१६ नित्यभोजने वर्ज्यद्रव्यविषयाणि

**अथ प्रसङ्गान् नित्यभोजने वर्ज्यद्रव्यविषयाणि **

कानिचिद् वचनानि लिख्यन्ते

तत्र देवलः ।

अभोज्यं प्राहुर् आहारं शुक्तं पर्युषितं तथा ।
अन्यत्र मधुसक्तुभ्यां भक्षेभ्यः सर्पिषो गुडात् ॥

अत्र शुक्तपदस्यार्थो बृहस्पतिना दर्शितः ।

अत्यम्लं शुक्तम् अख्यातं निन्दितं ब्रह्मवादिभिः । इति ।

अस्यायम् अर्थः - यद् ओदनसूपादिकं स्वतो ऽनम्लम् ईषदम्लं वा ह्य् अस्तनम् अद्यतनं वा दीर्घकालस्थितिभ्यां वा निजरसं हित्वात्यर्थम् अम्लीभवति तद् एव लोके शुक्तम् आख्यातं निसर्गतो ऽत्यम्लं काञ्जिकादिद्रव्यम् इति । पर्युषितम् अग्निपक्वं सद् रात्र्यन्तरितं सदा अभोज्यं श्राद्धभोजन इव नित्यभोजनादाव् अप्य् अभोज्यम् इत्य् अर्थः । मध्वादिकं पर्युषितम् अपि भोज्यम् इति । भक्षा अपूपादयः । मधुनो ऽपि सुरसत्वाय गुडवद् एव पाकः क्रियते न भोजनदिनाद् अन्येद्युः पक्वं मधु पर्युषितं भवति ।

नाद्याच् छास्त्रनिषिद्धं तु भक्ष्यभोज्यादिकं द्विजः । इति ।

अयम् अर्थः - “नापणीयम् अन्नम् अश्नीयान् न द्विःपक्वं न पर्युषितम्” इति ।

घृतं वा यदि वा तैलं विप्रो नाद्यान् नखच्युतम् ।
यमस् तद् अशुचिं प्राह तुल्यं गोमांसभक्षणम् ॥
हस्तदत्ताश् च ये स्नेहा लवणं व्यञ्जनानि च ।
दातारं नोपतिष्ठन्ति भोक्ता भुञ्जति किल्बिषम् ॥
एकेन पाणिना दत्तं शूद्रदत्तं न भक्षयेत् ।
घृतं तैलं च लवणं पानीयं पायसं तथा ॥

इत्येवमादिशास्त्रनिषिद्धम् आपणीयम् अन्नादिकं द्विजो नाद्याद् इति । “नापणीयम् अन्नम् अश्नीयात्” इत्य् उक्तस्य निषिद्धस्य क्वचिद् अपवादम् आह स एव ।

अपूपाः सक्तवो धानास् तक्रं दधि घृतं मधु ।
एतत् पणेषु भोक्तव्यं भाण्डलेपो न चेद् भवेत् ॥ इति ।

द्विःपक्वान्ननिषेधस्यापवादो ऽपि - “यद् यद् द्विःपक्वं तत् सर्वं नाश्नीयात्” द्विःपक्वं नाम तद् उच्यते यत् प्रथमपाकत एव भक्षणयोग्यतया पक्वं सद् अपि मार्दवादिगुणान्तरं संपादयितुं पुनः पच्यते । एवं च यत् तिक्ते शाकादौ प्रथमपाकमात्रेण भक्षणयोग्यता न भवति किं तु सह्यतिक्तरसयुक्तो भवति तत्र प्रथमपाकस्यासमग्रत्वात् पुनः पाके कृते ऽपि न द्विःपक्वता भवति । यत्र भक्षविशेषसिद्ध्यर्थम् उदकादिना पूर्वं पक्त्वा तैलादिनापि पाकः क्रियते तत्रापि न द्विःपक्वता भवति विशिष्टभक्ष्यसिद्धिफलकपचिक्रियाया उदके तैले च क्रियमाणाया एकत्वाद् इति मन्तव्यम् । “न पर्युषितम् अश्नीयात्” इत्य् अस्य अपवादम् आह यमः ।

अपूपाश् च करम्भाश् च धाना वटकसक्तवः ।
शाकं मांसम् अपूपं च सूपं कृसरम् एव च ॥
यवागूः पायसं चैव यच् चान्यत् स्नेहसंयुतम् ।
सर्वं पर्युषितं भोज्यं शुक्तं च परिवर्जयेत् ॥

अपूपाः यवगोधूमपिष्टविकारा मण्डकादयः । करम्भाः दधिमिश्रितास् सक्तवः । धाना भृष्टयवतण्डुलाः । वटकाः माषपिष्टमयास् तैलपक्वाः स्तोकतया कृताः प्रसिद्धाः । शाकं मांसं चान्येद्युः पक्वम्, न पुनर् अन्येदुर् आहृतं तावन्मात्रेण पर्युषितत्वायोगात् । एवं चान्येद्युः पक्वम् ओदनं तस्मिन्न् एव दिने संस्कारद्रव्याणि प्रक्षिप्य शाकविशेषतया कल्पितं पर्युषितम् अपि भोज्यम् एवेत्य् अवगन्तव्यम् । सक्तवो भृष्टयवतण्डुलपिष्टानि । पुनर् अपूपग्रहणं गोधूमेतरचणकादिपिष्टविकारस्यापूपप्रायस्यापि परिग्रणार्थम् । सूपो मुद्गाढक्यादिकृतं व्यञ्जनम् । कृसरं भृष्टतिलचूर्णमिश्रम् ओदनम् । यवागूः अल्पतण्डुलचूर्णमिश्रं पेयरूपम् अन्नम् । पायसं पयसा शृतम् अन्नम् । यच् चापूपादिभ्य उक्तेभ्यो ऽन्यद् ओदनादिकं स्नेहसंयुक्तं दधिघृतादिना स्नेहद्रव्येणाभिघारितं सत् पर्युषितं सर्वं भोज्यं यावद् अशुक्तं वर्तते । यदा तु पर्युषितम् अपूपादिकं स्नेहसंयुक्तम् ओदनादिकं वा शुक्तं जातं तदा तद् अपि वर्जयेद् इत्य् अर्थः । अभोज्यम् इत्य् अनुवृत्तौ वसिष्ठो ऽपि - “अन्नं पर्युषितं कामं तु दध्ना घृतेन यद् अभिघारितम् उपयुञ्जीत” इति । अन्नं पर्युषितम् इत्य् अत्रानुवृत्तेनाभोज्यम् इति पदेन संबन्धः । दध्ना घृतेन वाभिघारितं सत् पर्युषितम् अन्नं कामम् उपयुञ्जीत अश्नीयाद् इत्य् अर्थः । अत एव मनुः ।

यत् किंचित् स्नेहसंयुक्तं भक्ष्यभोज्यम् अगर्हितम् ।
तत् पर्युषितम् अप्य् आद्यं हविःशेषं तु यद् भवेत् ॥

उपयोजयेद् इत्य् अनुवृत्ताव् आपस्तम्बो ऽपि - “उदके ऽवधाय कृतान्नं पर्युषितम्” इति । यदा तु कृतान्नम् उदके ऽवधाय रात्रौ स्थापितं तदा तद् अन्नं पर्युषितम् अप्य् उपयुञ्जीतेत्य् अर्थः । एवं काञ्जिकं संपादयितुं तण्डुलक्षालनोदके निहितस्यान्ननिःस्रवस्य रात्र्यन्तरितस्य पर्युषितत्वे ऽप्य् अभोज्यत्वं नस्तीति तज्जातस्य काञ्जिकस्याभोज्यत्वं सुतरां नास्तीति मन्तव्यम् । अश्नीयद् इत्य् अनुवृत्तौ शाक्खलिखिआव् अपि - “न पर्युषितम् अन्यत्र दधिगुडगोधूमयवपिष्टविकारेभ्यः” इति । न पर्युषितम् इत्य् अस्य अश्नीयाद् इत्य् अनुवृत्तेन पदेन संबन्धः । यद्य् अपि दधि गुडवन् न पाकसिद्धम् इति न पर्युषितं तेन तस्य पर्युदासो व्यर्थ इति प्रतिभाति । तथापि नान्येदुः पाकेन सिद्धत्वं पर्युषितत्वे प्रयोजकं किं त्व् अदनीयतया साध्यत्वम् इति दध्नो ऽप्य् अदनीयतया साधितस्य पर्युषितत्वम् अस्तीति तत्पर्युदासो ऽर्थवान् एव । याज्ञवल्क्यस् तु “पर्युषितं वर्जयेत्” इति स्वोक्तस्य प्रतिप्रसवार्थम् आह ।

अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् ।
अस्नेहा अपि गोधूमयवगोरसविक्रियाः ॥

चिरसंस्थितम् इति पदं चिरसंस्थिता इति विपरिणामेन गोधूमयवगोरसविक्रिया इत्य् अत्रापि संबन्धनीयम् । अत एव मनुः ।

चिरस्थितम् अपि त्व् आद्यम् अस्नेहाक्तं द्विजातिभिः ।
यवगोधूमजं सर्वं पयसां चैव विक्रियाः ॥ इति ।

गोधूमविक्रियाः मण्डकादयः । यवविक्रियाः सक्त्वादयः । गोरसः क्षीरं तद्विकाराः कूर्चिकाद्याः “कूर्चिका क्षीरविकृतिः” इत्य् अमरसिंहेनोक्तत्वात् । गोरसविकृताव् अपि “शुक्तं चेत् परिवर्जयेत्” इति यमोक्तं द्रष्टव्यम् । भोज्यत्वेनोक्तस्य पर्युषितस्य सर्वस्यापि श्राद्धे वर्ज्यत्वं पूर्वस्मिन् प्रकरणे ऽभिहितम् । तेन भोज्यत्वात् श्राद्धे ऽप्य् अनिषिद्धम् इति भ्रमो न कार्यः । शङ्खस् तु शुक्तद्रव्येष्व् अपि किंचिद् भोज्यम् इत्य् आह ।

दधि भक्ष्यं च शुक्तेषु यच् चान्यद् दधि संभवम् ।
ऋबीषपक्वं (?) भक्ष्यं स्यात् सर्पिर् युक्तम् इति स्थितिः ॥

अनग्निकः ऊष्मा ऋबीषम्, तेन पक्वम् ऋईबीषपक्वम् । धान्यराश्यादिगतोष्मपक्वम् इति यावत् । तथा च “निर्बीषपक्वस्याश्नीयात्” इत्य् आपस्तम्बसूत्रं व्याचक्षाणेन धूर्तस्वामिनोक्तम् - “अनग्निकः ऊष्मा ऋबीषं तत्पक्वस्य प्रतिषेधः क्रियते” इत् ग्रन्थेन । ऋबीषपक्वं शुक्तम् अपि सर्पिषा युक्तं भक्ष्यं स्यात् । न तद्रहितम् इत्य् अर्थः । दधिसंभवं तक्रनवनीतादि । भक्ष्यं भक्षणार्हम् इत्य् अर्थः । यमस् त्व् आपदि शुक्तस्य प्रक्षालनात् भक्षणार्हता भवतीत्य् आह ।

शुक्तानि हि द्विजो ऽन्नानि न भुञ्जीत कदाचन ।
प्रक्षालितानि निर्दोषाण्य् आपद्धर्मो यदा भवेत् ॥

एवं पर्युषितस्यापदि पक्षालनाद् भक्षणार्हता भवति । अत एव तस्य भोजने ऽभ्यनुज्ञा तेनैव कृता ।

मसूरमाषसंयुक्तं तथा पर्युषितं च यत् ।
तत् तु प्रक्षालितं कृत्वा भुञ्जीत ह्य् अभिघारितम् ॥ इति ।

बीजभूतधान्यादिकं भोज्यम् अपि भाविबहुफलहेतुविनाशस्यात्यन्तानुचितत्वात् अनापदि पर्युषितवत् नोपभुञ्जीतेत्य् आह देवलः ।

न बीजान्य् उपयुञ्जीत रोगापत्तिम् ऋते बुधः ।
फलान्य् एषाम् अनन्तानि बीजानां हि विनाशयेत् ॥ इति ।

एषां बीजानाम् अनन्तानि फलानि यस्माद् उपयुञ्जानो विनाशयेत् तस्माद् अनापदि बीजानि नोपयुञ्जीतेत्य् अर्थः । स्वतो विशुद्धम् अप्य् आहारं मृतमक्षिकादिसंसर्गदूषितं वर्जयेद् इत्य् आह स एव ।

विशुद्धम् अपि चाहारं मक्षिकाक्रिमिजन्तुभिः ।
केशलोमनखैर् वापि दूषितं परिवर्जयेत् ॥

अनापदीति शेषः । अत एव सुमन्तुः - “केशक्ट्टक्षुतवचोभिहतं श्वभिर् आघ्रातं प्रेक्षितं वादधि पर्युषितं पुनः सिद्धं चण्डालावेक्षितम् अभोज्यम् अन्यत्र हिरण्योदकैः स्पृष्टात्” इति । क्षुतवचः क्षुतवशाज् जातो ध्वानः तेन अभिहतम् उपहतम् । श्वभिर् इति बहुवचनं येषाम् अवघृआणप्रेक्षणे दोषावहे तादृशप्राणिनां स्मृत्यन्त्रोक्तगवादीनां संग्रहार्थम् । अदधि पर्युषितं पर्युदस्तदध्यादिव्यतिरिक्तं पर्युषितम् । पुनःसिद्धं द्विःपक्वम् । एतद् उक्तं भवति - विशुद्धाहारं मक्षिकादिसंसर्गतो दुष्टं संत्यज्य अदुष्टाहारं भुञ्जीत असंभवे तु मक्षिकादिम् अपास्याहारशुद्ध्यर्थम् उदकेन प्रोक्षणं हिरण्यस्पर्शनं वा कृत्वा भुञ्जीतेति । अदुष्टाहारान्तरासंभवे ऽपि यद् अवश्यं वर्ज्यं तद् आह देवलः ।

अवलीढं श्वमार्जारधाङ्क्षकुक्कुटमर्कटैः ।
भोजने नोपयुञ्जीत तद् अमेध्यं हि सर्वतः ॥

ध्वाङ्क्षः काकः । ब्रह्मपुराणे ऽपि ।

शूद्रभुक्तावशिष्टं तु नाद्याद् भाण्डस्थितं क्वचित् । इति ।

तेन भाण्डाद् उद्धृतम् अन्यस्मिन् पात्रे निक्षिप्य देयम् । शूद्रोच्छिष्टवल्लशुनादिसंस्पृष्टम् अपि नाद्यात् । तथा च भविष्यत्पुराणे ।

सुरालशुणसंस्पृष्टं पीयूषादिसमन्वितम् ।
संसर्गाद् उच्यते तद् धि शूद्रोच्छिषवद् आचरेत् ॥ इति ।

पीयूषं नवप्रसूतायाः गवादेः क्षीरम् “पीयूषो ऽभिनवं पयः” इत्य् अमरेणाभिधानात् । आदिशब्देन छत्राकादिसंस्पृष्टं गृह्यते । संसर्गदुष्टवज् जात्या दुष्टम् अपि शाकादिकं नाद्यात्, “वृन्ताकनालिकापोतकुसुम्भाश्मन्तकाश् चेति शाकानाम् अभक्ष्याः” इति पैठीनसिस्मरणात् । वृन्ताकं बृहतीसदृशस्थूलोद्भिदं फलं वृन्तभागेन सह शाकत्वेन प्रसिद्धम् । नालिका दीर्घनाला शिरसि स्वल्पफलान्विता, तस्याः फलस्य नालभागस्य च शाकत्वेन प्राप्तेः प्रतिषेधः । पोतं पोतिका, “पोतिका तु सुताह्वया” इति वैजयन्त्याम् अभिधानात् । यस्याः पत्रशाकसेवा निद्रातिशयकारिणी सा सुताह्वया ज्ञेया । अस्माकं त्व् अस्य स्वरूपं कीदृशम् इति चिन्त्यम् । वृन्ताकं श्वेतम् एवाभक्ष्यम्,

