११ काम्यश्राद्धदेशाः

अथ काम्यश्राद्धदेशाः

तत्र व्यासः ।

पुष्करे त्व् अक्षयं श्राद्धं जपहोमतपांसि च ।
महोदधौ प्रयागे च काश्यां च कुरुजाङ्गले ॥ इति ।

पुष्करे पुष्कराख्यतीर्थे । काशी वाराणसी । कुरुजाङ्गलशब्दौ जनपदविशेषवचनौ । शङ्खो ऽपि ।

वाराणस्यां कुरुक्षेत्रे भृगुतुङ्गे हिमालये ।
नर्मदाबाहुदातीरे सर्वम् आनन्त्यम् अश्नुते ॥
गङ्गाद्वारे प्रयागे वा नैमिशे पुष्करे तथा ।
संनिहत्यां गयायां च दत्तम् अक्षय्यतां व्रजेत् ॥

नैमिशे सरस्वतीतिरवर्तिनि नैमिशारण्ये । संनिहतिः कुरुक्षेत्रवर्ती तीर्थविशेषः । गया प्रसिद्धा । गयाक्षेत्रस्य तु प्रमाणं पुराणे दर्शितम् ।

महानदी देवनद्योः सर्वतीर्थाद्यनन्तरम् ।
उदक्कनकनन्दाया गयामध्यं प्रकीर्तितम् ॥
पञ्चक्रोशं गयाक्षेत्रं क्रोशमात्रं गयाशिरः ॥

पञ्चक्रोशप्रमाणके गयाक्षेत्रे सारभूतं क्रोशमात्रं गयाशिर इति प्रसिद्धम् इत्य् अर्थः । तच् च तत्रैव निरूपितम् ।

महानद्याः पश्चिमेन यावद् गृध्रेश्वरो गिरिः ।
उत्तरे ब्रह्मयुपस्य यावद् दक्षिणमानसम् ॥
एतद् गयाशिरो नाम त्रिषु लोकेषु विश्रुतम् ॥ इति ।

गयाश्रितोवद् अन्यान्य् अपि गयायां विश्रुतानि महानद्यादीनि श्राद्धस्थलानि तत्रैव दर्शितानि ।

महानदी ब्रह्मसदो ऽक्षयो वटः प्रभासम् उद्यन्तम् अथो गयाशिरः ।
सरस्वती धेनुकधर्मपृष्ठम् एते कुरुक्षेत्रसमा गयायाम् ॥ इति ।

उद्यन्ताक्यः पर्वतविशेषः । सरस्वती प्राची सरस्वतीति विश्रुता । व्यासो ऽपि ।

ब्रह्मारण्यं धर्मपृष्ठं धेनुकारण्यम् एव च ।
त्रिष्व् एतेषु पितॄन् अर्चन् वंशान् सप्त समुद्धरेत् ॥

ब्रह्मकैवर्ते ऽपि ।

गयायां मुण्डपृष्ठं तु अरविन्दं च पर्वतम् ।
तृतीयं क्रौञ्चपादं तु दृष्ट्वा पापैः प्रमुच्यते ॥

गयायास् तच्छिरसो मुण्डपृष्ठस्य च माहात्म्यं तत्रैव दर्शितम् ।

स्वर्गपातालमर्त्येषु नास्ति तीर्थं गयासमम् ।
पितरो यान्ति देवत्वं प्राप्तपिण्डा गयाशिरे ॥
गयाशीर्षे यदा पिण्डं नाम्ना येषां प्रकुर्वते ।
नरकस्था दिवं यान्ति स्वर्गस्था मोक्षगामिनः ॥
मुण्डपृष्ठे पदं न्यस्तं महादेवेन धीमता ।
बहून्य् अब्दसहस्राणि तपस् तप्त्वा सुदारुणम् ॥
अल्पेनाप्य् अत्र कालेन नरो धर्मपरायणः ।
पापं विमोचयत्य् आशु जीर्णां त्वचम् इवोरगः ॥ इति ।

अक्षयवटस्य माहात्म्यं तत्रैव दर्शितम् ।

तत्राक्षयवटो नाम त्रिषु लोकेषु विश्रुतः ।
पितॄणां तत्र वै दत्तम् अक्षयं भवति प्रभो ॥
वटवृक्षं समासाद्य शाकेनाप्य् उदकेन वा ।
एकस्मिन् भोजिने विप्रे कोटिर् भवति भोजिता ॥

धेनुकारण्यमाहात्म्यं पुराणान्तरे दर्शितम् ।

ततो गच्छेत राजेन्द्र धेनुकां लिकविश्रुताम् ।
तत्र चिह्नं प्रदृश्येत अद्यापि हि न संशयः ॥
कपिलायाः सवत्साया दृश्यन्ते कुरुसत्तम ।
विचरन्त्याः पदानि स्युः दृश्यन्ते पञ्च कॢप्तवत् ॥
पदानि तानि संस्पृश्य कपिलाया नराधिप ।
तेषु दृष्टेषु यत् पुंसः पापं तत् सम्प्रणस्यति ॥

गृध्रेश्वरमाहात्म्यं तत्रैव दर्शितम् ।

ततो गृध्रनगं गच्छेत् स्थानं देवस्य धीमतः ।
स्नात्वा तु भस्मना तत्र अधिगच्छेन् महेश्वरम् ॥
ब्राह्मणेन भवेच् चीर्णं व्रतं द्वादशवार्षिकम् ।
इतरेषां तु वर्णानां सर्वपापक्षयो भवेत् ॥ इति ।

