१२ भोजनीयतयोक्त-श्रोत्रियादि-ब्राह्मणेषु

**अथ भोजनीयतयोक्त-श्रोत्रियादि-ब्राह्मणेषु **

ये दोषसद्भावाद् वर्ज्यास् ते निरूप्यन्ते

अत्र मनुः ।

ये स्तेनाः पतिताः क्लीबा ये च नास्तिकवृत्तयः।
तान् हव्यकव्ययोर् विप्रान् अनर्हान् मनुर् अब्रवीत् ॥
जटिलं चानधीयानं दुर्वालं कितवं तथा ।
याजयन्ति च ये पूगान् तांश् च श्राद्धे न भोजयेत् ॥
चिकित्सकान् देवलकान् मांसविक्रयिणस् तथा ।
विपणेन च जीवन्तो वर्ज्याः स्युर् हव्यकव्ययोः ॥
प्रेष्यो ग्रामस्य राज्ञश् च कुनखी श्यावदन्तकः ।
प्रतिरोद्धा गुरोश् चैव त्यकाग्निर् वार्धुषिस् तथा ॥
यक्ष्मी च पशुपालश् च परिवेत्ता निराकृतिः ।
ब्रह्मद्विट् परिवित्तिश् च गणाभ्यन्तर एव च ॥
कुशीलवो ऽवकीर्णी च वृषलीपतिर् एव च ।
पौनर्बवश् च काणश् च यस्य चोपपतिर् गृहे ॥
भृतकाध्यपको यश् च भृतकाध्यापितश् च यः ।
शूद्रशिष्यो गुरुश् चैव वाग्दुष्टः कुण्डगोलकौ ॥
अकारणपरित्यक्ता मातापित्रोर् गुरोस् तथा ।
ब्राह्मैर् यौनैश् च संबन्धैः संयोगं पतितैर् गतः ॥
अगारदाही गरदः कुण्डाशी सोमविक्रयी ।
समुद्रयायी बन्दी च तैलिकः कूटकारकः ॥
पित्रा विवदमानश् च केकरो मद्यपस् तथा ।
पापरोग्य् अभिशस्तश् च दाम्भिको रसविक्रयी ॥
धौःशराणां कर्ता च यश् चाग्रेदिधिषूपतिः ।
मित्रध्रुक् द्यूतवृत्तिश् च पुत्राचार्यस् तथैव च ॥
भ्रामरी गण्डमाली च श्वित्र्य् अथो पिशुनस् तथा ।
उन्मत्तो ऽन्धश् च वर्ज्याः स्युर् वेदनिन्दक एव च ॥
हस्तिगोऽश्वोष्ट्रदमको नक्षत्रैर् यश् च जीवति ।
पक्षिणां पोषको यश् च युद्धाचार्यस् तथैव च ॥
स्रोतसां भेदको यश् च तेषां चावरणे रतः ।
गृहसंवेशको दूतो वृक्षारोपक एव च ॥
श्वक्रीडी श्येनजीवी च कन्यादूषक एव च ।
हिंस्रो वृषलपुत्रश् च गणानां चैव याजकः ॥
आचारहीनः क्लीबश् च नित्यं याचनकस् तथा ।
कृषिजीवी श्लीपदी च सद्भिर् निन्दित एव च ॥
औरभ्रको माहिषकः परपूर्वापतिस् तथा ।
प्रेतनिर्यातकश् चैव वर्जनीयाः प्रयत्नतः ॥
एतान् विगर्हिताचारान् अपाङ्क्तेयान् नराधमान् ।
द्विजातिप्रवरो विद्वान् उभयत्र विवर्जयेत् ॥ इति ।

अत्र यद् यद् व्याख्यागम्यं तत् तद् व्याख्यायते । स्तेना ब्राह्मणसुवर्णव्यतिरिक्तद्रव्यापहर्तारः, ब्राह्मणस्वर्णहर्तॄणां पतितपदेनैव वर्ज्यत्वस्याभिधानात् । स्वकर्मत्यागिनो वा स्तेना,

ये व्यपेताः स्वकर्मभ्यः स्तेनास् ते परिकीर्तिताः ।

इति यमस्मरणात् । पतिता महापातकिनः । क्लीबास् तु षड्विधाः देवलेन दर्शिताः ।

षण्डको वातजश् चैव षण्डः क्लीबो नपुंसकः ।
कीलकश् चेति षोढायं क्लीबभेदो विभाषितः ॥

षण्डकादीनां लक्षणं स्वयम् एव दर्शयति ।

तेषां स्त्रीतुल्यवाक्चेष्टः स्त्रीधर्मा षण्डको भवेत् ।
पुमान् भूत्वा स्वलिङ्गानि पश्चाच् छिन्द्यात् तथैव च ॥
वातजो नाम षण्डः स्यात् स्त्रीषण्डो वापि नामतः ।
असल्लिङ्गो ऽथ षण्डः स्यात् षण्डस् तु म्लानमेहनः ॥
अमेध्याशी पुमान् क्लीबो नष्टरेता नपुंसकः ।
न कीलक इति ज्ञेयो यः क्लैब्याद् आत्मनः स्त्रियम् ॥
अन्येन सह संयोज्य पश्चात् ताम् एव सेवते ॥ इति ।

नास्ति लोकान्तर्फलदं कर्म नस्ति देवतेत्यादिमतिमन्तो नस्तिकाः । तेभ्यो वृत्तिर् जीवनं येषां श्रोत्रियादीनां ते नास्तिकवृत्तयः । जटिलो ब्रह्मचारी अनधीयानो वेदाध्ययनरहितः । नन्व् अनधीयानजटिलस्य अश्रोत्रियत्वेन प्राप्त्यभावाद् अयुक्तः प्रतिषेधः । उच्यते

व्रतस्थम् अपि दौहित्रं श्रद्धे यत्नेन भोजयेत् ।

इत्य् अनेनानुकल्पतया भोजनीयब्राह्मनेषु दौहित्रः ब्रह्मचारी व्रतमात्रस्थः अनधीयानो ऽपि भोजनीयतयोक्तः । तत्र दौहित्रग्रहणम् अतन्त्रम् इति भ्रान्त्या कथंचित् प्राप्तो ऽत्र निषिध्यत इति नातीव् व्यर्थः । केचित् - अनधीयानगृहस्थस्याश्रोत्रियस्यापि प्राप्त्यर्थम् इत्य् आहुः । तद् अयुक्तम्,

