१४ श्राद्धदिन-पूर्वाह्ण-कृत्यम्

अथ श्राद्धदिन-पूर्वाह्ण-कृत्यम्

तत्र प्रचेताः ।

श्राद्धभुक् प्रातर् उत्थाय प्रकुर्याद् दन्तधावनम् ।
श्राद्धकर्ता न कुर्वीत दन्तानां धावनं बुधः ॥

किं तर्हि श्राद्धकर्ता कुर्याद् इत्य् अपेक्षिते देवलः ।

तथैव यन्त्रितो दाता प्रातः स्नात्वा सहाम्बरः ।
आरभेत नवैः पात्रैर् अन्नारम्भं च बान्धवैः ॥

तथैव श्राद्धकर्तुः उक्तनियमानतिक्रमेणैव यन्त्रितो नियतः अन्नारम्भं श्राद्धार्थान्नपाकारम्भम् आरभेत कुर्याद् इत्य् अर्थः । नवैः पात्रैः अनुपहतैः पाकोपयोगिभिर् भाण्डैः बान्धवैः पाकोपयोगिभिर् भाण्डैः बान्धवैः पाकोपयोगिभिर् उपेतः दाता श्राद्धादिकारी । पाके श्राद्धाधिकारिणा यत् प्रथमं कर्तव्यं तद् आह उशनाः - “गोमयोदकैर् भूमिभाजनभाण्डशौचं कुर्यात्” इति । गोमयानुलेपनेन महानसभूमिशुद्धिं कुर्यात् । उदकैर् अभ्युक्षणाहरणप्रकरणोक्तप्रकारेणाहूतैः भाजनानां गौधूमपिष्टादिप्रक्षेपणार्थानां शुद्धिं कुर्याद् इत्य् अर्थः । महानसभूमिसंस्कारानन्तरम् आह देवलः ।

तिलान् अवकिरेत् तत्र सर्वतो बन्धयेद् अजम् ।
असुरोपहतं सर्वं तिलैः शुद्ध्यत्य् अजेन च ॥

पाकस्थानभाजनभाण्डशुद्ध्यनन्तरं पाकादिनान्नादिकं निष्पादयेत् । तथा च स एव ।

ततो ऽन्नं बहुसंस्कारैः नैकव्यञ्जनभक्ष्यवत् ।
चोष्यपेयसमृद्धं च यथाशक्त्य् उपकल्पयेत् ॥

बहुसंस्कारो राजभोज्यान्ने यो यः संस्कारः तेन तेनान्वितम् । नैकव्यञ्जनभक्ष्यवत् अनेकव्यञ्जनभक्ष्योपेतम् । व्यज्यते ऽनेनान्नस्य रस इति व्यञ्जनम् अत्र सूपशारादिकम् । यस्य रसांश एव सेव्यो न द्रव्यांशः इक्षुखण्डादि तच् चोष्यम् । पानार्थं चापक्वफलरसादौ गुडादिपिष्टं संसृज्य यत् क्रियते तत् पेयम् । चोष्यपेययोर् अनेकविधयोर् अनिषिद्धयोः संभवाच् चोष्यपेयसमृद्धम् इत्य् उक्तम् । चशब्दाल् लेह्यसमृद्धं चेत्य् अवगन्तव्यम् । अन्नादिकं विहितव्रीह्यादिप्रकृति । कानि द्रव्याणि विहितानीत्य् अपेक्षिते प्रचेताः ।

कृष्णम् आपास् तिलाश् चैव श्रेष्ठाः स्युर् यवशालयः ।
महायवा व्रीहियवास् तथैव च मधूलिकाः ॥
कृष्णाः श्वेताश् च ग्राह्याः स्युः श्राद्धकर्मणि ॥