गृध्रेश्वरगिरिमाहात्म्यं तत्रैव दर्शितम् ।

ततो गच्छेत् समं त्व् अन्नपर्वतं गिरिवारितम् ।
सावित्र्यास् तस्य दृश्यन्ते पदानि भरतर्षभ ॥
तत्र संध्याम् उपासीत ब्राह्मणः संशितव्रतः ।
तेनोपासिता भवति संध्या द्वादशवार्षिकी ॥
धर्मपृष्ठस्य माहात्म्यं तच् च तत्रैव दर्शितम् ।
ततो गच्छेत राजेन्द्र धर्मपृष्ठं समाहितः ॥
यत्र धर्मो महाराज नित्यम् आस्ते युधांवर ।
तत्राधिगम्य राजेन्द्र हयमेधफलं भवेत् ॥

तीर्थान्तराणां च गयायां प्रसिद्धानां माहात्म्यं दर्शितम् ।

ततो विशालाम् आसाद्य नदीं त्रैलोक्यविश्रुताम् ।
अग्निष्टोमम् अवाप्नोति स्वर्गलोकं च गच्छति ॥
अथ माहेश्वरं धाम समासाद्य नरः शुचिः ।
हयमेधम् अवाप्नोति कुलं चैव समुद्धरेत् ॥
दिवौकसां पुष्करिणीं समासाद्य नरः शुचिः ।
न दुर्गतिम् अवाप्नोति विष्णुलोकं च गच्छति ॥
तत्र कोटिस् तु तीर्थानां विश्रुता भरतर्षभ ।
कूर्मरूपेण राजन् दानवेन दुरात्मना ॥
ह्रियमाणोद्धृता राजन् विष्णुना प्रभविष्णुना ।
तत्राभिषेकं कुर्वीत तीर्थकोट्या युधांवर ॥
पौण्डरीकम् अवाप्नोति विष्णुलोकं च गच्छति ।
गोप्रचारसमीपस्था आम्रा ब्रह्मप्रकल्पिताः ॥
तैः सक्तैः पुरुषस्येह पितरो मोक्षम् आप्नुयुः ।
एको मुनिः कुम्भकराग्रहस्तः आम्रेषु नित्यं सलिलं ददाति ।
आम्राश् च सिक्ताः पितरश् च तृप्ताः एका क्रिया द्व्यर्थकरी बभूव ॥
या सा वैतरणी नाम त्रिषु लोकेषु विस्रुता ।
सावतीर्णा गयाशीर्षे पितॄणां तारणाय वै ॥
तत्र स्नात्वा महाराज गोदानं यः प्रयच्छति ।
एकविंशतिं वंश्यांस् तान् तारयेन् नात्र संशयः ॥
तत्र धेनुप्रदानेन पितरो मोक्षम् आप्नुयुः ॥ इति ।

पौण्डरीकं पौण्डरीकाख्ययज्ञफलम् । ब्रह्मकैवर्ते ऽपि ।

ब्रह्महा च कृतघ्नश् च गोघाती पञ्चपातकी ।
सर्वे निष्कृतिम् आयान्ति गयायां पिण्डपातनात् ॥
ब्रह्मघ्नश् च सुरापश् च बालवृद्धगुरुद्रुहः ।
नाशम् आयाति वै पापं गयायाम् अनुयाति यः ॥
आत्मजत्वम् अवाप्तस् तु गयाकूले यथा तथा ।
यन् नाम्ना पातयेत् पिण्डं तं नयेद् ब्रह्म शाश्वतम् ॥

इति ।

मकरे वर्तमाने तु ग्रहणे चन्द्रसूर्ययोः ।
दुर्लभं त्रिषु लोकेषु गयायां पिण्डपातनम् ॥

ब्रह्मणा सह शाश्वतं ब्रह्मप्राप्त्यापादकं ब्रह्मलोकं नयेद् इत्य् अर्थः । व्यासो ऽपि ।

गयां गत्वा तु यः कश्चित् पितॄन् संतर्पयेन् नरः ।
दश पूर्वापरान् वंश्यान् आत्मानं च पुनाति सः ॥

पुराणान्तरे ।

स्नानं देहपरित्यागो गङ्गायां तु विशिष्यते ।
श्राद्धं पिण्डप्रदानं च गयायां तु विशिष्यते ॥
ब्रह्मज्ञानं गयाश्राद्धं गोगृहे मरणं तथा ।
वासः पुंसां कुरुक्षेत्रे मुक्तिर् उक्ता चतुर्विधा ॥
गयाशीर्षे वसेन् नित्यं स्नानं फल्गौ समाचरेत् ।
गयाशीर्षे सदा पिण्षम् एतत् स्वर्गे ऽपि दुर्लभम् ॥
फल्गुतीर्थे नरः स्नात्वा देवं दृष्ट्वा गदाधरम् ।
गयाशिरः परिक्रम्य मुच्यते ब्रह्महत्यया ॥
गयायां पितृरूपेण स्वयम् एव जनार्दनः ।
तं दृष्ट्वा पुण्डरीकाक्षं स्वयम् एव जनार्दनः ॥
तं दृष्ट्वा पुण्डरीकाक्षं मुच्यते च ऋणत्रयात् ।
येनाक्रान्तं सकृद् अपि धर्मपृष्ठं गयाशिरः ॥
नश्यति ब्रह्महत्यादि पातकं नात्र संशयः ।
त्रिर् ददत् पृथिवीं कृत्स्नां न मुच्येत् पैतृकाद् ऋणात् ॥
यावच् छ्राद्धं न वै पुत्रः कुर्याद् गत्वा गयाशिरः ।
गयायां धर्मपृष्ठे च सदसि ब्रह्मणस् तथा ॥
गयाशीर्षे पदे चैव पितॄणां दत्तम् अक्षयम् ।
शमीपत्रप्रमाणेन पिण्डं दद्याद् गयाशिरे ॥
नरकस्था दिवं यान्ति स्वर्गस्था मोक्षम् आप्नुयुः ॥ इति ।