वेदविद्याव्रतस्नातान् श्रोत्रियान् गृहमेधिनः ।
भोजयेद् धव्यकव्येन विपरीतांस् तु वर्जयेत् ॥

इति विशेषेण वर्ज्यतयोक्तस्य गृहस्थस्य् प्राप्त्यसंभवात् । दुर्वालः खल्य् आटकः, कपिलकेशो वा अत्यन्तकोपनो वा । तद् एतत् सर्वं संग्रहकारेणोक्तम् ।

निश्चिताध्ययनेनैव गुणेन स्वीकृतो ऽखिलः ।
मूर्खो यो ब्रह्मचारी तु जटिलस् तं न भोजयेत् ॥
दौहित्रादिवद् अत्रापि भ्रान्त्या प्राप्तो निषिध्यते ।
ईदृशस्य गृहस्थस्य प्राप्त्यर्थम् अपरे विदुः ॥
तन् न युक्तम् अविद्वांश् च गृहस्थश् च निरुध्यते ।
कल्वाटकश् च दुर्वालः कपिलश् चण्ड एव वा ॥ इति ।

पूगयाजकाः बहूनां प्रत्येकं याजकाः । श्राद्धग्रहणम् अत्र दैवे ऽभ्यनुज्ञानार्थम् । दैवस्याप् प्रदर्शनार्थत्वे तु व्यर्थम् एव स्यात् । पूर्वापरपर्यालोचनयैव दैवे पित्र्ये च प्रतिषेधावगतेः । अत एव संग्रहकारः ।

दुर्वालादीन् श्राद्ध एव सूत्रेणाह च गौतमः । इति ।

मन्वादीनां मतत्वेनेति शेषः । तथा च ब्राह्मणपरीक्षाधिकारे गौतमः - “हविःषु चैवं दुर्वालादीन् श्राद्धे एवैके” (ग्ध् १५।३०) । हविःषु दैवे ऽपि च एवं पित्र्यवत् परीक्ष्य दुर्वालादीन् विवर्जयेत् । एके तु मन्वादयः दुर्वालादीन् न पित्र्ये भोजयेत् न पुनर् दैवे ऽपीति मन्यन्त इति । चिकित्सका वृत्त्यर्थं धर्मार्थं च । तैत्तिरीयकश्रुतौ “तस्माद् ब्राह्मणेन भेषजं न कार्यम् अपूतो ह्य् एषो ऽमेध्यो यो भिषक्” इत्य् अविशेषेण भिषजो निन्दादर्शनात् । देवलकस्य स्वरूअं देवलेन दर्शितम् ।

देवार्चनपरो विप्रो वित्तार्थी वत्सरत्रयम् ।
स वै देवलको नाम हव्यकव्येषु गर्हितः ॥
देवकोशोपजीवी तु नाम्ना देवलको भवेत् ।
अपाङ्क्तेयः स विज्ञेयः सर्वकरमसु सर्वदा ॥ इति ।

विपणो वाणिज्यम्, तेनानादद्य् अपि जीवन्तो ब्राह्मणाः विपणजीविनः । विपणजीवितैव प्रतिषिद्धस्य मांसविक्रयिणः पुनः प्रतिषेधो ऽत्यन्तवर्ज्यत्वख्यापनार्थः । तेन अध्ययनादिविक्रयिणां श्रोत्रियादीनाम् अनुकल्पतयोपादेयत्वम् अवगम्यते । अथ वा आपद्य् अपि मांसविक्रयिणो वर्ज्याः । प्रेष्यः परिचारिकः । कुनखी स्वभावाद् एव मृतनखः । श्यावदन्तः स्वभावात् कृष्णदन्तः । अनयोः पुराकृतकर्मशेषसंबन्धाद् एव प्रतिषेधः । गुरोः प्रतिरोद्धा स्पर्धी । त्यकाग्निः शास्त्रोक्तत्यागकारणम् अन्तरेण त्यक्तश्रौतस्मार्ताग्निः । वार्धुषिकः स्वल्पवृद्ध्या धनम् आदाय अधिकवृद्ध्या पुरुषान्तरे धनप्रयोक्ता, स्वल्पमूल्येन पण्यं क्रीत्वा तद्विक्रयेण बहुमूल्यसाधको वा । तथा च स्मृतिः ।

समार्घं धनम् उत्द्धृत्य महार्घं य प्रयच्छति ।
स वै वार्धुषिको नाम ब्रह्मवादिषि गर्हितः ॥
समार्घं पण्यम् आदाय महार्घं यः प्रयच्छति ।
स वै वार्धुषिको नाम ब्रह्मवदिषु गर्हितः ॥

यक्ष्मी क्षयरोगी । पशुपालः अनापदि पाशुपाल्यवृत्त्युपजीवी ब्राह्मणः । परिवेत्तृपरिवित्त्योः स्वरूपं मनुना स्वेनैव प्रदर्शितम् ।

दाराग्निहोत्रसंबन्धं कुरुते यो ऽग्रजे स्थिते ।
परिवेत्ता स विज्ञेयः परिवित्तिस् तु पूर्वजः ॥

अग्निहोत्रशब्देनाग्निहोत्राद्युत्तरक्रतुप्रयोज्यम् आधानम् उक्तम् । उक्तं च साक्षाद् गर्गेण ।

सोदर्ये तिष्ठति ज्येष्ठे न कुर्याद् दारसंग्रहम् ।
आवसथ्यं तथाधानं पतितस् तु तथा भवेत् ॥

आवसथ्यम् आवसथ्याधानम्, दायविभागकाले क्रियमाणम् औपासनाधानम् इति यावत्, विवाहकाले क्रियमाणौपासनाग्नेश् च “न कुर्याद् दारसंग्रहम्” इत्य् अनेनैवार्थान् निरस्तत्वात् । अतः,

