०८ काम्यश्राद्धकालाः

अथ काम्यश्राद्धकालाः

तत्र विष्णुः ।

संक्रान्तिविषुवे चैव विशेषेणायनद्वयम् ।
व्यतीपातो ऽथ जन्मर्क्षं चन्द्रसूर्यग्रहस् तथा ॥
इत्य् एतान् श्राद्धकालांस् तु काम्यान् आह प्रजापतिः ।
श्राद्धम् एतेषु यद् दत्तं तद् आनन्त्याय कल्पते ॥ इति ।

“श्राद्धकालान् काम्यान् आह” इत्य् अनेन संक्रान्त्यादिकाललक्षणो गुणः काम्यफलसाधको न पुनः श्राद्धलक्षणं कर्मेति दर्शयति । श्राद्धलक्षणकर्मणस् तु काम्यफलं “पितॄन् श्राद्धेन तर्पयेत्” इति शास्त्रेण दर्शितम् । यथा जातेष्टिः पित्रा क्रियमाणा पुत्रस्य पूतत्वादिकं फलं निष्पादयतीति “पूत एव तेजस्व्य् अन्नाद इन्द्रियावी पशुमान् भवति” इति शास्त्रप्रमाण्याद् आश्रितम्, तथा पुत्रादिनापि क्रियमाणं श्राद्धं तत्पित्रादीनां तृप्तिरूपं फलं साधयतीति “पितॄंच् छ्राद्धेन तर्पयेत्” इति शास्त्रप्रामाण्याद् आश्रयणीयम् । संक्रान्त्यादिकाललक्षणगुणसाध्यं फलम् अत्र श्राद्धसाध्यपितृतृप्त्याश्रितातिशयाधिक्यरूपम् इति रात्रिसत्रन्यायेनावगन्तव्यम्,

श्राद्धम् एतेषु यद् दत्तं तद् आनन्त्याय कल्पते ।

इति वाक्यशेषे श्राद्धसाध्यपितृतृप्तेर् आनन्त्यश्रवणात् । आनन्त्यशब्देन वस्तुन आनन्त्यासंभवात् तृप्त्याश्रितातिशयाधिक्यम् उच्यते । एवं चैतद् उक्तं भवति - संक्रान्त्यादौ पितृतृप्त्यतिशयकाले पुत्रादिना श्राद्धं कार्यम् इति । संक्रान्तिशब्दो गोबलीवर्दन्यायेनात्र विषुवद्वयायनद्वयव्यतिरिक्तसूर्यसंक्रान्तिषु वर्तते । काः पुनर् विषुवादयः संक्रान्तय इत्य् अपेक्षिते ज्योतिर्वसिष्ठः ।

मृगकर्कटसंक्रान्ती द्वे तूदग्दक्षिणायने ।
विषुवे च तुलामेषे तयोर् मध्ये ततः पराः ॥

सूर्यसंक्रान्तय इति शेषः । तयोर् अयनद्वयविषुवद्वययोर् मध्य इत्य् अर्थः । तत्र दक्षिणायनतदूर्ध्वविषुवयोर् मध्ये द्वे सूर्यसंक्रान्ती विषुवतदूर्ध्वोत्तरायणयोर् मध्ये द्वे, उत्तरायणविषुवयोर् मध्ये द्वे, विषुवतदूर्ध्वदक्षिणायनयोर् (?) द्वे, इत्य् एवम् अष्टौ सूर्यसंक्रान्तयो वेदितव्याः । तासु विषुवायनेभ्यः उपरिभावास् तु संक्रान्त्यन्तरेणाव्यवहिताः संक्रान्तयो विष्णुपदसंज्ञिकाः ज्ञेयाः, ताभ्य उपरिभवास् तु षडशीतिमुखसंज्ञिका ज्ञेयाः । तथा च स एव ।

