१३ श्राद्धदिनात् प्राचीनदिनकृत्यम्

अथ श्राद्धदिनात् प्राचीनदिनकृत्यम्

तत्र वराहपुराणम् ।

वस्त्रशौचादि कर्तव्यं श्वः कर्तास्मीति जानता ।
स्थानोपलेपनं भूमिं कृत्वा विप्रान् निमन्त्रयेत् ॥
दन्तकाष्ठानि विसृजेत् ब्रह्मचारी शुचिर् भवेत् ॥

श्राद्धभूमिं परिगृह्य परिगृहीतस्थानोपलेपनं कृत्वा वस्त्रशुद्ध्यादिकम् अह्नि कर्तव्यम् । रात्रौ तु विप्रान् निमन्त्रयेत् । देवपितृकार्यसंपत्त्यर्थम् अप्रत्याख्येयेन नियोगेनोपकल्पयेद् इत्य् अर्थः । अप्रत्याख्येयो नियोगो निमन्त्रणम् इति गीयते । मदालसावाक्यम् अपि ।

निमन्त्रयीत पूर्वेद्युः पूर्वोक्तान् द्विजसत्तमान् ।
दैवे नियोगे पित्र्ये च तांस् तथैवोपकल्पयेत् ॥

तथैव दैवे नियोगे यूयम्, पित्र्ये नियोगे यूयम् इति विशेषनिर्धारणयैवेत्य् अर्थः । देवलो ऽपि ।

श्वः कर्तास्मीति निश्चित्य दाता विप्रान् निमन्त्रयेत् ।
निरामिषं सकृद् भुक्त्वा भुक्ते सर्वजने गृहे ॥

स्वगृहे यज् जनजातम् अस्ति तस्मिन् सर्वस्मिन् भुक्तवति सति पश्चान् निमन्त्रयेद् इत्य् अर्थः । यमो ऽपि ।

जातिक्रियावबोधाद्यैर् युक्तान् दान्तान् अलोलुपान् ।
प्रार्थयीत प्रदोषान्ते भुक्तान् अशयितान् द्विजान् ॥

अवबोधो वेदार्थादेर् अवगतिः । अशयितान् अकृतशयनक्रियान् । प्रार्थना च कथं कर्तव्येत्य् अपेक्षिते प्रचेताः ।

कृतापसव्यः पूर्वेद्युः पितॄन् पूर्वं निमन्त्रयेत् ।
भवद्भिः पितृकार्यं नः संपाद्यं च प्रसीदत ॥
सव्येन वैश्वदेवार्थं प्रणिपत्य निमन्त्रयेत् ॥

कृतापसव्यः प्राचीनावीती भूत्वा नः अस्मकं श्वः पितृकार्यं भविष्यति तद् भवद्भिः आहवनीयकार्यकरत्वेनानुगृह्य संपाद्यम्, ततश् चाहवनीयर्थं प्रसीदतेत्य् एवं निमन्त्रयेद् इत्य् अर्थः । सव्येन स्व्यांसस्थयज्ञोपवीतेनान्वितः । प्रणिपत्य निमन्त्रणं शूद्रकर्तृकश्राद्धविषयम्, (?)

दक्षिणं चरणं विप्रः सव्यं वै क्षत्रियस् तथा ।
पावाव् आदाय वैश्यो द्वौ शूद्रः प्रणतिपूर्वकम् ॥
निमन्त्रयीत पूर्वेद्युः ॥॥॥॥॥॥॥॥॥ ॥

इति पुराणस्मरणात् । दक्षिणचरणग्रहणे तु प्रदेशविशेषो मात्स्ये दर्शितः ।

दक्षिणं जानुम् आलभ्य त्वं मया तु निमन्त्रितः । इति ।

ब्रूयाद् इति शेषः । “पितॄन् पूर्वं निमन्त्रयेत्” इति नियमार्थम् ।

दैवे नियोगे पित्र्ये च तांस् तथैवोपकल्पयेत् ।

इति दैवपूर्वकनिमन्त्रणस्यापि मदालसावाक्येन स्मृतत्वात्,

उपवीती ततो भूत्वा देवतार्थं द्विजोत्तमान् ।
अपसव्येन पित्र्ये तु स्वयं शिष्यो ऽथ वा सुतः ॥

