०७ मृताहविषयाः

अथान्यान्य् अपि मृताहविषयाणि कानिचिद् वचनानि लिख्यन्ते

तत्र गर्गः ।

विवाहादौ स्मृतः सौरो यज्ञादौ सावनः स्मृतः ।
आब्दिके पितृकार्ये ऽपि चान्द्रमासः प्रशस्यते ॥

यज्ञादौ माससंवत्सरसाध्ययज्ञव्रतप्रायश्चित्तक्रियादिष्व् इत्य् अर्थः । तत्र माससाध्ययज्ञाः “दर्शपूर्णमसाभ्यां यजेत, मासं वैश्वदेवेन” इत्य् एवमादिवाक्यैः विहिताः । माससाध्यव्रतानि मासोपवासादीनि । माससाध्यप्रायश्चित्तकिर्यास् तु,

गोष्ठे वसन् ब्रह्मचारी मसम् एकं पयोव्रतः ।
गायत्रीजपनिरतो मुच्यते स प्रतिग्रहात् ॥

इत्यादिवाक्यविहिताः । संवत्सरसाध्या यज्ञाः गवामयनाद्याः सत्रयागाः । संवत्सरसाध्यव्रतानि तु “नाश्नीयात्” इत्यादिश्रुतिविहितानि । संवत्सरसाध्याः प्रायश्चित्तक्रियाः द्वादशवार्षिकाद्या द्रष्टव्याः । आब्दिके सांवत्सरिकश्राद्धे । पितृकार्ये षाण्मासिकश्राद्धादौ । अपिशब्दान् माससंवत्सरसाध्ये यज्ञव्यतिरिक्ते सर्वस्मिन् देवकार्ये चान्द्रो मासः प्रशस्यत इत्य् उक्तम् । उक्तं च पितामहेन ।

दैवे कर्मणि पित्र्ये च मासश् चान्द्रमसः स्मृतः । इति ।

कः पुनर् भेदश् चान्द्रसावनसौराणाम् इत्य् अपेक्षिते ब्रह्मसिद्धान्त उक्तम् ।

दर्शाद् दर्शश् चान्द्रस् त्रिंशद् दिवसस् तु सावनो मासः ।
रविसंक्रान्तिकचिह्नः सौरो मासो निगद्यते तज्ज्ञैः ॥

अस्यार्थः स्मृत्यन्तरे स्पष्टीकृतः ।

चान्द्रः शुक्लादिदर्शान्तः सावनस् त्रिंशता दिनैः ।
एकराशौ रविर् यावत् कालं मासः स भास्करः ॥

शुक्लप्रतिपदादिदर्शान्तश् चान्द्रो मास इत्य् एतद् दक्षिणापथे द्रष्टव्यम् । उत्तरापथे तु कृष्णप्रतिपदादिपौर्णमास्यन्तः चान्द्रो मास इति वेदितव्यः, तत्र पौर्णमास्यन्ते चान्द्रमासव्यवहारात् । अत एव द्विविधचान्द्रमाससंग्रहार्थम्,

यस्मिन् मासे दिने यस्मिन् विपत्तिर् उपजायते ।
पर्वानतः स तु विज्ञेयो मसो नैमित्तिकं प्रति ॥

इति गार्ग्येण पर्वान्त इति सामान्येनोक्तम् । नैमित्तिकं प्रतिसांवत्सरिकश्राद्धं प्रतीत्य् अर्थः । दिने तु विशेषः स्मृत्यन्तरे दर्शितः ।

मासपक्षतिथिस्पृष्टे यो यस्मिन् म्रियते ऽहनि ।
प्रत्यब्दं तु तथाभूतं क्षयाहं तस्य तं विदुः ॥ इति ।

तिथिशब्देन चान्द्र एवाहोरात्र उच्यते । न तु सौरः सावनो वाहोरात्रः, “तदाद्यास् तिथयो द्वयोः” इत्य् अमरसिंहेन चान्द्राहोरात्रेष्व् एव तिथिशब्दानुशासनात् । तदाद्याः प्रतिपदाद्याः तिथिशब्दाभिधेया इत्य् अर्थः । कः पुनः सावनसौरचान्द्राहोरात्राणां भेद इत्य् अपेक्षिते ब्रह्मसिद्धान्ते उक्तम् ।

सावनं स्याद् अहोरात्रम् उदयाद् ओदयाद् रवेः ।
सौरस् त्रिंशस् तु राश्यंशः तिथिः संयोगम् ऐन्दवम् ॥

मेषादिराशेः त्रिंशम् अंशं यावता कालेन रविर् भुङ्क्ते तावान् कालः सौरः अहोरात्रः । प्रतिपदादितिथिपरिमितः कालश् चान्द्रः अहोरात्र इत्य् अर्थः । स च सावनाहोरात्रवत् सूर्योदयाद् आरभ्य पुनः शूर्योदयपर्यन्तो यदा भवति तदा संपूर्ण इति निगद्यते,

