१९ श्राद्धदिनापराह्णकृत्यम्

अथ श्राद्धदिनापराह्णकृत्यम्

तत्र मार्कण्डेयः ।

स्नातः स्नातान् समाहूतान् स्वागतेनार्चयेत् पृथक् । इति ।

स्नातान् द्विजान् प्रेष्यैः समाहूतान् अपराह्णे स्वगृहम् आगतान् स्वागतेनार्चयेत् पृथक् उत्थाय कृताञ्जलिः पृथक् पृथक् स्वागतम् इति ब्रूयाद् इत्य् अर्थः । तथा च शङ्खः - “प्रयतो ऽपराह्णे शुचिः शुक्लवासा दर्भहस्तः स्वागतम् इति ब्रूयात्” इति । प्रयतः शुचिर् इति पदद्वयं बाह्याभ्यन्तररूपद्विविधशुद्धियुक्तो यथा स्याद् इत्य् एवमर्थम् । अपराह्णशब्दो ऽत्र द्वेधा विभक्तस्याह्न आवर्तनाद् उपरितनभागे प्रयुक्तः, एवंभूत एवापराह्णः श्राद्धविषये ग्राह्य इत्य् अपराह्णनिर्णये प्राग् एव समर्थितत्वात् । अत्रापि शयाह्नव्यतिरिक्तापराह्णो ग्राह्यः,

ऊर्ध्वं मुहूर्तात् कुतपात् यन् मुहूर्तचतुष्टयम् ।
मुहूर्तपञ्चकं ह्य् एतत् स्वधाभवनम् इष्यते ॥

इति स्मृत्यन्त्रानुरोधात् । सुस्वागतम् इति ब्राह्मणैः प्रतिवचनं कर्तव्यम्, प्रश्नस्योत्तरापेक्षितत्वात् । यमो ऽपि ।

ततः स्नात्वा निवृत्तेभ्यः प्रत्युत्थाय कृताञ्जलिः ।
पाद्यम् आचमनीयं च संप्रयच्छेद् यथाक्रमम् ॥
प्रत्युत्थाय कृताञ्जलिः स्वागतम् इत्य् उक्त्वा मार्गभवोपहतिशुद्ध्यर्थं पादप्रक्षालणार्थम् उदकम् आचमनार्थम् उदकं च क्रमेण प्रयच्छेद् इत्य् अर्थः । तत ऊर्ध्वं यद् यत् पित्र्यम् अनुष्ठीयते तत् तद् अदक्षिणं प्राचीनावीतिना चाश्राद्धसमाप्तेर् अनुष्ठेयम् । तथा च मनुः ।

प्राचीनावीतिना सर्वम् अपसव्यम् अतन्द्रिणा ।
पित्र्यम् आ निधनात् कार्यं विधिवद् धर्भपाणिना ॥

अपसव्यम् अप्रदक्षिणम् आ निधनाद् आ श्राद्धसमाप्तेः । पित्र्यग्रहणाद् अपित्र्ये वैश्वदैविके कर्मणि यज्ञोपवीतिना प्रदक्षिणं च सर्वं कार्यम् इति द्योतितम् । स्वागतप्रत्युत्थानादौ तु यज्ञोपवीतिना कार्यम् इत्यादि सामान्यधर्म एव, तेषां श्रेष्ठोपचारत्वेन श्राद्धाङ्गत्वाभावात् । ब्रह्माण्डपुराणे ऽपि दैविके पैतृके च विशेष उक्तः।

उदङ्मुखस् तु देवानां पितॄणां दक्षिणामुखः ।
प्रदद्यात् पार्वणश्राद्धे दैवपूर्वं विधानतः ॥ इति ।

कात्यायनो ऽपि विशेषम् आह ।

दक्षिणं पातयेज् जानुं देवान् परिचरन् सदा ।
पातयेद् इतरं जानुं पितॄन् परिचरन् सदा ॥

