृंहकम् उपकारि तदङ्गम् इति यावत् । एवं च कुरुष्वेत्य् अनुज्ञानन्तरं “देवताभ्यः पितृभ्यश् च” इति मन्त्रम् उक्त्वा “अपहताः” इति मन्त्रेण श्राद्धभूमौ तिलान् विकीर्य प्रथमं (?) वैश्वदैविकब्राह्मणासनार्थं दर्भासनं दद्याद् इत्य् अनुष्ठानक्रमो वेदितव्यः । दर्भासनदानं च ब्राह्मनहस्ते अप आसिच्य कार्यम्,

पाणिप्रक्षालनं दत्वा विष्टरार्थान् कुशान् अपि ।
आवाहयेद् अनुज्ञातो विश्वे देवास इत्य् ऋचा ॥

इति याज्ञवल्क्यस्मरणात् । विष्टरार्थान् कुशान् आसनार्थान् कुशान् । यद्य् अपि पाणिप्रक्षालनार्थम् उदकं ब्राह्मणहस्ते दत्वा विष्टरार्थान् कुशान् अपि तत्रैव दत्वा आवाहयेद् इति शब्दबलात् प्रतिभाति । तथापि विष्टरार्थान् कुशान् आसने दत्वेति विष्टरार्थपदसामर्थ्याद् अर्थः प्रत्येतव्यः । अत एव प्रचेताः ।

दर्भांश् चैवासने दद्यान् न तु पाणौ कदाचन । इति ।

यत् तु तेनोक्तम्,

देवानाम् ऋजवो दर्भाः प्रदातव्याः पृथक् पृथक् ।
धर्मो ऽसीत्य् अथ मन्त्रेण गृह्णीयुस् ते तु तान् कुशान् ॥ इति ।

तस्यायम् अर्थः - पूर्वोपकॢप्तासनेषूपविष्टा आसनान्तरान् आकाङ्क्षा अपि धर्मो ऽसीति मन्त्रम् उच्चार्य तान् कुशान् अप्य् आसनार्थतया मनसा स्वीकुर्युः, न तु पाणिनेति । अतो न पूर्वापरविरोधः । देवस्वामिनाप्य् अविरोधार्थम् एवम् उक्तम् - “पाणौ धर्मदानप्रतिषेध आसनास्तर्णार्थदर्भविषयः, मन्त्रेण ग्रहणविधानसामर्थ्याद् याज्ञवल्क्यवचनाच् च विष्टरार्था दर्भाः पाणाव् एव देयाः” इति, तद् अयुक्तम्, आसनास्तरणार्थदर्भाणाम् आसने प्रक्षेप्तव्यानां हस्ते दानाप्रसक्तेस् तत्र प्रतिषेधानवकाशात्,

आसने चासनं दद्याद् वामे वा दक्षिणे ऽपि वा ।

इति विष्टरार्थदर्भाणाम् आसने निधानविधायकादिपुराणवचनविरुद्धत्वाच् च । अत्र वाम इति पित्रर्थब्राह्मणासनदानविषयम् । दक्षिणम् इति देवार्थब्राह्मणासनदानविषयम् । तथा चानन्तरम् उक्तं तत्रैव ।

पितृकर्मणि वामे वै दैवकर्मणि दक्षिणे । इति ।

वामे आसनस्य वामभागे । दक्षिणे दक्षिणभागे । दौविककर्मणि यवसहितं दर्भासनं दद्यात्, “देवानां सयवा दर्भाः” इति काठके ऽभिधानात् । आसनस्य दक्षिणे भागे पुरूरवार्द्रवसंज्ञकानां विश्वेषां देवानाम् इदम् आसनम् इति दर्भासनं दद्यात् । तथा च श्लोकसंग्रहकारः ।

अक्षय्यासनयोः षष्ठी द्वितीयावाहने स्मृता ।
अन्नदाने चतुर्थी स्यात् शेषाः संबुद्धयः स्मृताः ॥ इति ।

दर्भासनदानानन्तरं गद्यसंग्रहकारः - “ततः पुनर् अपो दत्वा दैवे क्षणः क्रियताम् इति कर्ता, ॐ तथेति विप्रो ब्रूयात् । प्राप्नोतु भवान् इति कर्ता पुनर् ब्रूयात् । प्राप्नवानीति विप्रः पुनर् ब्रूयाद् इति । एतत् तु निमन्त्रणं ब्राह्मणहस्तम् अङ्गुष्ठव्यतिरिक्तं गृहीत्वा कर्तव्यम्,