औपासनं समादध्यात् स्वकाले परिवेदयन् ।

इति ब्रह्मगर्भवचने ऽपि स्वकालशब्देन दायविभागकाल उक्तः, न तु विवाहकालो ऽपीत्य् अवगन्तव्यम् । आधानं गार्हपत्याद्याधानम् । पतितो भवेत्, उपपातकी भवेद् इत्य् अर्थः । उपपातकिपरिगणनवचने परिवेत्तृपरिवित्त्योः कीर्तितत्वात् । सोदर्यग्रहणाद् असोदर्ये तिष्ठति ज्येष्ठे कनिष्ठस्य दारसंग्रहादौ कृते ऽपि न पातित्यदोष इति गम्यते । शातातपेन तु असोदर्यविषये दोषाभावः साक्षाद् उक्तः ।

पितुः पुत्राश् च सापत्नाः परनारीसुतास् तथा ।
दाराग्निहोत्रसंयोगे न दोषः परिवेदने ॥ इति ।

सापत्नाः असोदरभ्रातरः । परनारीसुताः स्वपित्रा परक्षेत्रे उत्पादिताः द्व्यामुष्यायणभूताः । पितृव्यपुत्रादिषु ज्येष्ठेषु दाराग्निहोत्रसंयोगरहितेषु तिष्ठत्स्व् अपि कनिष्ठेन दाराग्निहोत्रसंयोगे कृते परिवेदनदोषो नास्तीत्य् अर्थः । परनारीपुत्रग्रहणं दत्तपुत्रादेर् अपि प्रदर्शनार्थम् । अत एव यमः ।

पितृव्यपुत्रान् सापत्नान् परपुत्रांस् तथैव च ।
दाराग्निहोत्रधर्मेषु नाधर्मः परिविन्दतः ॥

परपुत्राः दानक्रयादिना स्वपितुः पुत्रत्वम् आपन्नाः भ्रातरः । सोदर्ये ज्येष्ठे दाराग्निहोत्रसंयोगरहिते तिष्ठति परिवेदने क्वचिद् दोषो नास्तीत्य् आह शातातपः ।

क्लीबे देशान्तरस्थे च पतिते भुक्षुके ऽपि वा ।
योगशास्त्राभियुक्ते च न दोषः परिवेदने ॥

भिक्षुकः परिव्राजकः । योगशास्त्राभियुक्तो विरक्तः । कात्यायनो ऽपि ।

देशान्तरस्थक्लीबैकवृषणांश् च सहोदरान् ।
वेश्यातिसक्तपतितशूद्रतुल्यातिरोगिणः ॥
जडमूकान्धबधिरकुब्जवामनखोडकान् ।
अतिवृद्धान् अभार्यांश् च कृषिसक्तान् नृपस्य च ॥
धनवृद्धिप्रसक्तांश् च कामतोकारिणस् तथा ।
कुहकोन्मत्तचोरांश् च परिविन्दन् न दुष्यति ॥

खोडकः भग्नचरणद्वयः । अभार्याः नैष्ठिकब्रह्मचारिणः । कामतोकारिणः स्वेच्छयैव विवाहनिवृत्तिकारिणः । अत्र ये विवाहे ऽनधिकारिणः क्लीबादयः तेषां कालप्रतीक्षणाभावेनापि नास्ति परिवेदनदोषः । ये तु विवाहाधिकारिणो देशान्तरस्थविरक्तवेश्यातिसक्त-शूद्रतुल्यातिवृद्धकृषिसक्तराजधनवृद्धिप्रसक्तकामतोकारिकुहकचोराः, तेषां कालप्रतीक्षणेन पर्वेदने तु न दोषः । तत्र देशान्तरस्थे अष्टवर्षादिकालः प्रतीक्षणीय इत्य् आह वसिष्ठः - “अष्टौ दश द्वादश वर्षाणि ज्येष्ठभ्रातरम् अनिविष्टम् अप्रतीक्षमाणः प्रायश्चित्ती भवति” इति । देशान्तरगतस्य विवाहदाव् अधिकारसंभवाद् इत्य् अभिप्रायः । अनिविष्टम् अकृतविवाहम् इत्य् अर्थः । अत्र द्वादशवर्षप्रतीक्षणं धर्मार्थं वार्थार्थं वा देशान्तरगते ज्येष्ठे द्रष्टव्यम् । तथा च स्मृतिः ।

द्वादशैव तु वर्षाणि ज्यायान् धर्मार्थयोर् गतः ।
न्याय्यः प्रतीक्षितुं भ्राता श्रूयमाणः पुनः पुनः ॥

भ्राता सहोदरः । धर्मार्थयोर् इति विद्याया अपि प्रदर्शनार्थम् । अत एव गौतमेन - “नष्टे भर्तति” इति प्रक्रम्य, “द्वादश वर्षाणि ब्राह्मणस्य विद्यासंबन्धेन” इति भार्यायाः भर्तृप्रतीक्षणकालम् उक्त्वा उक्तम् - “भ्रातरि चैवं ज्यायसि यवीयान् कन्याग्न्याधेयेषु” इति । नष्टे भर्तरि कुत्र गत इत्य् अज्ञाते भर्तरि अत्यन्तदूरदेशान्तरगत इति यावत् । द्वादशवर्षाणि ब्राह्मणस्य विद्यासंबन्धेन ब्राह्मणस्य भर्तुः विद्याग्रहणार्थं देशान्तरगमने सति भार्यया द्वादशवर्षाणि प्रतीक्षणीयानीत्य् अर्थः । भ्रातरीति । ज्येष्ठे भ्रातरि अकृतविवाहे अकृताग्न्याधेये वा विध्याग्रहणार्थं देशान्तरगते कनिष्ठो भ्राता कन्यापरिग्रहे अग्न्याधाने चैव द्वादशवर्षाणि प्रतीक्ष्य तद् उपरि प्रवर्तेतेत्य् अर्थः । कार्यान्तरार्थं देशान्तरगतविषये तु अष्टौ दश् चेति पक्षद्वयम् । अत्रेदं विवक्षितम् - देशान्तरगतस्याभिलषितकार्यं निर्वर्त्य प्रत्यागमनयोग्यकाले ऽप्य् अनागतस्य इह लोके स्थितिसंदेहेन विवाहसंभावनानिवृत्तौ न परिवेदनं दोषावहम् इति । एवम् एव विरक्तवेश्यातिसक्तादिष्व् अपि तत्तत्स्वभावस्य द्वादशवर्षादिचिरकालानुवृत्त्या विवाहसंभावनानिवृत्तौ परिवेदनं न दोषावहम् इत्य् अभिप्रायो वेदितव्यः । अनेनैवाभिप्रायेण सुमन्तुनाप्य् उक्तम् ।