शमीपत्रग्रहणं स्ववित्तानुसारेण पिण्डदानम् आवश्यकम् इति ज्ञापनार्थम्, अत एवोक्तं तत्रैव ।

वित्तशाठ्यं न कुर्वीत गयां प्राप्य सदा नरः ।
वित्तशाठ्यं च कुर्वाणो न तीर्थफलभाग् भवेत् ॥

अतो वित्तानुसारेण शरीरबलानुसारेण च गयाश्राद्धं कार्यम् । एतद् अपि तत्रैवोक्तम् ।

अतो निर्वर्तय्च् छ्राद्धं यथाशक्ति यथाबलम् ।
कामान् स लभते दिव्यान् स्वर्गद्वारं तु तत् स्मृतम् ॥ इति ।

तेन सति संभवे सवर्णादिभ्यो ऽपि कृपया पिण्डदानादिकं देयं एतद् अपि तत्रैवोक्तम् ।

सवर्णा ज्ञातयो ये च बान्धवाः सुहृदश् च ये ।
तेभ्यो भूय गयाभूमौ पिण्डा देया विधानतः ॥
दौहित्रेभ्यश् च पुत्रेभ्यः कनिष्ठेभ्यो ऽपि सर्वशः ।
ये मृताश् चान्यजन्मानः पिण्डांस् तेभ्यो विनिर्वपेत् ॥
ते ऽपि यान्ति दिवं सर्वे पिण्डे दत्त इति श्रुतिः ॥

सवर्णादीनां गोत्रादीन्म् अज्ञाने तु तेषां पिण्डदानमन्त्रो ऽपि तत्रैव दर्शितः ।

पितृवंशसमुत्पन्ना मातृवंश्यास् तथैव च ।
गुरुश्वशुरबन्धूनां ये चान्ये मानवा द्विजाः ॥
ये मे कुले लुप्तपिण्डाः पुत्रदारविवर्जिताः ।
विरूपा आमगर्भाश् च ज्ञाताज्ञातास् तथैव च ॥
किर्यालोपगता ये च ये चान्ये गर्भसंस्थिताः ।
तेभ्यो दत्तो मया दण्डो क्य् अक्षय्यम् उपतिष्ठताम् ॥

आमगर्भा अपक्वगर्भा अपूर्णगर्भा इति यावत् । सवर्णादिभ्यः पिण्डदानवद् आत्मार्थम् अपि तिलरहितं पिण्डं जनार्दनदेवसंनिधौ निक्षेपद्रव्यस्थापनवन् निर्वपेत् । एतद् अपि तत्रैवोक्तम् ।

आत्मनस् तु महाबुद्धे गयायां तु तिलैर् विना ।
पिण्डनिर्वपणं कार्यं मृतानां तु तिलैः सह ॥ इति ।

गयायां यत्र यत्र श्राद्धादिकं क्रियते तत्र तत्रत्या एव विप्राः जातिमात्रोपजीविनो ऽपि ब्राह्मणार्थे परिग्राह्याः । तथा च पुराणान्तरम् ।

यदि पुत्रो गयां गच्छेत् कदाचित् कालपर्ययात् ।
तान् एव भोजयेद् विप्रान् ब्राह्मणा ये प्रकल्पिताः ॥
एषां ब्रह्ममयं स्थानं सोमपानं तथैव च ।
ब्रह्मकारितसंस्थाना विप्रा ब्रह्मसमाः स्मृताः ॥
अमानुषा गयाविप्रा ब्राह्मणा ये प्रकल्पिताः ।
तेषु तुष्टेषु संतुष्टाः पितृभिः सह देवताः ॥
पितृरूपान् गयाविप्रान् पूजयित्वा समाहितः ।
सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ॥
तेषां च हस्तदत्तं वै गयायां च विशेषतः ।
तद् अक्षय्यं भवेत् तस्य पितॄणां नात्र संशयः ॥
न विचार्यं कुलं शीलं विद्या च तप एव च ।
पूजितैस् तैस् तु संतुष्टाः देवाः सपितृगुह्यकाः ॥ इति ।

“यदि पुत्रो गयां गच्छेत्” इत्य् अत्र पुत्रग्रहणं पौत्रादीनां पित्रादिगतश्रेयःकामानां सर्वेषां गयागन्तॄणाम् उपलक्षणार्थम् । अत एव ब्रह्मकैवर्ते,