निरङ्गुष्ठं गृहीत्वा तु विश्वान् देवान् समाह्वयेत् ।

इति पुराणे ऽभिधानात् । निरङ्गुष्ठं गृहीत्वा निमन्त्रणे कृते सत्य् अनन्तरं विश्वान् देवान् समाह्वयेद् इत्य् अर्थः । आवाहनप्रकारम् आह यमः ।

यवहस्तस् ततो देवान् विज्ञाप्यावाहनं प्रति ।
आवाहयेद् अनुज्ञातो विश्वेदेवास इत्य् ऋचा ॥
विश्वेदेवाः शृणुतेमं मन्त्रं जप्त्वा ततो ऽक्षतान् ।
ओषधय इति मन्त्रेण विकिरेत् तु प्रदक्षिणम् ॥ इति ।

श्राद्धकर्ता गृहीतयवः पुरूरवार्द्रवसंज्ञकान् विश्वान् देवान् आवाहयिष्यामीति विशेषनाम्ना सामान्यनाम्ना च देवानाम् आवाहनं वैश्वदेवब्राह्मणेभ्यो विज्ञाप्य तैर् आवहयेत्य् अनुज्ञातो “विश्वेदेवस आगत” इत्य् अनया ऋचा विश्वान् देवान् ब्राह्मणेष्व् आवाह्य यवान् ब्राह्मणस्य दक्षिणपदे सव्यपादे दक्षिणजानुनि सव्यजानुनि दक्षिणे ऽंसे सव्ये ऽंसे शिरसि च समारोप्य ब्राह्मणेषु विश्वान् देवान् आगतान् ध्यात्वा “विश्वे देवाः शृणुत” इति मन्त्रं जपित्वा प्रदक्षिणं दक्षिणपादादिमस्तकान्तम् “ओषधयः प्रतिमोदध्वम्” इति मन्त्रेणाक्षतान् विकिरेत् आरोपयेद् इत्य् अर्थः । एवम् उक्तो यवाक्षतारोपप्रकारः प्रचेतसा पुष्पारोपणम् उदाहृत्य दर्शितम् ।

पादप्रभृति मूर्धान्तं देवानां पुष्पपूजनम् । इति ।

अनुज्ञापनानुज्ञानप्रकारः कात्यायनेन सामान्यनाम्ना दर्शितः - “विश्वान् देवान् आवाहयिष्यामीति पृच्छत्य् आवाहयेत्य् अनुजानाति” इति । विशेषनाम्नानुज्ञापनप्रकारस् तु “पुरूरवार्द्रवसंज्ञकान्” इत्य् एवंरूपः स्वयम् ऊह्यः ।

क्रतुर् दक्षो वौस्ः सत्यः कालः कामस् तथैव च ।
धुरिश् च रोचनश् चैव तथा चैव पुरूरवः ॥
आर्द्रवश् च दशैते तु विश्वे देवाः प्रकीर्तिताः ॥

श्राद्धेषु विभज्येति शेषः । तथा च शङ्खः ।

इष्टिश्राद्धे क्रतुर् दक्षः संकीर्त्यौ वैश्वदैविके ।
नान्दीमुखे सत्यवसू काम्ये तु धुरिलोचनौ ॥
पुरूरवार्द्रवौ चैवे पार्वणे समुदाहृतौ ।
नैमित्त्के कालकामाव् एवं सर्वत्र कीर्तयेत् ॥ इति ।

इष्टिश्राद्धं यागादिकर्माङ्गम्, श्रौतस्मार्तकर्मणाम् आधानसोमयागपुंसवनसीमन्तादीनाम् आदौ तदङ्गत्वेनानुष्ठीयमानं श्राद्धम् इति यावत् ।

निषेककाले सोमे च सीमन्तोन्नयने तथा ।
ज्ञेयं पुंसवने श्राद्धं कर्माङ्गं वृद्धिवत् कृतम् ॥

इति कर्माङ्गश्राद्धलक्षणम् अभिदधता पारस्करेणैव वृद्धिवत् कृतम् इत्य् अभिधानात् कर्माङ्गश्राद्धं वृद्धिश्राद्धाद् अन्यद् इति दर्सितम् । नान्दीमुखं नान्दीमुखसंज्ञकपितृदेवताकं वृद्धिस्राद्धम् इति यावत्,

एवं प्रदक्षिणीकृत्य वृद्धौ नान्दीमुखान् पितॄन् ।
यजेत ॥॥॥॥॥॥॥॥॥॥॥॥। ॥

इति याज्ञवल्क्येन वृद्धिस्राद्धे नान्दीमुखसंज्ञकपितॄणां देवतात्वेन विधानात् । वृद्धिश्राद्धं च वृद्धवसिष्ठेन निरूपितम् ।