गण्डूलं श्वेतवृन्ताकं कूश्माण्डं च विवर्जयेत् ।

इति देवलेन वृन्ताकविशेषस्य प्रतिषेधात् । विशेषप्रतिषेधश् च शेषाभ्यनुज्ञानार्थम् इति न्यायेन श्वेतेतरवृन्ताकभक्षणाभ्यनुज्ञा गम्यते । गण्डूलं कण्डूलाफलम् अत्यन्तकण्डूतिजनकं बहुरोमयुक्तं वर्षाकालभवम् । अत एव अमरसिंहेन “कण्डूला प्रवृषायणी” इत्य् उक्तम् । कूश्माण्डं कुम्भवद् वर्तुलम् अदीर्घालाबुसदृशम् । कुसुम्भं कण्टकरहितम् अभक्ष्यम्, “अकण्टकित्वविशिष्टस्य कुसुम्भस्य स्मृत्यन्तरे निषेधो विद्यते” इति देवस्वामिनोक्तत्वात् । वृन्ताकनालिकापोतकुसुम्भानां च भक्षणे उशनसा दोषो दर्शितः ।

कुसुम्भनालिकाशाकं वृन्ताकं पोतिकं तथा ।
भक्षयन् पतितस् तु स्याद् अपि वेदान्तगो द्विजः ॥ इति ।

भविष्यत्पुराणे जातिदुष्टानां शाकानाम् उदाहरणतया कानिचिच् छाकान्य् उक्तानि ।

लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च ।
वार्ताकनालिकालाबु ह्य् अवेयाज् जातिदूषितम् ॥

लशुनादिकं द्रव्यं संसर्गेण विनापि लशुनत्वादिजात्यैव दूषितम् अवेयाज् जानीयाद् इत्य् अर्थः । जात्या दूषितम् इति ज्ञानस्य फलम् असत्य् अपि दुष्टसंसर्गे निवृत्तिः । लशुनाख्यविशेषस्य भेदको धर्मो वैद्यकादौ द्रष्टव्यः, लशुनगृञ्जनपलाण्डुकाः पलाण्डुविशेषाः । तत्र हरिद्रक्तवर्णविशेषो गृञ्जनः । “हरिद्रक्तो गृञ्जनः” इति वैजयन्त्याम् । श्वेतकन्दविशेषः पलाण्डुः, “पलाण्डौ तु श्वेतकन्दो मुकुन्दकः” इति तत्रैवोक्तत्वात् । एतच् च लशुनादित्रिविधपलाण्डुविशेषाभिधानम् ।

लशुनं दीर्घपत्रं च पिच्छगन्धो महौषधम् ।
वरण्यश् च पलाण्डुश् च लतार्कश् च परारिका ॥
गृञ्जनं यवनेष्टश् च पलाण्डोर् दश जातयः ॥

इत्युक्तदशविधपलाण्डूपलक्षणम् । महौषधवरण्यादीनाम् अपि भेदो वैद्यादौ द्रष्टव्यः । कवकं छत्राकम् । वार्ताकं क्षुद्रवार्ताकसंज्ञकबृहतीफलं कण्टकारिकाख्यबृहतीफलात् किंचित् स्थूलम् । कवकभक्षणे तु दोषा यमेन दर्शिताः ।

भूमिजं वृक्षजं वापि छत्राकं भक्षयन्ति ये ।
ब्रह्मघ्नांस् तान् विजानीयाद् ब्रह्मवादिषु गर्हितान् ॥ इति ।

हारीतो ऽपि दुष्टद्रव्यसंसर्गाभावे ऽपि वर्ज्यान् आह - “न वटप्लक्षोदुम्बरदधित्थनीपमातुलुङ्गानि वा भक्षयेत्” इति । दधित्थं कपित्थफलम् । नीपं कदम्बपत्रम् । शेषाणि व्यक्तानि । मनुर् अपि ।

लोहितान् वृक्षनिर्यासान् व्रश्चनप्रभवांस् तथा ।
शेलुं गव्यं च पीयूषं प्रयत्नेन विवर्जयेत् ॥

लोहितान् वृक्षनिर्यासान् लाक्षादीन् । व्रश्चनप्रभवान् निर्यासान् अपि शाल्मलिनिर्यासप्रभृतीन् । लोहितग्रहणात् निर्यासत्वे ऽपि पाटलवर्णहिंग्वादेः श्वेतवर्णकर्पूरादेश् च न निषेधः । शेलुः श्लेष्मान्तकाख्यो वृक्षः । पीयूषो ऽभिनवं पयः । गव्यपीयूषे तु विशेषो ब्रह्मपुराणे दर्शितः ।

घृतात् फेनं घृतान् मण्डं पीयूषम् अथ वार्द्रगोः ।
सगुडं मरिचाक्तं तु तथा पर्युषितं दधि ॥
दीर्णं तक्रम् अपेयं च नष्टस्वादुकफेनवत् ॥

अयम् अर्थः - घृताद् उद्धृत्य तत्फेनमात्रं तदग्रमात्रं (?) च न पेयम् । तथा आर्द्रगोः पीयूषं यावदार्द्रता सरजस्कता गावे (?) प्रसूतिसमये योनौ प्रवृत्तानुवर्तते तावत् क्षीरम् अपेयम् । तथा यद् दधि गुडमरिचमिश्रं यत् पर्युषितं तद् अप्य् अपेयम् । तथा यत् तक्रं दीर्णं दर्वीघट्टनशून्यम् अग्नितापादिना स्वतो वा स्फुटितं बहुदिनस्थित्या संजातेन फेनेन युक्तम्, अत्यर्थं शुक्ततया नष्टस्वादुकम् अपेयम् इति । याज्ञवल्क्यो ऽपि वर्ज्यक्षीरम् आह ।