उद्यतस् तु गयां गन्तुं श्राद्धं कृत्वा विधानतः ।
विधाय कर्मशेषं च ग्रामं कृत्वा प्रदक्षिणम् ॥
ततो ग्रामान्तरं गच्छेच् छ्राद्धशेषान्नभुङ् नरः ।
ततः प्रतिदिनं गच्छेत् प्रतिग्रहविवर्जितः ॥

इति सामान्येनैवोक्तम् । अत एव महाभारते व्यासेनापि सामान्येनैवोक्तम् ।

गृहे श्राद्धं प्रकुर्वीत सम्यक् संकल्प्य बुद्धिमान् ।
पितृतीर्थं समुद्दिश्य संकल्प्य पितृसंनिधौ ॥
प्रतिग्रहं परान्नं च कलिं चैव द्विजोत्तमः ॥ इति ।

पितृसंनिधौ पित्रर्थं निमन्त्रितब्राह्मणसंनिधौ पितृतीर्थं समुद्दिश्य गयायात्रार्थं श्राद्धं करिष्ये इति सम्यग् भक्तिपूर्वकं संकल्प्य स्वगृहे यात्रार्थं श्राद्धं कुर्याद् इत्य् अर्थः । कलिः कलहः । वर्ज्यान्तरम् अपि तेनैवोक्तम् ।

केशश्मश्रुनखादीनां वपनं न च शस्यते ।
अतो न कार्यं वपनं गयाश्राद्धार्थिना सदा ॥ इति ।

एवं गयायात्रां कुर्वतः फलम् अपि तत्रैवोक्तम् ।

ये भारते ऽस्मिन् पितृकर्मतत्पराः संधार्य केशान् अतिभक्तिनम्राः ।
ऋणक्षयार्थं पितृतीर्थम् आगताः तेषाम् ऋणं संक्षयम् एष्यति ध्रुवम् ॥ इति ।

भारते भारतवर्षे ऋणक्षयार्थं देवर्षिपितृऋणक्षयार्थं पितृतीर्थं गया ॥

इति स्मृतिचन्द्रिकायां काम्यश्रद्धदेशाः

श्राद्धे भोजनीयब्राह्मणनिरूपणम्

तत्र मनुः ।

तत्र ये भोजनीयाः स्युर् ये च वर्ज्या द्विजोत्तमाः ।
यावन्तश् चैव यैश् चान्नैस् तान् प्रवक्ष्याम्य् अशेषतः ॥

तत्र श्राद्धकर्मणीत्य् अर्थः । द्विजोत्तमाः द्विजेषु त्रैवर्णिकेषूत्तमाः ब्राह्मणा इति यावत् । भोजनीयान् अभोजनीयांश् च ब्राह्मणान् वेत्तुं गुणदोषादिपरीक्षणं कार्यम् इत्य् आह स एव ।

दूराद् एव परीक्षेत ब्राह्मणं वेदपारगम् । इति ।

भोजनीयब्राह्मणस्य प्रपितामहाद् आरभ्य भोजनीयपर्यन्तं परीक्षा दूरात् परीक्षा । वेदपारगग्रहणम् उपादेयगुणानाम् उपलक्षणार्थम् । अत एव छागलेयः ।

उक्तलक्षणसंयुक्तैः विद्याशीलगुणान्वितैः ।
पुरुषत्रयविख्यातैः सर्वं स्राद्धं। प्रकल्पयेत् ॥

उक्तलक्षणैर् विप्रैः सर्वं पार्वणाभ्युदयिकादिश्राद्धं प्रकल्पयेन् निर्वर्तयेद् इत्य् अर्थः । पुराणे ऽपि ।

जातकर्मादिभिर् यस् तु संस्कारैः संस्कृतः शुचिः ।
वेदाध्ययनसंपन्नः षट्सु कर्मस्व् अवस्थितः ॥
शौचारारे स्थितः सम्यक् विघसाशी गुरुप्रियः ।
नित्यं व्रती सत्यपरः स वै ब्राह्मण उच्यते ॥
तपः श्रुतं च योनिश् चाप्य् एतद् ब्राह्मण्यकारणम् ।
सत्यं दानं तपो द्रोहम् आनृशंस्यं क्षमा घृणा ॥
तपश् च दृश्यते यत्र स ब्राह्मण इति स्मृतः ॥ इति ।

षट्सु यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहात्मकेषु । विघसो यज्ञशेषः, अतिथिप्रभृतिभिः भुक्तशेषश् च । अतिथिप्रभृतिभिः भुक्तशेषश् च । योनिर् अन्वयशुद्धिः । आनृशंस्यम् अक्रूरता । हारीतो ऽपि - “कुलीनाः श्रुतशीलवन्तो वृत्तस्थाः सत्यवादिनो ऽव्यङ्गाः पाङ्क्तेयाः” इति । स्वयम् एव कुलादीन् विवृणोति - स्थितिः अविच्छिन्नवेदवेदिता अयोनिसंकरित्वम् आर्षेयत्वं चेति कुलगुणाः । वेदा अङ्गानि धर्मो ऽध्यात्मं विज्ञानं स्मृतिश् चेति षड्विधं श्रुतम् । ब्रह्मण्यता वेदपितृभक्तता समता सौम्यता अपरोपतापिता अनसूयता अनुद्धतता अपारुष्यं मित्रता प्रियवादित्वं कृतज्ञता शरण्यता प्रशान्तिश् चेति त्रयोदशविधं शीलम् । क्षमा दया दमो दानम् अहिंसा गुरुपूजनं शौचं जपो होमः तपः स्वाध्यायः सत्यवचनं सन्तोषो दृड्ःअव्रतत्वम् उपव्रतत्वम् इति षोडसगुणं वृत्तम् इति । स्थितिः संततिरूपेन च कालस्थितिः । अविच्छिन्नवेददेवितेत्य् अत्र वेदिशब्देन हविरासादनार्थदेशविशेषवाचिना हविःसाध्यो याग उपलक्ष्यते । एतद् उक्तं भवति - पूर्वपुरुषेष्व् अपि वेदाध्ययनयागानुष्ठानयोः सत्ता कुलगुणा इति । आर्षेयत्वं स्वीयप्रवरागतऋषिजातत्वम् । धर्मो धर्मशास्त्रम् । विज्ञानं वैशेषिकादिशास्त्रज्ञानम् । स्मृतिः वेदादीनाम् अविस्मरणम् । उपव्रतत्वं दशम्यादाव् एकभक्तनिष्ठत्वम् । विष्णुर् अपि ।