प्रतिपत्प्रभृतयः सर्वा उदयाद् ओदयाद् रवेः ।
संपूर्णा इति विख्याताः ॥॥॥॥॥॥॥॥॥ ॥

इति स्मरणात् । यदा त्व् एवंभूतो न भवति तदा खण्डतिथिर् इति व्यतिरेकाद् गम्यते । प्रत्यब्दं मरणमासपक्षतिथिस्पृष्टकालाभावे ऽपि तत्सदृशकाल एवाब्दिकश्राद्धकाल इति वक्तुम्,

प्रत्यब्दं तु तथाभूतं क्षयाहं तस्य तं विदुः ।

इत्य् उक्तम् । तथाभूतं मरणमासपक्षतिथिस्पृष्टकालसदृशम् इत्य् अर्थः । यदा पुनर् दिनद्वयं तथाभूतं पूर्वदिने तु कर्मकाले तिथियोगः, उत्तरदिने तु कर्मकाले तिथियोगाभावः तदा पूर्वम् अहः स्राद्धकाल इत्य् आह सुमन्तुः ।

द्व्यहव्यापिनी वेत् स्यान् मृताहस्य तु या तिथिः ।
पूर्वस्यां निर्वपेत् पिण्डम् इत्य् आङ्गिरसभाषितम् ॥

पूर्वस्यां पूर्वदिनव्यापिन्याम् इत्य् अर्थः । अनेन पूर्वदिने चतुर्थप्रहरोत्तरार्धव्यतिरिक्तापराह्णे तिथियुक्तसमय एव सांवत्सरिकश्राद्धं कार्यम् इत्य् उक्तं भवति । यदा तु पूर्वदिने चतुर्थप्रहरोत्तरार्धव्यतिरिक्ते ऽपराह्णे चरममुहूर्ते तिथियोगः तदा उत्तरदिने कुतपाद् आरभ्य मुहूर्तपञ्चके मृततिथियुक्ते ऽपि पूर्वदिने तिथियोगसमये श्राद्धम् उपक्रम्य रात्रेः प्राग् एव समापनीयम्, स्वकालोपक्रान्ते कर्मणि कालान्तरे ऽप्य् अविलम्बेन तत्समापनस्य विधिनाक्षिप्तत्वात् । एवं च य व्याघ्रपादवचनं,

विधिज्ञः श्रद्धयोपेतः सम्यक् पात्रनियोजकः ।
रात्रेर् अन्यत्र कुर्वाणः श्रेयः प्राप्नोत्य् अनुत्तमम् ॥

इति, तत् स्वकालोपक्रान्तस्राद्धविषयम् इत्य् अवगन्तव्यम् । तद् एतत् सर्वम् अभिसंधाय अपरार्केणाप्य् उक्तम् - “सांवत्सरिकादिश्राद्धं तिथियुक्ते ऽपराह्णकाले यत्र् कुत्रचित् कार्यम् । सा चेत् सायाह्नमात्रव्यापिनी स्यात् तदा सायाह्न एव व्याघ्रपादवचनबलेन श्राद्धं कार्यम् । न पुनर् उदयव्यापिन्याम् अपराह्णपर्यन्तायाम्” इति । यदा तु पूर्वदिने कर्मकालासंस्पर्शिन्य् अप्य् अस्तगामिनी तिथिः उत्तरदिने कर्मकालसंस्पर्शिन्य् अनस्तगामिनी तदापि पूर्वम् एवाहः श्राद्धकालः “श्राद्धादाव् अस्तगामिनी” इति स्मरणात् । अस्तगामिनी तिथिः सांवत्सरिकश्राद्धादौ ग्राह्येत्य् अर्थः । न च पूर्ववद् अत्रापि तिथियुक्तसमये श्राद्धम् उपक्रम्य रात्रेः प्राक्समापनं युक्तम्, चतुर्थप्रहरोत्तरार्धस्य श्राद्धकालत्वाभावात् । तथा चोक्तं मत्स्यपुराणे ।

ऊर्ध्वं मुहूर्तात् कुतपाद् यन् मुहूर्तचतुष्टयम् ।
मुहूर्तपञ्चकं ह्य् एतत् स्वधाभवनम् इष्यते ॥ इति ।

कात्यायनेनाप्य् उक्तम् ।

वासरस्य तृतीये ऽंशे नातिसंध्यासमीपतः । इति ।

न चात्र चतुर्थप्रहरोत्तरार्धव्यतिरिक्तापराह्णकाले तिथियोगासंभवेन तिथियुक्तापराह्णकालाभावाद् अननुष्ठानम् एव श्राद्धस्येति वाच्यम् । यद् आह नारदीयपुराणे वसिष्ठः ।