संधिन्यनिर्दशावत्सगोपयः परिवर्जयेत् । इति ।

तत्र संधिन्याः गोः पयः परिवर्जयेद् इत्य् एतत् स्फुतम् उक्तं हारीतेन - “संधिनी वृषस्यन्ती तस्याः पयो न पिबेत् तदृतुमद् भवति” इति । वृषस्यन्ती कामुकी मैथुनेच्छावतीति यावत् । तदीयं पयः ऋतुमद् भवति । ऋतुमत्याः संबन्धि भवतीत्य् अर्थः । अनेन एतद् उक्तं भवति - यावति काले मौथुनेच्छानुवृत्तिस् तावति काले तस्याः पयो न पिबेद् इति । तेन मैथुनेच्छानिवृत्तौ तस्याः पयो न निषिद्धम् इति मन्तव्यम् । “अनिर्दशायाः पयः परिवर्जयेत्” इत्य् अस्यायम् अर्थः - प्रसवप्रभृत्य् अनिर्गतदशरात्रायाः पयः वर्जयेद् इति । एतच् च रजोनिवृत्तिकालोपलक्षणार्थम् । तेन दशरात्राद् अर्वाग् रजोनिवृत्तौ नास्ति तत्र प्रतिषेधः । दशरात्राद् उपर्य् अपि रजोऽनुवृत्ताव् अस्ति प्रतिषेध इति बोद्धव्यम् । अत एव “नवसूतायाः पयः न पिबेत् सरजस्त्वात्” इत्य् उक्त्वा हारीतेनोक्तम् - “सप्तरात्राद् इत्य् एके दश्रात्राद् इत्य् अपरे मासेनापीयूषं भवतीति धर्मविदः” इति । नवसूतायाः पयः सप्तरात्राद् उपर्य् अपि पीयूषं भवतीत्य् एके । दशरात्राद् उपर्य् अपि पीयूषं भवतीत्य् अन्ये मन्तन्त इत्य् अर्थः । एतेषु सप्तरात्रादिपक्षेषु यथा रजोनिवृत्ति व्यवस्था द्रष्टव्या । “अवत्सायाः पयः परिवर्जयेत्” इत्य् अस्यायम् अर्थः - अवत्सा वत्सशून्या मृतवत्सेति यावत् । तस्याः पयः यावद् वत्सवियोगशोकानुवृत्तिः तावत् विवर्जयेद् इति । अत एव “पयो न पिबेत्” इत्य् अनुवृत्तौ हारीतेनोक्तम् - “हतवत्सायाः शोकाविष्टत्वात् नवसूतायाः सरजस्त्वात्” इति । न च वाच्यं शोकाविष्टत्वाद् इत्य् अस्य हेतुवन्निगदरूपार्थवादत्वाच् छोकनिवृत्ताव् अपि मृतवत्सायाः पयो न पिबेद् इति । सरजस्त्वाद् इति हेतुसमभिव्याहारात् । अतो हेतुर् एवायं शोकाविष्टत्वाद् इति, न हेतुवन्निगदार्थवादः । न च वाच्यं सरजस्त्वाद् इत्य् अपि हेतुवन्निगदार्थवाद एव न तु हेतुर् इति कथं तत्साहचर्याद् अस्य हेतुत्वं निश्चीयत इति । हेतुविवक्षयैव सरजस्त्वाद् इत्य् अस्य प्रयुक्तत्वात् । यदि हेतुविवक्षया सरजस्त्वाद् इति न प्रयुक्तं स्यात् तदा दशरात्रात् प्राग् ऊर्ध्वं यदा रजोनिवृत्तिः तदा नवप्रसूतायाः पयः पेयम् इत्य् अयम् अर्थो यः प्रतिपादयितुम् इष्टः सो ऽप्रतिपादितो (?) भवेत् । ततश् च “सप्तरात्राद् इत्य् एके दशरात्राद् इत्य् अपरे मासेनापीयूषं भवतीति धर्मविदः” इत्य् अनन्तरोक्तस्य तदीयग्रन्थस्य अनिर्वाहः स्यात् । तस्माद् धेतुत्वेनैव सरजस्त्वाद् इत्य् अस्यान्वयो नार्थवादत्वेन । तत्समभिव्याहाराच् छोकाविष्टत्वाद् इत्य् अपि हेतुत्वेनैवान्वयो नार्थवादत्वेनेत्य् अलं बहुनातिप्रसङ्गेन । धर्मविद्ग्रहणं रजोनिवृत्तिसंदेहस्याप्य् अभावस् तत्रेति ज्ञापनर्थं कृतम् । तेन यदा सप्तरात्राद् अपि रजोनिवृत्तिनिश्चयः तदा तत्पयःपाने ऽपि न धर्महानिः । गव्यपीयूषवद् अजामहिष्योर् अपि पीयूषम् अपेयम् । तथा च वसिष्ठः - “गोमहिष्यजानाम् अनिर्दशम्” इति । पयो न पेयम् इति शेषः । गौतमो ऽपि वर्ज्यं क्षीरम् आह - “संधिनीयमसूस्यन्दिनीनां च” इति । क्षीरं वर्ज्यम् इति शेषः । स्यन्दिनी स्वतः प्रस्रवत्क्षीरस्तनी । यमसूः यमलप्रसविनी । बोधायनो ऽपि - “क्षीरम् अपेयं विवत्साया अन्यवत्सायाश् च” इति । शङ्खो ऽपि “सर्वासां द्विस्तनीनां क्षीरम् अभोज्यतया वर्ज्यम्” इति । मनुर् अपि ।

श्रण्यानां च सर्वेषां मृगाणां महिषीं विना । इति ।

“महिषीं विना” आरण्यमहिषीव्यतिरिक्तानाम् इत्य् अर्थः । मृगाणाम् इत्य् अत्र पूर्वत्र श्रुतेन पय इति पदेन संबन्धः । वर्ज्यावर्ज्यत्वम् अधिधीयते । यद्य् अपि मृगाणाम् इति पुल्लिङ्गनिर्देशात् पुंव्यक्तयः प्रतीयन्ते, तथापि पयःपदसंबन्धायोग्यत्वपरिहाराय पुंलिङ्गेन व्यक्तिमात्रयेव विवक्षितम् इति प्रत्येतव्यम् । ततश् चायोग्यत्वानवगतेः पयःपदेन संबन्धो युज्यत एव । गौतमो ऽपि - “नित्यम् आविकम् अपेयम् औष्ट्त्रम् ऐकशफं च” इति नित्यम् अभिनवदशायाम् चेत्य् अर्थः । औष्ट्रम् उष्ट्र्याः पयः । ऐकशफम् एकशफाया वडवादेः पयः । एवं च गोमहिष्यजानाम् एव पयः पेयं नान्यस्या इत्य् अनुसंधेयम् । अत एव शङ्खः ।

माहिषं गव्यम् आजं भोज्यं क्षीरेषु निर्दिशेत् ।

आपस्तम्बस् तु ब्राह्मणव्यतिरिक्तस्य कपिलापयो वर्ज्यम् इत्य् आह ।

क्षत्रियश् चैव वृत्तस्थो वैश्यः शूद्रो ऽअथ वा पुनः ।
यः पिबेत् कपिलाक्षीरं नरकान् एत्य् अपुण्यकृत् ॥

तेन ब्राह्मणव्यतिरिक्तः कपिलागोक्षीरं प्रयत्नेन विवर्जयेद् इत्य् अभिप्रायः । ब्राह्मणस्यापि हुतशेषव्यतिरिक्तकपिलाक्षीरपाने दोषो भविष्यपुराणे दर्शितः ।

कापिलं यः पिबेच् छूद्रो नरकेन विपच्यते ।
हुतशेषं पिबेद् विप्रो विप्रः स्याद् अन्यथा पशुः ॥ इति ।

हुतशेषे पीते विप्रस्य जन्मान्तरे ऽपि विप्रत्वं भवति । अन्यथा हुतशेषव्यतिरिक्तकपिलाक्षीरे पीते विप्रस्य जन्मान्तरे पशुत्वं भवतीत्य् अर्थः । क्षीरवर्जनविधानाद् एव तत्स्पृष्टस्यापि वर्जनं पीयूषस्पृष्टवर्जनवद् उन्नेयम् । क्षीरवर्जनविधानाद् एव तविकारस्यापि कूर्चादेर् वर्ज्यत्वं सिद्धम्, कूर्चादिविकारे क्षीरस्य सद्भावात् । अत एव क्षीरे वर्जयितव्ये पायसादेर् वर्जनं कार्यम् इति मीमांसायां प्रतिपादितम् । अत एव निषिद्धक्षीरविकाराणां भक्षणे निषिद्धातिक्रमस्य कृतत्वात् प्रायश्चित्तम् आह शङ्खः ।

क्षीराणि यान्य् अभक्ष्याणि तद्विकाराशने बुधः ।
सप्तरात्रव्रतं कुर्यात् प्रयत्नेन समाहितः ॥ इति ।

भक्ष्यव्रीह्यादिविकारस्यापि देवताभ्यो निवेदनार्थं वैदिकमार्गेण लौकिकमार्गेण वोपकल्पितस्य निवेदनात् प्राग् अप्राश्यत्वम् उक्तं याज्ञवल्क्येन ।

देवतार्थं हविःशिग्रुलोहितव्रश्चनांस् तथा । इति ।

यथा संधिन्यादिपयः पर्वर्जयेत् तथा देवार्थं देवताभ्यो निवेदनार्थं लौकिकमार्गेण परिकल्पितम् अन्नं हविः वैदिकमार्गेण परिकल्पितं पुरोडाशादिकं शिग्र्वादिकं च परिवर्जयेद् इत्य् अर्थः । एवं च संधिन्यादिपयोवद् यद्य् अपि देवतार्थान्नस्य पुरोषाशादिहिविषश् च सदा परिवर्जनं प्रतिभाति । तथापि देवतानिवेदनात् प्राग् एव प्रतिषेधो वेदितव्यः । अत एव पित्रादिदेवतार्थम् उदाहृत्योक्तं यमेन ।

भक्ष्यं भोज्यं तथा पेयं यत् किंचित् पच्यते गृहे ।
न भोक्तव्यं पितॄणां तद् अनिवेद्य कथंचन ॥ इति ।

