१८ श्राद्धदिनपूर्वाह्णकृत्यशेषः

पूर्वाह्णकृत्यस्य शेषम् उच्यते

तत्र मार्कण्डेयः ।

अह्नः षट्सु मुहूर्तेषु गतेषु त्व् अथ तान् द्विजान् ।
प्रत्येकं प्रेषयेत् प्रेष्यान् प्रदायामलकोदकम् ॥

द्वादशघटिकाभ्य ऊर्ध्वं निमन्त्रितब्राह्मणानां स्नानार्थं परिचारकाणां हस्तेष्व् आमलककल्कं प्रदाय निमन्त्रितब्राह्मणेभ्यः प्रत्येकं दीयताम् इति तान् द्विजान् प्रति ब्राह्मणान् प्रेषयेद् इत्य् अर्थः । एतद् आमलककल्कदानं प्रतिषिद्धतैलासु तिथिषु द्रष्टव्यम् । तास्व् अप्य् अमावास्याव्यतिरिक्तासु देयम् “धात्रीफलैर् अमावास्यायां न स्नायात्” इत्य् आमलकोदकस्नानस्याप्य् अमावास्यायां निषेधात् । अनिषिद्धतैलायां तु द्वितीयादितिथौ स्नानार्थं तैलादि देयम् इत्य् आह कात्यायनः ।

तैलम् उद्वर्तनं स्नानं दन्तधावनम् एव च ।
कृत्तरोमनखेभ्यस् तु दद्यात् तेभ्यो ऽपरे ऽहनि ॥

उत्तरेद्युः पूर्वाह्णे कृत्तरोमनखेभ्यो निमन्त्रितेभ्यस् तैलादिकं स्नानसाधनं दन्तधावनसाधनं च काष्ठादिकं दद्याद् इत्य् अर्थः । यत् तु प्रचेतसोक्तम्,

तैलम् उद्वर्तनं स्नानं दद्यात् पूर्वाह्ण एव तु \
श्राद्धभुग्भ्यो नखश्मश्रुच्छेदन्ं न तु कारयेत् ॥

तत्र नखादिच्छेदननिषेधो निषिद्धक्षुरकर्मतिथिविषयः । तैलादिदाने वेशेषम् आह देवलः ।

तैलम् उत्द्वर्तनं स्नानं स्नायीयं च पृथग्विधम् ।
पात्रैर् औदुम्बरैर् दद्याद् वैश्वदैविकपूर्वकम् ॥

उदुम्बरं ताम्रम् । वृद्धशातातपस् तु कृत्यान्तरम् आह - “समूलान् दर्भान् आहरेत्” इति । पितृकर्मार्थम् इति शेषः । अत एव यमः ।

समूलस् तु भवेद् दर्भः पितॄणां श्राद्धकर्मणि । इति ।

दर्भः कुशः । स एव श्राद्धकर्मणि मुख्यः । तदभावे काशादिकम् आहरणीयम्, “कुशाभावे कुशस्थाने काशान् दूर्वां वा दद्यात्” इति विष्णुस्मरणात् । काशाद्यभावे तु गोभिलेनोक्तम् - “बर्हिर् उपमूललूनं पितृभ्यस् तदलाभे शूकतृणशरबल्वजवर्जं सर्वतृणानि” इति । यद्य् अपि बर्हिःशब्दस् तृणमात्रे वर्तते । तथापि तृणविशेषविहितकुशकाशदूर्वास्व् एव पर्यवस्यति, तेन तदलाभ इत्य् अस्य कुशकाशदूर्वालाभ इत्य् अर्थो ऽवगन्तव्यः । उपमूललूनं मूलसमीपे लूनम् । शूकतृणं शूकधान्यतृणम् । शरः पुण्ड्रः, सुगन्धितृणम् इति यावत् । बल्वजाः मुञ्जसदृशानि तृणानि । “बर्हिर् उपमूललूनम्” इत्य् अस्य “समूलस् तु भवेद् दर्भः” इत् यमोक्तेन सह विकल्पो वेदितव्यः । बर्हिर् आहरणवद् यवाद्याहरणम् अपि कर्तव्यम्, अत एव पुराणे ऽभिहितम् ।

उपमूलं कृत्तमूलान् कुशांस् तत्रोपकल्पयेत् ।
यवांस् तिलान् ब्रुसीः कांस्यम् अपःशुद्धेः समाहृताः ॥
पार्णराजतताम्राणि पात्राणि स्युः समिन् मधु ।
पुष्पधूपसुगन्धादि क्षौमसूत्रं च मेक्षणम् ॥ इति ।

