१७ तृप्त्य्-अतिशय-हेतु-भूत-द्रव्यम्

**अथ श्राद्धे तृप्त्य्-अतिशय-हेतु-भूत-द्रव्यविषयाणि **

कानिचिद् वचनानि लिख्यन्त

तत्र मनुः ।

हविर् यच् चिररात्राय यच् चानन्त्याय कल्पते ।
पितृभ्यो विधिवद् दत्तं तत् प्रवक्ष्याम्य् अशेषतः ॥

यद् धविः पितृभ्यो विधिवद् दत्तं चिररात्राय कल्पते चिलकालानुस्यूतपितृतृप्तये, यच् चानन्त्याय अत्यन्तविरकालानुस्यूतपितृतृप्तये कल्पते, तथाभूतहविर् इदानीं प्रवक्ष्यामीत्य् अर्थः, तत्र तावत् प्रतिज्ञातं क्रमेण यच् चिररात्राय कल्पते तद् आह स एव ।

तिलैर् व्रीहियवैर् माषैर् अद्भिर् मूलफलेन वा ।
दत्तेन मासं प्रीयन्ते विधिवत् पितरो नृणाम् ॥

तिलादिचतुष्टयग्रहणं ग्राम्यौषधीनां सप्तानाम् उपलक्षणार्थम् । तत्र ग्राम्याभिर् ओषधीभिः मासं प्रीयन्ते । तासां पुष्कलानाम् अभावे किंचिद् अन्नसहितैरवादिभिर् मासं प्रीयन्त इत्य् अर्थः । तथा च कात्यायनः - “ग्राम्याभिर् ओषधीभिर् मासं तृप्तिः, तदलाभे मूलफलैर् अद्भिर् वा सहान्नेनोत्तरास् तर्पयन्ति” इति । उत्तरा मूलफलापः, ताः सहैव किंचिद् अन्नेन मासं तर्पयन्ति, न केवला इत्य् अर्थः । मार्कण्डेयो ऽपि ।

गोधूमैर् इक्षुभिर् मुद्गैः सतीनैश् चणकैर् अपि ।
श्राद्धेषु दत्तैः प्रीयन्ते मासम् एकं पितामहाः ॥

सतीनाः कलायाः “कलायस् तु सतीनकः” इत्य् अमरः । चणकः चर्तुलाकारश् चणकः चणकशब्देनैव प्रसिद्धः हरिमन्थ्काख्यः, “चणको हरिमन्थकः” इति तेनैवाभिधानात् । गोधूमादिविकारैग्न्यैः (?) श्राद्धेषु दत्तैर् एकं मासं प्रीयन्त इत्य् अर्थः । अत एव “हरितमुद्गकृष्णमाषश्यामाकप्रियङ्गुगोधूमेक्षुविकारांश् च दद्यात्” इति प्रचेतसोक्तम् । दद्यात् मासपर्यन्तं पितृतृप्तये इति शेषः । एवं च न सक्षाद् गोधूमादयो देयाः, किं तु तद्विकारा मण्टकादयः । विष्णुर् अपि - “साकश्यामाकनीवारप्रियङ्गुमुद्गैर् मासं प्रीयन्ते” इति, मार्कण्डेयस् तु मासपर्यन्तप्रीतजनकानि शाकानि प्रपञ्चयति ।

विदार्या चावरूढैश् च बिसैः शृङ्गाटकैस् तथा ।
केचुकैश् च तथा कन्दैः कर्कन्धूबदरैर् अपि ॥
पालेवतैर् आरुकैश् चाप्य् अक्षोटैः पनसैस् तथा ।
काकोलैः क्षीरकाकोलैस् तथा पिण्डालुकैः शुभैः ॥
लाजाभिश् च सधानाभिः त्रपुषोर् वारुभिर् भिदैः ।
सर्षपाराजशाकाभ्याम् इङ्गुदै राजजम्बुभिः ॥
प्रियालामलकैर् मुख्यौः फल्गुभिश् च ह्य् अलाबुकैः ।
वेत्राङ्कुरैस् तालकन्दैश् चुक्रिकाक्षीरिकावचैः ॥
मोचैः समोचैर् लकुचैस् तथा वै बीजपूरकैः ।
रागषाडवचोष्यैश् च त्रिजातकसमन्वितैः ।
दत्तैस् तु मासं प्रीयन्ते श्राद्धेषु पितरो नृणाम् ॥ इति ।

