१५ श्राद्धकर्मणि वर्ज्यद्रव्याणि

अथ श्राद्धकर्मणि वर्ज्यद्रव्याणि

तत्र मदालसावाक्यम् ।

यच् चोत्कोचादिना प्राप्तं पतिताद् यद् उपार्जितम् ।
अन्यायकन्याशुल्कोत्थं द्रव्यं चात्र विगर्हितम् ॥
पित्रर्थम् एव मे यच्छेत्य् उक्त्वा यच् चाप्य् उपार्जितम् ।
तद् वर्जनीयं विद्वद्भिः तत् तद् वै श्राद्धकर्मणि ॥

उत्कोचादिना स्पृहाहेतुना स्तेयादिना । अन्यायकन्याशुल्कं गोमिथुनाद् अधिककन्याशुल्कम्, तेन प्राप्तम् अन्यायकन्याशुल्कोत्थम् । अत्र श्राद्धकर्मणि विगर्हितं वर्ज्यम् इत्य् अर्थः । व्यासो ऽपि वर्ज्यम् आह ।

वेदविक्रयजं नेष्टं स्त्रिया यच् चार्जितं धनम् ।
न देयं पितृदेवेभ्यो यच् च क्लीबाद् उपार्जितम् ॥

धान्यादिष्व् अपि वर्ज्यान् आह स एव ।

अश्राद्धेयानि धान्यानि कोद्रवाः पुल्कास् तथा ।
हिङ्गुद्रव्येषु शाकेषु कालानलशुभास् तथा ॥

कोद्रवाः कोरदूषकाः “कोरदूषस् तु कोद्रवः” इत्य् अमरसिंहेनाभिधानात् । पुलका पुलाका कोद्रवापेक्षया स्वल्पधान्यानि “स्यात् पुलाकस् तुच्छधान्ये” इति तेनैवाभिधानात् । एवं च पुलकास् तथेति व्यासवचने पुलकशब्दमध्याक्षरे दीर्घाभाव (?) आर्षत्वान् न दोष इति मन्तव्यम् । द्रव्येषु शाकादिसंस्कारार्थद्रव्येषु हिङ्ग्वाख्यं द्रव्यम् अश्राद्धेयम् । ननु हिङ्गुप्रतिषेधो न युक्तः,

मधूकं रामठं चैव कर्पूरं मरिचं गुडम् ।
श्राद्धकर्मणि शस्तानि सैन्धवं मानसं तथा ॥

इत्य् आदित्यपुराणे तस्य ग्राह्यत्वेन स्मरणात् । सत्यम्, विधिप्रतिषेधयोः द्वयोर् अपि दर्शनाद् धिङ्गुविषये विकल्पो द्रष्टव्यः । एवम् अन्यत्रापि यत्र यत्र विधिप्रतिषेधाव् एकस्यैव दृश्येते तत्र विकल्पो वेदितव्यः । शाकेषु शाकानां मध्ये कालानलशुभाख्याः शाकविशेषा अश्राद्धेयाः । तत्र कालाख्यः शाकविशेषः कुठेरकाकृतिर् इति देवस्वामिना निरूपितः । कुठेरको ऽर्जकसदृशः पर्णासः, “अथ पर्णासे कठिञ्जरकुठेरकौ । सिते ऽर्जकोत्र” इत्य् अमरसिंहेनाभिधानात् । एवं च कृष्णार्जकः कालशब्देनोक्त इति मन्तव्यम् । अनलः चित्रकः, “चित्रको वह्निसंज्ञकः” इत्य् अमरः । यल् लोके शुभं शाकम् इति व्यपदिश्यते तद् एवात्र शुभशब्देनोक्तम् इति देवस्वामिनाभिहितम् । भरद्वाजो ऽपि - “मुद्गाढकीमाषवर्जं द्विदलानि दद्यात्” इति । यानि पाषाणयन्त्रभ्रमणेन द्विधा प्रायशो भिद्यन्ते तानि धान्यानि द्विदलानि । आढकी शिम्बीधान्यविशेषः तुवरीनाम्ना प्रसिद्धः । मुद्गमाषाव् अपि शिम्बीधान्यविशेषौ मुद्गमाषनाम्नैव प्रसिद्धौ । माषशब्देन राजमाषो गृह्यते, न पुनः कृष्णमाषः,