इति बृहस्पतिस्मरणाच् च । निमन्त्रणं प्राक् कर्तव्यम् । तद् आह पैठीनसिः - “श्वः श्राद्धं करिष्यामीति संकल्प्य ब्राह्मणान् सप्त पञ्च वा श्रोत्रियान् निमन्त्रयेत्” इति । सप्त पञ्च वेति पैतृकवैश्वदेवब्राह्मणानां मिलितानां सङ्ख्या, अस्यैव वाक्यस्यान्त्यभागे “प्राङ्मुखान् वैश्वदेवान् उपवेशयेत् पितॄन् दक्षिणपूर्वेण” इत्य् अभिधानात् । अत्र पैतृके वैश्वदेवे च कथं ब्राह्मणसंख्यया विभाग इत्य् अपेक्षिते अङ्गिराः ।

अयुजो भोजयेच् छ्राद्धे न समा दैविके समाः ।

“न संअः” समसंख्याकाः पित्रर्थे न ग्रह्या इत्य् अर्थः । अत एव मनुः - “द्वौ दैवे पितृकृत्ये त्रीन्” इति । एतत् पञ्चसंख्यापक्षे द्रष्टव्यम् । सप्तसंख्यापक्षे तु चत्वारो दैवे त्रयः पित्र्ये इति विभाग ऊह्यः । ननु द्वौ दैवे पञ्च पित्र्य इति विभागः कस्मान् न भवति । तथा हि “दैवे युग्मान् यथाशक्ति पित्र्य एकैकस्य” इति कात्यायनेन पित्र्ये एकैकस्य यथाशक्त्य् अयुग्मान् इति वदता पितृपितामहप्रपितामहानां प्रत्येकम् अयुग्मब्राह्मणकल्पनं न पुनः समुदायस्येति दर्शितम् । ततश् च पञ्चानाम् “समं स्याद् अश्रुतत्वात्” इति न्यायेन प्रत्येकम् अयुग्मसंख्यया समविभाग ऊहनीयः । न यथेष्टम् । न च पित्रादिषु त्रिषु पञ्चानां समतया विभागः संभवति, संभवति तु त्रयाणाम् । तस्माच् चत्वारो दैवे, पित्र्ये तु त्रय इत्य् एव विभागः कार्यः । पित्रर्थब्राह्मणेष्व् एवाधिकसंख्याम् अप्य् आह शौनकः - “एकैकम् एकैकस्य द्वौ द्वौ त्रींस् त्रीन् वा” इति । द्वौ द्वौ इति वृद्धिश्राद्धाभिप्रायम् । पार्वणश्राद्धे तु “अयुजो भोजयेच् छ्राद्धे न समान्” इति समसंख्यानिषेधात् । एकैकम् एकैकस्येति पक्षे पितृकृत्ये त्रयो निमन्त्रणीयाः । त्रींस् त्रीन् एकैकस्येति पक्षाभिप्रायेण गौतमेनाप्य् उक्तम् - “नवावरान् भोजयेत्” इति । यत् तु मनुनोक्तम्,

पूर्वेद्युर् वा परेद्युर् वा श्राद्धकर्मण्य् उपस्थिते ।
निमन्त्रयीत त्र्यवरान् सम्यग् विप्रान् यथोदितान् ॥

इति, अत्र प्रत्येकम् इति शेषो द्रष्टव्यः । ततश् च गौतमवचनसमानार्थत्वान् न तेनस्य विरोधः । प्रत्येकम् इत्य् अध्याहारपरिहाराय पितृकृत्ये त्र्यवरान् इति व्याख्याने तु “द्वौ दैवे पितृकृत्ये त्रीन्” इति स्वोक्तेन पौनरुक्त्यं प्रसज्येतेति तथा व्याख्यानम् अयुक्तम् । त्र्यवरान् इत्य् अभिधानात् प्रत्येकं पञ्चसंख्या मध्यमः पक्षः, प्रत्येकं सप्तसंख्या तूत्तमः पक्ष इति मन्तव्यम् । अत एव गौतमः - “अयुजो वा यथोत्साहम्” इति । पित्रादिषु प्रत्येकं पञ्चसंख्या सप्तसंख्या वा यथोत्साहं यथाविभवम् अयुजो विप्रान् भोजयेद् इत्य् अर्थः । एवं च सुसमृद्धतमस्य सत्क्रियादिसमर्थस्य सप्तभिः सप्तभिर् विप्रैः पितृकृत्यं कार्यम्, सुसमृद्धतरस्य पञ्चभिः पञ्चभिर् विप्रैः, सुसमृद्धस्य तिभिस् त्रिभिः, समृद्धस्य त्रिभिर् एवेति बोद्धव्यम् । यत् पुनर् मनुनोक्तम्,