यवाः स्फीतशूकाः । शालयः कलमाः । राजशालिमहाशालिसुगन्धिकादयो जलजाः । महायवा व्रीहियवाश् च यवविशेषाः । मधूलिकाख्यं धान्यान्तरम् । कृष्णाः स्थलजाः कृष्णवर्णा व्रीहयः । श्वेताः स्थलजा महाव्रीहयः । लोहाः जलजा रक्तशालयः, स्थलजाः षाष्टिकाश् च । अत्रिर् अपि ।

अगोधूमं च यच् छ्राद्धं कृतम् अप्य् अकृतं भवेत् ।
विना मांसेन यच् छ्राद्धं कृतम् अप्य् अकृतं भवेत् ॥
क्रव्यादाः पितरो यस्माद् अभावे पायसादिनः ॥ इति ।

अनेन गोधूमप्रकृतिद्रव्यम् अपूपादि भक्ष्यं मांसमयं च भक्ष्यम् अवश्यम् उपकल्पनीयम् इति वचोभङ्ग्या दर्शितम् । तत्र मांसभक्ष्योपकल्पनप्रकारम् आह कात्यायनः - “छागोस्रमेषान् आलभ्य शेषान् क्रीत्वा लब्ध्वा वा स्वयंमृतानां वाहृत्य पचेत्” इति । उस्रा गौः । आलभ्य संज्ञपनं कृत्वेत्य् अर्थः । एतच् च कलियुगव्यतिरिक्तद्वापरादियुगविषयम् । तथा च कलियुगधर्मप्रकरणे,

वरातिथिपितृभ्यश् च पशूपकरणक्रिया ।

इत्यादिवचने श्राद्धाद्यर्थं गवादिपश्वालम्भननिषेधो ऽस्माभिः प्रदर्शितः । कलिगुये क्रयादिनाप्य् आसाद्य गोमांसं न पचेत्, लोकविद्विष्टत्वात् । अन्यान्य् अपि क्रीत्वा यथा कथंचिल् लब्ध्वा वा उपकल्प्यानि वायुपुराणे दर्शितानि ।

बिल्वामलकमृद्वीकाः पनसाम्रातदाडिमम् ।
चव्यपालेयकाक्षोटखर्जूराणां फलानि च ॥
कशेरुः कोविदारश् च तालकन्दस् तथा विशम् ।
कालेयं कालशाकं च सुनिषण्णं सुवर्चला ॥
कर्दुरः कोङ्कणी द्राक्षा लिकुचं मोचम् एव च ।
कर्कन्धूः ग्रावकं चारु तिन्दुकं मधुसाह्वयम् ॥
वैकङ्कतं नालिकेरं शृङ्गाटकवरूषकम् ।
पिप्पलं मरिचं चैव पटोलं बृहतीफलम् ॥
सुगन्धि मत्स्यमांसं च प्रकल्प्याः सर्व एव च ।
एवमादीनि चान्यानि स्वादूनि मधुराणि च ।
नागरं चात्र वै देयं दीर्घमूलकम् एव च ॥ इति ।

