०९ गौणश्राद्धकालाः

अथ गौणश्राद्धकालाः

तत्र ऋश्यशृङ्गः ।

दैवे पितॄणां श्राद्धे तु आशौचं जायते यदि ।
आशौचादौ व्यतिक्रान्ते तेभ्यः श्राद्धं प्रदीयते ॥

मुख्यकाले पाकोपक्रमात् प्राक् यदा श्राद्धाधिकारिण आशौचं जायते तदा मुख्यकाले प्रत्यासन्ने आशौचेन दूषिते आशौचापगमानन्तरकाल एव पैतृकं कर्म कार्यम् इत्य् अर्थः । यतु तु स्मृत्यन्तरम्,

तद् अहश् चेत् प्रदुष्येत केनचित् सूतकादिना ।
सूतकानन्तरं कुर्यात् पुनस् तद् अहर् एव वा ॥

इति, तत् श्राद्धाहे सूतकेन प्रदुष्टे सूतकानन्तरं कुर्याद् इति पक्षस् तावत् ऋश्यशृङ्गवचनाविरुद्ध एव । “पुनस् तद् अहर् एव वा” इति पक्षस् त्व् आदिशब्दोक्तनिमित्तान्तरेण विहितमुख्यकालाभावविषय इति पूर्ववचनाविरोधाय कल्पनीयम् । एतच् च पक्षान्तरं क्षयाहे प्रतिमासं क्रियमाणश्राद्धविषयम् । तत्र मासस्पृष्टकालाभावे ऽपि पक्षतिथिमात्रपृष्टस्यापि ग्राह्यत्वात् । अत एव स्मृत्यन्तरम् ।

एकोद्दिष्टे तु संप्राप्ते यदि विघ्नः प्रजायते ।
अन्यस्मिन् तत्तिथौ तस्मिन् श्राद्धं कुर्यात् प्रयत्नतः ॥

अन्यस्मिन् अनन्तरे मासि । तत्तिथौ मृततिथौ । यस्मिन् शुक्ले कृष्णे वा मृतः तस्मिन् पक्षे श्राद्धं विघ्नवशाद् अतिक्रान्तं कुर्याद् इत्य् अर्थः । यदि विघ्न इत्य् अत्रापि ऋश्यशृङ्गवचनाविरोधायाशौचव्यतिरिक्तनिमित्तेनेति शेषो द्रष्टव्यः । आशौचनिमित्तेन तु विघ्निते मासिकविषये ऽपि सूतकानन्तरम् एव श्राद्धानुष्ठानं ऋश्यशृङ्गोक्तन् अनुसंधेयम् । अत एव देवस्वामिनाप्य् उक्तम् - “एतद् ऋश्यशृङ्गवचनं सूतकाशौचविषयम् । निमित्तान्तरतस् तदहर् विघाते,

एकोद्दिष्टे तु संप्राप्ते यदि विघ्नः प्रजायते ।

इत्यादिस्मृत्यन्तरवचनम्” इति । यत् पुनः स्मृत्यन्तरम्,

श्राद्धविघ्ने समुत्पन्ने अन्तरा मृतसूतके ।
अमावास्यां प्रकुर्वीत शुद्धाव् एके मनीषिणः ॥

इति अन्तरा मृतसूतके श्राद्दप्रयोगमध्ये पाकोपक्रमात् पूर्वं सूतके मृतके वा जाते अमावास्यायां शुद्धौ शुध्यन्तरम् । एतत् सांवत्सरिकश्राद्दविषयम् । अमावास्याग्रहणं कृष्णैकादश्याश् चोपलक्षणार्थम् । अमावास्याग्रहणं कृष्णैकादश्याश् चोपलक्षणार्थम् । अत् एव मरीचिः ।

श्राद्धविघ्ने समुत्पन्ने अविज्ञाते मृते ऽहनि ।
एकादश्यां तु कर्तव्यं कृष्णपक्षे विशेषतः ॥ इति ।

कृष्णपक्षे या एकादशी तस्यां विशेषतः कर्तव्यम् इत्य् अन्वयः । पितृकार्ये स्वतः कृष्णपक्षस्यैव ग्राह्यत्वात् कृष्णैकादशीतो ऽप्य् (?) अमावास्यायाः पितृकार्ये श्रैष्ठ्यं दण्डापूपिकान्यायसिद्धम् इति बोद्धव्यम् । यत् तु षट्त्रिंशत्मतम्,