  •        ########## प्। १५६ मिस्सिन्ग्
    

पूर्वम् एव परीक्षेत ब्राह्मणान् वेदपारगान् ।
सरीरप्रभवैर् दोषैर् विशुद्धांश् चरितव्रतान् ॥

पूर्वम् एव निमन्त्रणात् प्राग् एवेत्य् अर्थः । चरितव्रतान् स्नातकान् । तथा च स एव ।

गृहस्थो ब्रह्मचारी च यजुर्वेदविद् एव च ।
वेदविद्याव्रतस्नातः ब्राह्मणः पङ्क्तिपावनः ॥

चशब्दाद् यतिर् अप्य् उक्तः । उक्तं च साक्षाद् वसिष्ठेन - “यतीन् गृहस्थान् सधून् वा” इति । भोजयेद् इति शेषः । ब्रह्माण्डपुराणे ऽपि ।

शिखिभ्यो धातुरक्तेभ्यः त्रिदण्डिभ्यश् दापयेत् । इति ।

शिखिनो ब्रह्मचारिणः । धातुरक्ता धातुरक्तवस्त्रधारिणः वानप्रस्थः । अत्र परः परः श्रेष्ठः । अत एव नारदः ।

यो वै यतीन् अनादृत्य भोजयेद् इतरान् द्विजान् ।
विजानन् वसतो ग्रामे कव्यं तद् याति राक्षसान् ॥

ग्रामे स्वग्रामे वसतो यतीन् जानन्न् अपि तान् अनादृत्येतरान् द्विजान् वानप्रस्थादीन् यो भोजयेत्, तत् तदीयं कव्यं पित्रर्थं संकल्पितम् अन्नादिकं राक्षसान् एव गच्छतीत्य् अर्थः । तेन सति संभवे यतीन् भोजयेत् । तेषाम् अभावे वानप्रस्थान्, तेषाम् अभावे ब्रह्मचारिणः, तेषाम् अभवे गृहस्थान् इति मन्तव्यम् । अत एव ब्रह्माण्डपुराणे ।

अलाभे ध्यानिभिक्षूणां भोजयेद् ब्रह्मचारिणम् ।
तदलाभे ह्य् उदासीनं गृहस्थम् अपि भोजयेत् ॥

ध्यानम् अस्यास्तीति ध्यानी वानप्रस्थः । भिक्षुर् यतिः । उदासीनो दातुर् असंबन्धी । तथा च आपस्तम्बः - “ब्राह्मणान् भोजयेद् ब्रह्मविदः योनिगोत्रमन्त्रान्तेवास्यसंबन्धान्” इति । योनिसंबन्धा मातुलादयः, गोत्रसंबन्धाः सपिण्डादयः, मन्त्रसंबन्धा वेदाध्यापकादयः, अन्तेवासिसंबन्धाः शिष्यशास्त्रोपाध्यायादयः । एवंविधसंबन्धव्यतिरिक्तान् ब्राह्मणान् गृहस्थान् भोजयेत् । ब्रह्मज्ञान् ब्राह्मणान् । यत्नेन भोजयेद् इत्य् अर्थः । तथा च पितृगाथा (?) ।

अपि स्यात् स कुले जन्तुः भोजयेद् यस् तु योगिनम् ।
विप्रं श्राद्धे प्रयत्नेन तेन तृप्यामहे वयम् ॥

प्रयत्नेन भोजयेद् इत्य् अनेन अत्यन्तश्रैष्ठ्यं योगिन उक्तम् । उक्तं च सुस्पष्टं पुराणे ।

गृहस्थानां सहस्रेण वानप्रस्थशतेन च ।
ब्रह्मचारिसहस्रेण यो योगी स विशिष्यते ॥

पद्मपुराणे ऽपि ।

साङ्गान् यश् चतुरो वेदान् अधीते संस्कृतो ऽर्थवित् ।
जन्मवाक्कर्मसंशुद्धः स श्राद्धे प्रथमो मतः ॥
तादृशाद् अयुताच् छ्रेयान् नरो योगं समाश्रितः ।

वृद्धशातातपो ऽपि ।

योगिनं भोजयेन् नित्यं दृष्टतत्त्वं मनीषिणम् ।
तेषां तु दत्तम् अक्षय्यं भवतीति न संशयः ॥