तत्र श्राद्ध्देश इत्य् अर्थः । ब्रुसीः निमन्त्रितब्राह्मणानाम् उपवेशनार्थान् आसनानि । “व्रतिनाम् आसनं ब्रुसी” इत्य् अमरः । निमन्त्रिता अपि ब्रह्मचर्यादिव्रतग्रहणाद् व्रतिन इति तदर्थासने ऽपि मुख्य एवायं शब्दः । कांस्यं कांस्यमयं भाजनम् । पार्णं पर्णमयम् । क्षौमसूत्रं दुकूलसूत्रम् । मेक्षणं काष्ठमयी दर्वी । कांस्यपार्णराजतताम्रभाजनेषु यथासामर्थ्यम् उपकल्पनम् । प्रतिब्राह्मणं ब्रुस्युपकल्पनं भाजनोपकल्पनं च । सुगन्धादीत्य् अत्रादिग्रहणाद् अक्षतदीपाञ्छादनादिकं गृह्यते । तिलाः सति संभवे वन्या एवोपकल्पनीयाः,

जर्तिलास् तु तिलाः प्रोक्ताः कृष्णवर्णा वने भवाः ।

इति सत्यव्रतेनाभिधानात् । एवंरूपास् तिलाः श्राद्धे ग्राह्यतया प्रोक्ता इत्य् अर्थः । जर्तिला अकृष्टभूमौ जातास् तिलाः,

जर्तिलाश् चैव ते ज्ञेया अकृष्टोत्पादितास् तु ये ।

इति तेनैवाभिधानात् । जर्तिलानाम् असंभवे तु तदितरतिला उपकल्पनीयाः । प्रशस्तानाम् अलाभे गुणिलोपन्यायेन जातिमात्रशालिनाम् उपादेयत्वात् । यत् त्व् आपस्तम्बेनोक्तम्,

अटव्यां ये समुत्पन्ना अकृष्टफलितास् तथा ।
ते वै श्राद्धे पवित्राः स्युस् तिलास् ते न तिलास् तिलाः ॥

इति, न तिला इति “अपशवो वा अन्ये गोऽश्वेभ्यः (?), असत्रं वा एतद् यद् अछन्दोमम्” इत्यादिवद् अर्थवादमात्रम् इति मन्तव्यम् । अपरार्केण तु न तिलास् तिला इत्य् एतद् अन्यथा व्याख्यातम् - “ग्राम्यास् तिला न तिला तिलकार्यकरा न भवतीत्य् अर्थः” इति । तद् असत्, तेषाम् अपि श्राद्धे जर्तिलासंभवे तिलकार्यकरत्वात् । अत एव ब्रह्माण्डपुराणे ।

यतिस् त्रिदण्डी करकं राजतं पात्रम् एव च ।
दौहित्रः कुतपः कालः छागः कृष्णाजिनं तथा ॥
गौराः कृष्णास् तथारण्यास् तथैव त्रिविधास् तिलाः ।
पितॄणां तृप्तये सृष्टा दशैते ब्रह्मणा स्वयम् ॥ इति ।

त्रिदण्डीति यतेर् विशेषणम् । राजतम् इति पात्रस्य । कुतप इति कालस्य । गौरास् तिलाः क्षृणास् तिलाः आरण्यास् तिला इति गुणानुरक्तरूपेण त्रयः पदार्थः । एवं च दशसंख्या घटते दौहित्रपदं वृद्धशातातपेन व्याख्यातम् ।

दुहित्रं खड्गशृङ्गं तु ललाटे यत् तद् उच्यते ।
तस्य शृङ्गस्य यत् पात्रं दौहित्रम् इति कीर्तितम् ॥

कुतपपदं तु स्मृत्यन्तरे व्याख्यातम् ।

अह्नो मुहूर्ता विख्याताः दश पञ्च च सर्वदा ।
तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः ॥ इति ।

प्रकृतम् उच्यते; ब्रुसीषु विशेषम् आह मनुः - “कुतपं चासने दद्यात्” इति । कुतपशब्दस्यानेकार्थाः स्मृत्यन्तरे दर्शिताः ।

मध्याह्नः खड्गपात्रं च तथा नेपालकम्बलम् ।
रूप्यं दर्भास् तिला गावो दौहित्रश् चाष्टमः स्मृतः ॥
पापं कुत्सितम् इत्य् आहुः तस्य सन्तापकारिणः ।
अष्टाव् एते यतस् तस्मात् कुत्पा इति विश्रुताः ॥ इति ।

