१० श्राद्धदेशाः

अथ श्राद्धदेशाः

तत्र विष्णुधर्मोत्तरे ।

दक्षिणाप्रवणे देशे तीर्थादौ वा गृहे ऽपि वा ।
भू-संस्कारादि-संयुक्ते श्राद्धं कुर्यात् प्रयत्नतः ॥

तीर्थं ऋषिसेवितं जलम्, तत्समीपे ।
आदिशब्देन ऋषिसेविताश्रमादि गृह्यते ।
भूसंस्कारादि-संयुक्ते, भू-संस्कारो गोमयादि-लेपनादिः ।
आदि-शब्देन केशाद्य्-अशुचि-द्रव्यापसारणं गृह्यते ।
तथा चोक्तं तत्रैव ।

गोमयेनोपलिप्तेषु
विविक्तेषु गृहेषु च ।
कुर्याच् छ्राद्धम् अथैतेषु
नित्यम् एव यथाविधि ॥

इति ।
एतेषु पूर्वोक्तेषु गृहेषु गृहादिषु गोमयेनोपलिप्तेषु केशादिद्रव्यवियुक्तेषु श्राद्धं नित्यं कुर्याद् इत्य् अर्थः । मनुर् अपि ।

शुचिं देशं विविक्तं तु गोमयेनोपलेपयेत् ।
दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत् ॥ इति ।

अयम् अर्थः - स्वतःशुचिं तीर्थादिप्रदेशं गृहप्रदेशं वा परकृताशुचिपरिहारार्थं विविक्तं केशाद्यसंयुक्तं कृत्वा भूसंस्कारातिशयार्थं गोमयेनोपलेपयेत् । स्वतो दक्षिणाप्रवणत्वाभावे ऽपि पितृयजनत्वसिद्धये दक्षिणाप्रवणत्वं चोद्धननादिना (?) प्रयत्नेनोपपादयेत् कुर्याद् इति । अत्र यमः ।

परकीयप्रदेशेषु पितॄणां निर्वपेत् तु यः ।
तद्भूमिस्वामिपितृभिः श्राद्धकर्म विहन्यते ॥

तेन तत्र श्राद्धं न कुर्याद् इत्य् अभिप्रायः । परकीयप्रदेशाः परपरिगृहीतगृहगोष्ठादिप्रदेशाः, न पुनस् तीर्थादिप्रदेशाः । तथा च पुराणम् ।

अटवीपर्वताः पुण्या नदीतीराणि यानि च ।
सर्वाण्य् अस्वामिकान्य् आहुः न हि तेषु परिग्रहः ॥
वनानि गिरयो नद्यः तीर्थान्य् आयतनानि च ।
देवकाताश् च गर्ताश् च न स्वामी तेषु विद्यते ॥ इति ।

देवखाताश् च गर्ताश् च देवखातगर्ताश् चेत्य् अर्थः । कृत्रिमगर्तस्यास्वामिकत्वनियमासंभवात् । यस्माद् एतेषु परपरिग्रहाभावः, तस्माद् एतेषु स्वगृहेष्व् इव श्राद्धं देयम् इत्य् उक्तम् । विष्णुधर्मोत्तरे ।

तस्माच् छ्राद्धानि देयानि पुण्येष्व् आयतनेषु च ।
नदीतीरेषु तीर्थेषु स्वभूमौ च प्रयत्नतः ॥ इति ।

स्वभूम्याम् अपि कृत्त्रिमप्रदेशाद् अन्यत्र देयानि, तत्र प्रतिषेधात् । तथा च शङ्खः ।

गोगजाश्वादिपृष्टेषु कृत्रिमायां तथा भुवि ।
न कुर्याच् छ्राद्धम् एतेषु पारक्याशुचिभूमिषु ॥

कृत्त्रिमायां भुवि वेदिकायाम् इत्य् अर्थः । अनेन अकृत्त्रिमायाम् एव भुवि पितृतृप्तिर् भवतीत्य् अर्थाद् उक्तम् । उक्तं च साक्षाद् देवलेन ।

स्थलीषु गिरिपृष्टेषु तीर्थेष्व् आयतनेषु च ।
गोष्ठेषु च विविक्तेषु तुष्यन्ति पितरस् तथा ॥

स्थलीषु अकृत्त्रिमोन्नतदेशेष्व् इत्य् अर्थः । “जानपदकुण्डगोलस्थल” इत्यादिना पाणिनीयसूत्रेण (पाण् ६।२।१२९) स्थलशब्दाद् अकृत्त्रिमार्थे ङीप्प्रत्ययविधानात् । शङ्खो ऽपि कृत्त्रिमस्थले निषेधम् आह - “नेष्टकचिते पितॄंस् तर्पयेत्” इति । यमस् तु वर्ज्यप्रदेशम् आह ।

रूक्षं क्रिमिहतं क्लिन्नं संकीर्णानिष्टगन्धिकम् ।
देशं त्व् अनिष्टशब्दं च वर्जयेच् छ्राद्धकर्मणि ॥

रूक्षम् अस्निग्धम् । क्लिन्नं सकर्दमम् । संकीर्णं पदार्थान्तरैर् आकीर्णम् । अनिष्टगन्धिकं पूतिगन्धिकम् । अनिष्टशब्दम् अश्राव्यशब्दम् । मदालसावाक्यम् अपि ।

वर्ज्या जन्तुमती रूक्षा क्षितिः प्लुष्टा तथाग्निना ।
अनिष्टदुष्टशब्दोग्रा दुर्गन्धा श्राद्धकर्मणि ॥

अग्निना प्लुष्टा दग्धा । उग्रा व्याघ्रादिसंनिकृष्टा ॥

इति स्मृतिचन्द्रिकायां श्राद्धदेशाः