वृषवृश्चिककुम्भेषु सिंहे चैव यदा रविः ।
एतद् विष्णुपदं नाम विषुवाद् अधिकं फलम् ॥
कन्यायां मिथुने मीने धनुष्य् अपि रवेर् गतिः ।
षडशीतिमुखाः प्रोक्ता षडशीतिगुणाः फलैः ॥ इति ।

प्रथमशोकस्यैवं योजना - वृषवृश्चिकमुम्भसिंहेषु यदा रविः संक्रमति तदा तत्संक्रमणचतुष्टयं विष्णुपदसंज्ञकम् इति । एवं निरूपितविषुवायनविष्णुपदषडशीतिमुखनामकाः कालाः यद्य् अपि निमेषाद् अपि स्वल्पतराः, तथापि तत्संबद्धपूर्वापरकालानुगृहीताः सन्तो दीर्घकालसाध्यकर्मानुष्ठानाय विधीयन्त इति नायोग्यत्वपराहता इति मन्तव्यम् । तथा चोक्तं तेनैव ।

संक्रान्तिसमयः सूक्ष्मः दुर्ज्ञेयः पिशितेक्षणैः ।
तद्योगाच् चाप्य् अधश् चोर्ध्वं त्रिंशन् नाड्यः पवित्रिताः ॥ इति ।

एवं च “संक्रान्तौ श्राद्धं कुर्यात्” इत्यादिवक्येषु संक्रान्तिशब्दाभिधेयसूक्ष्मकालयोगात् पवित्रितकाले श्राद्धादिकं कर्तव्यम् इत्य् अर्थाद् अवगम्यते । यत् तु ज्योतिर्बृहस्पतिनोक्तम् ।

भविष्यत्य् अयने पुण्याः त्रिंशद् एव तु दक्षिणे ।
अतीत उत्तरे नाड्य इति प्राहुर् मनीषिणः ॥ इति ।

तस्यायम् अर्थः - त्रिंशद् एव तु नाडिकाः पुण्याधिक्यापादिकाः पवित्रतरा इति यावत् । एवं च,

तद्योगाच् चाप्य् अधश् चोर्ध्वं त्रिंशन् नाड्यः पवित्रिताः ।

इत्य् अनेन सह न कश्चिद् विरोधः । “अतीत उत्तरे नाड्यः” इत्य् अत्रानुषङ्गन्यायेन त्रिंशद् इति यद्य् अपि संबन्धः प्रतिभाति, तथापि वचनान्तराविरोधाय विंशतिर् इत्य् अध्याहृत्य तेन संबन्धः कार्यः । अन्यथा,

त्रिंशत्कर्कटके नाड्यो मकरे विंशतिः स्मृताः ।
वर्तमाने तुलामेषे नाड्यस् तूभयतो दश ॥

इति वसिष्ठवचनविरोधात् । कर्कटके अनागते त्रिंशत् मकरे अतीते विंशतिर् नाड्यः पवित्रतमा इत्य् अर्थः,

अतीतानागते पुण्ये द्वे तूदग्दक्षिणायने ।

इति तेनैवाभिधानात् । “उभयतो दश” इत्य् अत्रापि पवित्रतमा इति शेषो द्रष्टव्यः । यद् अप्य् अनन्तरं तेनैवोक्तम्,

उपरागे च तत्कालम् अतीते चोत्तरायणे ।

इति, तत्र चशब्दाद् अनागते ऽप्य् उत्तरायणे विंशतिर् नाड्यः पुण्या इति सूचयितुं पुनर् अतीते चोत्तरायणे इत्य् उक्तम्, न पुनर् उत्तरायणे अतीत एव विंशतिर् नाड्यः पुण्या ति वक्तुम् इति न पूर्वोक्तेन विरोधः (?) । एवं च दक्षिणायने संक्रान्तिसमये ऽनागते त्रिंशन् नाड्यः पुण्याधिक्यापादिकाः, उत्तरायणे संक्रान्तिसमये त्रिंशण् नाड्यः पुण्याधिक्यापादिकाः, उत्तरायणे संक्रान्तिसमये उभयतो विंशतिर् नाड्यश् च पुण्याध्क्यापादिकाः, विषुवद्वये तु संक्रान्तिसमये उभयतो दश नाड्यः पुण्याधिक्यापादिका इत्य् अनुसंधेयम् । यत् तु स्मृत्यर्थसारे ऽभिहितम् - “उत्तरायणे पश्चाच् चत्वारिंशद् घटिकाः पुण्याः पूर्वं च चत्वारिंशद् घटिकाः पुण्या आहुः” इति, तस्य मूलं चिन्त्यम्, प्रसिद्धस्मृतिसमुदाये तस्य मूलभूतवचनादर्शनात् । यत् तु मरीचिनोक्तम्,