ये सम्यग्वर्नाश्रमाचाराः तेभ्यस् तत्पूर्वार्धेनोक्तं परमं पात्रम् इत्य् अर्थः । एतद् योगिनां प्रशंसामत्रम्, शातातपेन “दृष्टतत्त्वं मनीषिणम्” इति विशेषितत्वात्,

ये तु वृत्ते स्थिता नित्यं ज्ञानिनो ध्यानिनस् तथा ।

इति ब्रह्माण्डपुराणे वृत्तस्थानाम् एव ज्ञानिनां ध्यानिनां च भोजनीयत्वाभिधानाच् च । आत्मादिस्वरूपपरिच्छित्तिः ज्ञानम् । ध्यानं तु विजानीयप्रत्ययतिरस्कारेणात्मादेः स्वरूपसाक्षात्करणम् । एवं च यद् उक्तं वृद्धशातातपेन,

ज्ञानी यस्य गृहे ऽश्नाति उदकं वा पिबेद् यदि ।
कृतं तेनेह यत् कृत्यं तारितं च कुलत्रयम् ॥
योगिनं समतिक्रम्य गृहस्थं यदि भोजयेत् ।
न तत्फलम् अवाप्नोति स्वर्गस्थम् अपि पातयेत् ॥
योगिनं तु व्यतिक्रम्य पूजयन्ति परस्परम् ।
भोक्तारस् त्व् अथ दातारो नरके स्युः सबान्धवाः ॥

इत्य् एतत् सर्वं वृत्तस्थदृष्टतत्त्वयोगिविषयम् इति मन्तव्यम् । तत्र मनुः ।

एषाम् अन्यतमो यस्य भुञ्जीत श्राद्धम् अर्चितः ।
पितॄणां तस्य तृप्तिः स्याच् छाश्वती साप्तपौरुषी ॥
एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।
अनुकल्पस् त्वयं ज्ञेयः सदा सद्भिर् अनुष्ठितः ॥
मातामहं मातुलं च स्वस्रीयं श्वशुरं गुरुम् ।
दौहित्रं विट्पतिं बन्धुम् ऋत्विग्याज्यौ च भोजयेत् ॥ इति ।

एषां पूर्वोक्तानां वेदपारगादीनाम् एष भिन्नो विप्रवर्गः प्रथमः श्रेष्ठः । अनुकल्पः प्रथमकल्पाद् अधमकल्पः, “मुख्यः स्यात् प्रथमः कल्पो ऽनुकल्पस् तु ततो ऽधमः” इत्य् अमरसिंहाभिधानात् । अयम् “मातामहं मातुलं च” इत्यादिना वक्ष्यमाणः अधमः कल्पः सदा सद्भिर् अनुष्ठित इत्य् अर्थः । गुरुर् अत्र विद्यागुरुः, न तु पिता, “विट्पतिः जामाता अतिथिर् वा, अतिथिर् इत्य् अन्ये वदन्ति” इति देवस्वामिनाभिधानात् । प्रथमकल्पलाभे ऽनुकल्पानुष्ठाने तु दोषम् आह स एव ।

प्रभुः प्रथमकल्पस्य यो ऽनुकल्पेन वर्तते ।
न सांपरायिकं तस्य दुर्मतेर् विद्यते फलम् ॥

प्रभुः संपादने समर्थः । सांपराय उत्तरकालः । “युद्धायत्योः सांपरायः” इत्य् अमरसिंहाभिधानात् । एवं चायम् अर्थः - सांपराये भविष्यत्काले स्वर्गादिकं फलं न विद्यते न सिद्ध्यति । विष्णुपुराणे ऽप्य् अनुकल्प उक्तः ।

पितृव्यगुरुदौहित्रान् ऋत्विक्स्वस्रीयमातुलान् ।
पूजयेद् धव्यकव्येन वृद्धान् अनतिबान्धवान् ॥

स्वस्रीयो भागिनेयः । अत्र पितृव्यम् ऋत्विजं च हव्येन पूजयेत् । गुरुदौहित्रादीतरान् (?) कव्येनेति संबन्धः कार्यः । “षड्भ्यस् तु पुरुषेभ्यो ऽर्वाग् अश्राद्धेयास् तु गोत्रिणः” इति षड्भ्यो ऽर्वाचीनस्य पितृव्यादेः कव्येन पूजनस्य अत्रिणा निषेधात्, तथा,

पिता पितामहो भ्राता पुत्रो वाथ सपिण्डकः ।
न परस्परम् अर्घ्याः स्युर् न श्राद्धे ऋत्विजस् तथा ॥
ऋत्विक्पुत्रादयो ह्य् एते सकुल्या ब्राह्मणा द्विजाः ।
वैश्वदेवे नियोक्तव्याः यद्य् एते गुणवत्तराः ॥