शिग्रुः शोभाञ्जनः । स च रक्तकुसुमः परिवर्जनीयो न श्वेतकुसुमः । स्मृत्यन्तरे ऽपि “रक्तशिग्रुं वर्जयेत्” इति “विशिष्टस्यैव निषेधो विद्यते” इति देवस्वामिनाभिधानात् । शिग्र्वादिजातिगर्हितवद् आश्रयगर्हितम् अपि वर्जनीयम्, तथा च अङ्गिराः ।

द्विविधं गर्हितं प्रोक्तं नित्यम् अन्नं मनीषिभिः ।
जातितो गर्हितं चैव तथैवाश्रयगर्हितम् ॥
अभोज्यानां विजानीयाद् अन्नम् आश्रयगर्हितम् ।
लशुनादिकम् अन्नं यत् तज् ज्ञेयं जातिगर्हितम् ॥ इति ।

अभोज्यानाम् अन्नं यत् तद् आश्रयगर्हितं विजानीयात् । यल् लशुनगृञ्जनछत्राकादिकम् अन्नम् अदनीयं दुष्टद्रव्यसंसर्गेण विनापि लशुनत्वादिजातितयैव मन्वादिभिर् निषिद्धं तज् जातिगर्हितं ज्ञेयम् इत्य् अर्थः । याज्ञवल्क्यस् तु प्रातिपद्येनाश्रयगर्हितम् आह ।

कदर्यबद्धचोराणां क्लीबरङ्गावतारिणाम् ।
वैणाभिशस्तवार्धुष्यगणिकागणदीक्षिणाम् ॥
चिकित्सकातुरक्रुद्धपुंश्चलीमत्तविद्विषाम् ।
क्रूरोग्रपतितव्रात्यडाम्भिकोच्छिष्टभोजिनाम् ॥
अवीरस्त्रीस्वर्णकारस्त्रीजितग्रामयाजिनाम् ।
शस्त्रविक्रयिकर्मारतन्तुवायश्ववृत्तिनाम् ॥
चेलधावसुराजीवसहोपपतिवेश्मनाम् ।
पिशुनानृतिनोश् चैव तथा चाक्रिकबन्दिनाम् ॥
एषाम् अन्नं न भोक्तव्यं सोमविक्रयिणस् तथा ॥ इति ।

यो लोभाद् विद्यमानम् अपि धनं न भुङ्क्ते न ददाति स कदर्यः । तथा च स्मृतिः ।

आत्मानं धर्मकृत्यं च पुत्रदारांश् च पीडयेत् ।
लोभाद् यः पितरौ भृत्यान् स कदर्य इति स्मृतः ॥

बद्धो निगलितः, असिद्धो वा । चोरक्लीबौ प्रसिद्धौ । रङ्गावतारी मल्लादिः । वैणो वीणावादी । अभिशस्तः पतनीयकर्मकर्त्वेनाभियुक्तः । वार्धुष्यं निषिद्धवृद्ध्युपजीवनं तेन तद्वान् लक्ष्यते । गणिका वेश्या । गणः सङ्घः । दीक्षी दीक्षणीयेष्ट्यादिजनितदीक्षाख्यसंस्कारवान् । दिक्षाख्यसंस्कारव्त् त्वं चावभृथेष्टेः प्राग् एव अवभृथेष्ट्या तत्संस्कारापगमात् एवं च दीक्षणीयेष्ट्यनुष्ठानप्रभृति अवभृथेष्ट्यनुष्ठानपर्यन्तं दीक्षितस्याभोज्यान्नत्वम् अनया स्मृत्या प्रतिपादितम् इति यद्य् अपि प्रतिभाति । तथापि “संस्थिते ऽग्नीषोमीये यजमानस्य गृहे ऽशितव्यम्” इत्यादिश्रुत्या सत्य् अपि दीक्षाख्यसंस्कारे अग्नीषोईयपशुयागसमाप्तेः प्राग् एव अभोज्यान्न्तवम् अनया स्मृत्याप्य् उक्तम् इति मन्तव्यम् । चिकित्सको भिषक् । आतुरः पापरोगग्रस्तः । पापरोगाश् च देवलेन दर्शिताः ।

वातव्याध्यश्मरीकुष्ठमेहोदरभगंदराः ।
अर्शः संग्रहणीत्य् अष्टौ पापरोगाः प्रकीर्तिताः ॥

वातव्याधिः पक्षमारकादिः । अश्मरी मूत्रकृच्छ्रम् । मेहो मधुमेहादिः । उदरं जलोदरादिः । इतरे प्रसिद्धाः । क्रुद्धो धृताभ्यन्तरकोपः । पुंश्चली असती । मत्तो धनादिगर्वितः । परधिक्कारशीलः । विद्विट् शत्रुः । क्रूरो निर्दयः । उग्रः परदुःखोत्पादनपरः । पतितो महापातकी । व्रात्यः पतितसावित्रीकः । डाम्भिकः ख्यातिलाभादिप्रयोजनानुसंधानेनैव धर्मानुष्ठाता । उच्च्छिष्टभोजी परभुक्तोज्झितान्नभोजनशीलः । अवीरस्त्री निष्पतिसुता, “अवीरा निष्पतिसुता” इत्य् अमरसिंहेनाभिधानात् । स्वर्णकारः कटकमकुटादिस्वर्णविकारकारी । स्त्रीजितः सर्वकार्येषु स्त्रीवशवर्ती । ग्रामयाजी अनेकग्रामयाजकः शस्त्रविक्रयी खड्गादिविक्रयजीवी । श्ववृत्तिः श्ववृत्तवान् सेवक इति यावत् । नृशंसो घातुकः । राजा जनपदपुरपालकः रजको वस्त्रादिरागकर्ता । यः प्राणिवधेन (?) जीवति स वधजीवी । चेलधावः वस्त्रप्रक्षालकः । सुराजीवः सुराविक्रयी । सहोपपतिवेश्मा भार्या जारसहितगृहः । एषां कदर्यत्वादिदोषदुष्टानां त्रैवर्णिकानाम् अन्नं सोमलताविक्रयादिदोषदुष्टस्य त्रैवर्णिकस्यान्नं कदर्यत्वादिदोषदुष्टस्वामिसंबन्धात् परम्परया दुष्टम् अन्नं न भोक्तव्यम् इत्य् अर्थः । यद्य् अपि दीक्षितान्नस्याश्रयकृतदुष्टत्वाभावः, तथापि वचनबलाद् एवाभोज्यत्वम् । अन्यद् अपि त्रैवर्णकान्नं स्वाश्रयगर्हितम् अभोज्यं वचोभङ्ग्या पैठीनसिर् आह - “सांवत्सरिकघण्टिकग्रामकूटान्नं विषं परिवित्तिपरिविविदानविद्धप्रजननवृषलीपतिदिधिषूपतिपुनर्भूपुत्राणां रुधिरम्” इति । सांवत्सरिको ज्यौतिषिकः । घाण्टिको निघण्टुकारेण निरूपितः - “राज्ञां प्रबोधसमये घण्टाशिल्पस् तु घाण्टिकः” इति । ग्रामकूटो ग्रामे ऽनन्याधीनतक्षकः “कूटतक्षो ऽनधीनकः” इत्य् अमरः । विषं विषवद् अभक्ष्यम् । यस्मिन् अकृतदारे ज्येष्ठे कनिष्ठेन दारपरिग्रहः क्रियते स ज्येट्ःअः परिवित्तिः । य आधानानि ज्येष्ठेनाकृतानि करोत्य् असौ कनिष्ठः परिविविदानः । विद्धप्रजननो विद्धशिश्नः । दिधिषूपतिः पुनर्भूपतिः । रुधिरं रुधिरवद् अभक्ष्यम् । यमो ऽपि ।

चक्रोपजीवी गान्धर्वः कितवस् तस्करस् तथा ।
ध्वजी दारोपजीवी च शूद्राध्यापकयाजकौ ॥
कुलालश् चित्रकर्मा च वार्धुषिश् चर्मविक्रयी ॥ इति ।

अभोज्यान्न इति शेषः । चक्रोपजीवी शाकटिकः । ध्वजी मद्यविक्रयी । कुलालः कुम्भारवृत्त्युपजीवी । शेषाणि प्रसिद्धानि । स्मृत्यन्तरे ऽपि ।