वर्ज्या मर्कटकाः श्राद्धे राजमाषास् तथैव् च ।

इति स्मृत्यन्तरे विशेषितत्वात् । मर्कटकाः तृणधान्यविशेषाः । तथा च तृणधान्यप्रकरणे वैजयन्त्याम् उक्तम् - “अथ वन्यो मर्कटकः समौ” इति । राजमाषाः प्रायेण प्रादेशमात्रशिम्बीयुक्ताः, शुष्कदशाया (?) पाटलवर्णा अलसान्द्रनाम्ना प्रसिद्धाः । अत एव वैजयन्त्याम् “अलसान्द्रो राजमाषः” इत्य् उक्तम् । मुद्गशब्दान् नात्र कृष्णेतरमुद्गो गृह्यते । न पुनः कृष्णमुगो ऽपि,

कृष्णधान्यानि सर्वाणि वर्जयेच् छ्राद्धकर्मणि ।
न वर्जयेत् तिलांश् चैव मुद्गान् माषांस् तथैव च ॥

इति स्मृत्यन्तरे कृष्णानां तिलमुद्गमाषाणां प्रतिप्रसवदर्सनात् । कृष्णधान्येषु कुलुत्थादयो ऽपि वर्ज्याः,

कोद्रवा राजमाषाश् च कुलुत्था वरकास् तथा ।
निष्पावाश् च विसेषेण पञ्चैतांस् तु विवर्जयेत् ॥
यावनालान् अपि तथा वर्जयन्ति विपश्चितः ॥

इति चतुर्विंशतिमते ऽभिधानात् । कुलुत्था मुद्गवत् सूपयूषाद्यनेकोपकारकतया प्रसिद्धाः । कृष्णा अकृष्णाश् चेति द्विविधा अपि वर्ज्याः, कृष्णमुद्गादिवत् प्रतिप्रसवाभावात् । वरका वनमुद्गाः,

वनमुद्गे तु वरकनिगूढकुलीमकाः ।

इति वैजयन्त्याम् उक्तत्वात् । निष्पावा अपि कुलुत्थवत् सूपाद्यनेकोपकारकतया श्वेतशिम्बीधान्यतया च प्रसिद्धाः । अत एव वैजयन्त्याम् “निष्पावः श्वेतशिम्बिका” इत्य् उक्तम् । अयं निष्पावप्रतिषेधः कृष्णनिष्पावविषयः,

कृष्णधान्यानि सर्वाणि वर्जयेच् छ्राद्धकर्मणि ।

इति स्मरणात् । एवं च यद् उक्तं मार्कण्डेयपुराणे,

यवव्रीही सगोधूमौ तिलमुद्गाः ससर्षपाः ।
प्रियङ्गवः कोविदारा निष्पावाश् चात्र शोभनाः ॥

इति, तत् कृष्णेतरविषयम् इति मन्तव्यम् । यावनाला विन्ध्यदक्षिणतो माहाराष्ट्रादिदेशे जोहलापपर्ययप्रसिद्धाः । अत एव वैजयन्त्याम् “यावनालास् तु जोहलाः” इत्य् उक्तम् । मरीचिनाप्य् उक्तानि वर्ज्यानि ।

कुलुत्थाश् चणकाः श्राद्धे न देयाश् चैव कोद्रवाः ।
कटुकानि च सर्वाणि विरसानि तथैव च ॥

चणकाः अश्वानाम् अत्यन्तप्रियाः प्रत्यन्तदेशव्यतिरिक्तदेशेषु सर्वत्र प्रसिद्धाः । विष्णुपुराणे ऽपि ।

श्राद्धे न देयाः पालङ्क्याः तथा निष्पावकोद्रवाः ।
मसूरक्षारवार्ताककुलुत्थाः शणशिग्रवः ॥