नाड्यः षोडश पूर्वेण संक्रान्तेर् अपरेण च ।
राहोर् दर्शनमात्रेण पुण्यकालः प्रकीर्तितः ॥

इति, तत्र संक्रान्तेर् इति यद्य् अपि संक्रान्तिसामान्यस्यावधित्वं प्रतिभाति, तथापि विषुवद्वयायनद्वयव्यतिरिक्तविषयम् इति सामान्यविशेषन्यायेनावगन्तव्यम् । अत एव वसिष्ठेनोकम् ।

पुण्याख्या विष्णुपद्यां च प्राक् पश्चाद् अपि षोडश ।

इति । चशब्दात्,

षडशीतिमुखायां च प्राक् पश्चाद् अपि षोडश ।

इति गम्यते । पुण्याख्याः पुण्यतराख्या इत्य् अर्थः । यत् तु गर्गेणोक्तम्,

भविष्यत्य् अयने विष्णौ वर्तमाने तथा विषौ ।
षडशीतिमुखे चैव अतीते चोत्तरायणे ॥

इति, विषौ वर्तमाने मध्ये इत्य् अर्थः । तत् फलभूयस्त्वाभिप्रायेण न तु नियमार्थम् इति न पूर्वोक्तविरोधः । अतः स्मृत्यन्तरम् ।

मध्ये विषुवति दानं विष्णुपदे दक्षिणायने चादौ ।
षडशीतिमुखे ऽतीते उदगयने चापि भूरि फलम् ॥

एवं पुण्यत्वेन पुण्यतमत्वेन चोक्तनाडीष्व् अपि संक्रान्तितदभिधेयसूक्ष्मसमयसंनिधितारतम्यानुसारेण प्रथमद्वितीयतृतीयादिनाडीनां फलातिशयहेतुत्वे तारतम्यम् अवसेयम् । अत एव वसिष्ठेन,

यायात् संनिहिता नाड्यः तास् ताः पुण्यतमाः स्मृतः ।

इत्य् उक्तम् । यत् पुनस् तेनैवोक्तम्,

अह्नि संक्रमणे पुण्यम् अहः कृत्स्नं प्रकीर्तितम् ।

इति, तद् अत्यन्तविप्रकृष्टनाडीनां पुण्यत्वं नास्तीति व्यतिरेकमात्रपरम् इति मन्तव्यम् ।

तद्योगाच् चाप्य् अधश् चोर्ध्वं त्रिंशन् नाड्यः पवित्रिताः ।

इत्य् अस्य क्वचिद् विषये ऽपवादम् आह स एव ।

रात्रौ संक्रमणे पुण्यं दिनार्धं स्नानदानयोः । इति ।

व्यवहितम् अपि दिनार्धम् एव पुण्यं न तु संनिहिता रात्रिगता नाड्यः पुण्या इत्य् अर्थः । एतच् चायनव्यतिरिक्तविषयम् । यद् आह स एव,

अर्धरात्राद् अधस् तस्मिन् मध्याह्नस्योपरि क्रिया ।
ऊर्ध्वं संक्रमणे चोर्ध्वम् उदयात् प्रहरद्वयम् ॥
पूर्णे चेद् अर्धरात्रे तु यदा संक्रमणं रवेः ।
प्राहुर् दिनद्वयं पुण्यं मुक्त्वा मकरकर्कटौ ॥