द्वौ दैवे पितृकृत्ये त्रीन् एकैकम् उभयत्र वा ।
भोजयेत् सुसमृद्धो ऽपि न प्रसज्येत विस्तरे ॥
सत्क्रियां देशकलौ च शौचं ब्राह्मणसंपदम् ।
पञ्चैतान् विस्तरो हन्ति तस्मान् नेहेत विस्तरम् ॥

यच् च बृहस्पतिना,

एकैकम् अथ वा द्वै त्रीन् दैवे पित्र्ये च भोजयेत् ।
सत्क्रियाकालपात्रादि न संपद्येत विस्तरे ॥

इति, यद् अपि पुराने,

देशकालबलालाभाद् एकैकम् उभयत्र वा ।
शेषान् वित्तानुसारेण भोजयेद् अन्यवेश्मनि ॥
यस्मात् ब्राह्मणबाहुल्यात् दोषो बहुतरो भवेत् ।
श्राद्धनाशो मौननाशः श्राद्धतन्त्रस्य विस्मृतिः ॥
उच्छिष्टोच्छिष्टसंस्पर्शो निन्दा चाप्य् अन्नभोक्तृषु ।
वितण्डया परीवादो जल्पास् ते ऽपि पृथग्विधाः ॥

इति, शेषान् आमन्त्रितान् अतिथिप्रभृतीन्, तद् एतत् सुसमृद्धस्यापि यस्य ब्राह्मनबाहुल्ये सत्क्रियादिसंपादनासामर्थ्यं तद् विषयम् । यस्य तु संपादनसामर्थ्यम् अस्ति तद्विषयं शौनकादिवचनम् इति सर्वम् अनवद्यम् । न चात्रानाढ्यतया व्यवस्था संभवति,

द्वौ दैवे पितृकृत्ये त्रीन् एकैकम् उभयत्र वा ।
भोजयेत् सुसमृद्धो ऽपि

इति मनुना आढ्यविषये ऽप्य् अल्पसंख्याभिधानात् । यत् तु शङ्खेनोक्तम्,

भोजयेद् अथ वाप्य् एकं ब्राह्मणं पङ्क्तिपावनम् ।

इति, तद् एतद् अनेकब्राह्मणास्यलाभविषयम् । एवं निरूपितसंख्यान्वितान् विप्रान् स्वगृह एव स्थितान् उपगम्य निवेदयेत् । तथा चोक्तम् अत्रिणा ।

प्रथमे ऽह्नि निवासस्थान् श्रोत्रियादीन् निमन्त्रयेत् ।
कथयेत् तु तदैवैषां नियोगं पितृदैविकम् ॥
सर्वायासविनिर्मुक्तैः कमक्रोधविवर्जितैः ।
भवितव्यं भवद्भिर् नः श्वो भूते श्राद्धकर्मणि ॥ इति ।

प्रथमे ऽह्नि पूर्वेद्युर् इत्य् अर्थः । निवासस्थान् स्वकीयनिवासस्थितान् । मात्स्ये ऽपि ।

एतान् निमन्त्र्यनियमान् श्रावयेत् पैतृकान् बुधः ।
अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः ॥
भवितव्यं भवद्भिश् च मयापि श्राद्धकारिणा ॥

अक्रोधनैर् इत्यादिवचनं पठन् पैतृकान् पितृकर्माङ्गभूतान् निमन्त्रितविप्रान् श्रावयेद् इत्य् अर्थः । अक्रोधादिनियमः श्राद्धकर्तुर् यथा ममावश्यकस् तथा भवताम् अपीति वक्तुं मयापि श्राद्धकारिणेत्य् अंशस्यापि पाठः । निमन्त्रितविप्राणां कर्तव्यम् आह अत्रिः ।

ते तं तथेय् अविघ्नेन गतेयं रजनी यदि ।
यथाश्रुतं प्रतीक्षेतन् श्राद्धकालम् अतन्द्रितः ॥