पालङ्क्या मुकुन्दाख्यं गन्धद्रव्यम्, “पालङ्क्या मुकुन्दः कुन्दकुन्दरू” इत्य् अमरसिंहेन गन्धद्रव्यनाम् अनुशासनप्रकरणे ऽभिधानात् । मसूरो ऽपि प्रत्यन्तदेशव्यतिरिक्तदेशेष्व् अतिप्रसिद्धो द्विदलविशेषो मङ्गल्यकापरपर्यायः । तथा अमरसिंहः - “मङ्गल्यको मसूरः” इति । क्षारो यवक्षारादिः । वार्ताकं क्षुद्रवार्ताकसंज्ञकबृहतीफलं कण्टकारिकाख्यबृहतीफलात् किंचित् स्थूलम् । शणशब्दो धान्यविशेषवचनः, “शणः सप्तदलानि धान्यानि” इति धान्यप्रभेदेष्व् अबिधानात्, अस्य च स्वयंजातस्य सर्वदा प्रतिषिद्धत्वात् । अत्र प्राप्त्यसंभवे ऽपि कृष्यादिजातस्य प्राप्तिसंभवात् प्रतिषेधो नानर्थकः । शिग्रुः द्विविधः श्वेतपुष्पो रक्तपुष्पश् च । तत्र रक्तपुष्पस्य सर्वनिषिद्धत्वेन प्राप्त्यभावे ऽपि श्वेतपुष्पस्य पत्रशाकत्वेन प्राप्तिर् अस्तीति प्रतिषेधो ऽर्थवान् । विष्णुर् अपि वर्ज्यान् आह - “भूतृणशिग्रुसर्षपसुरसार्जककूष्माण्डालाबुकीवार्ताक-पालङ्क्यातण्डुलीयककुसुम्बमहिषीक्षिराणि वर्जयेत्” इति । भूतृणः - “छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणौ” इत्य् अमरः । विसर्गाभावः छान्दसः । यस्य नाले ग्रन्थिस्हानेषु परिमण्डला अवष्टम्भका भवन्ति स भूतृणाख्यः शाकविशेषः । सर्षपो ऽत्र राजसर्षपो विवक्षितः, न तु सर्षपमात्रम् “कुसुम्भं राजसर्षपम्” इति स्मृत्यन्तरे वेशेषप्रतिषेधात्, विशेषप्रतिषेधश् च शेषाभ्यनुज्ञानार्थः, ततश् च तदविरोधाय तत्रैव सामान्यशब्दः पर्यवस्यति । राजसर्षपसुरसानिर्गुण्डीलेह्येष्व् आम्ररसप्रवेशनात् प्राप्तौ प्रतिषिध्यते । अर्जकः श्वेतार्जकः । कूश्माण्डालाबुकीशब्दौ प्रसिद्धौ । वार्ताकपालङ्क्याशब्दौ प्राग् एव व्याख्यातौ । तण्डुलीयकः प्रसिद्धः । अत एव अमरसिंहेन “तण्डुलीयोल्पमारिषः” इति तण्डुलीयकम् उद्दिश्याल्पमारिषो ऽनुशिष्टः । कुसुम्बशब्देनात्र कण्टकीकुसुम्भस्य ग्रहणम्, अकण्टकीकुसुम्भस्य सदाप्रतिषिद्धत्वात् । द्विविधस्यापि कुसुम्भस्य नवपत्राणि शाकत्वेनोपयुज्यन्ते । तेन शाकत्वेन प्राप्तिसंभवात् प्रतिषेधो ऽर्थवान् । मत्स्यो ऽपि ।

कुसुम्भं बीजपूरं च कपित्थं मधुकातसी ।
एतान्य् अपि न देयानि पितृभ्य प्रीतिम् इच्छता ॥

कपित्थस्य फलत्वेन प्राप्तिसंभवात् प्रतिषेधः । मधुकं यष्टिमधुकम् अस्य गन्धद्रव्यतया प्राप्तिसंभवात् प्रतिषेधः । अतसीशाकत्वेन प्रसिद्धैव । सुमन्तुर् अपि - “बीजपूरमाषांश् च श्राद्धे न दद्यात्” इति । बीजपूरको मातुलिङ्गकः, “फलपूरो बीजपुरो रुचको मातुलिङ्गकः” इत्य् अमरः । माषाः कृष्णमाषव्यतिरिक्ताः । मार्कण्डेयो ऽपि ।

वर्ज्याश् चाभिषवा नित्यं शतपुष्पा गवेधुका ।
जम्बीरजं फलं वर्ज्यं कोविदारस् तु नित्यशः ।