मृद्वीका द्राक्षा, “मृद्वीका गोस्तनी द्राक्षा” इत्य् अमरसिंहेनाभिधानात् । आम्रातकं चूतवृक्षसदृशपीतनवृक्षः, “द्वौ पीतनकपीतनौ । आम्रातकः” इति तेनैवाभिधानात् । अक्षोटः गिरिसंबन्धस् तरुः । कशेरुः जलकन्दविशेषः भद्रमुस्ताख्यः । कालेयं दारुहरिद्रा । सुनिष्पण्णं वितुन्नकाख्यं पत्रशाकम् “वितुन्नं सुनिषण्णकम्” इति शाकप्रकरणे अमरसिंहेनाभिधानात् । कर्दुरः श्रीपर्णिकाख्यो वृक्षविशेषः, “श्रीपर्णिका कुमुदिका कुम्भीकैटर्यकट्फलौ” इति तेनैवाभिधानात् । कोङ्कणी कोङ्कणदेशप्रभवा द्राक्षा । लिकुचं जम्बीरफलतुल्यखर्वफलवान् गुल्मविशेषः । मोचं कदलीफलम् । कर्कन्धूः बदरी । तिन्दुकः सितसारकाख्यवृक्षः । “तिन्दुकः स्फूर्जकः कालस्कन्धश् च सितसारकः” इत्य् अमरः । शृङ्गाटकं जलजत्रिकाण्डकम् । बृहती कण्टकादिका । “निदिग्धका स्पृशी व्याघ्री बृहती कण्टकारिका” इत्य् अमरः । तस्याः फलं बृहतीफलम् । शेषाणि बिल्वामलकपनसदाडिमचव्यखर्जूरतालकन्दविशवैकङ्कतनालिकेरपिप्पलिमरिचपटोलानि प्रसिद्धानि । इतराण्य् अप्रसिद्धानि । एवमादीनि एवंप्रकाराणि । नागरं शुण्ठी । दीर्घमूला तुण्डिकेरी तस्याः फलं दीर्घमूलकम् । एतच् चाम्रातकादिकं विहितसंस्कारद्रव्यैर् एव संस्कार्यम् । तानि च आदित्यपुराणे दर्शितानि ।

मधूकं रामठं चैव कर्पूरं मरिचं गुडम् ।
श्राद्धकर्मणि शस्तानि सैन्धवं मानसं तथा ॥

ब्रह्माण्डपुराणे ऽपि ।

सैन्धवं लवणं चैव तथा मानससंभवम् ।
पवित्रे परमे ह्य् एते प्रत्यक्षम् अपि नित्यशः ॥

एवं मृष्टान्नोपकल्पनं न श्राद्धमात्रविषयम् इत्य् आह देवलः ।

इष्टापूर्तमृताहेषु दर्शश्राद्धाष्टकासु च ।
पात्रेभ्यस् तेषु कालेषु देयं नैव कुभोजनम् ॥

चशब्दान् महालयादिविशिष्टकालेष्व् अपि कुभोजनं न देयम् इति समुच्चिनोति । एवं च नित्यश्राद्धादौ दरिद्रकर्तृके कुभोजनाद्यनुज्ञा गम्यते । अत्र यमः ।

भक्ष्यं भोज्यं तथा पेयं यत् किंचित् पच्यते गृहे ।
न भोक्तव्यं पितॄणां तद् अनिवेद्य कथंचन ॥

पितॄणाम् अनिवेद्य तस्माद् अन्नाद् वैश्वदेवादिकम् अपि न कार्यम् । तथा च पैठीनसिः ।

पितृपाकं समुद्धृत्य वैश्वदेवं करोति यः ।
आसुरं तद् भवेच् छ्राद्धं पितॄणां नोपतिष्ठति ॥ इति ।

यमस् तु पक्वान्नोपहतिपरिहाराय पाकस्थानादितो बहिष्कार्यान् आह

मद्यपः स्वैरिणी या च परपूर्वापतिस् तथा ।
नैव श्राद्दे ऽभिवीक्षेतन्न् आवापात् प्रभृति क्वचित् ॥

आवापः पाकं कर्तुं तण्डुलादीनां पिठरादौ प्रक्षेपः, तत्प्रभृति भोजननिष्पत्तिपर्यन्तं क्वचित् पाकस्थाने भोजनस्थाने ऽन्यत्र वा स्थितान् भोज्यपदार्थान् भुञ्जानांश् च विप्रान् श्राद्धकर्माणि यथा मद्यपादयो नाभिवीक्षेरन् तथा ते दूरत एवापाकरणीया इत्य् अर्थः । मद्यपादिग्रहणम् अप्रशस्तप्राणिताम् उपलक्षणार्थम् । अत एव मनुः ।