बोधायनो ऽपि ।

प्रदक्षिणं तु देवानां पितॄणाम् अप्रदक्षिणम् ।
देवानाम् ऋजवो दर्भाः पितॄणां द्विगुणास् तथा ॥

द्विगुणाः मध्यभङ्गेन द्विगुणीकृत्येत्य् अर्थः । तथा च शौनकः - “दर्भान् द्विगुणभ् (?) उग्रान् आसनं प्रदापयेत्” इति । आसनग्रहणं दर्भसाध्यपितृकर्मोपलक्षणार्थम् । दैवे पित्र्ये च साधारणधर्माः ब्रह्माण्डपुराणे दर्शिताः ।

नाप्रोक्षितं स्पृशेत् किंचिद् दैवे पित्र्ये तथा पुनः ।
उच्चावचाः श्राद्धधर्माः साधारण्यात् प्रकीर्तिताः ॥

उच्चावचा अनेकप्रकाराः श्राद्धदेशसंस्कारगोमयानुलेपनपरिश्रयणादयः । समागतब्राह्मणेष्व् आचमनार्थवारिसमर्पणानन्तरं यत् कर्तव्यं तद् आह शङ्खः ।

संमार्जितोपलिप्ते तु द्वारि कुर्वीत मण्डलम् । इति ।

द्वारि द्वारसमीपे गृहस्याङ्गणप्रदेश इति यावत् । तथा च मत्स्यपुराणे ।

॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥। भवनास्याग्रतो भुवि ।
गोमयेनोपलिप्तायां गोमूत्रेण तु मण्डलम् ॥ इति ।

कर्तव्यम् इति शेषः । गोमूत्रेण गोमयसहितेन । केवलेन वक्ष्यमाणोदक्प्रवणादिसिद्ध्यसंभवात् । गोमयसहितेन कथं कर्तव्यम् इत्य् अपेक्षिते शङ्खः ।

उदक्प्लवम् उदीच्यं स्यात् दक्षिणं दक्षिणप्लवम् । इति ।

उदीच्यं मण्डलम् उदक्प्लवम् उदक्प्रवणम् । दक्षिणं मण्डलं दक्षिणप्लवं दक्षिणाप्रवणं यथा भवति तथोक्तक्रमेण कर्तव्यम् इत्य् अर्थः । मण्डलकरणानन्तरं कर्तव्यम् आह स एव ।

उत्तरे ऽक्षतसंयुक्तान् पूर्वाग्रान् विन्यसेत् कुशान् ।
दक्षिणे दक्षिणाग्रांस् तु सतिलान् विन्यसेद् द्विजः ॥ इति ।

अत्राप्य् उक्तक्रमेण कर्तव्यम् । अक्षतग्रहणं तु पुष्पाणाम् अपि प्रदर्शनार्थम् । अत एव मत्स्यपुराणे ।

अक्षताभिः सपुष्पाभिस् तद् अभ्यर्च्यापसव्यवत् ।
विप्राणां क्षालयेत् पादाव् अभिवन्द्य पुनः पुनः ॥

अपसव्यवत् प्रदक्षिणम्, उदीच्यमण्डले प्रथमं पुष्पाक्षताभिर् अर्चनं पश्चाद् दक्षिणमण्डल इति यावत् । मण्डलकरणं कुशादिन्यसनं पादप्रक्षालनं च पदार्थानुसमयेन कार्यम्, न तु काण्डानुसमयेन । पदार्थानुसमये हिस् सर्वपदार्थानां प्रधानप्रत्यासत्तिर् अवैषम्येण भवति, न काण्डानुसमये । तेन पदार्थानुसमयेनानुष्ठानम् उत्सर्गसिद्धं भवति । वचनबलात् क्वचित् काण्डानुसमयेनानुष्ठानम् उपरिष्टाद् वक्ष्यते । पादप्रक्षालणे विशेषो ब्रह्मसिद्धान्तनिरुक्ते दर्शितः ।