इति हव्येन पूजनीयत्वस्य तेनैव विधानाच् च । यद्य् आमन्त्रयीतेत्य् अनुवृत्तौ कात्यायनेनोक्तम् - “अभावे शिष्यान् स्वाचार्यान्” इति । अत्रापि वैश्वदेवार्थम् इति शेषो द्रष्टव्यः । “गुणवदलाभे सोदर्यो ऽपि भोजयितव्यः” इत्य् अभिधायानन्तरम् “एतेनान्तेवासिनो व्याख्याताः” इत्य् आपस्तम्बेनाभिधानात् । सोदर्यो ऽपि वैश्वदेवस्थाने भोजयितव्यो न पुनः पित्रादिब्राह्मणस्थान इति हि प्राक्प्रतिपदितम् । तेन अन्तेवासिनाम् अपित् तत्स्थान् एव निषेधः । यतु तु पङ्क्तिपावनान् उक्त्वा बोधायनेनोक्तम् “तदभावे रहस्यं ऋचो यजूंषि सामानि श्राद्ध्महिमानः तस्माद् एवंविदं सपिण्डम् अप्य् आशयेत्” इति, तद् अप्य् आत्रेयवचनानुरोधाय षड्भ्यः पुरुषेभ्यो ऽर्वाचीनसपिण्डविषयं न भवति, किं तु समानोदकविषयम्, सपिण्डशब्दस्य समानोदके ऽप्य् उपचारेण प्रयोगसंभवात् । अत्रिणा तु स्पष्टम् उक्तम् ।

षड्भ्यस् तु परतो भोज्याः श्राद्धे स्युः गोत्रजा अपि । इति ।

अथ वा सपिण्डशब्दो मुख्यो ऽस्तु, किं तु श्रेष्ठस्य समानोदकस्याप्य् अभावे त्रिभ्यः सपिण्डपुरुषेभ्यः परो यः सपिण्डः श्रेष्ठः तम् आशयेद् इत्य् अर्थो ऽवगन्तव्यः । तथा च सपिण्ड इत्य् अनुवृत्तौ गौतमः - “भोजयेद् ऊर्ध्वं त्रिभ्यो गुणवन्तम्” इति । मनुस् त्व् अनुकल्पान्तरम् आह ।

कामं श्राद्धे ऽर्चयेन् मित्रं नाभिरूपम् अपि त्व् अरिम् ।
द्विषता हि हविर् भुक्तं भवति प्रेत्य निष्फलम् ॥ इति ।

अभिरूपम् अपि विद्वांसम् अपीत्य् अर्थः । कामम् इत्य् अभिधानात्, अनुकल्पो ऽयम् इति गम्यते । अयं त्व् अनुकल्पः पूर्वोक्तानाम् अनुकल्पानाम् अभावे द्रष्टव्यः,

न श्राद्धे भोजयेन् मित्रं धनैः कार्यो ऽस्य संग्रहः ।
नारिं न मित्रं यं विन्द्यात् तं श्राद्धे भोजयेद् द्विजम् ॥
यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च ।
तस्य प्रेत्य फलं नास्ति श्राद्धेषु च हविःषु च ॥

इति निन्दार्थवादेन स्वेनैव निषिद्धस्य मित्रस्य “कामं श्राद्धे ऽर्चयेन् मित्रम्” इति पुनर् अनुशयाभ्युपगमेनानुकल्पाद् अप्य् अधमत्वावगमात् । वसिष्ठो ऽपि सगुणानाम् अनुकल्पानाम् अभावे निर्गुणानाम् अनुकल्पतया स्वीकारम् आह ।

आनृशंस्यं परो धर्मो याचते यत् प्रदीयते ।
अयाचतः सीदमानान् सर्वोपायैर् निमन्त्रयेत् ॥

आनृशंस्यं परः उत्कृष्टो धर्मः । तेन सगुणानाम् अनुकल्पानाम् अभावे निर्गुणायापि याचते यत् प्रदीयते तद् अप्य् अनुकल्पो भवति । अयाचतः सीदमानान् अयाचनशीलत एव कारणात् सीदतो निर्गुणान् अपि सगुणानाम् अनुकल्पानाम् अलाभे सर्वोपायैर् यादृशैस् ते निमन्त्रणम् अभ्युपगच्छन्ति तादृशैर् उपायैर् निमन्त्रयेद् इत्य् अर्थः । सर्वोपायैर् निमन्त्रयेद् इत्य् आदरेण निमन्त्रणं वदन् अयाचनेन सीदताम् अलाभे याचते प्रदानम् इति दर्शयति । एवंविधविप्रेषु सदाचारवैकल्यदर्शने ऽपि निन्दा न कर्येत्य् अह स एव ।

युगे युगे तु ये धर्माः तेषु धर्मेषु ये द्विजाः ।
तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः ॥

युगे युगे तु ये धर्माः युगानुरूपाः रागद्वेषादितारतम्यनिबन्धना ये ऽप्य् असत्यभाषणादयो दुःस्वभावास् तेषु धर्मेषु ये द्विजाः तेषां निन्दा न कर्तव्या । युगानुरूपविप्रेष्व् अपि यथासंभवं श्रेष्ठा एव ग्राह्याः । अत एव भविष्यपुराणे अप्रशस्तविप्राणां दानादाव् अपरिग्राह्यत्वम् उक्तम् ।

वैश्वदेवेन ये हीना आतिथ्येन च वर्जिताः ।
सर्वे ते वृषला ज्ञेया प्राप्तवेदा अपि द्विजाः ॥
न यस्य वेदो न जपो न विद्या च विशांपते ।
स शूद्र इव मन्तव्य इत्य् आह भगवान् विभुः ॥
अव्रतानाम् अमन्त्राणाम् अदयानां (?) च भारत ।
प्रतिग्रहो न दातव्यो न शिला तातयेच् छिलाम् ॥
ब्राह्मणातिक्रमो नास्ति मूर्खे वेदविवर्जिते ।
ज्वलन्तम् अग्निम् उत्सृज्य न हि भस्मनि हूयते ॥