अभिषवाः क्लिन्नाः शुक्ता इति यावत् । शतपुष्पा शाकप्रकरणे अमरसिंहेनाभिहिता । गवेधुका शाङ्खारतृणधान्यसंपादिका ओषधिः, तस्या अदनीयत्वायोगात् तद् धान्यं प्रतिषिध्यते । जम्बीरफलम् आर्द्रकादिशाकसंस्कारकतया भक्ष्यतया च प्रतिषिध्यते । कोविदारो युगपत्रकवृक्षविशेषः । तस्य पुष्पं फलं वा कोविदारम्, तत्कोमलावस्थं शाकत्वेन प्राप्तं प्रतिषिध्यते । शाट्यानयो ऽपि ।

मारिषं नालिका चैव रक्ता या च कलम्बका ।
आसुरान्नम् इदं सर्वं पितॄणां नोपतिष्ठते ॥ इति ।

मारिषो जीवशाकम् “मारिषो जीवशाकः स्यात्” इति वैजयन्त्यां तच् च कुण्डलीयकसदृशं ततो ऽपि स्थूलतरम् । अत एव वैजयन्त्याम् “मारिषो जीवशाकः स्यात्” इत्य् उक्त्वोक्तम् " अत्राल्पे कुण्डलीयकः" इति । नालिका दीर्घनाला शिरसि स्वल्पफलान्विता । तस्याः फलस्य नालभागस्य च शाकत्वेन प्राप्ते प्रतिषेधः । कलम्बका जलसंभवा वेणुपत्राकृतिः पल्लवान्विता । द्विविधा श्वेता रकाता च शाकत्वेन प्राप्ता रकेते विशेषणोपादानान् न श्वेतायाः प्रतिषेधः । स्मृतिर् अपि ।

गान्धारिकापटोलानि श्राद्धकर्मणि वर्जयेत् । इति ।

“गान्धारिका तण्डुलीयकः” इति देवस्वामिना व्याख्यातम् । पटोलानि । न तु लता । लतायाः पुल्लिङ्गत्वस्यैव साधुत्वात्, अत एव अमरसिंहेन लतापर्यायेषु “पटोलः तिक्तकः पटुः” इति पुल्लिङ्गतया दर्शितः । हारीतो ऽपि - “पालङ्क्यापोतिकानालिकाकुसुम्भसुरसानिष्पावचणकादि श्राद्धे न दद्यात्” इति । पोतिका सुताह्वया, वैजयन्त्याम् “पोतिका तु सुताह्वया” इत्य् अभिधानात् । यस्याः पत्रशाकसेवा निद्रातिशयकारिणी सा पोतिका ज्ञेया । शेषाणि प्राग् व्याख्यातानि । शङ्खो ऽपि ।

कृष्णजाजी बिदश् चैव शितपाकी तथैव च ।
वर्जयेल् लवणं सर्वं तथा जम्बूफलानि च ॥
अवक्षुताद् अभिहतं तथा श्राद्धेषु वर्जयेत् ॥

कृष्णजाजी कृष्णजीरकम् । बिदः बिदाख्यं लवणम् । शितपाकी तु कीदृशीति चिन्त्यम् । लवणं कृतलवणम् “कृतं च लवणं सर्वं वंशाग्रं च विवर्जयेत्” इति तेनैवाभिधानात् । उशनापि ।

नालिकाशणछत्राककुसुम्भालाबुविड्वरान् ।
कुम्भीकञ्चुकवृन्ताककोविदारांश् च वर्जयेत् ॥
वर्जयेद् गृञ्जनं श्राद्धे काञ्जिकं पिण्डमूलकम् ।
करञ्जं ये ऽपि चान्ये वै रसगन्धोत्कटास् तथा ॥ इति ।