पाद्यं चैव तथैवाघ्यं दैव आदौ प्रयोजयेत् ।
शं नो देवीति मन्त्रेण पाद्यं चैव प्रदापयेत् ॥

पाद्यार्घ्ययोर् दैवपूर्वकत्वाभिधानं निमन्त्रणादीनां सर्वानुष्ठेयानां प्रदर्शनार्थम् । “शं नो देवी” इति मन्त्रान्ते पुरूरवार्द्रवसंज्ञिका विश्वेदेवा इदं वः पाद्यम् इत्य् उक्त्वा वैश्वदैविकब्राह्मणपादयोः पाद्योदकं प्रक्षिप्य तत्पादप्रक्षालनं कुर्यात् । एवं पित्रर्थब्राह्मणपादप्रक्षालनं “शं नो देवी” इति मन्त्रान्ते पितरम् उक्तगोत्र देवदत्तशर्मन्न् इदं ते पाद्यं पितामहाम् उक्तगोत्र यज्ञदत्तशर्मन्न् इदं ते पाद्यं प्रतिपितामहाम् उक्तगोत्र विष्णुमित्रशर्मन्न् इदं ते पाद्यम् इति तु विशेषः । पाद्यादिसमर्पणे पितॄणां गोत्रं नाम च वक्तवम्,

नाम गोत्रं पितॄणां तु प्रापकं हव्यकव्ययोः ।

इति मत्सेनाभिधानात् । हव्यकव्यग्रहणं समर्प्याणां पाद्यादीनाम् अपि प्रदर्शनार्थम् । अत एव अश्वलायेनार्घ्यसमर्पणे “पितर् इदं ते अर्घ्यं पितामहेदं ते अर्घ्यं प्रपितामहेदं ते अर्घ्यम्” इत्य् उक्तम् । एवं पादप्रक्षालनं स्वयम् एव कुर्यात्,

पादप्रक्षालनं कुर्यात् स्वयम् एव विनीतवत् ।

इति यमस्मरणात् । पादप्रक्षालनानन्तरं कर्तव्यम् आह क्रतुः ।

दर्भपाणिर् द्विर् आचम्य लघुवासा जितेन्द्रियः ।
परिश्रिते शुचौ देशे गोमयेनोपलेपिते ॥
दक्षिणाप्रवणे सम्यग् आचान्तान् प्रयतान् शुचीन् ।
आसनेषु सदर्भेषु विविकेषूपवेशयेत् ॥ इति ।

विविक्तेषु परस्परम् असंस्पृष्टेषु देशेषु । उपवेशने क्रमम् आह विष्णुः - “विप्रान् स्वागतान् स्वाचान्तान् यथाभूयोविद्यं कुशोत्तरेष्व् आसनेषूपवेशयेत्” इति । आसनेषु कम्बलपीढादिषु (?) कुशोत्तरेषु पूर्वम् एवोपरिनिहितकुशेषु यथाभूयोविद्यं विद्यातारतम्यानुसारेण वैश्वदेवब्राह्मणपङ्क्तौ च प्रथमद्वितीयानुसारेणोपवेशयेद् इत्य् अर्थः । पूर्वोपकॢप्तेष्व् असत्सु स्मृत्यन्तरे ऽभिहितम् ।

तत्रासनानि देयानि तिलाश् चैव कुशैः (?) सह ।
पृथक् पृथग् आसनेषु तिलतैलेन दीपिकाः ॥ इति ।

स्थापनीया इति शेषः । तत्र श्राद्धदेशे दीपिकास्थापनानन्तरं भोजनपात्रस्थापनस्थानेषु नीवारादिपिष्टैश् चतुरश्राणि मण्डलानि कुर्यात् । तथा च तत्रैव ।