मासिके ऽब्दे तु संप्राप्ते त्व् अन्तरा मृतसूतके ।
वदन्ति शुद्धौ तत् कार्यं दर्शे वापि विचक्षणाः ॥

इति, तद् एतत् “तान्य् एव तु पुनः कुर्यात्” इति विहितानुमासिकश्राद्धविषयम् । एकोद्दिष्टमासिके पूर्वम् एवानुकल्पकालस्योक्तत्वात् । तत्र शुद्ध्यनन्तरकालो मुख्यकालत्वाच् श्रेष्ठः । दर्शकालस् ततो जघन्यः, मुख्यकालप्रत्यासत्त्यभावाद् इति मन्तव्यम् । तथा च ऋश्यशृङ्गः ।

शुचिभूतेन दातव्यं या तिथिः प्रतिपद्यते ।
सा तिथिस् तस्य कर्तव्या न त्व् अन्या वै कदाचन ॥ इति ।

अयम् अर्थः - शुचिभूतेन तावद् दातव्यम् । तेन मुख्यकाले शुद्ध्यसंभवे शुद्द्यनन्तरं वा तिथिः प्रतिपद्यते लभ्यते सा तिथिस् तस्य कर्तव्या कर्मोपक्रमात् प्राक् साध्यतया कथंचिद् अनुष्ठेया न त्व् अन्या, मुख्या तिथिर् आशौचदूषिता कदाचन नानुष्ठेयेति । आशौचदूषिता मुख्या तिथिर् नानुष्ठेयेत्य् आह स एव ।

तिथिच्छेदो न कर्तव्यो विनाशौचं यदृच्छया ।
पिण्डं श्राद्धं च दातव्यं विच्छित्तिं नैव कारयेत् ॥

यदृच्छया स्वेच्छया । श्राद्धं ब्राह्मणतर्पणम् । चशब्देनाग्नौकरणम् अपि कर्तव्यम् इति समुच्चिनोति । श्राद्धशब्देनात्र ब्राह्मणतर्पणमात्रम् उपचाराद् उच्यते, न मुखार्थतया, अग्नौकरणब्राह्मणतर्पणपिण्डदानात्मककर्मत्रयसमुदायस्यैव मुख्यार्थत्वात् । तथा च देवस्वामिना श्राद्धशब्दार्थं एवम् एव सम्यङ् निरूपितः ।

पिण्डाभावे ऽपि नित्यादौ श्राद्धशब्दप्रयोगतः ।
श्राद्धशब्दो न पिण्डेषु नापि च द्विजभोजने ॥
अतिथ्यादौ भुजासत्यां श्राद्धशब्दाप्रयोगतः ।
पितॄन् उद्दिश्य वित्तादित्यागमात्रं न चैव हि ॥
तर्पणादेर् अपि प्राप्तेस् त्यागस् तत्रापि दृश्यते ।
विद्वन्मतान्य् उपादाय मम त्व् एतद् धृदि स्थितम् ॥
होमश् च पिण्डदानं च तथा ब्राह्मणतर्पणम् ।
श्राद्धशब्दाभिधेयं स्याद् एकस्मिन्न् औपचारिकः ॥ इति ।

“विच्छित्तिं नैव कारयेत्” इति ऋश्यशृङ्गवचनस्यायम् अर्थः - कृत्स्नस्य श्राद्धशब्दार्थस्य कर्तुम् अशक्यत्वे ऽपि तदेकदेशमात्रं वा यथासामर्थ्यं कुर्यात् । सर्वथा कर्मविच्छित्तिं नैव कुर्याद् इति । अत एव निगमः - “आहिताग्नेः पित्रर्चनं पिण्डैर् एव ब्राह्मणान् अपि वा भोजयेत्” इति । अत्र यथासामर्थ्यं व्यवस्था । ततश् च द्वितीयपक्षासामर्थ्ये प्रथमोक्तः पक्षः ॥

इति स्मृतिचन्द्रिकायां गौणश्राद्धकालाः