पुत्रजन्मविवाहादौ वृद्धिश्राद्धम् उदाहृतम् । इति ।

पुत्रजन्मविवाहादौ क्रियमाणम् आभ्युदयिकं श्राद्धं वृद्धिश्राद्धम् इति व्यपदिश्यत इत्य् अर्थः । आदिशब्देन गर्भाधानपुंसवनसीमन्तव्यतिरिक्तानाम् अन्नप्राशनचूडाकरणादिसंस्कारकर्मणां संग्रहणम्, गर्भाधानपुंसवनसीमन्तेषु क्रियमाणाभ्युदयिकश्राद्धस्य कर्माङ्गश्राद्धकोटिप्रविष्टत्वात् । काम्यं फलकामनयानुष्ठेयं महलयादिश्राद्धम्,

पुत्रान् आयुस् तथारोग्यम् औश्वर्यम् अतुलं तथा ।
प्राप्नोति पञ्चमे दत्वा श्राद्धं कामांश् च पुष्कलान् ॥

इति पञ्चमपक्षे कन्यागते सूर्ये महालयाख्यश्राद्धस्य पुत्रादिकाम्यफलसाधकत्वस्मरणात् । पार्वणश्राद्धं सर्वश्राद्धप्रकृतिभूतम् अमावास्याश्राद्धम् । तथा च शातातपः ।

दर्शश्राद्धं तु यत् प्रोक्तं पार्वणं तत् पर्कीर्तितम् । इति ।
एकोद्दिष्टं तु यच् छ्राद्धं तन् नैमित्तिकम् उच्यते ।

इतिवचनान् नैमित्तिकपदेनात्रैकोद्दिष्टश्राद्धम् उक्तम् इति यद्य् अपि प्रतिभाति, तथापि तद्वचनोत्तरार्धे,

तद् अप्य् अदैवं कर्तव्यम् अयुग्मान् आशयेद् द्विजान् ।

इति पूर्वार्धोक्तैकोद्दिष्टश्राद्धे वैश्वदैविकनिषेधेन तत्र कालकामसंज्ञया विश्वेषां देवानां निर्देशः कार्य इति विध्यसंभवात् योगरूढ्या प्रतीयमानम् एकोद्दिष्टं हित्वा निमित्ते भवं नैमित्तिकम् इति योगम् आश्रित्य नैमित्तिकपदेन नवान्नलाभादिनिमित्ते सति पितृभ्यो भक्त्या क्रियमाणं श्राद्धम् उक्तम् इत्य् अवगन्तव्यम् । अथ वा, नैमित्तिकपदेनैकोद्दिष्टाभिधायकेन सपिण्डीकरणं लक्षणया निर्दिश्यते, सपिण्डीकरणे एकोद्दिष्टस्यापि सद्भावात् । एवं च, सपिण्डीकरणे विश्वेषां देवानाम् आवाहनार्थं कालकामसंज्ञया निर्देशः कार्यः । “एवं सर्वत्र कीर्तयेत्” एवम् उक्तरीत्या सर्वश्राद्धेषु नामग्रहणस्थाने कीर्तयेद् इत्य् अर्थः । आदिपुराणे विशेषनामानि दर्शितानि ।

विश्वेदेवौ क्रतुर् दक्षः सर्वास्व् इष्टिषु कीर्तितौ ।
नित्यं नान्दीमुखश्राद्धे वसुसत्यौ च पैतृके ॥
नवान्नलम्भने देवौ कालकामौ सदैव हि ।
अपि कन्यागते सूर्ये श्राद्धे च धुरिलोचनौ ॥
पुरूरवार्द्रवौ चैव विश्वेदेवौ च पार्वणे ॥ इति ।

सर्वास्व् इष्टिषु सर्वेषु कर्माङ्गश्राद्धेषु नवान्नलम्भने पैतृके नवन्नलाभरूपनिमित्ते सति, नवान्नभोजनोपक्रमात् पूर्वं पितृभक्त्या नवान्नेन क्रियमाणश्राद्धवत् । तच् च निमित्ताधिकारेण क्रियमाणानां विश्वेदेवसमन्वितानां श्राद्धानाम् उपलक्षणार्थम् । कन्यागते सूर्ये श्राद्धे पुत्रादिफलकामनया क्रियमाणमहालयाख्य इत्य् अर्थः । एवं च सर्वकाम्यश्राद्धोपलक्षणतयोक्तम् । पार्वणे अमावास्यायां क्रियमाणे पार्वणश्राद्धे इति । क्रतुदक्षसत्यादीनां च दक्षप्रजापतेर् दुहितरि विश्वाख्यायां लोकविश्रुतायाम् उत्पत्तिः समभूद् इत्य् उत्पत्तिम् अपि ज्ञात्वा आवाहनं कार्यम् । अत एवैषाम् उत्पत्तिः पुराणे ऽभिहिता ।