निमन्त्रिता विप्रास् तं निमन्त्रणकर्तारं “तथास्तु यद्य् अविघ्नेनेयं रजनी गता” इत्य् उक्त्वा धर्मशास्त्रादौ यथा नियमजातं श्रुतं तथैव तन् नियमजातं प्रतीक्षेरन् प्रतिपालयेयुः । श्राद्धकालं श्वो ऽप्य् अन्नपरिणामपर्यन्तम् इत्य् अर्थः । तथा च प्रचेताः ।

स्याद् अन्नपरिमानात् तु ब्रह्मचर्यं द्वयोस् ततः । इति ।

ब्रह्मचर्यग्रहणं द्वयोर् निमन्त्रितकयोर् विहितनियमोपलक्षणार्थम् । निराहारनियमस् तु निमन्त्रणप्रभृति श्राद्धकर्मपरिसमाप्तिपर्यन्तम् एवेत्य् आह आपस्तम्बः - “आरब्धे चाभोजनम् आ समापनात्” इति । यत् तु वृद्धमनुनोक्तम्,

निमन्त्र्य विप्रान् तद् अहो वर्जयेन् मैथुनं क्षुरम् ।
प्रमत्ततां (?) च स्वाध्यायं क्रोधाशौचं तथानृतम् ॥

इति, तत् सद्यःकालश्राद्धविषयम्,

निमन्त्रयीत पूर्वेद्युः तद् अहर् वा द्विजोत्तमान् ।

इति पुराणे सद्यःकालपक्षस्याप्य् उक्तत्वात् । अयं च सद्यःकालपक्षः पूर्वेद्युः कथंचिन् निमन्त्रणासंभवे भवति,

असंभवे परेद्युर् वा ब्राह्मणांस् तान् निमन्त्रयेत् ।

इति देवलस्मरणात्,

तस्मात् तु प्रथमं कार्यं प्राज्ञेनोपनिमन्त्रणम् ।
अप्राप्तौ तद्दिने वापि वर्ज्या योषित्प्रसङ्गिनः ॥

इति मदालसावाक्ये ऽप्य् उक्तत्वाच् च । उपनिमन्त्रणं सति संभवे पूर्वेद्युः कार्यम् । तत्र कथंचिद् उपनिमन्त्रणाप्राप्तौ श्राद्धदिने वा कर्यम् इत्य् अर्थः । यदा तु तद्दिने निमन्त्रणं क्रियते तदा तद्दिन एव निमन्त्रितत्वनिबन्धन्त्वान् नियमानुष्ठानं स्यात् । निमन्त्रणं कदाचिद् अन्येनापि कारयेद् इत्य् आह यमः ।

निमन्त्रयीत सव्येन देवतार्थं द्विजोत्तमान् ।
अपसव्येन पित्र्ये तु स्वयं शिष्यो ऽथ वा सुतः ॥ इति ।

प्रेचता अपि ।

सवर्णं प्रेषयेद् आप्तं द्विजानाम् उपमन्त्रणे । इति ।

एतेषु पक्षेषु पूर्वन्यायः श्रेयान्, सर्वाभावे त्व् असवर्णम् अपि शूद्रव्यतिरिक्तं प्रेषयेत्,

अभोज्यं ब्राह्मणस्यान्नं वृषलेन निमन्त्रितम् ।

इति यमेन सूद्रनिमन्त्रितस्यैव निषेधस्मरणात् । विशेषप्रतिषेधस्य सामान्याभ्यनुज्ञानार्थता प्रसिद्धैव । एवं च भोज्यान्नेन स्वयं कृतं शिष्यकृतं शूद्रव्यतिरिक्तासवर्णकृतं च निमन्त्रणम् अनिन्द्यम्, तच् च भोक्तुं समर्थानां ब्राह्मणानाम् अप्रत्याख्येयम्,