व्यसनासक्तचित्तो वा नास्तिको वा तथाग्रजः ।
कनीयान् धर्मकामस् तु आधानम् अथ कारयेत् ॥

आधानग्रहणं विवाहस्याप्य् उपलक्षणार्थम् । क्लीबादयस् तु भ्रातरः किंचित् कालम् अपि न प्रतीक्षणीयाः, तेषां विवाहादौ स्वत एवायोग्यत्वेनानधिकारात् । तथा च स्मृतिः ।

उन्मत्तः किल्बिषी कुष्ठी पतितः क्लीब एव च ।
राजयक्ष्म्यामयावी च न न्याय्यः स्यात् प्रतीक्षितुम् ॥
खञ्जवामनकुब्जेषु गद्गदेषु जडेषु च ।
जात्यन्धे बधिरे मूके न दोषः परिवेदने ॥ इति ।

एवम् आधानाधिकारिणि ज्येष्ठे स्थिते ऽपि तदनुमत्या परिवेदने तु न दोषः । तथा च वृद्धवरिष्ठः ।

अग्रजश् च यदानग्निर् आदध्याद् अनुजः कथम् ।
अग्रजानुमतः कुर्याद् अग्निहोत्रं यथाविधि ॥

आधानाधिकार्य् अप्य् अग्रजो यदा आधानादिविधिम् अतिक्रम्यानाहिताग्निर् यावज्जीवम् आस्त इति कनिष्ठस्य निश्चयः तदा तद् अनुमतिं लब्ध्वाधानं कुर्याद् इत्य् अर्थः । अयम् एवार्थः सुमन्तुनाप्य् उक्तः ।

ज्येष्ठभ्राता यदा तिष्ठेद् आधानं नैव कारयेत् ।
अनुज्ञातो हि कुर्वीत शङ्खस्य वचनं यथा ॥

ज्येष्ठभ्रातृग्रहणं पितुर् अपि प्रदर्शनार्थम् । तथा च स एव ।

पितुर् यस्य तु नाधानं कथं पुत्रस् तु कारयेत् ।
अग्निहोत्राधिकारो ऽस्ति शङ्खस्य वचनं यथा ॥

पितृग्रहणं पितामहस्यापि प्रदर्शनार्थम् । अत एव उशना ।

पिता पितामहो यस्य अग्रजो वाथ कस्यचित् ।
तपो ऽग्निहोत्रमन्त्रेषु न दोषः परिवेदने ॥

पूर्वोक्त एव विषये सत्याम् अनुज्ञायाम् एतद् अपि वचनं द्रष्टव्यम् । मन्त्रशब्दो वेदोपलक्षणार्थः । तथा च शातातपः ।

नाग्नयः परिविन्दन्ति न वेदा न तपांसि च ।
न च श्राद्धं कनिष्ठस्य या च कन्या विरूपिका ॥

यथा वेदांस् तपांसि श्राद्धं च अधिकृत्य ज्येष्ठे अध्ययनतपःश्राद्धराहित्येन स्थिते ऽपि तदनुज्ञाम् अन्तरेणापि कनिष्ठेनानुष्थितानि परिवेदनहेतवो न भवन्ति, तथाग्नयो ऽपि ज्येष्ठादेर् अभ्यनुज्ञया कनिष्ठेनाहिता इत्य् अर्थः । “या च कन्या विरूपिका” इत्य् अस्यायम् अर्थः - विवाहाधिकारिण्यां ज्येष्ठायां कन्यायां विरूपायाम् अनूढायां स्थितायां तदनुज्ञां विनापि कनिष्ठाया विवाहादिकालातिक्रमभीत्या कृतो विवाहो न दोषायेति । एवं चैवंविधविषयव्यतिरिक्तविषये कन्यास्व् अपि परिवेदने वरपरिवेदनोक्तं सर्वम् अनुसंधेयम् । अनुजस्य तु ज्येष्ठभ्रात्रनुज्ञयापि विवाहदोषो ऽस्तीत्य् आह हारीतः ।

सोदराणां तु सर्वेषां परिवेत्ता कथं भवेत् ।
दारैस् तु परिविद्यन्ते नाग्निहोत्रेण नेज्यया ॥

विवाहादाव् अधिकारिभूतज्येष्ठेनानुज्ञातसोदरविषयम् एतत् “दारैस् तु परिविद्यन्ते” इति । वृद्धयाज्ञवल्क्यस् तु ज्येष्ठो ऽपि कदाचिद् आधानेन परिवेत्ता भवतीत्य् आह ।

आवसथ्यम् अनादृत्य त्रेतायां यः प्रवर्तते ।
सो ऽनाहिताग्निर् भवति परिवेत्ता तथोच्यते ॥ इति ।

अयम् अर्थः - यथा दायविभागकाले औपासनाधानं यस्य स्वगृह्योक्तम्, असौ तद् अकृत्वा ब्रह्मौदनपाकं निर्मन्थ्यागिना कृत्वा गार्हपत्याद्याधानं यदि कुरुते सो ऽनाहिताग्निर् भवति । प्रथमाधाने निर्मन्थ्याग्निना ब्रह्मौदनपाकस्याशास्त्रार्थतया गार्हपत्यादिशब्दवाच्यालौकिकसंस्कारस्यानुत्पत्तेः । तथा च प्रथमम् आधेयम् औपासनाग्निम् अनाधाय गार्हपत्याद्याधानकरणात् परिवेत्तेत्य् अपि गीयत इत्य् अलं परिवेत्तृपरिवित्तिशब्दार्थकथनप्रपञ्चेन ।

निराकृतिशब्दार्थस् तु देवलेन दर्शितः ।
अधीत्य विस्मृते वेदे भवेद् विप्रो निराकृतिः ॥ इति ।

कात्यायनस् त्व् अन्यथा निराकृतिशब्दार्थम् आह ।

यस् त्व् आधायाग्निम् आलस्याद् देवादीन् इह नेष्टवान् ।
निराकर्तामरादीनां स विज्ञेयो निराकृतिः ॥ इति ।