मण्डलानि तु कार्याणि नीवारैश् चणकैः शुभैः ।
गौरमृत्तिकया वाथ प्रणीतेनाथ भस्मना ॥

प्रणीतेन मण्डलार्थं शुभचूर्णतया निर्मितेन । पाषाणचूर्णेन तु न मण्डलानि कार्याणि,

पाषाणचूर्णसंकीर्णम् आहृतं तत्र वर्जयेत् ।

इति तत्रैवाभिधानात् । आहृतम् आपादितम् इत्य् अर्थः । मण्डलकरणानन्तरं विप्रान् आसनेषु पूर्वोक्तप्रकारेणोपवेशयेत् । एतद् अपि तत्रैवानन्तरम् उक्तम् ।

पाणिपादमुखार्द्राश् च स्वाचान्ताः सुसमाहिताः ।
तेष्व् आसनेषु संस्थाप्याः विप्रास् तेन क्रमेण तु ॥

येन क्रमेणोपवेशने (?) कृते मान्यानतिक्रमः तेन क्रमेणेत्य् अर्थः । अत एव पैठीनसिः ।

विद्यातपोऽधिकानां वै प्रथमासनम् उच्यते ।
एकपङ्क्त्युपविष्टानां भोजनादि समं स्मृतम् ॥ इति ।

हारीतो ऽपि ।

संतिष्ठमानेष्व् अर्हत्सु यो ऽनर्हो ऽग्रासनं श्रयेत् ।
गृह्णाति स मलं पङ्क्तेर् आयुषा च विहीयते ॥

तस्मान् मान्यानतिक्रमेणैवासनविशेषं संश्रयेद् इत्य् अभिप्रायः । पूर्वोपकॢप्तेष्व् आसनेषु विप्रोपवेशनपक्षे तूपविष्टेषु दीपिकास्थापनं मण्डलकरणं च पूर्वोक्तप्रकारेण कार्यम् । आसनेषूपवेशनप्रकारम् आह यमः - “आसनं (?) संस्पृशन् अपसव्येन पाणिना दक्षिणेन ब्राह्मणम् उपसंगृह्य समाध्वम् इति चोपवेशयेत्” इति । आस्यताम् इत्य् उक्त्वा वोपवेशयेत्,

आस्यताम् इति तान् ब्रूयाद् आसनं संस्पृशन्न् अपि ।

इति स्मृत्यन्तरे ऽभिधानात् । उपसंग्रहणस्थाने जान्वारम्भणम्, पित्रर्थब्राह्मणानाम् उपवेशने मन्त्रं चाह धर्मः ।

जान्वारभ्य ततो देवान् उपवेश्य ततः पितॄन् ।
समस्ताभिर् व्याहृतिभिर् आसनेषूपवेशयेत् ॥

जान्वारभ्य दैविकब्राह्मणान् अत्रास्यताम् इत्य् आसनेषूपवेश्य पैतृकब्राह्मणान् जान्वारम्भणपूर्वकं “भूर् बुवः स्वः” इत्य् उक्त्वात्रास्यताम् इत्य् उपवेशयेद् इत्य् अर्थः । अत्र पुराणम् ।

विप्रौ तु प्राङ्मुखौ देव्यौ द्वौ तु पूर्वं निवेशयेत् ।
उत्तराभिमुखान् विप्रान् त्रीन् पितृभ्यश् च सर्वदा ॥ इति ।

दैविकौ विप्रौ प्राङ्मुखौ सर्वदा निवेशयेत् । पित्रर्थान् विप्रान् सर्वदा उअदङ्मुखान् निवेशयेद् इत्य् अर्थः । द्वौ त्रीन् इति स्मृत्यन्तरोक्तब्राह्मणसंख्योपलक्षणार्थम् । अत एव याज्ञवल्क्यः ।

द्वौ दैवे प्राक् त्रयः पित्र्ये उदग् एकैकम् एव वा ।
मातामहानाम् अप्य् एवं तन्त्रं वा वैश्वदैविकम् ॥