कामं प्रतिश्रवस् तेषाम् अनिन्द्यामन्त्रणे कृते ।

इति देवलस्मरणात् । अनिन्द्यामन्त्रणे कृते तेषां निमन्त्रितानां कामम् अस्त्व् इति प्रतिश्रवः प्रतिवचनं कर्तव्यम् इत्य् अर्थः । कात्यायनेनाप्य् उक्तम् - “अनिन्द्येनामन्त्रिते नापक्रमेत् शक्तेन न प्रत्याख्यानं कर्तव्यम्” इति । अनेनार्थान् निन्द्यामन्त्रणे भोक्तुम् असामर्थ्ये च प्रत्याख्यानं कर्तव्यम् एवेति गम्यते । अङ्गीकृतनिमन्त्रनस्याङ्गीकारात् पश्चाद् अपि भोक्तुम् असामर्थ्ये सत्य् अतिक्रमो युक्त इत्य् अर्थाज् ज्ञापयितुम् आह स एव - “विधिवत् केतनं परिगृह्य शक्तः सण् नपक्रमेत्” इति । केतनं परिगृह्य आमन्त्रणम् अक्गीकृत्येत्य् अर्थः । यत् तु यमेनोक्तम्,

ब्राह्मणं तु मुखं कृत्वा देवताः पितृभिः सह ।
तद् अन्नं समुपाश्नन्ति तस्मात् तन् न व्यतिक्रमेत् ॥

इति, तद् अनिन्द्यामन्त्रितशक्तविषयम् इति पूर्वोक्तेन न विरोधः । यस् तु निमन्त्रितं ब्राह्मणं त्यजति तं प्रत्य् आह नारायणः ।

केतनं कारयित्वा तु निवरयति दुर्मतिः ।
ब्रह्महत्याम् अवाप्नोति शूद्रयोनौ च जायते ॥
एतस्मिन्न् एनसि प्राप्ते ब्राह्मणो नियतः शुचिः ।
यतिचान्द्रायणं कृत्वा तस्मात् पापात् प्रमुच्यते ॥

एनः पापम् । यतिचान्द्रायणं नाम चान्द्रायणविशेषः । तद् एतद् स्ङ्गीकृतकेतनस्य भोजनसमर्थस्य निवारणे सति द्रष्टव्यम् । यस् तु निमन्त्रणम् अङ्गीकृत्य भोजने समर्थो ऽपि भोजयितारं त्यजति तं प्रत्य् आह मनुः ।

केतितस् तु यथान्यायं हव्यकव्ये द्विजोत्तमः ।
कथंचिद् अप्य् अतिक्रामन् पापः सूकरतां व्रजेत् ॥

कथ्ंचिद् मृष्टान्नबहुदक्षिनालोभादिना, न पुनः भोजनासामर्थ्येनेत्य् अर्थः । तद् एतद् आढ्यविप्रविषयम्,

विद्यमानधनो यस् तु भोज्यान्नेन निमन्त्रितः ।
कथंचिद् अप्य् अतिक्रामन् पापः सूकरतां व्रजेत् ॥

इति स्मृत्यन्तरे विद्यमानधनस्य दोषस्मरणात् । एवं च यद् उच्यते यमेन,

आमन्त्रितस् तु यः श्राद्धे कुर्वीतान्यस्य तु क्षणम् ।
संवत्सरकृतं पुण्यं तस्य नश्यति दुर्मतेः ॥

इति, यद् अपि मत्स्येन,

निमन्त्रितास् तु गुणिना निर्धनेनापि सद्द्विजाः ।
नान्यमृष्टान्नलोभेन तम् अतिक्रम्य यान्ति हि ॥
निमन्त्रितास् तु येनादौ तस्माद् गृह्णन्ति नान्यतः ॥

इति, ततो ऽन्यैर् अपि प्रथमनिमन्त्रयितारम् अनतिक्रम्य तत एव ग्रहीतव्यम् इत्य् अभिप्रायः, तद् एतत् सर्वम् आढ्यविषयम् इति मन्तव्यम् । यस् तु तस्माद् गृह्णन् अन्यस्माद् अपि ग्रहीतुम् इच्छति तं प्रतिषेद्धुम् आह कात्यायनः - “आमन्त्रितो ऽन्यद् अन्नं न प्रतिगृह्णीयात्” इति । आमन्त्रितः पूर्वम् अन्येन निमन्त्रितस् तदीयाद् अन्नाद् अन्यद् अन्नं पश्चान् निमन्त्रकस्यान्नं तण्डुलादिरूपकम् अपि न प्रतिगृह्णीयद् इत्य् अर्थः । यः पुनः प्रतिगृह्णाति तस्य दोषम् आह देवलः ।