तथा राजभृतस्यान्नं चोरस्यान्नं तथैव च ।
सूतके मृतके चान्नं स्वर्गस्थम् अपि पातयेत् ॥
अवलिप्तस्य मूर्खस्य दुष्टवृत्तस्य दुर्मतेः ।
अन्नम् अश्रद्दधानस्य यो भुङ्क्ते भ्रूणहा स वै ॥ इति ।

राजभृत्यादीनाम् अन्नम् अत्यन्तगर्हितम्, तेन यत्नाद् वर्ज्यम् इत्य् अभिप्रायः । अवलिप्तो गर्वितः । सांवत्सरिकघाण्टिकादीनाम् अपि त्रैवर्णिकान्तर्गतानाम् अन्नं प्रतिषिध्यते । न तु शूद्रादिजात्यन्तर्गतानाम्, तेषां स्वरूपेण प्रतिषेधात् । तथा च स्मृत्यन्तरे ।

ब्राह्मणस्य सदाश्नीयात् क्षत्रियस् तु पर्वसु ।
प्रकृतेष्व् अथ वैश्यस्य शूद्रस्य न कदाचन ॥

प्रकृतेषु प्रस्तुतेषु विवाहादिषु महोत्सवेष्व् इत्य् अर्थः । ब्राह्मणस्येत्यादिषु अन्नम् इति शेषो द्रष्टव्यः । एवं च क्षत्रियाणाम् अन्नं पर्वसु भोक्तव्यम् । कदर्यादिक्षत्रियाणाम् अन्नं पर्वस्व् अपि न भोक्तव्यम् । वैश्यानाम् अन्नं विवाहादिमहोत्सवाद् अन्यत्र न भोक्तव्यम् । कदर्यादिवैश्यानाम् अन्नं विवाहाद्युत्सवेष्व् अपि न भोक्तव्यम् इत्य् अनुसंधेयम् । शूद्रस्य न कदाचनेत्य् अनेनैव शूद्राज् जघन्यस्य प्रतिलोमस्यान्नं सुतरां नाश्नीयाद् इति गम्यते । याज्ञवल्क्यः शूद्रेष्व् अपि केषांचिद् अन्नं बोज्यम् इत्य् आह ।

शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः ।
भोज्यान्ना नापितश् चैव यश् चात्मानं निवेदयेत् \

दासः क्रीतकादिः । गोपालो गवां पलयिता । कुलमित्रं पितृपितामहादिक्रमागतः सखा । सीरो लाङ्गलम्, तेन कृषिफलं लक्ष्यते, ततश् च कृषिफलम् अर्धसीरपदेनोक्तम् । नापितो वपनादिकर्मकर्ता शूद्रः । एते दासादयः शूद्रेषु शूद्राणां मध्ये भोज्यान्नाः । यश् च शूद्रः क्रीतवद्विजायात्मानं (?) निवेदयति तवहम् इति समर्पयति सो ऽपि भोज्यान्न इत्य् अर्थः । दासादयश् चात्र स्वकीया एव विवक्षिताः । अत एव देवलः ।

स्वदासो नापितो गोपः कुम्भकारः कृषीवलः ।
ब्राह्मणैर् अपि भोज्यान्नाः पञ्चैते शूद्रयोनयः ॥

एवं च यदीया दासादयस् तस्यैव तेषाम् अन्नं भोज्यं नान्यस्येति मन्तव्यम् । दासादिव्यतिरिक्तशूद्रन्नभोजने दोषम् आह दक्षः ।

शूद्रान्नरसपुष्टाङ्गस् त्व् अधीयानो ऽपि नित्यशः ।
जुह्वन् वापि जपन् वापि गतिम् ऊर्ध्वां न विन्दति ॥

वसिष्थो ऽपि ।

शूद्रान्नेनोदरस्थेन यो ऽपि गच्छति मैथुनम् ।
यस्यान्नं तस्य तत् पुत्रः अन्नाच् छुक्लं प्रवर्तते ॥

हारीतो ऽपि ।

शूद्रान्नेन तु भुक्तेन जठरस्थेन यो मृतः ।
स वेसरत्वम् उष्ट्रत्वं शूद्रत्वं वोपगच्छति ॥

अङ्गिरा अपि ।

षण्मासं यो द्विजो भुङ्क्ते शूद्रस्यान्नं विगर्हितम् ।
स च जीवन् भवेच् छूद्रो मृतश् च श्वाभिजायते ॥

अन्नं पक्वम् आमं च । यत् तु सुमन्तुनोक्तम्,

गोरसं चैव सक्तूंश् च तैलं पिण्याकम् एव च ।
अपूपान् भक्षयेच् छूद्रात् यच् चान्यत् पयसा कृतम् ॥

यद् अपि हारीतेन,

कन्दुपक्वं स्नेहपक्वं पायसं दधि सक्तवः ।
एतान्य् अशूद्रान्नभुजो भोज्यानि मनुर् अब्रवीत् ॥

—अपूपादिपचनार्थं परिमण्डलतया कृतम् अयोमयं पात्रं कन्दुः, तत्र पक्वं कन्दुपक्वम् । स्नेहेन तैलादिद्रव्येण पक्वं सेनपक्वम् । अशूद्रान्नभुजो द्विजस्य — यद् अप्य् अङ्गिरसा,

पात्रान्तरगतं ग्राह्यं शूद्रात् स्वगृहम् आगतम् ॥ इति ।

— अन्नम् इति शेषः — यद् अपि विष्णुपुराणे,

संप्रोक्ष्य विद्वान् गृह्णीयाच् छूद्रान्नं गृहम् आगतम् ।

इति, यत् तु शङ्खेन,

गृहात् परार्थे भूम्यर्थे गवार्थेषु विशेषतः ।
श्रोत्रियेण तु भोक्तव्यं शूद्राणां तु यमो ऽब्रवीत् ॥

तद् एतत् सर्वम् आपद्विषयम् । एवम् अग्निविहीनस्यान्नम् अप्य् आपद्विषय एव भोज्यम्, “अग्निहीनस्य नान्नम् अद्याद् अनापदि” इति याज्ञवल्क्यस्मरणात् । सत्य् अप्य् अधिकारे श्रौतस्मार्तादिपरिग्रहम् अकुर्वतो विधाने नोत्सृष्टाग्नेश् चान्नम् अनापदि न भुञ्जीतेत्य् अर्थः । अनेनार्थाद् अग्निहीनस्यान्नम् आपद्य् अद्याद् इत्य् उक्तं भवति । आपद्य् अपि यतिवानप्रस्थयोर् अन्नं नद्यात् । तथा च श्लोकापस्तम्बः ।

द्वाव् एवाश्रमिणौ भोज्यौ ब्रह्मचारी तथा गृही ।
मुनेर् अन्नम् अभोज्यं स्यात् सर्वेषां लिङ्गिनां तथा ॥ इति ।

भोज्यौ भोज्यान्नौ । मुनिः वानप्रस्थो यतिश् च । लिङ्गिनाम् अवेदोक्तलिङ्गिनाम् ॥

इति स्मृतिचन्द्रिकायां नित्यभोजने मांसव्यतिरिक्तवर्ज्यद्रव्यविषयाणि

वर्जनीयमांसद्रव्यम्

**अथ नित्यभोजने वर्जनीयमांसद्रव्यविषयाणि **

**कानिचिद् वचनानि लिख्यन्ते **

तत्र मनुः ।

एतद् उक्तं द्विजातीनां भक्ष्याभक्ष्यम् अशेषतः ।
मांसस्यातः प्रवक्ष्यामि विधिं भक्षणवर्जने ॥

मांसस्य भक्षणे वर्जने च विधिं प्रवक्ष्यामीत्य् अर्थः । तत्र मांसभक्षणे प्राप्ते विधिकथनं निषेधकथनेन विना न संभवतीति प्रथमं मनूक्तम् एव निषेधवचनं प्रदर्श्यते ।

नाकृत्वा प्राणिनाम् हिंसां मांसम् उत्पद्यते क्वचित् ।
न च प्राणिवधः स्वर्ग्यस् तस्मान् मांसं विवर्जयेत् ॥
समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् ।
प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥ इति ।

प्राणिहिंसा मा भूद् इति सर्वस्माद् रागप्राप्तमांसभक्षणान् निवर्तेत, न तु प्रत्यवायभयाद् इत्य् अर्थः । अत्रोक्तं तेनैव ।

न मांसभक्षणे दोषो न मद्ये न च मैथुने ।
प्रवृत्तिर् एषा भूतानां निवृत्तिस् तु महाफला ॥ इति ।

अनेन मांसभक्षणे प्रत्यवायाभावाल् लोकविद्वेषाभावाच् च फलार्थित्वाभावे मांसं भक्षयेद् इति विधिर् अर्थाद् उक्त इति मन्तव्यम् । निवृत्तेस् तु महाफलसाधनत्वं च तेनैवोक्तम् ।

फलमूलाशनैर् मेध्यैर् मुन्यन्नानां च भोजनैः ।
न तत् फलम् अवाप्नोति यन् मांसपरिवर्जनात् ॥ इति ।

एवम् उक्तफलार्थिनाम् अपि केषुचिद् विषयेषु मांसं भक्षितव्यम् इत्य् स एव ।

प्रोक्षितं भक्षयेन् मांसं ब्राह्मणस्य च काम्यया ।
यथाविधि नियुक्तश् च प्राणानाम् एव चात्यये ॥

प्रोक्षितं भक्षयेन् मांसं क्रतौ पश्ववयवभूतं हृदयादिमांसम् इष्टिशिष्टं भक्षयेत् । ब्राह्मणस्य च काम्यया निमन्त्रितब्राह्मणस्येच्छया मांसं भक्षयेत् । इष्टैः सहोपभुज्यताम् इति स्वेच्छापूर्वकोक्त्यनुज्ञातं श्राद्धशिष्टं मांसं श्राद्धकर्ता भक्षयेद् इति यावत् । यथाविधि नियुक्तश् च विधिवच् छ्राद्धे निमन्त्रितो ब्राह्मणपित्राद्युद्देशेन त्यक्तं मांसं भक्षयेत् । प्राणानाम् एव चात्यये मांसं भक्षयेत् । भेषजत्वेन दुर्भिक्षादाव् अन्नालाभेन वा यत्र मांसभक्षणम् अन्तरेण प्राणधारणम् अशक्यं तथाविधविषये ऽपि मांसं भक्षयेत् । एवं च प्रोक्षितादिविषयचतुष्टयाद् अन्यत्र फलार्थिनां मांसभक्षणं वर्जनीयम् । फलार्थित्वाभावे तु नावश्यं वर्जनीयम् इति सिद्धम् । यत् पुनस् तेनोक्तम्,

असंस्कृतान् पशून् मन्त्रैर् नाद्याद् विप्रः कदाचन ।

इति तद् अपि फलार्थिविषयम् ।

न मांसभक्षणे दोषो न मद्ये न च मैथुने ।

इति वाक्यत्रयं यत्र प्रातिपद्येन निषेधो न विद्यते तद्विषयम् । प्रातिपद्येन निषेधविधिषु सत्सु पुरुषस्य निवृत्तिसिद्ध्यर्थं निषिद्धकरणे दोषकल्पनस्यावश्यकत्वात् । तेन परस्त्रीगमने वेश्यागमने वा नानाविधधोषसद्भावात् प्रातिपद्येन निषिद्धमांसभक्षणे ऽपि नानाविधदोषाः सन्त्य् एव । अत एव शङ्केन प्रातिपद्येन निषिद्धमांसभक्षणे प्रायश्चित्तम् उक्तम् - “विड्वराहग्रामकुक्कुटकुम्भिकभक्षणे द्वादशरात्रं पयः पिबेत्” इति । विड्वराहादिमांसभक्षणे निषेधो मनुना प्रातिपद्येन दर्शितः ।

क्रव्यादान् शकुनीन् सर्वान् तथा ग्रामनिवासिनः ।
अनिर्दिष्टांश् चैकशफान् टिट्टिभं चैव वर्जयेत् ॥
कलविङ्कं प्लवं हंसं चक्राङ्गं ग्रामकुक्कुटम् ।
सारसं रज्जुदालं च दत्यूहं शुकशारिके ॥
प्रत्युदान् जालपादांश् च कोयष्टिनखविष्किरान् ।
निमज्जतश् च मत्स्यादान् सौनं वल्लूरम् एव च ॥
बकं चैव वलाकां च काकोलं खञ्जरीटकम् ।
मत्स्यादान् विड्वराहांश् च मत्स्यान् एव च सर्वशः ॥ इति ।

क्रव्यं मांसम्, तद् अत्तीति क्रव्यादः । ये क्रव्यादाः शकुनयस् तान् गृध्रादीन् वर्जयेत् । ग्रामवासिनः शकुनयः पारावतप्रभृतयः, तान् अपि वर्जयेत् । अनिर्दिष्टान् अज्ञातान् अज्ञातावान्तरजातिविशेषान्, मृगपक्षिण इति शेषः, “अज्ञातांश् च मृगद्विजान्” इति याज्ञवल्क्यस्मरणात् । एकशफान् अश्वादीन् वर्जयेत् । निष्ठुरशब्दभाषी पक्षिविशेषः टिट्टिभः । तथा च वैजयन्त्याम् उक्तम् - “टिट्टिभस् तु कट्क्काणः(?)” इति । कलविङ्कश् चटकः । प्लवो जलकुक्कुटः । हंसः प्रसिद्धः । चक्राङ्गश् चक्रवाकः । कुक्कुटः प्रसिद्धः । सारसः पुष्कराह्वयः । स च दीर्घगलजङ्घो नीलाङ्गः पक्षिविशेषः । रज्जुदालो वृक्षकुक्कुटः । दात्यूहः कालकण्टकः स च जलसमीपचरः । शुकः प्रसिद्धः । तस्य स्त्री शारिका । चञ्च्वा प्रत्युद्य भक्षयन्तीति प्रत्युदाः श्येनादयः । जालपादा जालाकारपादाः । कोयष्टिः कीदृश इति चिन्त्यः । नखैर् विकीर्य भक्षयन्तीति नखविष्किराः चकोरादयः । निमज्जतश् च मत्यादाः निमज्ज्यनिमज्ज्य मत्स्यान् भक्षयन्तीति तान् । सूना हिंसास्थानम्, तत्र हतस्य मांसं सौनम् । वल्लूरं शुष्कमांसम् “उत्तप्तं शुष्कमांसं स्यात् तद् वल्लूरं त्रिलिङ्गकम्” इत्य् अमरः । बकबलाके प्रसिद्धे । काकोलः गिरिकाकः । वृद्धकाको वा । यो मेघपर्यन्तम् आकाशारोहणं लीलया करोति स च खञ्जरीटः । मत्स्यादान्, अनिमज्ज्तो ऽपि । विड्वराहाः ग्रामसूकराः । मत्स्यान् एव च सर्वशः सर्वप्रकारान् मत्स्यान् वर्जयेत् । अनन्तरोक्तस्यापवादम् आह स एव ।

पाठीनरोहिताव् आद्यौ नियुक्तौ हव्यकव्ययोः ।
राजीवाः सिंहतुण्डाश् च सशल्काश् चैव सर्वशः ॥ (म्ध् ५।१६)

पाठीनो बहुदंष्ट्रो मत्स्यः, “सहस्रदंष्ट्रः पाठीनः” इत्य् अमरः । रोहितो रक्तवर्णः । एतौ पाठीनरोहितौ हव्यकव्ययोर् नियुक्तौ निवेदितौ दत्तौ निमन्त्रितेनाद्यौ भक्ष्याव् इत्य् अर्थः । राजीवाः पद्मवर्णाः, राजिमन्तो वा । सिंहतुण्डाः सिंहमुखाः । सह शल्कैः शुक्त्याकारैः पृष्ठभागतो वर्तन्ते इति सशल्काः । एतेषु सिंहतुण्डादयः सर्वशः निमन्त्रितैर् अनिमन्त्रितैश् च भक्ष्याः । सशल्कानां भक्ष्यत्वं वेदाध्ययनहीनपुरुषाभिप्रायेणोक्तम्,