प्राक् प्राङ्मुखाव् उपवेशनीयौ । उदक् उदङ्मुखा उपवेशनीयाः । मातामहानाम् अप्य् एवम् इत्य् अस्यायम् अर्थः - मातामहार्थब्राह्मणानाम् अपि यथोक्तसंख्याविकल्पो वक्ष्यमाणनिर्देशसिद्धो वेदितव्य इत्य् अनुसंधेय इति । तन्त्रं वा वैस्वदैविकम् इत्य् अत्र वाशब्दार्थः प्रतियोगिपक्षान्तरप्रदर्शनमुखेन मरीचिना स्पष्टीकृतः ।

तथा मातामहश्राद्धं वैश्वदेवसमन्वितम् ।
कुर्वीत भक्तिसंपन्नस् तन्त्रं वा वैश्वदैविकम् ॥ इति ।

वैश्वदेवसमन्वितं मातामहश्राद्धं भक्तिसंपन्नः आवृतं कुर्वीतेत्य् अर्थः । अत्र प्राप्ताप्राप्तविवेकेन वैस्वदेवम् आवृतं कुर्वीतेत्य् उक्तं भवति । वैश्व्देवेतराङ्गोपेतप्रधानावृत्तेर् न्यायत् एव सिद्धत्वात्, वैस्वदेवे तु तन्त्रावृत्ती पूर्वम् असिद्धे इदानीम् एव प्रतिपादनीये । एतच् च वाक्यम् एवं व्याख्येयम्, अन्यथा तन्त्रं वा वैश्वदैविकम् इति पक्षान्तराभिधानाघटनात् । तथा हि पूर्ववाक्ये आवृत्तिपक्षे अनुक्ते पक्षान्तरतया तन्त्राभिधानम् अनुपपन्नम् एव । तन्त्रं वा वैश्वदैविकम् इत्य् अस्यायम् अर्थः - वैश्वदैविककर्मानुष्ठानं पितृमातमहश्राद्धद्वयार्थं तन्त्रेण वा कर्तव्यं सकृद् वा कर्तव्यम् इति । अयं तु तन्त्रानुष्ठानपक्षः साङ्गयोः पितृमातामहश्राद्धयोः एकप्रयोगविधियोज्यत्वे भवितुम् अर्हति, न भिन्नप्रयोगविधिप्रयोज्यत्वे, “भिन्नप्रयोगविधिप्रयोज्येषु पदार्थेष् न तन्त्रता” इति तन्त्रचिन्ताध्याये प्रतिपदितत्वात् । ततश् च तन्त्रपक्षोक्त्यैव पितृमातामहश्राद्धयोर् एकप्रयोगविधिप्रयोज्यत्वम् अप्य् उक्तम् । एकप्रयोगविधिप्रयोज्यत्वं चैकाधिकारापूर्वसाधकत्वे भवति, एकाधिकारापूर्वसाधकत्वम् अप्य् अस्माद् एव वाक्याद् अनयोर् ज्ञायते । एतेन चैकाधिकारापूर्वसाधकत्वम् अनयोः पाक्षिकम् इति वाशब्दात् ज्ञायते । तेन भिन्नाधिकारापूर्वसाधकत्वम् अप्य् अस्तीति वाशब्दाद् एवावगन्तव्यम् । ततश् च प्रथमं पैतृकश्राद्धं संकल्पप्रभृति ब्राह्मणविसर्जनान्तं कार्यम् इत्य् अस्माद् एव वाक्यात् ज्ञायते । न च वाच्यं भक्तिसंपन्न इत् वचनात् भक्त्यभावे मातामहश्राद्धं न कर्तव्यम् इति,

पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम् ।
अविशेषेण कर्तव्यं विशेषान् नरकं व्रजेत् ॥

इति स्मरणात् । अत एव श्राद्धद्वये ऽपि यथासामर्थ्यम् अवैषम्येण विप्रसंख्यादिकं पुराणे दर्शितम् ।