पूर्वं निमन्त्रितो ऽन्येन कुर्याद् अन्यप्रतिग्रहम् ।
भुक्ताहारो ऽथ वा भुङ्क्ते सुकृतं तस्य नश्यति ॥

यस् त्व् आमन्त्रित आहूतो ऽप्य् अनागमनेन कुतपादिश्राद्धकलातिपत्तिं करोति, तस्य दोष आदिपुराणे दर्शितः ।

आमन्त्रितश् चिरं नैव कुर्याद् विप्रः कदाचन ।
देवतानां पितॄणां च दतुर् अन्नस्य चैव हि ॥
चिरकाली भवेद् द्रोही पच्यते नरकाग्निना ॥ इति ।

यस् तु निमन्त्रितो वा श्राद्धकर्ता वा ब्रह्मचर्यं न करोति, तस्य दोषम् आह मनुः ।

ऋतुकाले नियुक्तो वा नैव गच्छेत् स्त्रियं क्वचित् ।
ततो गच्छन्न् अवप्नोति ह्य् अनिष्टं फलम् एव तु ॥

ऋतुकाल इति वदन् स्वभार्यागमने ऽपि दोष इत्य् आह । नियुक्त इति वदन् रागतः प्रवृत्तिभावे ऽपि दोष इत्य् आह । गौतमस् तु श्राद्धकर्तुर् वृषलीगमने दोषाधिक्यम् आह - “सद्यः श्राद्धी शूद्रातल्पगस् तत्पुरीषे मासं नयते पितॄन्” इति । श्राद्धं करिष्यमाणं क्र्तं च विद्यते यसेति श्राद्धी दाता । सद्यः तत्क्षणम् आरभ्य मासं नयतीत्य् अर्थः । मनुस् त्व् आमन्त्रितस्य शूद्रातल्पगमने दोषम् आह ।

आमन्त्रितस् तु यः श्राद्धे वृषल्या सह मोदते ।
दातुर्यद् दुष्कृतं किंचित् तत् सर्वम् अतिपद्यते ॥

यमस् त्व् अत्र दोषान्तरम् आह ।

आमन्त्रितस् तु यः स्राद्धे वृषल्या सह मोदते ।
भ्रमन्ति पितरस् तस्य तन् मासं शुक्लबोजनाः ॥

नियमान्तराणाम् अतिक्रमे ऽपि स एव दोषम् आह ।

आमन्त्रितस् तु यः स्राद्धे अध्वानं प्रतिपद्यते ।
भवन्ति पितरस् तस्य तन्मासं पांसुभोजनाः ॥
आमन्त्रितस् तु यः श्राद्धे कलहं कुरुते नरः ।
भवन्ति पितरस् तस्य तन्मासं त्व् अश्रुभोजनाः ॥
आमन्त्रितस् तु यः श्राद्धे भारम् उद्वहते द्विजः ।
भवन्ति पितरस् तस्य तन्मासं स्वेदभोजनाः ॥
आमन्त्रितस् तु यः श्राद्धे हिंशां वा कुरुते द्विजः ।
तन्मासं पितरस् तस्य भवेयू रक्तभोजनाः ॥
आमन्त्रितस् तु यः श्राद्धे आयासं कुरुते द्विजः ।
भवन्ति पितरस् तस्य तन्मासं पित्तभोजनाः ॥ इति ।

उशना अपि ।

आमन्त्रितस् तु यः श्रद्धे द्यूतं संसेवते द्विजः ।
भवन्ति पितरस् तस्य तन्मसं मलभोजनाः ॥ इति ।

एवम् उक्तदोषपरिहाराय ब्रह्मचर्यादिनियमेष्व् अवहितास् तिष्ठेयुर् इत्य् आह यमः ।

आमन्त्रितास् तु ये विप्राः श्रद्धकाल उपस्थिते ।
वसेयुर् नियताहारा ब्रह्मचर्यपरायणाः ॥
अहिंसा सत्यम् अक्रोधो ऽदूराद् आगमनक्रिया ।
अभारोद्वहनं क्षान्तिः श्राद्धस्यौपशमो विधिः ॥ इति ।

इति स्मृतिचन्द्रिकायां श्राद्धदिनात् प्राग्दिनकृत्यम्