विदारी कृष्णवर्णा, भूकूश्माण्डफलम् । बिसं पद्मकन्दोपरिस्थिततन्तुपुञ्जयुक्तं भक्ष्यावयवः । शृङ्गाटकं जलजं त्रिकण्टकम् । केचुकः खर्जूराख्यं शाकम् । कन्दः सूरणः । “अर्शोघ्नः सूरणः कन्दः” इत्य् अमरः । बदरं बदरीफलम् । बदर्यवान्तरविशेषः कर्कन्धूः तत्फलं कर्कन्धूशब्देनोक्तम् । अक्षोटो गिरिसंभवः पीलुः । पनसः प्रसिद्धः । काकोलक्षीरकाकोलौ गौडदेशे प्रसिद्धौ । उर्वारुः स्वादुकर्कटी । भिदः तिक्तकर्कटी । सर्षपः प्रसिद्धः । सर्षपेतिस्त्रीलिङ्गतया निर्देशः छान्दसः । राजशाकं राजवृक्षाख्यं शाकं कृष्णसर्षप इति यावत् । इङ्गुदस् तापसतरुः । राजजम्बूः जम्बूविशेषः । प्रियालो राजादनाख्यो वृक्षः, “राजादनं प्रियालः स्यात्” इत्य् अमरः । मुख्यान्य् आमलकानि स्थूलामलकानि । फल्गूनि क्षुद्रामलकानि । वेत्राङ्कुरः प्रसिद्धः । तालकन्दः भूम्यन्तर्निहिततालप्रभवम् आरग्वधफलाकारं पाण्ड्यदेशादौ भक्ष्यत्वेन प्रसिद्धं मूलम् । चुक्रिका आम्लिका तिंत्रिणी चिञ्चा इति यावत् । क्षीरिकाफलाध्यक्षम् “राजादनपलाध्यक्षे क्षीरकायाम्” इत्य् अमरः । मोचा कदली, “कदली वारणवुसा (?) रम्भा मोचांशुमत्फला” इति तेनैवाभिधानात् । लकुचो लिकुचः । “लकुचो लिकुचो डहुः” इत्य् अमरः । स च जम्बीरफलतुल्यखर्वफलवान् गुल्मविशेषः । बीजपूरो मातुलुङ्गः “फलपूरो बीजपूरो रुचको मातुलुङ्गकः” इत्य् अमरः । पद्मफलं पद्मबीजकोशः, कर्णिकेति यावत् । रागषाडवाः पानकविशेषाः । त्रिजातकं लवङ्गैलापत्राणां समाहारः । शेषाण्य् अत्यन्तप्रसिद्धानि । मत्स्यपुराणे ऽपि ।

अन्नं तु सदधिक्षीरं गोघृतं शर्करान्वितम् ।
मासं प्रीणाति वै सर्वान् पितॄन् इत्य् आह केशवः ॥ इति ।

द्विमासादिसंवत्सरगृप्तिहेतुभूतान्य् आह मनुः ।

द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु ।
औरभ्रेणाथ चतुरः शाकुनेनेह पञ्च वै ॥
छागमांसेन षण्मासान् पार्षतेनेह सप्त वै ।
अष्टाव् ऐणेयमांसेन रौरवेण नवैव तु ॥
दशमासांस् तु तृप्यन्ति वराहमहिषामिषैः ।
शशकूर्मयोस् तु मांसेन मासान् एकादशैव तु ॥
संवत्सरं तु गव्येन पयसा पायसेन च ॥ इति ।