पञ्चभिः पञ्चभिर् विप्रैः द्वाभ्यां द्वाभ्याम् अथापि वा ।
श्राद्धद्वयं त्रिभिर् वा स्याद् एकैकेनाथ वा पुनः ॥

साङ्गप्रधानस्य पृथक् पृथग् अनुष्ठानपक्षे यदा पित्र्ये श्राद्धे द्वौ विप्रौ दैवे, पित्र्ये त्रीन् विप्रान् उपवेशयेत् तदा मातामहश्राद्धे तथैवोपवेशयेत् । यदा तु पित्र्ये श्राद्धे एकं विप्रं दैवे पित्र्ये चैकं विप्रम् उपवेशयेत्, तदा मातामहश्राद्धे तथैवोपवेसयेत् । यदा तु श्राद्धद्वयस्य सहानुष्ठानपक्षः तदा वैश्वदैविकब्राह्मणद्वयालाभे एकम् एव ब्राह्मणं श्राद्धद्वयवैश्वदेवार्थम् उपवेश्य तदर्थपरिशिष्टम् अन्नं विश्वान् देवान् उद्दिश्य सकृद् एव त्याज्यम्, यदा तु श्राद्धद्वयार्थम् एकस्यैव ब्राह्मणस्य लाभः तदावर्गद्वयार्थम् उपवेश्य श्राद्धद्वयाङ्गभूतवैश्वदैविकार्थम् अन्नं पात्रे समुद्धृत्य वैश्वदैविकब्राह्मणस्थाने विधाय पूर्ववत् त्याज्यम् । न तु पित्र्यश्राद्धे मातामहश्राद्धे ब्राह्मणसंख्यादिना वैषम्यं सर्वथा कार्यम् इति वचनस्य तात्पर्यार्थः प्रत्येतव्यः । एवं श्राद्धद्वये उपवेसनायोक्तसंख्यानुसारेणैव निमन्त्रणकाले ब्राह्मणनिमन्त्रणं कार्यम्, तथा च वृद्धवसिष्ठो ऽपि ।

श्राद्धद्वयं करिष्यंस् तु दश वा चतुरो ऽपि वा ।
त्रीन् वा निमन्त्रयेद् विप्रान् द्वाव् एकं ब्रह्मवादिनम् ॥ इति ।

उपवेशनायोद्युक्तान् ब्राह्मणान् प्रत्य् आह यमः ।

दक्षिणासंस्था आसीरण्न् अस्पृशन्तः परस्परम् । इति ।

दक्षिणासंस्था इत्य् अस्य न दिक्षिणासंस्थापरत्वम्, किं तु प्राक्संस्थापरत्वम् अवसेयम् । प्राक्संस्थत्वे ऽभिधित्सिते ऽपि दक्षिणासंस्थेत्य् उक्तिः पित्रर्थब्राह्मणविषयतां द्योतयितुं कृता । अत एव स्मृत्यन्तरम् ।

पश्चार्धात् समुपक्रम्य प्राच्यां निष्ठा यथा भवेत् ।
दक्षिणासंस्थता ह्य् एषा पितॄणां श्राद्धकर्मणि ॥ इति ।

निष्ठा समाप्तिः । वैस्वदेविकब्राह्मणांस् तु प्रत्य् आह बोधायनः - “प्रदक्षिणं तु दैवानाम्” इति । दैवानां ब्राह्मणानां प्रदक्षिणं दक्षिणादिक्प्रक्रमम् उदगपर्गं (?) च यथा भवति तथा आसीरन्न् इत्य् अर्थः । उभयार्थब्राह्मणान् प्रति स्मृत्यन्तरे ऽभिहितम् ।

पवित्रपाणयः सर्वे ते च मौनव्रतान्विताः ।
उच्छिष्टोच्छिष्टसंस्पर्शं वर्जयन्तः परस्परम् ॥ इति ।