दक्षस्य दुहिता साध्वी विश्वा नाम परिश्रुता ।
तस्याः पुत्रा महात्मानो विश्वे देवा इति श्रुताः ॥

एवम् उक्तोत्पत्तिर् आवाहनसमये ज्ञातव्येत्य् अभिप्रायः । अत एव क्रतुदक्षादिसंज्ञां दक्षदुहितुर् उत्पत्तिं च ये न विदुः तेषाम् अनुकल्पम् आह शङ्खः ।

नाम चैव तथोत्पत्तिं न विदुर् ये द्विजातयः ।
श्लोकम् एतं पठेयुस् ते ब्राह्मणानां समीपगाः ॥
आगच्छन्तु महाभागा विश्वेदेवा महाबलाः ।
ये ह्य् अत्र विहिताः श्राद्धे सावधाना भवन्तु ते ॥ इति ।

आगच्छन्तु महाभागा इति मन्त्रं वैश्वदैविकब्राह्मणसमीपस्थाः “विश्वे देवाः शृणुतेमम्” इति मन्त्रजपानन्तरं जपेयुर् इत्य् अर्थः । तथा च पुराणम् ।

तथा मन्त्रं जपेन् मौनी विश्वेदेवास आगत ।
विश्वेदेवाः शृणुतेति द्वितीयं तदनन्तरम् ॥
तृतीयं तु जपेन् मन्त्रम् आगच्छन्त्व् इत्य् अतः परम् ॥ इति ।

विश्वेदेवास इत्य् अनया ऋचा प्रथमम् आवाह्य तदनन्तरं विश्वेदेवाः शृणुतेति मन्त्रं जपेद् इत्य् अन्वयः । यद्य् अपि कर्माङ्गश्राद्धादिषु न क्वापि दश विश्वेदेवा देवतात्वेन स्मृतिपुराणाभ्याम् अभिहिताः, किं तु द्वै द्वाव् एकैकस्मिन् श्राद्धे देवतात्वेनोक्तो (?) । तथाप्य् आवाहनादौ पुरूरवार्द्रवसंज्ञकान् विश्वान् देवान् आवाहयिष्यामीत्य् एवं बहुवचनान्ततयैव प्रयोगः कार्यः “विश्वान् देवान् आवाहयिष्यामीति निरङ्गुष्ठं गृहीत्वा विश्वान् देवान् समाह्वयेत्” इत्यादिस्मृतिपुराणेषु बहुवचनान्ततयैव प्रयोगदर्शनात् । यथा एकस्मिन् पितरि पितामहे प्रपितामहे वा आवाहनादिसर्वोपचारेषु पितरः पितामहाः प्रपितामहा इदं व आसनम् इत्यादिबहुवचनान्तो ऽपि प्रयोग पूजार्थं यथा नानुपपन्नः तथा द्वयोर् अपि पूजार्थं बहुवचनान्तप्रयोगो युक्त एव । वैश्वदैविकब्राह्मणानाम् एकत्वे ऽपि न प्रतिब्राह्मणम् आवाहनावृत्तिः, सकृदावाहनेनैवानेकब्राह्मणाधिष्ठानदेवताध्याससंभवात् । आवाहनाद् ऊर्ध्वं तु प्रतिब्राह्मणं देवताध्यासात् ब्राह्मणभेदे सति तदुपाधितो देवताया अपि भेदो भवति, तेनावाहनोत्तरकाले यद् यद् देवताराधनं क्रियते यवारोपणादि संनिपत्योपकारकं तत्पुरोडाशप्रदानादिवत् प्रतिब्राह्मणम् आवर्तनीयम्, संनिपत्योपकारकेष्व् आवृत्तिं विना ब्राह्मणान्तरे कार्यासिद्धेः । “विश्वेदेवाः शृणुतेमम्” इति मन्त्रजपस् त्व् आवाहनोत्तरकाले क्रियमाणो ऽपि नावर्तते, सकृज् जपेनैव जपसाध्यादृष्टसिद्धेः ॥

इति स्मृतिचन्द्रिकायाम् अवान्तरसंकल्पादिवैश्वदैविकावाहनान्तकृत्यम्