चण्डालश् च वराहश् च कुक्कुटश् च तथैव च ।
रजस्वला च खञ्जश् च नेक्षेरन्न् अश्नतो द्विजान् ॥
होमे प्रदाने भोज्ये च यद् एभिर् अभिवीक्षितम् ।
दैवे कर्मणि पित्र्ये वा तद् गच्छति यथातथम् ॥ इति ।

होमे अग्नौकरणदेशे । प्रदाने अन्नत्यागदेशे । भोज्ये भोज्योपकल्पनदेशे महानसादौ । चशब्दाद् अन्यस्मिन्न् अपि स्थाने यद् अन्नादिकं चण्डालादिभिर् अभिवीक्षितं तद् यथातथं गच्छति असम्यग् भवतीत्य् अर्थः । तस्माच् छ्राद्धदेशाद् अतिदूरतो ऽपनेतव्या इत्य् अभिप्रायः । वराहो विड्वराहः, तस्यैवाप्रशस्तत्वात् । अत एव उशनसा विशेषितः - “विड्वराहकमार्जारकुक्कुटनकुलशूद्ररजस्वलाशूद्रीभर्तारश् च दूरतो ऽपनेतव्याः” इति । श्राद्धकाल इति शेषः । तथा च यमः ।

कुक्कुटो विड्वराहश् च काकश् श्वाथ बिडालकः ।
वृषलीपतिश् च वृषलः षण्डौ नारी रजस्वला ॥
एते तु श्राद्धकाले वै वर्जनीयाः प्रयत्नतः ॥

श्राद्धकाले पाकोपक्रमप्रभृतीत्य् (?) अर्थः । तथा च व्यासः ।

काषायवासाः कुष्ठी वा पतितो भ्रूणहापि वा ।
संकीर्णयोनिविप्रस्य संबन्धी पतितस्य यः ॥
वर्जनीया बुधैर् एते निवापे समुपस्थिते ॥

निवापः पितृभ्यो दानम्, “पितृदानं निवापः स्यात्” इत्य् अमरसिंहेनाभिधानात् । समुपस्थितशब्दात् पाकोपक्रमप्रभृति वर्जनीयाः न तु पितृभ्यो दानसमय एवेति गम्यते । यमो ऽपि पुरुषेष्व् अपनेयान् आह ।

खञ्जः काणः कुणिः श्वित्री दातुः प्रेष्यकरो भवेत् ।
न्यूनाङ्गो वातिरिक्ताङ्गस् तम् अप्य् अपनयेत् ततः ॥

खञ्जः पादविकलः । काण एकाक्षः । कुणिः एककरः । स्वित्री कुष्ठी । देवलो ऽपि ।

बीभत्सम् अशुचिं नग्नं मत्तं धूर्तं रजस्वलाम् ।
नीलकाषायवसनं छिन्नकर्णं च वर्जयेत् ॥

बीभत्सो जुगुप्सितः । ब्रह्माण्डपुराणे ऽपि ।

नग्नादयो न पश्येयुः श्राद्धम् एतत् कदाचन ।
गच्छन्त्य् एतैस् तु दृष्टेन पितरो ऽधः पितामहाः ॥

श्राद्धं श्राद्धार्थम् अन्नादिकम् । नग्नो वेदपरित्यागी । आदिशब्देन तत्प्रकारवैदिककर्मानुष्ठानपरित्यागिनो गृह्यन्ते । तथा च अत्रैवोकम् ।

सर्वेषाम् एव भूतानां त्रयी संवरणं यतः ।
ये वै त्यजन्ति तां मोहात् ते वै नग्नादयः स्मृताः ॥

त्रयी वेदः, तां ते त्यजन्ति ते नग्नाः स्मृताः । ये तु तद् अर्थानुष्ठानत्यागिनः ते नग्नादयः स्मृता इत्य् अर्थः । वायुपुराणे ऽपि ।