हरिणः कुरङ्गः, तस्य मांसं हारिणम् । उरभ्रो मेषः, तस्य मांसम् औरभ्रम् । शकुनिः पक्षी, तस्य मांसं शाकुनम् । पृषतश् चित्रमृगः तस्य मांसं पार्षतम् । एणी मृगी तस्या मांसं ऐणेयम् । रुरुर् महान् कृष्णसारः तस्य मांसं रौरवम् । पयोग्रहणं पयोविकाराणाम् उपलक्षणम् । अत एव विष्णुः - “संवत्सरं तु पयसा तद्विकारैर् वा” इति । यद्य् अपि पायसेनेत्य् अत्र पयोविशेषः न श्रुतः, तथापि गव्यपयः संनिधानात् तत्पयः सिद्धम् इति गम्यते । यत् तु प्रीणातीत्य् अनुवृत्तौ पैटीनसिनोक्तम् “पायसेनं तु षण्मासान्” इति, तद् अगोपयःसिद्धपायसविषयम् । द्वादशसंवत्सरपर्यन्ततृप्तिकरद्रव्यम् आह मनुः ।

वार्ध्राणसस्य मांसेन तृप्तिर् द्वादशवार्षिकी । इति ।

पितॄणां भवतीति शेषः । वार्ध्राणसो ऽत्र पारिभाषिको वेदितव्यः, न तु खड्गमृगः, तस्यातिदीर्घकालतृप्तिकरद्रव्येषु मनुनैव वक्ष्यमाणत्वात् । कः पुनर् असौ पारिभाषिको वार्ध्राणस इत्य् अपेक्षिते विष्णुधर्मोत्तरम् ।

त्रिपिबं त्व् इन्द्रियक्षीणं यूथस्याग्रचरं तथा ।
रक्तवर्णं तु राजेन्द्र छागं वार्ध्राणसं विदुः ॥ इति ।

त्रिभिः मुखेन कर्णाभ्यां च पिबतीति व्युत्पत्त्या त्रिपिबः, अत्यन्तलम्बकर्णः । यद्य् अपि न कर्णाभ्यां पिबति, तथापि तटाकादिगतोदकपानसमये कर्णाव् अपि लम्बितौ मुखवज् जलसंस्पर्शिनौ भवत इत्य् औपचारिकस् त्रिपिबशब्दो युक्तः । इन्द्रियक्षीणः संभोगाक्षमः । रक्तवर्णग्रहणं श्वेतवर्णस्यापि प्रदर्शनार्थम् ।

त्रिपिबं त्व् इन्द्रियक्षीणं श्वेतं वृद्धम् अजापतिम् ।
वार्ध्राणसं तु तं प्राहुः याज्ञिकाः पितृकर्मणि ॥

  •                      ######### २५७ मिस्सिन्ग्
    

त्तस्या विनाश इति । कार्यभूतायास् तृप्तेर् नित्यत्वायोगात् । तेन नित्यवद् अतिदीर्घकालतृप्तिर् वचोभङ्ग्या ज्ञाप्यत इति मन्तव्यम् । अत एव पितृगीतायां गाथायाम् (?) उक्तम् ।

कालशाकं महाशल्कं मांसं वार्ध्राणसस्य च ।
विषाणवर्जा ये खड्गा आसूर्यं तांस् तु भुञ्ज्महे ॥ इति ।

सूर्यो यावति काले तिष्ठति तावन्तं कालं कालशाकादिपदार्थं भुञ्ज्महे इत्य् अर्थः ॥

**इति स्मृतिचन्द्रिकायां श्राद्धकाण्डे **

पितृतृप्त्यतिशयहेतुभूतद्रव्यविषयाणि

**एवं प्रसक्तानुप्रसक्तं परिसमाप्याधुना प्रकृतस्य **