ब्रह्मद्विट् ब्राह्मणानां द्वेष्टा । परिवित्तिशब्दस् तु परिवेत्तृशब्दव्याख्यानावसरे व्याख्यातः । गणः मद्यपायी ब्राह्मणादिः, तन्मध्यगो गणाभ्यन्तरः । कुशीलवो गायकनर्तकादिः । अवकीर्णिनम् आह देवलः ।

गूढलिङ्ग्य् अवकीर्णी स्यात् यश् च भग्नव्रतस् तथा । इति ।

गूढलिङ्गी दण्डमेखलादिब्रह्मचारिलिङ्गत्यागी । भग्नव्रतः स्त्र्युपगमनेन स्खलितब्रह्मचर्यः,

व्रती यः स्त्रियम् अभ्येति सो ऽवकीर्णी निरुच्यते ।

इति यमस्मरणात् । वृषलीपतिर् अपि देवलेन दर्शितः ।

वन्ध्या तु वृषली ज्ञेया वृषली च मृतप्रजा ।
अपरा वृषली ज्ञेया कुमारी या रजस्वला ॥
यस् त्व् एनाम् उद्वहेत् कन्याम् ब्राह्मणो ज्ञानदुर्बलः ।
अश्राद्धेयम् अपाङ्क्तेयं तं विद्याद् वृषलीपतिम् ॥

कन्यावस्थायां या रजस्वला जाता तां य उद्वहेत् तम् अश्राद्धेयम् अपाङ्क्तेयं वृषलीपतिं विद्याद् इत्य् अन्वयः । एवं च तृतीयवृषलीपतिर् एवात्र मनुनोक्त इति मन्तव्यम् । पुनर्भूः द्विरूढा तस्याः यो द्वितीयविवाहे सति पतिः तेन तस्याम् उत्पादितः पुत्रः पौनर्भवः । काण एकचक्षुः । “यस्य चोपपतिर् गृहे” इत्य् एतद् देवलो न स्पष्टीकृतम् ।

परदाराभिगो मोहात् पुरुषो जार उच्यते ।
स एवोपपतिर् ज्ञेयो यः सदा संवसेद् गृहे ॥

वेतनेन भृत उपाध्यायो भृतकः । स्वार्थे कप्रत्ययः । भृतकश् चासाव् अध्यापकश् चेति भृतकाध्यापकः । भृतकेनाध्यापकेनाध्यापितः शिष्यो भृतकाध्यापितः । एताव् उपपातकिनौ,

भृतकाध्यापको यश् च भृतकाध्यापितश् च यः ।
ताव् उभौ पतितौ विप्रौ स्वाध्यायक्रयविक्रयात् ॥

इति देवलस्मरणात् । पतितौ उपपातकिनाव् इत्य् अर्थः, उपपातकमध्ये एतयोर् अपि गणनात् । शूद्रस्य शिष्यः शूद्रशिष्यः । गुरुः शूद्रसेति शेषः, तस्य बुद्धिस्थत्वात् । वाग्दुष्टः कात्यायनेन दर्शितः ।

हुंकारं हसनं चैव लोके यच् च विगर्हितम् ।
अनुकुर्याद् अनुब्रूयाद् वाग्दुष्टं तं नरं विदुः ॥

कुण्डगोलकौ स्वेनैव मनुना दर्शितौ ।

परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ ।
जीवे भर्तरि कुण्डः स्यान् मृते भर्तरि गोलकः ॥

समब्राह्मणभूताभ्यां जायापतिभ्याम् उत्पादितः सुतो ब्राह्मणो भवति, न पुनर् ब्राह्मणभूतजारेण ब्राह्मणजातीयजारिण्यां समुत्पादितः,

सर्ववर्णेषु तुल्यासु पत्नीष्व् अक्षतयोनिषु ।
आनुलोम्येन संभूताः जात्या ज्ञेयास् तथैव ते ॥

इति जातिनिर्णये मनुनैवाधिधानात् । तेन कुण्डलोगकयोर् अब्राह्मणयोः श्राद्धे अभोजनीयत्वेन कथंचिद् अपि प्राप्तिर् नास्तीति “वाग्दुष्टः कुण्डगोलकौ” इत्य् अत्र कुण्डगोलकयोर् उपादानं व्यर्थं स्यात् । अत्रोत्तरम् उक्तं संग्रहकारेण ।

नियोगोत्पादितौ श्राद्धे निषिद्धौ कुण्डगोलकौ ।
अब्राह्मण्यात् कुतः प्राप्तिः शूद्रवज् जारजातयोः ॥ इति ।

यद्य् अपि जातजातयोः कुण्डगोलकयोः ब्राह्मणत्वाभावेन शूद्रवद् एव श्राद्धप्राप्त्यभावात् निषेधो न संभवति । तथापि नियोगोत्पादितयोः कुण्डगोलकयोः परदारोत्पन्नयोर् अपि शास्त्रीयमार्गानुसारेणोत्पादितत्वात् ब्राह्मण्यम् अस्तीति ताव् एव कुण्डगोलकौ मनुना श्राद्धे निषिद्धाव् इत्य् अर्थः । तद् एतद् अयुक्तम्, नियोगोत्पादितयोर् अजारजातत्वेनाकुण्डगोलकत्वात्, अजारत्वं च नियुक्तस्याजारत्वात् । तथा च देवलः ।

परदाराभिगो मोहात् पुरुषो जार उच्यते । इति ।

मोहाद् इति पदं नियोगात् परदाराभिगः पुरुषो न जार इत्य् आह । अजारजातौ न कुण्डगोलकौ । तथा च स एव ।

अमृते जारजः कुण्डो मृते भर्तरि गोलकः । इति ।

जारज इति वदन् नियुक्तो न कुण्डो न गोलकश् चेत्य् आह । बृहस्पतिना त्व् अनियुक्तजाव् एव कुण्डगोलकाव् इति स्पष्टम् उक्तम् ।

पारदार्यम् अधर्म्यं तु तज्जातौ कुण्डगोलकौ ।
अश्राद्धेयाव् अभोज्यान्नौ क्षेत्रजाद्यास् तथा सुताः ॥ इति ।