पारणे मरणे नॄणां तिथिस् तात्कालिकी स्मृता ।
पित्र्ये ऽस्तमयवेलायां स्पृष्टा पूर्णा निगद्यते ॥ इति ।

अस्तमयवेलायां स्पृष्टा मृततिथिस् तत्तिथौ कर्तव्ये पित्र्ये आब्दिकादिश्राद्द्धे पूर्णा निगद्यत इत्य् अर्थः । अस्तमयवेलायां स्पृष्टेत्य् अनेनास्तमयसमये कलामत्रसद्भावे ऽपि। मृततिथेः पूर्णत्वम् उक्तम् इति मन्तव्यम् । यत् तु स्मृत्यन्तरम्,

दिनान्ते पञ्चनाड्यस् तु पुण्याः प्रोक्ता मनीषिभिः ।
उदये च तथा पित्र्ये दैवे चैव च कर्मणि ॥

इति, पित्र्ये कर्मणि कालत्वेन चोदिततिथिसंबन्धिन्यो दिनान्ते वर्तमानाः पञ्च नाड्यः पुण्याः ततः प्राक्तननाडीनां तिथियोगजन्यपुण्यापादिकाः न तु ततो न्यूनाः । दैवे कर्मणि कालत्वेन चोदिततिथिसंबन्धिन्य उदये सति वर्तमानाः पञ्च नाड्यः पुण्याः तत उपरितननाडीनामपि तिथियोगजन्यपुण्यापादिकाः न ततो न्यूना इति तस्यार्थः । तद् एतत्,

प्रतिअप्द्धनलाभाय द्वितीया द्विपदप्रदा ।

इत्यादिना,

श्राद्धं कुर्वन्न् अमावास्यां यत्नेन पुरुषः शुचिः ।
सर्वान् कामान् अवाप्नोति ॥॥॥॥॥॥॥॥ ॥

इत्यन्तेन काम्यश्राद्धकालतया विहितकृष्णपक्षप्रतिपदादितिथिद्वैधविषयम्, न तु श्राद्धान्तरकालतया विहिततिथिद्वैधविषयम्,

पित्र्यं श्राद्धं कृष्णपक्षे दिने ऽस्तमययोगिनि ।

इति प्रस्तुत्य तत्रैव विशेषपरत्वाभिधानाद् अस्य वचनस्य । तेन पूर्वोक्तवसिष्ठवचनेन सह न कश्चिद् विरोधः । भविष्यत्पुराणे ऽपि,

व्रतोपवासनियमे घटिकैका यदा भवेत् ।
सा तिथिः सकला ज्ञेया पित्र्ये चैवापराह्णिकी ॥ इति ।

संध्यासमीपस्थापराह्णके घटिकैका यदा भवेत् सा तिथिः पित्र्यर्थे सकला ज्ञेयेत्य् अर्थः । एवं चैवंविधविषये,

प्रारभ्य कुतपे श्राद्धं कुर्याद् आरौहिणं बुधः ।

इति वचनार्थ एव कार्यः, तदतिक्रमे कारणाभावात् । एकोद्दिष्टरूपमृताहश्राद्धे तु नवमुहूर्थाद् उपरितनमुहूर्ते मृतदिनासंभवे ऽपि मध्याह्नव्यापित्वात् “सा तिथिः सकला ज्ञेया” इति न्यायेन न कुतपे प्रारभ्य श्राद्धं रौहिणे समापनीयम्, “एकोद्दिष्टं तु मध्याने” इति स्मरणात् । यदा तु पूर्वदिने अस्तमयात् पूर्वक्षणे तिथियोगः उत्तरदिने त्व् अस्तमयाद् उपरि त्रिमुहूर्तयुक्ता तदा उत्तरम् आह श्राद्धकालं सुमन्तुः ।

उदिते दैवतं भानौ पित्र्यं चास्तमिते रवौ ।
द्विमुहूत्रा त्रिरह्नो या सा तिथिर् हव्यकव्ययोः ॥

अस्यार्थः - उदिते भानौ सत्य् अहःसंबन्धिनी दैवकर्माङ्गभूता तिथिर् या द्विमुहूर्ता भवति सा संपूर्णतिथिवत् कृत्स्नस्याह्नो हव्यदानकालताम् आपादयति । तेन तस्मिन्न् अहनित् दैवतं कर्म कुर्यात् । पितृकर्माङ्गभूता तिथिर् अस्तमिते रवौ सति या त्रिमुहूर्तम् अनुवर्तते सा कव्यदानकालतां स्वसंबद्धस्याह्न आपादयति । तेन तत्संबद्धे ऽह्नि पैतृकं पितृसंबन्धि सांवत्सरिकादि श्राद्धं कुर्याद् इति । तेनोत्तरदिने ऽस्तमयाद् उपरि त्रिमुहूर्तानुवृत्त्यभावे अस्तगामिनी पूर्वतिथिर् एव ग्राह्येत्य् उक्तं भवति । एवं च यद् उक्तं नारदीयपुराणे,