छत्राकं शिलीन्ध्रम् “छत्राके तु श्लीन्धः स्यात्” इति वैजयन्त्याम् । अलाबूफलस्य पत्रादेर् अपि शाकत्वेन प्राप्तत्वात् प्रतिषेधः । कुम्भी श्रीपर्णिका, खर्वकार्ष्मर्यफलम्, “श्रीपर्णिका कुमुदिकाकुम्भी कैटर्यकट्फलौ” इत्य् अमरसिंहेनाभिधानात् । वृन्ताकं बृहतीसदृशस्थूलोद्भिदः फलं वृन्तभागेन सह फलशाकत्वेन प्रसिद्धम् । काञ्जिकमारनालकं धान्याम्लम् इति यावत् । पिण्डमूलकं चिन्त्यम् । करञ्जं चिरिबिल्वफलम् “चिरिबिल्वो नक्तमालः करजिश् चरकञ्जके” इत्य् अमरः । गृञ्जनं पलाण्डुविशेषः । एतच् च लशुनादीनां दशविधपलाण्डुविशेषाणाम् अपि प्रदर्शनार्थम्, ते च विशेषाः,

लशुनं दीर्घपत्रश् च पिच्छगन्धो महौषधम् ।
फरण्डश् च पलाण्डुश् च लतार्कश् च परारिका ॥
गृञ्जनं यवनेष्टं च पलाण्डोर् दश जातयः ।

इति वदन् दशविधावान्तरजातिष्व् अपि पलाण्डुशब्दः सामान्येन वर्तत इति दर्शयति । अत एव अमरसिंहेन “पलाण्डुस् तु सुकन्दकः” इति सामान्यनामतयोक्तम् । अवान्तरजातिवेशेषे ऽपि पलाण्डुशब्दो वर्तते “फरण्डश् च पलाण्डुश् च” इति विशेष्यात्रैव प्रयुक्तत्वात् । पुराणे ऽपि दशविधानां प्रदर्शनार्थं केचन विशेषा निषिद्धाः ।

लशुनं गृञ्जनं चैव पलाण्डुः पिण्डमूलकम् ।
कलम्बी याति चान्यानि हीनानि रसगन्धतः ॥
पिप्पलं मरिचं चैव पटोलं बृहतीफलम् ।
वांशं करीरं सुरससर्जकं भूस्तृणानि च ॥
अवेदोक्ताश् च निर्यासा लवणान्य् औपराणि च ।
श्राद्धकर्मणि वर्ज्यानि याश् च नार्यो रजस्वला ॥ इति ।

हरिद्रक्तकन्दविशेषो गृञ्जनः, “हरिद्रक्ते तु गृञ्जनः” इति वैजयन्त्याम् उक्तत्वात् । श्वेतकन्दविशेषः पलाण्डुः, “पलाण्डौ तु श्वेतकन्दो मुकुन्दकः” इति तत्रैवोक्तत्वात् । लशुनाख्यस्य विशेषस्य भेदकधर्मो वैद्यकादौ द्रष्टव्यः । वांशं करीरं वंआङ्कुरः । “वंशाङ्कुरे करीरो ऽस्त्री” इत्य् अमरः । सर्जकः पीतसालकः । “अथो पीतसालके । सर्जकासनबन्धूकपुष्पप्रियकजीवकाः” इत्य् अमरः । अवेदोक्तनिर्यासाः वेदे ग्राह्यत्वेनोक्तनिर्यासव्यतिरिक्तनिर्यासाः लोहितनिर्यासाः व्रश्चनप्रभवाश् चेति यावत् । “अथो खलु य एव लोहितो यो वाव्रश्चनान् निर्येषति तस्य नाश्यं कामम् अन्यस्य” इति श्रुतिः । लवणान्य् औषराणि ऊषरप्रभवाणि कृतलवणानीति यावत् । याश् च नार्यो रजस्वलाः । त्रिरात्राद् ऊर्ध्वम् अप्य् अनिवृत्तरजस्काः । ताश् च वर्ज्या इत्य् अर्थः । क्षीरविशेषा अपि वर्ज्याः पुराणे दर्शिताः ।

आविकं मार्गम् औष्ट्रं च सर्वम् ऐकशफं च यत् ।
माहिषं चामरं चैव पयो वर्ज्यानि जानता ॥

आविकम् अवीनां पयः । मार्गं मृगीणां पयः । औष्ट्रम् उष्ट्रीणां पयः । एकशफा बडवादयः तासां पयः ऐकशफम् । चामरं चमरीपयः । भरद्वाजो ऽपि ।