इति, एतत् तु विष्णुपदषडशीतिमुखव्यतिरिक्तविषुवमात्रविषयम्,

विष्णुपद्यां धनुर् मीननृयुक्कन्यासु वै सदा ।
पूर्वोत्तरगते रात्रौ भानोः संक्रमणं भवेत् ॥
पूर्वाह्णे पञ्च नाड्यश् च पुण्याः प्रोक्ता मनीषिभिः ।
अपराह्णे तु पञ्चैव श्रौते स्मार्ते च कर्मणि ॥

इति विष्णुपदषडशीतिमुखेषु तेनैवान्यथाभिधानात् । नृयुक् मिथुनराशिः । पूर्वोत्तरगते पूर्वोत्तरभागस्थे काले । अर्धरात्रे संक्रमणे दिनद्वये पञ्च पुण्या इत्य् ऊह्यम्, प्रत्यासत्तिविसेषाभावलक्षणन्यायसाम्यात् । अयनद्वये तु दिवा रात्रौ वा न संनिहितनाडीनां सति संभवे परित्यागः । ननु,

रात्रौ स्नानं न कुर्वीत दानं चैव विशेषतः ।

इत्यादिवचनेन रात्रौ स्नानदानादिनिषेधाद् रात्राव् अयने ऽपि संनिहितानां नाडीनां परित्यागः कार्यः, वक्तव्यो वा विशेषः । उच्यते,

राहुदर्शनसंक्रान्तिविवाहात्ययवृद्धिषु ।
स्नानदानादिकं कुर्यान् निशि काम्यव्रतेषु च ॥

इतिवचनेन संक्रान्त्यादाव् अपि प्रतिप्रसवस् तावद् अस्ति । न चायं प्रतिप्रसवः संक्रान्तिषु युज्यते, अयनद्वयव्यतिरिक्तसंक्रान्तौ रात्रौ गतायां दिन एव संक्रान्तिकृत्याभिधायकवचनविरोधापत्तेः । तेनायनद्वयविषय एवायं प्रतिप्रसव इति कल्पनीयम् । तस्माद् अयनद्वये रात्राव् अपि न संनिहितनाडीनां परित्यागः ॥

प्रक्र्तम् उच्यते । संक्रान्त्यादयः काम्याः श्राद्धकालाः सति संभवे कुतपादिश्राद्धकालेन सह समुच्चीयन्ते, सति संभवे सर्वेषां श्राद्धाङ्गानाम् उपसंहारस्यावश्यकत्वात् । असंभवे तु चन्द्रसूर्यग्रहणवद् असमुच्चये ऽपि न फलसिद्धिविरोधः, असंभवादिना अङ्गाननुष्ठानस्य विध्यनुमतत्वात् । व्यतीपातयोगस् तु कुतपादिकालयोगी ग्राह्यः, संभवात् । जन्मनक्षत्रं कुतपादिकालयोगि सति संभवे ग्राह्यम् । नक्षत्रं तु श्राद्धार्थे यदा दिनद्वयव्यापि शुक्लपक्ष औदयिकम् “यत् पूर्वाह्णव्यापि तद् ग्राह्यम्” इति देवस्वामिनोक्तत्वात् । चन्द्रसूर्यग्रहे तु ग्रहणकाल एव श्राद्धं कर्तव्यम्,
त्रिदशाः स्पर्शसमये तृप्यन्ति पितरस् तथा ।
मनुष्या मध्यकाले तु मोक्षकाले तु राक्षसाः ॥

देवकार्ये पितृकार्ये च ग्रहणकालविधानात् । मार्कण्डेयपुराणे ऽपि काम्यश्राद्धकाला दर्शिताः ।