कुतपशब्दार्थेष्व् अष्टसु नेपालदेशप्रभवमेषासिलोमनिर्मितकम्बललक्षणः कुतपो मनुनोक्तः, तस्यैवाननाख्ये कार्ये योग्यतमत्वात् । तदसंभवे कम्बलमात्रम् अपि पीठाद्यपेक्षया प्रशस्तम् । आसनोपकल्पनं भोजनार्थोपवेशनस्थानेषु कार्यम् । उपकृप्तासनेषु दर्भास्तरणं च कार्यम्,

आसनेषु सदर्भेषु विविकेषूपवेशयेत् ।

इति पूर्वोपकॢप्तेष्व् आसनेषूपवेशनविधानात् । शुद्धैर् आहर्तृभिः समाहृता इत्य् अपां विशेषणं निषिद्धानाम् अपाम् उपकल्पनविषेधज्ञापनार्थम् । तेन,

दुर्गन्धि फेनलं वर्ज्यं तथा वै पल्वलोदकम् ।
न लभेद् यत्र गौस् तृप्तिं नक्तं यच् चैव गृह्यते ॥
यच् च सर्वाय नोत्सृष्टं यच् चाभोज्यनिपानजम् ।
तद् वर्ज्यं सलिलं तात सदैव पितृकर्मणि ॥

इत्यादिवचननिषिद्धं सलिलं नोपकल्पयेत् । यच् च सर्वाय नोत्सृष्टं सर्वप्राण्युपजीवनार्थं कूपादिकर्तृभिर् यन् नोत्सृष्टं तद् अपि वर्ज्यम् । निपानं कूपसमीपे कृतः पश्वादीनाम् उदकपानार्थो जलाशयः । कांश्यपार्णराजतताम्रप्रात्राण्य् अर्घ्योदकधारणार्थानि सर्वाण्य् उपकल्प्यानि । भोजनार्थानि च महान्ति । पार्णभजनं पलाशपर्णव्यतिरिक्तपर्णकृतं भोजनार्थं नोपकल्पनीयम्,

न मृन्मयानि कुर्वीत भोजने दैवपित्र्ययोः ।
पलाशेभ्यो विना न स्युः पार्णपात्राणि भोजने ॥

इति अत्र प्रतिषेधात् । भोजने इति विशेषितत्वात्, अर्घ्यपात्रे तु नायं प्रतिषेधः । अत एव वैजवापेनोक्तम् ।

खादिरौदुम्बराण्य् अर्घ्यपात्राणि श्राद्धकर्मणि ।
अप्य् अश्ममृन्मयानि स्युर् अपि पर्णपुटास् तथा ॥ इति ।

पुष्पेषूपकल्पनीयानि ब्रह्माण्डपुराणे दर्शितानि ।

शुक्लाः सुमनसः श्रेष्ठाः तथा पद्मोत्पलानि च ।
गन्धरूपोपपन्नानि यानि चान्यानि कृत्स्नशः ॥

सुमनसः पुष्पाणि । मार्कण्डेयपुराणे ऽपि ।

जात्यश् च सदा दातव्या सल्लिकाः श्वेतयूधिकाः ।
जलोद्भवानि सर्वाणि कुसुमानि च चम्पकम् ॥

जात्यो मालत्यः । “सुमना मालती जातिः” इत्य् अमरः । श्वेतयूधिका हेमपुष्पिकाव्यतिरिक्तगणिका, “गणिका यूधिकाम्बष्ठा सा पीता हेमपुष्पिका” इति तेनैवाभिधानात् । वर्ज्यान्य् अपि कुसुमानि ब्रह्माण्डपुराणे दर्शितानि ।

जपादिकुसुमं भण्डी रूपिका सकुरण्टका ।
पुष्पाणि वर्जनीयानि श्राद्धकर्मणि नित्यशः ॥

जपा रुद्रपुष्पम् । “रुद्रपुष्पं जपा” इत्य् अमरः । आदिग्रहणेन जपाकुसुमवद् रक्तानां करवीरादिकुसुमानां वर्जनीयत्वम् उक्तम् । भण्डी मञ्जिष्ठा ।

मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेषिका ।
मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्य् अपि ॥