यद् अधर्म्यं पारदार्यं तज्जाताव् एव कुण्डगोलकौ, न पुनः पारदार्यमात्रजाव् इत्य् अर्थः । अतश् च नियोगे सति पारदार्यस्याधर्म्यत्वाभावात् तदुत्पन्नौ न कुण्डगोलकौ । कुं तु क्षेत्रजाव् एव । अतस् तयोः पृथक् प्रतिषेधार्थम् “क्षेत्रजाद्यास् तथा सुताः” इत्य् उक्तम् । तस्मात्,

नियोगोत्पादितौ श्राद्धे निषिद्धौ कुण्डगोलकौ ।

इति संग्रकारोक्तम् अयुक्तम् एव । अतो ऽन्यथा समाधिर् अभिधीयते - “वाग्दुष्टः कुण्डगोलकौ” इत्य् अत्र कुण्डगोलकशब्दौ गौण्या वृत्त्या नियोगोत्पादितक्षेत्रजपुत्रयोर् वर्तेते । तत्र जीवति भर्तरि परदारेषु जातत्वसाम्यात् कुण्डशब्दो वर्तते । मृते भर्तरि जाते क्षेत्रजे मृते भर्तरि परदारेषु जातत्वसाम्यात् गोलकशब्दः । एवमुक्तकुण्डगोलकयोर् ब्राह्मणत्वेन श्राद्धे प्राप्तिसम्भवात् प्रतिषेधो ऽर्थवान् । एवं तर्हि पूर्वोक्ते “पारदार्यम् अधर्म्यं तु” इत्यादिबार्हस्पत्यवचने “क्षेत्रजाद्यास् तथा सुताः” इत्य् अनेनैव क्षेत्रजपुत्रप्रतिषेधस्य सिद्धत्वात् “कुण्डगोलकाव् अश्राद्धेयौ” इत्य् एतन् मुख्यकुण्डगोलकप्रतिषेधार्थम् इत्य् अवश्यं वक्तव्यम् । तच् चायुक्तम्, मुख्यकुण्डगोलकयोर् अभ्राह्मणत्वेन शूद्रवद् अप्राप्तेः प्रतिषेधानर्थक्यात् । उच्यते — कुण्डगोलकयोर् जात्यन्तरत्वेन व्यवहाराभावात् ब्राह्मण्यां ब्राह्मणोत्पादितत्वमात्रेण ब्राह्मणो ऽयम् इति श्राद्धादौ स्वीकारो भवति । तेन मन्दानुग्रहार्थं परमार्थतो ऽप्राप्तयोर् अपि तयोः प्रतिषेधो बृहस्पतिना कृत इत्य् अलं कुण्डगोलकप्रतिषेधप्रयोजनसमर्थनप्रपञ्चेन ॥

अकारणपरित्यक्तेत्य् अस्यायम् अर्थः । “त्यजेत् पितरं राजघातकम्” इत्यादिशास्त्रोक्तत्यागकारणे ऽविद्यमाने ऽपि मातापितरोर् गुरोर् वा परित्यक्तेति । गुरुर् अत्राचार्यो न पिता, तस्य स्वशब्देनैवोपात्तत्वात् । त्यागो “जीवतोर् वाक्यकरणम्” इत्यादिशास्त्रोक्तशुश्रूषाद्यकरणम् ।
ब्राह्मैर् यौनैश् च संबन्धैः संयोगं पतितैर् गतः ।

इति प्रतिषेधो व्यर्थः, “ये स्तेनपतिताः क्लीबाः” इत्य् अत्र पतितग्रहणेन पञ्चविधपतितप्रतिषेधस्य प्राग् एव कृतत्वात् । सत्यम्, ब्राह्मैर् यौनैश् च संबन्धैः संयोगम् उपपातकिभिर् यो गतस् तस्यागत्या कदाचिद् भोजनीयत्वाङ्गीकारार्थो ऽयं पुनः प्रतिषेध इति न व्यर्थः । संग्रहकारस् तु पञ्चविधपतितव्यतिरिक्तपतितप्रतिषेधकतया श्लोकार्थम् उक्त्वा, वैयर्थ्यं परिहृतवान् ।

ब्राह्मैर् यौनैश् च संबन्धैः संबद्धा ब्रह्महादिभिः ।
सद्यो ये पतितास् तैर् संयोगं पतितैर् गतः ॥
पतितः स निषिद्धत्वात् तृतीयो ऽत्र निषिध्यते ॥ इति ।

ब्रह्महादिसंबन्धात् सद्यो ये पतिताः तैः पतितैर् यः संयोगं गतः सो ऽत्र तृतीयः प्रतिषिध्यते । “तत्संयोगी च पञ्चमः” इत्य् उक्तस्य पतितस्य प्राग् एव निषिद्धत्वात् इत्य् अर्थः । अगारदाही तु द्विधा देवलेन दर्शितः ।

अगारदाही स ज्ञेयः प्रेतदग्धा धनेन यः ।
स चाप्य् अगारदाही स्याद् द्वेषाद् यो वेश्मदाहकः ॥ इति ।

कुण्डाशी कुण्डगोलकयोर् अन्नभोक्ता । तथा च कुण्डगोलकाव् अभिधाय मनुनैवाभिहितम् ।

यस् तयोर् अन्नम् अश्नाति स कुण्डाश्य् उच्यते द्विजः । इति ।

सोमविक्रयी सोमलताया विक्रेता । समुद्रयायी वहित्रम् आरुह्येति शेषः । बन्दी नृपादिस्तुतिपाठकः । तैलकः तैलवृत्त्युपजीवी । कूटकारकः कूटस्य अपरमार्थस्यालेख्यादेः कारकः । पित्रा विवदमानः स्मृत्याचारव्यपेतमार्गेण पित्रा सह विप्रतिपद्यमानः । केकरो ऽर्धदृष्टिः । मद्यपः सुराव्यतिरिक्तमद्यपः । सुरापस्य पतितपदेन प्राग् एव प्रतिषेधात् । पापरोगी “उन्मादस् त्वग्दोषो राजयक्ष्मा श्वासो मधुमेधो भगंदरो महोदरम् अश्मरीत्य् अष्टौ पापरोगाः” इति देवलोक्तपापरोगेष्व् अन्यतमरोगवान् । अभिशस्तः दोषकारितया केनचित् सभायाम् आवेदितः । दाम्भिकः दर्माचरणे शाठ्यवान् । रसविक्रयी क्षारादिरसविक्रयी । धनुःशराणां कर्ता धनुषः शराणां च कर्ता । अग्रेदिधिषूपतिः अग्रेदिधिष्वाः पतिः । का पुनः अग्रेदिधिषूर् इत्य् अपेक्षिते देवलः ।