नक्तोद्धृतं तु यत् तोयं पल्वलाम्बु तथैव च ।
स्वल्पाम्बु कूश्माण्डफलं वज्रकन्दं च पिप्पली ॥
तण्डुलीयकशाकं च माहिषं च पयो दधि ।
शिम्बिकानि करीराणि कोविदारं गवेधुका ॥
कुलुत्थशणजम्बीरकरम्भानि तथैव च ।
नीरसान्य् अपि सर्वाणि भक्ष्यभोज्यानि कानिचित् ॥
एतानि नैव देयानि सर्वस्मिन् श्राद्धकर्मणि ॥

वज्रकन्दं कीदृशम् इत् चिन्त्यम् । शिम्बिकानि शिम्बीधान्यानि चणकादीनि । करम्भः दधिमिश्राः सक्तवः । “करम्भो दधिसक्तवः” इत्य् अमरः । माहिषं तु घृतं देयम्, पयो दधीति विशेषितत्वात् । सर्वस्मिन् श्राद्धकर्मणीति वचनात् यद्य् अपि कूश्माण्डफलादीनि नित्यश्राद्धे ऽपि न देयानीति प्रतिभाति, तथापि प्रतिदिनं श्राद्धियान्नसंपादनस्यातिदुष्करत्वान् नित्यश्राद्धेतरसर्वश्राद्धकर्मणीति व्याख्येयम् । अत एव रामायणे ऽभिहितम् ।

इङ्गुदैर् बदरैर् बिल्वैः रामस् तर्पयते पितॄन् ।
यद् अन्नं पुरुषो भुङ्क्ते तदन्नास् तस्य देवताः ॥ इति ।

चतुर्विंशतिमते ऽपि ।

यावनालान् अपि तथा वर्जयन्ति विपश्चितः ।
तैलम् अप्य् आपदि प्राज्ञाः संप्रयच्छन्ति याज्ञिकाः ॥
कन्दमूलफलालाभे एवम् आहुर् मनीषिणः ॥

तैलम् इत्य् अत्रापि वर्जयन्तीति संबध्यते । यावनालतैलादिनिषिद्धम् अपि अनिषिद्धकन्दमूलफलालाभे याज्ञिकाः प्रयच्छन्तीत्य् एवं मनीषिण आहुर् इत्य् अर्थः । कन्दमूलफललाभे तु यावनालादिकं न देयम् इति व्यतिरेकाद् गम्यते । मृष्टान्नलाभे तु सुतरां न देयम् इति दण्डापूपनयाद् (?) गम्यते । स्मृत्यन्तरे तु वर्ज्यम् उक्तम् ।

अतिशुक्तोग्रलवणं विरसं भावदूषितम् ।
राजसं तामसं चैव हव्यकव्येषु वर्जयेत् ॥

अतिशुक्तम् अत्यर्थं स्वाभाविकरसत्यागेन कालवशात् कुत्सितरसान्तरापन्नम् । उग्रलवणं लवणाधिक्येनासह्यम् । पुराणे ऽपि ।

आसनारूढम् अन्नाद्यं पादोपहतम् एव च ।
अमेध्या आगतैः स्पृष्टं शुक्तं पर्युषितं च यत् ॥
द्विः स्विन्नं परिदग्धं च तथैवाग्रावलेहितम् ।
शर्कराकीटपाषाणैः केशैर् यच् चाप्य् उपद्रुतम् ॥
पिण्याकं मथितं चैव तथातिलवणं च यत् ।
सिद्धाः कृताश् च ये भक्ष्याः प्रत्यक्षलवणीकृताः ॥
वाग्भावदुष्टाश् च तथा दुष्टैश् चोपहतास् तथा ।
वाससा चावधूतानि वर्ज्यानि श्राद्धकर्मणि ॥ इति ।