इत्य् अमरः । रूपिका प्रसिद्धा । कुरण्टकः पीतपुष्पो ऽम्लानः ।

अल्मानस् तु महासहा ।
तत्र शोणे कुरवकस् तत्र पीते कुरण्टकः ॥

इत्य् अमरः । भण्ड्यादीनां पुष्पाणि वर्ज्यानि । शङ्खो ऽपि वर्ज्यान् आह ।

उग्रगन्धीन्य् अगन्धीनि चैत्यवृक्षोद्भवानि च ।
पुष्पाणि वर्जनीयानि रक्तवर्णानि यानि च ॥

चैत्यवृक्षः श्मशानवृक्षः । रक्तपुष्पेषु प्रतिप्रसवः तेनैव दर्शितः ।

जलोद्भवानि देयानि रक्तान्य् अपि विशेषतः । इति ।

विष्णुनापि सह प्रतिप्रसवेन वर्ज्यान्य् उक्तानि - “न कण्टकिजं दद्यात् कण्डकिजम् अपि शुक्लसुगन्धि यत् तद् दद्यात्” इति । यत् त्व् अङ्गिरसोक्तम् - “न जातिकुसुमानि न कदलीपत्रम्” इति, अत्र कदलीपत्रं भोजनपात्रतया प्राप्तं निषिध्यते । जातिकुसुमनिषेधो न नित्यः, नित्यनिषेधे “जात्यश् च सर्वा दातव्याः” इति मार्कण्डेयवचनस्यानिर्विषयत्वापत्तेः । यद् अपि क्रतुनोक्तम्,

असुराणां कुले जाता जातिः पूर्वपरिग्रहे ।
तस्या दर्शनमात्रेण निराशाः पितरो गताः ॥ इति ।

पूर्वपरिग्रहे पूर्वजन्मनि देहपरिग्रहावसरे । यद्य् अपि “त्रीणि ह वै यज्ञस्योदराणि गायत्री बृहत्य् अनुष्टुप्, अत्र ह्य् एवावपन्ति, अत एवोद्वपन्ति” इत्य् अत्र वर्तमानापदेशतयार्थवादसरूपे वाक्ये ऽर्थवादत्वनिर्वाहार्थं गायत्र्यादिष्व् आवापोद्वापविधिकल्पनवद् अत्रापि निन्दार्थवादरूपे वाक्ये निषेधविधिः कल्प्यते । तथापि पाक्षिक एवायम् अपि प्रतिषेध इति न मार्कण्डेयवचनं निर्विषयम्, किं त्व् अनिषिद्धपुष्पान्तरालाभविषयम् । प्रतिषेधवचनद्वयं तु तल्लाभविषयम् इति मन्तव्यम् । मत्स्यो ऽपि वर्ज्यान् आह ।

पद्वबिल्वार्कदुत्तूरपारिभद्राटरूपकाः ।
न देयाः पितृकार्येषु पयश् चैवाविकं तथा॥

दुत्तूरः कनकाह्वयः । पारिभद्रो मन्दारः रक्तपुष्पस्तबकयुक्तः (?) । अटरूपः सिंहास्यः “वृषो ऽटरूपः सिंहास्यो वासको वाजिदन्तकः” इत्य् अमरसिंहेनाभिधानात् । स्मृत्यर्थसारे तु तुलस्य् अपि वर्ज्येतु उक्तम् । तत्र मूलं चिन्त्यम्, प्रसिद्धस्मृतिसमुच्चयेषु तुलसीनिषेधस्यादर्शनात् । धूपद्रव्येषूपकल्पनीयानि विष्णुधर्मोत्तरे दर्शितानि ।

दूपेषु गुग्गुलो देयस् तथा चन्दनसारजः ।
अगरुस् त्व् अथ कर्पूरः तुरुष्कः त्वक् तथैव च ॥

तुरुष्कः सल्लकीवृक्षत्वगादिना संपादितं धूपद्रव्यम् । त्वक् लवङ्गाख्यं धूपद्रव्यम् । मरीचिर् अपि धूपद्रवाण्य् आह ।

चन्दनागरुणी चोभे तमालोशरीपद्मकम् (?) । इति ।

उशरीं वीरणाख्यगन्धतृणमूलम् । “स्याद् वीरणं वीरतरं मूले ऽस्योशीरम् अस्त्र्याम्” इत्य् अमरः । तमालपद्मके स्वशब्देनैव प्रसिद्धे । विष्णुना तु वर्ज्यधूपद्रव्यम् उक्तम् - “जीवजं च सर्वं न धूपार्थम्” इति । जीवजं मृगविशेषादिरूपप्राणिजं कस्तूर्यादिकं धूपार्थं न ग्राह्यम् इत्य् अर्थः । अनुलेपनार्थेषु सुगन्धिद्रव्येषूपकल्पनीयानि मरीचिनोक्तानि ।