वैश्वदेवग्रहणं पञ्चमहायजानाम् उपलक्षणार्थम् । शिला शिलान्तरम् । वेदविवर्जिते भोजनाद्यप्रदाने ऽपि नास्ति ब्राह्मणातिक्रम इत्य् अर्थः । एतद् अत्यन्तासंबन्धिब्राह्मणविषयम् । कथंचित् संबन्धिब्राह्मणविषये ऽपि तत्रैवोक्तम् ।

गायत्रीमात्रसारो ऽपि ब्राह्मणः पूज्यतां गतः ।
गुहासंनो विशेषेण न भवेत् पतितः स चेत् ॥

गृहासंनः प्रातिवेश्यादिः । विशेषेणेति वदन् कथंचित् संअबन्ध्य् अपि नातिक्रमणीय इति दर्शयति । श्रेष्ठसंनिकृष्टातिक्रमे तु षट्त्रिंसन्मते दोष उक्तः ।

संनिकृष्टम् अधीयानं ब्राह्मणं यो व्यतिक्रमेत् ।
भोजने चैव दाने च हन्यात् त्रिपुरुषं कुलम् ॥

वस्तु संनिकृष्टो ऽनधीयानः तस्यातिक्रमे ऽपि न दोषः । तथा च तत्रैवोक्तम् ।

यस्य त्व् एकगृहे मूर्खो दूरस्थश् च गुणान्वितः ।
गुणान्विताय दातव्यं नस्ति मूर्खे व्यतिक्रमः ॥

व्यतिक्रमो व्यतिक्रमदोषो नस्तीत्य् अर्थः । मूर्खग्रहणं निर्गुणस्याप्य् उपलक्षणार्थम्,

व्यतिक्रान्तुर् न दोषो ऽस्ति निर्गुणं प्रति कर्हिचित् ।

इति भविष्यपुराणे ऽभिधानात् । यत् पुनः पुराणान्तरे ऽभिहितम्,

यस् त्व् आसन्नम् अतिक्रम्य ब्राह्मणं पतिताद् ऋते ।
दूरस्थं भोजयेन् मूढो गुणाढ्यं नरकं व्रजेत् ॥
तस्मात् संपूजयेद् एनं गुणं तस्य न चिन्तयेत् ।
केवलं चिन्तयेज् जातिं न गुणान्विततान् सदा ॥
संनिकृष्टं द्विजं यस् तु युक्तजातिं प्रियंवदम् ।
मूर्खं वा पतितं वापि वृत्तहीनम् अथापि वा ॥
नातिक्रमेन् नरो विद्वान् दारिद्र्याभिहतं तथा ॥

इति, तत् अनुकल्पतयोक्तशरीरसः संनिकृष्टदौहित्रजामात्रादिविषयम् । पूर्वोक्तं तु देशतः संनिकृष्टप्रातिवेश्यादिविषयम् इति न विरोधः । अत एव सरीरतः संनिकृष्टम् एकम् उदाहृत्योक्तं मनुना ।

व्रतस्थम् अपि दौहित्रं श्राद्धए पत्नेन भोजयेत् । इति ।

व्रतस्थं व्रतमात्रस्थम् अध्ययनरहितम् इति यावत् । द्विविधसंनिकृष्टविषये ऽपि गुणादिभिः श्रेष्ठे ऽतिक्रान्ते सति भवत्य् एव दोषः । तद् अप्य् उक्तं पुराणे ।

सप्त पूर्वान् सप्त परान् पुरुषान् आत्मना सह ।
अतिक्रम्य द्विजवरं नरके पतयेत् खग ॥
तस्मान् नातिक्रमेत् प्राज्ञः ब्राह्मणान् प्रातिवेशिकान् ।
संबन्धिनस् तथा सर्वान् दौहित्रं विट्पतिं तथा ॥
भागिनेयं विशेषेण तथा बन्धून् खगाधिप ।
नातिक्रमेन् नरस् त्व् एतान् अमुर्खान् अपि गोपते ॥
अतिक्रम्य महारौद्रं रौरवं नरकं व्रजेत् ॥ इति ।

अमूर्खान् अपीत्य् अपिशब्दः पदपूरणार्थः ।

अज्ञातकुलनामानं तत्कालं समुपस्थितम् ।
बुभुक्षुम् आगतं श्राद्धं याचमानम् अकिंचनम् ॥
ब्राह्मणं प्राहुर् अतिथिम् ॥॥॥॥॥॥॥॥॥। ॥।

इत्युक्तातिथिलक्षणलक्षितो ऽपि विप्रो नातिक्रमणीयः,

अतिथिर् यस्य नाश्नाति तच्छ्राद्धं न प्रशस्यते ।

इति शातातपस्मरणात् । अतिथेइर् अप्य् आसन्नस्येव गुणविद्यापरीक्षणं न कर्तव्यम् । तथा पुराणम् ।

अविज्ञातं द्विजं श्राद्धे न परीक्षेत् सदा बुधः ।
सिद्धा हि विप्ररूपेण चरन्तीह महीतले ॥

अविज्ञातम् अविज्ञातकुलनामादिकम् अतिथिम् इति यावत् । सिद्धाः विदितात्मतत्त्वाः ॥

इति स्मृतिचन्द्रिकायां श्राद्धभोजनीयब्राह्मणनिरूपणम्