वृथाजटी वृथामुण्डी वृथानग्नश् च यो नरः ।
महापातकिनो ये च ते वै नग्नादयो नराः ॥

वृथा वैदिकविधिम् अन्तरेणेत्य् अर्थः । यदि तु नग्नादयः श्राद्धार्थम् अन्नादिकं पश्येयुस् तदा किं कार्यम् इत्य् अपक्षिते तत्रैवोक्तम् ।

अन्नं पशेयुर् एते तु यदि वा हव्यकव्ययोः ।
उत्स्रष्टव्यं प्रदानार्थं संस्कारस् त्व् आपदि स्मृतः ॥

नग्नादिभिः दृष्टम् अन्नम् उत्स्रष्टव्यम् । आपदि तु तस्यैव नग्नादिदर्शनजनितदोषापाकरणार्थं स्मृतः संस्कारः । कः पुनः संस्कार इत्य् अपेक्षिते ब्रह्मपुराणम् ।

हविषां संस्कृतानां तु पूर्वम् एवापवर्जनम् ।
मृत्संपृक्ताभिर् अद्भिश् च प्रोक्षणं तु विधीयते ॥
सिद्धार्थकैः कृष्णतिलैः कार्यं चाप्य् अवकीरणम् ।
गुरुसूर्याग्निबस्तानां दर्शनं तु प्रयत्नतः ॥

अस्यार्थः - हविषां हव्यकव्यानां नग्नादिदर्शने सत्य् अपवर्जनम् एव पूर्वं परित्याग एव मुख्यः कल्पः । आपदि तु दोषापगमहेतुभूतसंस्कारसिद्धये प्रशस्तमृत्तिकासंस्पृष्टाभिर् अद्भिः प्रोक्षणम्, तथा गौरसर्षपैः कृष्णतिलैश् च अवकीरणं दृष्टहव्यकव्ययोर् उपरि क्षेपणं कार्यम् । तथा गुरुसूर्याग्निच्छागानां दर्शनं यथान्नस्य सिद्ध्यति तथा प्रयत्नतो व्यवधायकपरिश्रयणापनोदनद्वारा कार्यम् इति । अथ वा जमदग्निनोक्ताम् अन्नशुद्धिं कुर्यात् ।

शुद्धवत्यो ऽथ कूश्माण्ड्यः पावमान्यस् तरत्समाः ।
पूतेन वारिणा दर्भैर् अन्नदोषान् अपानुदेत् ॥

शुद्धवत्यादिमन्त्रैर् अभिमन्त्रितम् उदकं दर्भैर् आदाय मद्यपस्वैरिण्याद्यभिवीक्षणप्रभवान्नदोषापनोदार्थम् अवोक्षणं कुर्याद् इत्य् अर्थः । “एतोन्विन्द्रं स्तवाम” इत्याद्या ऋचः शुद्धवत्यः । “यद् देवा देवहेलनम्” इत्याद्याः कूश्माण्ड्यः । “पवमानः सुवर्जनः” इत्याद्याः पावमान्यः । “तरत्समन्दी धावति” इत्याद्याः तरत्समाः । यदि तु मद्यपादिदर्शनप्रभवम् अन्नदोषं तदपनोदकेन संस्कारेण पूर्वोक्तेन वक्ष्यमाणेन वा मृद्भस्मोदकहिरण्यस्पर्शनेन वापनुदेत् तदा स्राद्धे तद् अन्नं भोज्यम् इत्य् आह सुमन्तुः - “चण्डालाद्यवेक्षितम् अन्नम् अभोज्यम् अन्यत्र मृद्भस्महिरण्योदकस्पर्शनात्” इति । मृद्भस्महिरण्योदकस्पर्शनरूपसंस्कारनिर्देशः पूर्वोक्तद्विप्रकारसंस्कारयोर् अपि प्रदर्शनार्थः ॥

इति स्मृतिचन्द्रिकायां श्राद्धदिनपूर्वाह्णकृत्यम्