कर्पूरकुङ्कुमोपेतं सुगन्धि हरिचन्दनम् ।
दैविके ऽप्य् अथ वा पित्र्ये गन्धदाने प्रशस्यते ॥

विष्णुनापि - “चन्दनकुङ्कुमकर्पूरागरुपद्मकान्य् अनुलेपनार्थानि” इति । दीपार्थस्नेहद्रवेषूपकल्पनीयान्य् आह मरीचिः ।

घृताद् वा तिलतैलाद् वा नान्यद्रव्यात् तु दीपकम् । इति ।

अन्यद्रव्यम् अत्र वसामेदोरूपं विवक्षितम्, न पुनर् एरण्डकुसुम्भागसीबीजादिसंभवं स्नेहद्रव्यम्, अत आह शङ्खः ।

घृतेन दीपो दातव्यस् त्व् अथ वा ह्य् ओषधीरसैः ।
वसामेदोद्भवं दीपं प्रयत्नेन विवर्जयेत् ॥

वसा पाकादिना विभक्तो मांसस्नेहः । मेदो हृदयकमलाच्छादको मांसविशेषः, पाकादिना विभक्तः तदीयस्नेहो ऽत्र मेदःशब्देन लक्ष्यते । मेदःशब्दो ऽकारान्तो ऽप्य् अस्ति, मेदिनीत्यादिषु दर्शनात् । आच्छादनेषु फलविशेषार्थम् उपकल्पनीयानि स्मृत्यन्तरे दर्शितानि ।

आच्छादनं तु यो दद्याद् अहतं श्राद्धकर्मणि ।
आयुः प्राकाम्यम् ऐश्वर्यं रूपं च लभते शुभम् ॥
कौशेयक्षौमकार्पासं दुकूलम् अहतं तथा ।
श्राद्धेष्व् एतानि यो दद्यात् कामान् आप्नोति पुष्कलान् ॥ इति ।

कौशेयं क्रिमिकोषोत्थतन्तुजम् । क्षौमम् अतसीत्वक्संभवतन्तुनिर्मितम् । दुकूलम् अतिसूक्ष्मं वस्तं प्रसिद्धम् । अहतं काश्यपेन निरूपितम् ।

अहतं यत् त्व् अनिर्मुक्तम् उक्तं वासः स्वयंभुवा ॥ इति ।

एतत् तु न श्राद्धे देयम्, यतो ऽनन्तरम् आह स एव ।

शस्तं तन् माङ्गलिक्येषु तावत्कालं न सर्वदा । इति ।

माङ्गलिक्यं विवाहादिकम् । श्राद्धे देयं त्व् अहतं प्रचेतसोक्तम् ।

ईषद्धौतं नवं श्वेतं सदशं यन् न धारितम् ।
अहतं तद् विजानीयात् सर्वकर्मसु पावनम् ॥ इति ।

ईषद्धौतं स्वेनैवेति शेषः । अत एव वृद्धमनुः ।

स्वयंधौतेन कर्तव्याः क्रिया धर्म्या विपश्चिता ।
न तु नेजकधौतेन ॥॥॥॥॥॥॥॥॥॥। ॥ इति ।

नेजको रजकः । स्वयंग्रहणाद् एव नेजकनिवृत्तौ सिद्धायाम् अपि पुनर् नेजकप्रतिषेधो ऽन्येनापि ब्राह्मणादिना धौतेन क्रिया कार्येति ज्ञापनार्थः । क्षौमसूत्रोपकल्पनं वस्त्रालाभे यज्ञोपवीतस्थाने दानार्थम् इत् मन्तव्यम् । मेक्षणं तु होमसाधनत्वाद् उपकल्पनीयतयोक्तम्, तेन यज्ञियवृक्षसंभवं ग्राह्यम् । एवं धर्भादिमेक्षणान्तं सर्वम् उपकल्प्य कर्माङ्गस्नानं च तन्त्रेण कृत्वा शुक्लं वस्त्रं च परिदध्यात्,

स्नातो ऽधिकारी भवति दैवे पित्र्ये च कर्मणि ।
श्राद्धकृच् छुक्लवासाः स्यात् ॥॥॥॥॥॥॥॥॥। ॥
इति स्मरणात् ॥

इति स्मृतिचन्द्रिकायां श्राद्धदिनपूर्वाह्णकृत्यशेषः