कृत्तिकासु पितॄन् अर्चन् स्वर्गम् आप्नोति मानवः ।
अपत्यकामो रोहिण्यां सौम्ये चौजवितां लभेत् ॥
आर्द्रायां शौर्यम् आप्नोति क्षेत्रादि तु पुनर्वसौ ।
पुष्टिं पुष्ये पितॄन् अर्चन् आश्लोषासु वरान् सुतान् ॥
मधासु स्वजनश्रैष्ठ्यं सौभाग्यं फल्गुनीषु च ।
प्रदानशीलो भवति सापत्यश् चोत्तरासु च ॥
प्राप्नोति श्रेष्ठतां सत्सु हस्ते श्राद्धप्र्दो नरः ।
रूपवन्ति च चित्रासु तथापत्यान्य् अवाप्नुयात् ॥
वाणिज्यलाभदा स्वाती विशाखा पुत्रकामदा ।
कुर्वतां चानुराधाश् च दद्युश् चक्रप्रवर्तनम् ॥
ज्येष्ठा स्वर्गाधिपत्यं च मूले चारोग्यम् उत्तमम् ।
आषाडासु (?) श्रियः प्राप्तिम् उत्तरासु विशोकताम् ॥
श्रवणे च शुभान् लोकान् धनिष्ठासु धनं महत् ।
वेदवित् स्याद् अभिजिति भिषक्सिद्धिं तु वारुणे ॥
अजविकं प्रोष्ठपदे विन्दते गास् तदुत्तरे ।
रेवतीषु तथा कुप्यम् अश्वनीषु तुरङ्गमान् ॥
श्राद्धं कुर्वन् तथाप्नोति भरणीष्व् आयुर् उत्तमम् ।
तस्मात् काम्यानि कुर्वीत ऋक्षेष्व् एतेषु तत्त्ववित् ॥ इति ।

सौम्यं सोमदेवताकं मृगशीर्षम् इति यावत् । ओजः आत्मशक्त्यतिशयः । शौर्यं निर्भयत्वेन वर्तनम् । क्षेत्रादि च क्षेत्रफलं चेत्य् अर्थः । पुष्टिः श्रीरपुष्टिः । वरान् सुतान् गुणोपेतान् सुतान् । सौभग्यं जनप्रियताम् । सापत्यश् च अपत्यवान् भवतीत्य् अर्थः । सत्सु सत्पुरुषेषु । रूपवन्ति सुरूपाणि । चक्रप्रवर्तनं प्रतिहतिराहित्येन आज्ञायाः प्रवर्तनम् । अभिजित् अभिजित्संज्ञकं नक्षत्रम् । तत् तु वेदे निरूपितम् - “अभिजिन् नाम नक्षत्रम् उपरिष्टाद् आषाढानाम् अधस्ताच् छ्रोणायै” इति । भिषक्सिद्धिः औषधफलावाप्तिः । वारुणं शतभिषङ्नक्षत्रम् । कुप्यं त्रपुसीसादिद्रव्यम् । ऋक्षेष्व् एतेषु पूर्वोक्तेषु नक्षत्रेषु । तत्त्ववित् सम्यक्छ्राद्धविधानवित् । विष्णुधर्मोत्तरे ऽपि ।

अरोग्यम् अथ सौभाग्यं समरे विजयं तथा ।
सर्वकामांस् तथा विद्यां धनं जीवितम् एव च ॥
आदित्यादिदिनेष्व् एवं श्राद्धं कुर्वन् सदा नरः ।
क्रमेणैतान् समाप्नोति नात्र कार्या विचारणा ॥ इति ।

एतान् आरोग्यादीन् आदित्यादिदिनक्रमेण (?) तत् तद् दिनश्राद्धं कुर्वन् नरः प्राप्नोतीत्य् अर्थः । एतद् उक्तं भवति - आदित्यवारे श्राद्धम् आरोग्यकामः कुर्यात्, सोमवारे सौभाग्यकामः, भौमवारे संग्रामविजयकामः, बुधवारे सर्वकामः, बृहस्पतिवारे विद्याकामः, शुक्रवारे धनकामः, शनिवारे जीवितकाम इति । याज्ञवल्क्येनापि काम्यश्राद्धकाला दर्शिताः ।