मत्स्यान् सशल्कान् सर्वान् वै वेदाध्यायी विवर्जयेत् ।

इति यमस्मरणात् । देवलो ऽपि प्रातिपद्येन निषेधम् आह ।

उलूककुररश्येनगृद्ध्रकुक्कुटवायसाः ।
चकोरकोकिलौ रज्जुदालकश् चाषमद्गुकौ ॥
पारावतकपोतौ च न भक्ष्याः पक्षिणः स्मृताः ॥

उलूको घूकः । यो ऽन्तरिक्षे चरन् जलान्तर्वर्तिनं मत्स्यादिकं श्येन इव निपत्यादत्ते स कुररः । चकोरः चन्द्रिकास्वादकः । यः शकुनसूचकत्वेन प्रसिद्धो हरितपीतवर्णः खर्वकाय पक्षिविशेषः स चाषः । मद्गुः जलकाकः “मद्गुस् तु जलवायसः” इत् वैजयन्त्याम् । शेषाः प्रसिद्धाः । एवं यत्र यत्र प्रातिपद्येन प्रतिषेधः स्मर्यते तत्र निषेधविधिम् अतिक्रम्य भक्षणे कृते प्रत्यवायो न मांसमात्रभक्षण इत्य् अनुसंधेयम् । अत एव शङ्खेनाप्रतिषिद्धानां मांसं भक्ष्यम् इति दर्शयितुं केचन पक्षिमृगाणाम् अप्रतिषिद्धानाम् उपलक्षणतयोक्ताः ।

तित्तिरिं च मयूरं च लावकं च कपिञ्जलम् ।
वार्ध्रीणसं वर्तिकं च भक्ष्यम् अह यमः सदा ॥

लावकः स्वजातीयैः सह कलहकारी पक्षिविशेषः । कपिञ्जलः शरुः । स च चित्रवर्णपक्षः । “चित्रपक्षे शरुकपिञ्जलौ” इति वैजयन्त्याम् अभिधानात् । वार्ध्रीणसः खड्गाख्यो मृगः “गण्डके खड्गखड्गिनौ, वार्ध्रीणसो गणोत्साहः” इत् तत्रैवाभिधानात् । वर्तिकः पक्षिविशेषः । शेषाः प्रसिद्धाः । वार्ध्रीणसग्रहणम् अप्रतिषिद्धपशुमृगाणां प्रदर्शनार्थम् । अत एव मनुः ।

श्वाविधं शल्यकं गोधां खड्गकूर्मशशांस् तथा ।
भक्ष्यान् पञ्चनखेष्व् आहुर् अनुष्ट्रांश् चैकतोदतः ॥

श्वावित् श्वभक्षको व्याघ्रविशेषः । न तु शल्यः, पौनरुक्त्यापत्तेः । श्वाविच्छब्दः श्वभक्षकव्याघ्रविशेषे ऽपि प्रसिद्धः । अत एव अपरार्केण “सेधा श्वावित्” इति व्याख्याय “स च श्वभक्षको व्याघ्रविशेषः” इत्य् उक्तम् । शल्यकः शल्यः, स च जलाकासन्निभतनूरुहशाली मृगविशेषः । गोधा विलेशया ईषन्नकुलसदृशी । इतरे प्रसिद्धाः । अनुष्ट्रांश् चैकतोदतः पशूनां मध्ये उष्ट्रव्यतिरिक्तान् । एकतोदतः महिषमेषप्रभृतीन् भक्ष्यान् आहुर् इति संबन्धः । उष्ट्रग्रहणं गवादीनाम् अपि प्रदर्शनार्थम् । अत एव देवलः ।

अभक्ष्याः पशुजातीनां गोखरोष्ट्राश्वकुञ्जराः ।
सिंहो व्याघ्रश् च शरभसर्पाजगरकास् तथा ॥
आखुमूषकमार्जारनकुलग्राम्यसूकराः ।
श्वसृगालवृकद्वीपिगोलाङ्गूलकमर्कटाः ॥ इति ।

व्याघ इति पूर्वम् उक्तत्वात् द्वीपिशब्दो व्याघ्रविसेषपरः । गोलाङ्गूलो वानरविशेषः । मर्कटग्रहणं पञ्चनखानाम् उपलक्षणम् । अत एव न भक्षयेद् इत्य् अनुवृत्तौ मनुनोक्तम् “सर्वान् पञ्चनखांस् तथा” इति । सर्वान् भक्ष्यत्वेन पूर्वोक्तश्वाविच्छल्यकगोधाखड्गकूर्मशशव्यतिरिक्तान् इत्य् अनुसंधेयम् । शङ्खो ऽपि भक्ष्यमांसम् आह ।

माहिषं त्व् आजम् औरभ्रं मार्गं रौरवम् एव च ।
भक्ष्यमांसं समुद्दिष्टं यच् च वै पार्षतं भवेत् ॥
वराहांश् च तथा भक्ष्यान् आहारण्यनिवासिनः ॥

उरभ्रो मेषः, तस्य मांसम् औरभ्रम् । मृगो हरिणः तस्य मांसं मार्गम् । रुरुः कृष्णसारविशेषः “रुरुर् महान् कृष्णसारः” इति वैजयन्त्यां, तस्य मांसं रौरवम् । पृषतः अतिस्थूलबिन्दुप्रमाणकशुक्लवर्णतनूरुहकृतमण्डलशतेश् चित्रतो हरिणविशेषः, तस्य मांसं पार्षतम् । तथारण्य्निवासिनो वराहान् भक्ष्यान् आहेत्य् अन्वयः । एवम् उक्तभक्ष्य्मांसप्रतिपादकवचनैर् भक्षणीयेषु भक्षणमात्रेण प्रत्यवायो नास्तीति गम्यते, न तु भक्षणाय प्राणिवधे कृते ऽपीति, प्राणिवधम् अकृत्वा म्श्ंसार्जनसंभवात् (?), “न हिंस्यात् सर्वा भूतानि” इत् हिंसाप्रतिषेधाच् च,

यो ऽहिंसकानि भूतानि हिनस्त्य् आत्मसुखेच्चया ।
स जीवंश् च मृतश् चैव न क्वचित् सुखम् एधते ॥
स वसेन् नरके घोरे दिनानि पशुरोमभिः ।
संमितानि दुराचारो यो हन्त्य् अविधिना पशून् ॥

इति मनु-याज्ञवल्क्यस्मरणाच् च । यत् तु मनुनोक्तम्,

अनुमन्ता विशसिता निहन्ता क्रयविक्रयी ।
संस्कर्ता चोदहर्ता च खादकश् चैव घातकाः ॥

इति, तत्र क्रयविक्रयिखादकादेर् घातकत्वाभिधानं हन्तॄणां कथंचित् प्रेतकभूतस्य न तूदासीनस्येति मन्तव्यम्, उदासीनस्य कथंचिद् अपि हननकर्तृत्वाभावात् । अत एव देवलः ।

पञ्च पञ्चनखा भक्ष्याः धर्मतः परिकीर्तिताः ।
गोधा कूर्वः शशः श्वाविच् छल्यकश् चेति ते स्मृताः ॥

हिंसाम् अन्तरेण विक्रयाद्यैर् उपादाय पञ्चनखाः भक्ष्याः परिकीर्तिता इत्य् अर्थः । यद्य् अप्य् अत्र पञ्चग्रहणम् अवधारणार्थम्, तथापि “श्वविधं शल्यकं गोधां खड्गकूर्मशशांस् तथा” इति मानवे खड्गमांसस्य भक्ष्यत्वाभिधानम् अविरुद्धम्, भिन्नविषयत्वात् । नित्यभोजनविषयं देवलवचनम् । मानवं तु श्राद्धविषअयम्,

खड्गमांसैर् भवेद् अन्नम् अक्षय्यं पितृकर्मणि ।

इति खड्गमांसस्य श्राद्धे फलश्रुतिदर्शनात् ॥

इति स्मृतिचन्द्रिकायां नित्यभोजने वर्जनीयमांसविषयाणि