दर्शं च पूर्णमासं च पितुः सांवत्सरं दिनम् ।
पूर्वविद्धम् अकुर्वाणो नरकं प्रतिपद्यते ॥

इति, तत् उत्तरदिने अस्तमयाद् उपरि मुहूर्तत्रयानुवृत्त्यभावे द्रष्टव्यम् । यदा तु पूर्वेद्युर् अस्तगामिनी तिथिर् न भवति उत्तरेद्युर् अप्य् अस्तमिते रवौ त्रिमुहूर्तव्यापिनी न भवति किं त्व् अस्तगामिनी भवति तदापि सैव ग्राह्या “श्राद्धादाव् अस्तगामिनी” इति स्मरणात् । यदा तु दिनद्वये ऽप्य् अस्तगामिनी तिथिर् न भवति तत उत्तरेद्युर् एवास्तगामित्वरूपगुणाभावे ऽपि गुणलोपन्यायेन सांवत्सरिकश्राद्धं कर्तव्यम्, तिथियुक्तापराह्नकालसंभवात् । अकरणे विहितातिक्रमेण प्रत्यवायापत्तेश् च ॥

इति स्मृतिचन्द्रिकायां मृताहविषयाणि

मास-पक्ष-तिथि-स्पृष्ट-मृताहापरिज्ञानम्

अथ मासपक्षतिथिस्पृष्टमृताहापरिज्ञानविषयाणि

तत्र बृहस्पतिः ।

न ज्ञायते मृताहश् चेत् प्रमीते प्रोषिते सति ।
मासश् चेत् प्रतिविज्ञातः तद्दर्शः स्यान् मृते ऽहनि ॥
यदा मासो न विज्ञातो विज्ञातं दिनम् एव तु ।
तदा मार्गशिरे मासि माघे वा तद्दिनं भवेत् ॥
दिनमासौ न विज्ञातौ मरणस्य यदा पुनः ।
प्रस्थानदिनमासौ तु ग्राह्यौ पूर्वोक्तया दिशा ॥ इति ।

दिनशब्देन मृततिथिर् एवाधिगन्तव्या । प्रोषिते पित्रादाव् अप्रगल्भस्वजनसमीपे प्रमीते सति कालविशेषज्ञानाद्यभावेन मृताहो यदि न विज्ञायेत मासमात्रम् एव तु ज्ञातं तदा मृताहे यत् कार्यं तत् सर्वं मृतमासस्यामावास्यायां कर्तव्यम् इति प्रथमश्लोकस्यार्थः । “तद्दर्शस् स्यान् मृते ऽहनि” इत्य् अत्र दर्शग्रहणं तन्माससंबन्धिन्या एकादश्या अपि प्रदर्शनार्थम् । अत एव मरीचिः ।

श्राद्धविघ्ने समुत्पन्ने अविज्ञाते मृते ऽहनि ।
एकादश्यां तु कर्तव्यं कृष्णपक्षे विशेषतः ॥

“पूर्वोक्तया दिशा” इत्य् अस्यायम् अर्थः । यदि प्रस्थानमासमात्रं ज्ञातं तदा तन्मासस्यामावास्यायां सांवत्सरिकश्राद्धं कार्यम् । यदि प्रस्थानतिथिपक्षाव् एव ज्ञातौ तदा मार्गशीर्षे माघे वा मासि ज्ञातपक्षतिथिस्पृष्टदिने कार्यम् । यदा तु प्रस्थानदिनमासाद्य् अपि न ज्ञातं तदा मरणवार्ताश्रवणमासपक्षतिथिस्पृष्टदिने कार्यम् । “अपरिज्ञाते अमावास्यायां श्रवणदिने वा” इति प्रेचेतसोक्तत्वात् । यदा तु मरणवार्ताश्रवणस्याप्य् अभावः तदा त्व् आह जातूकर्ण्यः ।

पितरि प्रोषिते यस्य न वार्ता नैव चागतिः ।
ऊर्ध्वं पञ्चदशाद् वर्षात् कृत्वा तत् प्रतिरूपकम् ॥
कुर्यात् तस्य च संस्कारं यथोक्तविधिना ततः ।
तदादीन्य् एव सर्वाणि शेषकार्याणि संचरेत् ॥ इति ।

सर्वाणीति वचनान् मृताहकार्यम् अपि दहनमासपक्षतिथिस्पृष्टदिने कर्तव्यम् इति गम्यते ॥

इति स्मृतिचन्द्रिकायां मासपक्षतिथिस्पृष्टमृताहापरिज्ञानविषयाणि