कन्यां कन्यावेदिनश् च पशूंश् चैव सुतान् अपि ।
द्यूतं कृषिं च वाणिज्यं द्विशफैकशफांस् तथा ॥
ब्रह्मवर्चस्विनः पुत्रान् स्वर्णरौप्ये सकुप्यके ।
ज्ञातिश्रैष्ठ्यं सर्वकामान् आप्नोति श्राद्धदः सदा ॥
प्रतिपत्प्रभृतिष्व् एकां वर्जयित्वा चतुर्दशीम् ॥ इति ।

कन्या रूपलक्षणशीलवती, प्रायेण तादृश्या एवातिकाम्यत्वात् । कन्यावेदिनो जामातरः श्रुतवन्तो रोगरहिताः । पशून् शीललक्षणपंपन्नान्, एवंभूतानाम् एव काम्यत्वात् । काम्यं तु कृष्णपक्षे प्रतिपदि श्राद्धं कन्याकामः कुर्यात्, द्वितीयायां वरकामः, तृतीयायां पशुकामः, चतुर्थ्यां पुत्रकामः, पञ्चम्यां तु विजयकामः, षष्ठ्यां कृषिफलकामः, सप्तम्यां वाणिज्यलाभकामः, अष्टम्यां द्विशफगवादिपशुकामः, नवम्याम् एकशफाश्वादिपशुकामः, दशम्यां वृत्ताध्ययनबहुलपुत्रकामः, एकादश्यां स्वर्णरूप्यकामः, द्वादश्यां त्रपुसीसादिद्रव्यकामः, त्रयोदश्यां ज्ञातिश्रैष्ठ्यकामः, अमावास्यायां योगसिद्ध्यधिकरणोक्तन्यायानुसारेण क्रमेण सर्वकाम इति । अत्र,

कृष्णपक्षे ऽपराह्णे तु रौहिणं तु न लङ्घयेत् ।\

इति स्मृत्यन्तरोक्तो विशेषो द्रष्टव्यः । रौहिणः अह्नो नवमो मुहूर्तः । एवं च कुतपादिघटिकात्रयसंयुक्तायां प्रतिपदादितिथौ काम्यश्राद्धं कार्यम्, न तु कुतपाद्यसंयुक्तायाम् इति मन्तव्यम् । प्रतिपदादितिथिद्वैधे तु पूर्वस्याम् उत्तरस्यां वा कुतपादिघटिकात्रययुक्तायां एव श्राद्धं कार्यम् । तथा चोक्तं देवस्वामिना - “यस्मिन् काले यद् विहितं तत् कर्म उपक्रमोपसंहारयुक्तं तस्मिन् काले तस्यां तिथौ यस्मिन् अहनि संभावयितुं शक्यते तद् उत्तरं पूर्वं वा ग्राह्यम्” इति । उभयदिने ऽपि यदि संभवयितुं शक्यते तदा तु स्वतः पूर्वदिनं ग्राह्यम्, कथंचित् तत्रानुष्ठानाभावे उत्तरदिनं ग्राह्यम् । उपक्रमोपसंहारयोर् उभयोर् उभयत्रासंभवविषये तु यद् देवस्वामिनोक्तम् - “यस्मिन् समाप्तिः तस्यां तिथौ तस्मिन् काले संभवति तस्मिन्न् अहन्य् उपक्रम्य समापनीयम्” इति । समाप्तिः उपसंहारः । तस्मिन्न् अहन्य् अस्वकाले ऽप्य् उपक्रम्य स्वकाले समापनीयम् इत्य् अर्थः । तद् एतद् अयुक्तम्, कालस्याप्य् अधिकारिविसेषणत्वेन स्वकाले ऽनागते कर्मण्य् अधिकाराभावाद् अस्वकाले कर्मोपक्रमस्यान्याय्यत्वात् । तस्माद् अस्मिन् विषये स्वकाले उपक्रम्यास्वकाले समापनीयम् । स्वकालोपक्रान्ते कर्मणि कालान्तरे ऽपि समापनस्य विधिनाक्षिप्तत्वात् । यदा तु स्वकाले ऽप्य् उपक्रमो न संभवति तदा स्मृत्यन्त्रोक्तं द्रष्टव्यम् । पित्र्यं श्राद्धं कृष्णपक्षे दिने ऽस्तमययोगिनि ।