ज्येष्ठायां यद्य् अनूढायां कन्यायाम् उह्यते ऽनुजा ।
सा चाग्रेदिधिषूर् ज्ञेया पूर्वा तु दिधिषूर् मता ॥ इति ।

मित्रध्रुक् मित्रद्रोही । द्यूतवृत्तिः द्यूतजीवनः । पुत्राचार्यो नाम ग्रामगतगृहस्थकुमाराणाम् अक्षरशिक्षकः । तथा च संग्रहकारः ।

पुत्राचार्यः स विज्ञेयो ग्रामे यो ऽक्षरपाठकः । इति ।

अथ वा पुत्र एवाचार्यो यस्य स पुत्राचार्यः । तथा च स एव ।

पुत्राद् अवाप्तविद्यो वा पुत्राचार्यो निगद्यते । इति ।

भ्रामरी भ्रमरवद् वृत्त्यर्थम् एवार्थार्जकः । तथा च स एव ।

यः पोषयति वृत्त्यर्थं विभवान् भ्रामरी तु सः । इति ।

गण्डमाली गण्डमालाख्यरोगवान् । श्वित्री कुष्ठव्याधिना श्वेतत्वक् । पिशुनः स्वभावतो वृत्त्यर्थं वा परदोषसूचकः । उन्मत्तादयः प्रसिद्धाः ।पक्षिणां पोषकः बद्धानां क्रीडार्थं पोषयिता ।युद्धाचार्यो धनुर्वेदोपाध्यायः । स्रोतसां भेदकः प्रवाहस्य दिगन्तरे नेता, तेषां चावरणे आवरणे रतः आवरणे गतिप्रतिबन्धार्थं मृदादिना मार्गनिरोधने रतः । गृहसंवेशकः वर्धकिवृत्त्या वर्तमानः । दूतः सन्देशहरः । वृक्षारोपकः मूल्यं गृहीत्वेति शेषः । “पञ्चाम्रवापी नरकं न याति” इत्यादिशास्त्रेण धर्मार्थं वृक्षारोपणविधानात् । “श्वक्रीडी” इत्यादयो निगदव्याख्याताः । वृषलस् तु स्वेनैव मनुना निरूपितः ।

वृषो हि भगवान् धर्मः तस्य यः कुरुते ऽत्ययम् ।
वृषलं तं विदुर् देवास् तस्माद् धर्मं न लोपयेत् ॥ इति ।

अलं निवारणम् । एवं च व्यवहारद्रष्टृषु यो धर्मवाधनं (?) कुरुते स वृषलः । तत्पुत्रो वृषलपुत्रः । स च ब्राह्मण एवेति नायम् अप्राप्तप्रतिषेध इति मन्तव्यम् । गणानां याजकः अनेकयजमानकाहीनद्वादशाहादियज्ञयाजकः । तथा च स्मृतिः - “तस्माद् द्वादशाहेन न याज्यं पाप्मनो व्यावृत्त्यै” इति । एवं च “याजयन्ति च ये पूगान्” इत्य् अनेन सहास्यापौनरुक्थ्यं सिद्धम् । आचारहीनो दुराचारः । क्लीबो ऽनुत्साही समर्थो ऽपि स्वाश्रमधर्मानुष्ठानरहित इत्य् अर्थः । एवं च “ये स्तेनपतितक्लीबाः” इत्य् अनेन अपौनरुक्त्यं स्फुटम् । नित्यं याचनकः सत्य् अपि विभवे याचकः । श्लीपदी श्लीपदाख्यरोगवान्, उच्छूनपद इति यावत् । उरभ्राः अवयः ता एव जीविकार्थं पाल्याः यस्यासाव् औरभ्रकः । एवं साहिषकः । अथ वा व्यभिचारिणीसुतो साहिषकः । यद् आह देवलः ।

महिषीत्य् उच्यते भार्या या चैव व्यभिचारिणी ।
तस्यां यो जायते गर्भः स वै माहिषकः स्मृतः ॥ इति ।

तस्यां यः स्वभर्तुर् जायते पुत्रः स साहिषकः स्मृत इत्य् अर्थः । पूर्वम् अन्यस्मै दत्ता परपूर्वा तस्याः पतिः परपूर्वापतिः । प्रेतनिर्यातको मूल्येन प्रेतनिर्हारकः । धर्मार्थं तु प्रशस्त एव । कस्माद् वचनाद् एतद् अवगतम् इत्य् अपेक्षिते संग्रहकारः ।

एतान् विगर्हिताचारान् इत्य् अस्माद् अवगम्यते ।
धर्मार्थं प्रेतनिर्याणम् अदृष्टं वृक्षरोपणम् ॥ इति ।

एतान् स्तेनपतितक्लीबादिप्रेतनिर्यातकपर्यन्तान् उभयत्र दैवे पित्र्ये वेत्य् अर्थः । ब्रह्मपुराणे ऽपि वर्ज्या ब्राह्मणा उक्ताः ।

भोक्तुं श्राद्धेषु नार्हन्ति दैवोपहतचेतसः ।
षण्डो मूकश् च कुनखी खल्वाटो दन्तरोगवान् ॥
श्यावदन्तः पूतिनासः छिन्नाङ्गश् चाधिकाङ्गुलिः ।
गलरोगी च गडुमान् स्फुटिताङ्गश् च सज्वरः ॥
खञ्जतूपरमन्दाश् च तथान्ये दीर्घरोगिणः ॥ इति ।

गडुमान् वातवशाद् उरसि पृष्ठे च उन्नतास्थिसंस्थानान्वितः । खञ्जः भग्नचरणः । तूपरो यौवनकाले श्मश्रुविहीनः । मन्दः अलसः । यमो ऽपि ।

न खरैर् उपयातस्य न रक्तोल्बणवाससः ।
द्व्यङ्गुलातीतकर्णस्य भुञ्जते पितरो हविः ॥

कर्णवेधस्थाने तालपत्रादिप्रवेशेनाभिवर्धनं द्व्यङ्गुलाधिकं निषिद्धम् । तेन द्व्यङ्गुलातीतकर्णो ऽप्य् अनर्हः । शङ्खो ऽपि ।