यद् अन्नम् अवश्रयनान्तया पचिक्रियया सिद्धं सन्मार्दवार्थं पुनर् उदकं निनीयावश्रयणान्तम् एव पुनर् औष्ण्यनिर्वाहार्थम् अग्नाव् अधिश्रियते । “अत्युष्णं सर्वम् अन्नं स्यात्” इति पचनाद् औष्ण्यार्थं पुनर् अधिश्रयणाभ्यनुज्ञानात् । यस्य तु प्रथमपाकेन भक्षणयोग्यतैव न भवति तत्र पूर्वपाकस्यानिवृत्तत्वात् पुनर् उदकं निनीय पाके ऽपि श्राद्धे नित्यभोजनादौ च नास्ति प्रतिषेधः । यत्र भक्ष्यविशेषसिद्ध्यर्थम् उदकादिना पूर्वं पक्त्वा तैलादिना पाकः क्रियते तत्रापि न द्विः स्विन्नता, विशिष्टभक्ष्यसिद्धिफलकपचिक्रियाया उदके तैले च क्रियाया एकत्वात् । परिदग्धम् अतिदग्धम् । अग्रावलेहितं यद् अर्थम् उत्पादितं तन्निवृत्तेः प्राग् अन्येन स्वादितम् । शर्कराः सूक्ष्मपाषाणवत्कढिना मृद्विशेषाः । कीटो ऽत्र क्रिमिर् अमेध्यसेवी । पाषाणाः सूक्ष्मतरसर्षपादिकल्पाः । पिण्याकस् तैलिकयन्त्रे घनीभूततिलचूर्णम्, “तिलकल्के च पिण्याकः” इत्य् अमरसिंहेनाभिधानात् । मथितं जलमिश्रणेन विना विलोडितं दधि, “तक्रं ह्य् उदश्विन्मथितं पादाम्ब्वर्धाम्ब्य् निर्जलम्” इति तेनैवाभिधानात् । सिद्धा भक्ष्याः स्वत एव भक्ष्यतया सिद्धा आमलकादयः । कृता भक्ष्या माषपिष्टादिना कृतवटकादयः । प्रत्यक्षलवणीकृताः प्रत्यक्षेण लवणेन लवणीकृतः सिद्धभक्ष्याणां कृतभक्ष्याणां च प्रत्यक्षलवणीकृता इत्य् एतद् विशेषणम् । प्रत्यक्षग्रहणं दध्यादिना वस्त्वन्तरेण प्रच्छादितलवणेन लवणीकृता ग्राह्या इति गम्यते । यद्य् अपि नित्यभोजने प्रयुषितस्य प्रतिषिद्धत्वाद् अत्रापि तद्वर्जनं सिद्धम्, तथापि तत्राभ्यनुज्ञातस्य यवगोधूमादिपिष्टविकारस्यापि पर्युषितस्य श्राद्धे वर्जनीयत्वार्थं पर्युषितप्रतिषेध इति मन्तव्यम् । अत्यर्थप्रचुरद्रव्येषु कूश्माण्डादिषु दोषश्रवणाभावे निवृत्तिर् न भवतीति दोषो ऽपि स्मृत्यन्तरे दर्शितः ।

कूश्माण्डं माहिषं क्षीरम् आढक्यो राजसर्षपाः ।
चणका राजमाषाश् च घ्नन्ति श्राद्धं न संशयः ॥
पिण्डालूकं च तुण्डीरं करमर्दांश् च नालिकाम् ।
कूश्माण्डं बहुबीजानि श्राद्धे दत्त्वा व्रजन्त्य् अधः ॥

पिण्डालूकतुण्डीरे कीदृशे इति चिन्त्ये । करमर्दः कृष्णपाकफलः । “कृष्णपाकफलाविग्नसुषेणाः करमर्दके” इत्य् अमरः । बहुबीजानि मातुलुङ्गादीनि । पुरुषार्थतया प्रतिषिद्धस्य सर्वस्य श्राद्धप्रतिषेधः न सिद्ध इति श्राद्धे ऽपि प्रतिषेधार्थम् उक्तं षट्त्रिंशन्मते ।

क्षीरादि माहिषं वर्ज्यम् अभक्ष्यं यच् च कीर्तितम् ।

आदिग्रहणान् माहिषं दधि गृह्यते, “माहिषं च पयो दधि” इति भद्वाजस्मरणात् । माहिषं च मांसं गृह्यते,

माहिषाणि च मांसानि तथा श्राद्धे विवर्जयेत् ।

इति विष्णुपुराणे ऽभिधानात् । पुरुषार्थतया प्रतिषेधकशास्त्रेषु यद् अभक्ष्यं प्रकीर्तितं तच् च सर्वं श्राद्धे वर्ज्यं श्राद्धकर्मणि न देयम् इत्य् अर्थः ॥

इति स्मृतिचन्द्रिकायां श्राद्धकर्मणि वर्ज्यद्रव्याणि