शुक्ले तूदयसंयुक्ते दानं यज्ञादिकं तथा ॥ इति ।

कृणपक्षे “प्रतिपद्धनलाभाय” इत्यादिना यद् विहितं श्राद्धं तद् अस्तमययोगिप्रतिपदादितिथ्यन्विते दिने कर्तव्यम् । शुक्लपक्षे तिथिविशेषोल्लेखेन विहितं दानं देवकार्यादिकम् उदययोगितिथिविसेषान्वितदिने कर्तव्यम् इत्य् अर्थः । अस्तमययोगित्वे उदययोगित्वे च विशेषस् तत्रैव ।

दिनान्ते पञ्च नाड्यस् तु पुण्याः प्रोक्ता मनीषिभिः ।
उदये च तथा पित्र्ये दैवे चैव च कमणि ॥ इति ।

पित्र्ये कर्मणि दिनान्ते पञ्च नाड्यः पुण्याः प्रोक्ताः, दैवे कर्मण्य् उदये पञ्च नाड्यः पुण्याः प्रोक्ता इत्य् अन्वयः । खण्डतिथिस् तु काम्यकर्मणि प्रथमोपक्रमे परित्यज्या, संपूर्णतिथाव् एवोपक्रमसंभवात् । उपक्रान्तस्य काम्यकर्मणः श्राद्धादेः काम्यसिद्धिपर्यन्तम् एकसंवत्सरपर्यन्तं वा स्वकाले पुनः पुनर् अनुष्ठाने कर्तव्ये खण्डतिथाव् अप्य् उक्तदिने ऽवश्यं कर्मानुष्ठानं कर्तव्यम् । तथा च देवस्वामिना नक्षत्रश्राद्धम् उदाहृत्योक्तम् - “नक्षत्रेषु काम्यश्राद्धेषु तत्कामप्रदनक्षत्रप्राप्तौ यावत् तत्कामप्राप्ते तस्मिन् ऋक्षे श्राद्धं कुर्याद् अब्दम् एकं यावत्” इति । अत्र हारीतः ।

काम्यश्राद्धानि काम्यार्थी सम्यग् यत्नेन साधयेत् ।
शरीरारम्भहेतुत्वात् मुमुक्षुस् तानि नाचरेत् ॥
कामप्राप्तानि विहितश्राद्धान्य् उक्तानि यानि तु ।
तानि विध्यन्तरोक्तत्वात् स्वर्गमोक्षार्थम् आचरेत् ॥
यथा कथंचिन् नित्यानि कुर्याद् इन्दुक्षयादिषु ।
पात्रद्रव्यादिसंपत्सु सत्सु काम्यफलं लभेत् ॥

विध्यन्तरोक्तत्वाद् इति, “द्विविध एव संस्कारो भवति ब्राह्मो दैवश् च । गर्भाधानादिः स्मार्तो ब्राह्मः, पाकयज्ञहविर्यज्ञसौम्याश् चेति दैवः । ब्राह्मसंस्कारसंस्क्र्त ऋषीणां समतां समानलोकतां सायुज्यं गच्छति । दैवेनोत्तरेण संस्कृतः देवानां समानलोकतां सायुज्यं गच्छति” इत्य् एवमादिरूपेण विध्यन्तरेण,

श्राद्धकृत् सत्यवादी च गृहस्थो ऽपि विमुच्यते ।

इत्य् एवमादिरूपेण विध्यन्तरेण चोक्तत्वाद् इति ॥

**इति स्मृतिचन्द्रिकायां काम्यश्राद्धकालाः **