अनध्यायेष्व् अधीयानाः शौचाचारविवर्जिताः ।
शूद्रान्नपरिपुष्टाङ्गाः ब्राह्मणाः पङ्क्तिदूषकाः ॥

शातातपो ऽपि ।

अग्निष्टोमादिभिर् यज्ञैर् ये यजन्त्य् अल्पदक्षिणैः ।
तेषाम् अन्नं न भोक्तव्यम् अपाङ्क्तेयाः प्रकीर्तिताः ॥
प्रचरन्ति च ये मूढास् तं क्रतुं हीनदक्षिणम् ।
ते मृता नरकं यान्ति पूयशोणितकर्दमम् ॥

अल्पदक्षिणैः “सप्तैकविंशतिषष्ट्तिशतद्वादशसहस्रम्” इत्यादि सूत्रोक्तगोसङ्ख्याविकल्पेषु वित्तशाठ्येन स्वीकृताल्पसङ्ख्याकदक्षिणैर् इत्य् अर्थः । आपस्तम्बो ऽपि ।

नीलीकर्षणकारी तु नीलवस्त्रोपधारकः ।
किंचित् तस्य न दातव्यं चण्डालसदृशो हि सः ॥

नीलीसंसर्गजदोषवान् वर्ज्य इत्य् अर्थः । मरीचिर् अपि वर्ज्यम् आह - “वैधव्यो विधवापतिः” इति । श्राद्धानर्ह इति शेषः । वैधव्यः वैधवेयः । पुनः परिणीतविधवापुत्र इति यावत् । विधवापतिः विधवायाः पुनःपरिणीतायाः पतिः । देवलो ऽपि ।

चातुराश्रम्यबाह्येभ्यो दत्तं भवति निष्फलम् । इति ।

पुराणे ऽपि ।

चत्वारस् त्व् आश्रमाः पूज्या दैवे श्राद्धे च सर्वदा ।
चातुराश्रम्यबाह्येभ्यः श्राद्धं नैव प्रदापयेत् ॥
अनाश्रमी तपस् तेपे यस् तु तं न निमन्त्रयेत् ।
प्रवृत्ता वा निवृत्ता वानाश्रमाः पङ्क्तिदूषकाः ॥

मनुस् तु पङ्क्तिदूषकान् आह ।

विक्ष्यान्धो नवतेः काणः षष्टेः श्वित्री शतस्य च ।
पापरोगी सहस्रस्य दातुर् नाशयते फलम् ॥
यावतः संस्पृशेद् अङ्गे ब्राह्मणान् शूद्रयाजकः ।
तावतां न भवेद् दातुः फलं दानस्य पौर्थिकम् ॥

अन्धस्य दर्शनाभावेन पङ्क्तिगतत्वमात्रेण नवतिनाशकत्वम्, न तु वीक्षणेन । संस्पृशेद् इत्य् अनेनैकपङ्क्तिगतत्वं लक्ष्यते । मुख्यार्थस्वीकारे स्पर्शनाभावे पङ्क्तिदूषकताभावः स्यात् । स चायुक्तः । शूद्रयाजकः स्थपतीष्ट्याम् ऋत्विक्, स्ववृत्त्यर्थं प्रतार्य शूद्रार्थं पाकयज्ञादिकर्ता वा । यदि पुनर् अज्ञानाद् अगत्या वा पङ्क्तिदूषकपरिग्रहः क्रियते तदा त्व् आह मनुः ।

अपाङ्क्तेयहता पङ्क्तिः पाव्यते यैर् द्विजातिभिः ।
तान् निबोधत कार्त्स्न्येन द्विजाग्र्यान् पङ्क्तिपावनान् ॥
अग्र्या वेदेषु सर्वेषु सर्वप्रवचनेषु च ।
श्रोत्रियान्वयजाश् चैव विज्ञेया पङ्क्तिपावनाः ॥
त्रिणाचिकेतः पञ्चाग्निस् त्रिसुपर्णः षडङ्गवित् ।
ब्रह्मदेयानुसंतानश् छन्दोगी ज्येष्ठसामगः ॥
वेदार्थवित् प्रवक्ता च ब्रह्मचारी सहस्रदः ।
शतायुर् चैव विज्ञेया ब्राह्मणाः पङ्क्तिपावनाः ॥

ब्रह्मदेयानुसंतानो ब्राह्मविवाहोढायाः पुत्रः । पङ्क्तिपावनाः पङ्क्त्युपविष्टकाणादिनिबन्धनदोषापनोदकाः । तेन वैश्वदेवार्थम् अपरीक्ष्य स्वीकृता वापत्स्व् अगत्या स्वीकृताः काणादयः सर्ववेदाग्र्यादिभिः पङ्क्तिवावनैर् मिश्रिता यथा भवन्ति तथा नियोक्तव्या इत्य् अभिप्रायः । अत एव सुमन्तुः ।

काणाः कुब्जाश् च खञ्जाश् चाप्य् अचर्माणः कचैर् विना ।
सर्वे श्राद्धे नियोक्तव्या मिश्रिता वेदपारगैः ॥

अचर्माणः शिपिविष्टाः । कचैर् विना खल्वाट इत्य् अर्थः । संग्रहकारस् तु मिश्रणे निषेधम् आह ।

काणादीन् भोजयेद् दैवे श्राद्धे दाने तु वर्जयेत् । इति ।

श्राद्धे दाने श्राद्धदान इत्य् अर्थः । पैठीनसिर् अपि पङ्क्तिपावनान् आह - “अथातः पङ्क्तिपावना भवन्ति त्रिणाचिकेतः त्रिमधुः त्रिसुपर्णः चीर्णव्रतश् छन्दोगो ज्येष्ठसामगो ब्रह्मदेयानुसंतानः सहस्रदो रुद्राध्यायी चुतुर्वेदः षडङ्गविद् अथर्वशिरो ऽध्यायी पञ्चाग्निर् वेदजापी चेति पङ्क्तिपावनाः । तेषाम् एकैकः पुनाति नियुक्तः पङ्क्तिमूर्धनि सहस्रैर् अप्य् उपसेविताम्” इति ॥

इति स्मृतिचन्द्रिकायां वर्जनीयब्राह्मणनिरूपणम्