ते विप्राः सर्वे देवार्थाः पित्रर्थाश् च पवित्रपाणयो मौनव्रतान्विताः प्रसादसंभवं परस्परम् उच्छिष्टोच्छिष्टसंस्पर्शं वर्जयन्तः आ भोजनसमाप्तेर् वर्तेरन्न् इत्य् अर्थः । चशब्दाच् छ्राद्धकर्तापि मौनव्रतान्वितो वर्तेतेति गम्यते । मौनव्रतान्वयस्य क्वचिद् अपवादम् आह यमः ।

ब्रह्मोद्याश् च कथाः कुर्युः पितॄणाम् एतद् ईप्सितम् । इति ।

पैठीनसिर् अप्य् उपवेशनायोद्युक्तब्राह्मणान् प्रत्य् आह ।

नानियुक्तो ऽग्रासनं गच्छेत् पङ्क्त्या हरति दुष्कृतम् । इति ।

अत्रास्यताम् इति श्राद्धकर्त्रा न नियुक्तो यो ऽसाव् अनियुक्तः । अग्रासनं प्रथमासनम् । अनुपविष्टदशायाम् अपि परस्परसंस्पर्शो यथा न भवति तथा वर्तितव्यम् इत्य् आह गौतमः ।

परस्पर्शे भवेत् पापम् एकपङ्क्तिनियोगतः ।
हीनवृत्तादिपङ्क्तौ तु युक्तं तस्माद् द्विवेचनम् ॥ इति ।

अत्र यमः ।

भिक्षुको ब्रह्मचारी वा भोजनार्थम् उपस्थितः ।
उपविष्टेष्व् अनुप्राप्तः कामं तम् अपि भोजयेत् ॥ इति ।

भिक्षुको यतिः । तथा च छागलेयः ।

पूजयेच् छ्राद्धकाले ऽपि यतिं सब्रह्मचारिणम् ।
विप्रान् उद्धरते पापात् पितॄन् मातृगणान् अपि ॥

वृद्धशातातपो ऽपि ।

आतिथ्यरहिते श्राद्धे भुञ्जते ये बुधा द्विजाः ।
वृथा तेनान्नपाकेन काकयोनिं व्रजन्ति ते ॥ इति ।

आतिथ्यरहिते अतिथिलक्षणलक्षितविप्रागमने ऽपि तत्पूजारहिते । तस्माद् उपविष्टब्राह्मणैः सह सत्य् अवकाशे तत्समीपे भिक्षुको ब्रह्मचारी अतिथिश् च पित्रर्थविप्रानुप्रवेशेनैव भोजयितव्यः । तथा च पुराणे निमन्त्रितब्राह्मणभोजनं विधायाभिहितम् ।

शेषान् वित्तानुसारेण भोजयेद् अन्यवेश्मनि । इति ।

शेषान् निमन्त्रितव्यतिरिक्तान् अतिथिप्रभृतीन् । एतच् चातिथिभोजनम् अतिथिलक्षणलक्षिते आगते सति द्रष्टव्यम्, न पुनः “काकयोनिं व्रजन्ति ते” इत् दोषश्रवणात् कल्पयित्वाप्य् अतिथिः कर्तव्यः । यस् त्व् अतिथिलक्षणहीनो भोजनयाचनादिना श्राद्धविघ्नं करोति तस्य दोषम् आह हारीतः ।

चतुर्णां दुष्कृतं हरति ब्राह्मणो विघ्नकारकः ।
अन्नस्यान्नपतेः पङ्क्तेर् भोजनाकाङ्क्षिणां तथा ॥ इति ।

भोजनाकाङ्क्षिणः कृते स्राद्धे भोजनाकाङ्क्षिणः । श्राद्धकर्तुर् बान्धवा इति यावत् ।

इति स्म्र्तिचन्द्रिकायां निमन्त्रितब्राह्मणोपवेशनम्