०६ श्राद्धकालाः

अथ श्राद्धकालाः

तत्र याज्ञवल्क्यः ।

अमावास्याष्टका वृद्धिः कृष्णपक्षो ऽयनद्वयम् ।
द्रव्यं ब्राह्मणसंपत्तिः विषुवत् सूर्यसंक्रमः ॥
व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः ।
श्राद्धं प्रति रुचिश् चैव श्राद्धकालाः प्रकीर्तिताः ॥ इति ।

यस्यां तिथौ सूर्याचन्द्रमसोः संनिकर्षः सामावास्या । तस्यां तिथौ श्राद्धम् आवश्यकम् । तथा च लौगाक्षिः ।

श्राद्धं कुर्याद् अवश्यं तु प्रमीतपितृकः स्वयम् ।
इन्दुक्षये मासि मासि वृद्धौ प्रत्यब्दम् एव च ॥ इति ।

इन्दुक्षयो ऽमावास्या । अष्टका मार्गशीर्षादिमासचतुष्टयापरपक्षाष्टम्यः, “हेमन्तशिशिरयोश् चतुर्णाम् अपरपक्षाणाम् अष्टमीष्व् अष्टकाः” इति शौनकस्मरणात् । अत्रापि श्राद्धम् आवश्यकम्,

अमावास्याव्यतीपातपौर्णमास्यष्टकासु च ।
विद्वान् श्राद्धम् अकुर्वाणः प्रायश्चित्तियते तु सः ॥

इति पितामहस्मरणात् । वृद्धिः पुत्रादिः । अत्रापि श्राद्धम् आवश्यकम्,

वृद्धौ न तर्पिता यैर् वै देवता गृहमेधिभिः ।
तद् दानम् आसुरं सर्वम् आसुरो विधिर् एव सः ॥

इति वृद्धशातातपस्मरणात् । कृष्णपक्षो ऽपरपक्षः । अत्रापि श्राद्धं नित्यम्, “शाकेनाप्य् अपरपक्षं नातिक्रमेत्” इति कात्यायनस्मरणात् । अत्र विशेषम् आह वसिष्ठः - “अपरपक्ष ऊर्ध्वं चतुर्थ्याः पितृभ्यो दद्यात्” इति । ऊर्ध्वं चतुर्थ्याः पञ्चमीम् आरभ्येत्य् अर्थः । गौतमो ऽपि - “अथ श्राद्धम् अमावास्यायां पितृभ्यो दद्यात् पञ्चमीप्रभृति वापरपक्षस्य यथाश्राद्धं सर्वस्मिन् वा” इति । अपरपक्षस्य पञ्चमीम् आरभ्य पितृभ्यो दद्यात् सर्वस्मिन् वापरपक्षे प्रतिपदम् आरभ्येत्य् अर्थः । कात्यायनो ऽपि - “अपरपक्षे श्राद्धं कुर्वीतोर्ध्वं चतुर्थ्या यद् अहः संपद्येत” इति । चतुर्थ्या ऊर्ध्वं यस्मिन्न् अहनि द्रव्यादि संपद्येत तस्मिन् वा कुर्याद् इत्य् अर्थः । अनेनैकस्मिन्न् अहनित् श्राद्धं कुर्याद् इत्य् उक्तं भवति । उक्तं च गौतमेन - “सर्वस्मिन् वा द्रव्यदेशब्राह्मणसंनिधाने वा” इति । अत्र यथासामर्थ्यं व्यवस्था । अत एव गौतमः - “कालनियमश् शक्तितः” इति । अत्र सामर्थ्यतः कालनियमो भवतीत्य् अर्थः । यदैकस्मिन् अहनि तदा पृथग् एव अमावास्याश्राद्धं कार्यम्, “अमावास्याष्टका वृद्धिः कृष्णपक्षः” इति पृथगुपादानात्, “अपरपक्षे यद् अहः संपद्येत अमावास्यायां विशेषेण” इत् नियमस्मरणात्, तथा,

न निर्वपति यः श्राद्धं प्रमीतपितृको द्विजः ।
इन्दुक्षये मासि मासि प्रायश्चित्तीयते तु सः ॥

इति व्याघ्रेणाकरणे प्रायश्चित्तविधानाच् च । तथा “यथा कथंचिन् नित्यानि कुर्याद् इन्दुक्षयादिषु” इति हारीतेन नित्यत्वाभिधानात् । अतो यत् कैश्चिद् उक्तम् - “अमावास्याश्राद्धम् आपरपक्षिकश्राद्धेन विकल्प्यते” इति, तद् अपास्तम् । अपरपक्षे पुनर् आपस्तम्बोक्तो विशेषः - “मासि मासि कार्यम् अपरपक्षस्यापराह्णः श्रेयांस् तथापरपक्षस्य जघन्यान्य् अहानि” इति । जघन्यानि दशम्यादीनि । अत एव मनुः ।

कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् ।
श्राद्धे प्रशस्तास् तिथयो यथैता न तथेतराः ॥ इति ।

दशम्यादितिथिषु चतुर्दशीं वर्जयित्वेत्य् अर्थः । चतुर्दशी तु शस्त्रहतानाम् एव । यथाह याज्ञवल्क्यः ।

प्रतिपत् प्रभृति ख्याता वर्जयित्वा चतुर्दशीम् ।
शस्त्रेण तु हता ये वै तेभ्यस् तव प्रदीयते ॥ इति ।

शस्त्रग्रहणम् विषादेर् अपि प्रदर्शनार्थम् । अत एव मरीचिः ।

विषशस्त्रश्वापदाहितिर्यग्ब्राह्मणघातिनाम् ।
चतुर्दश्यां क्रिया कार्या अन्येषां तु विगर्हिता ॥

प्रचेता अपि ।

वृक्षारोहणलोहाद्यैः विदुज्जलविषादिभिः ।
नखिदंष्ट्रिविषन्नानां तेषां शस्ता चतुर्दशी ॥ इति ।

अत्र विशेषम् आह गर्गः ।

चतुर्दश्यां तु यच् छ्राद्धं सपिण्डीकरणात् परम् ।
एकोद्दिष्टविधानेन तत् कार्यं शस्त्रघातिने ॥ इति ।

शस्त्रघातिने यदापरपक्षिकश्राद्धं चतुर्दश्यां क्रियते तदैकोद्दिष्टविधानेन नान्यथेत्य् अर्थः । । अत एव सुमन्तुः ।

एकपिण्डीकृतानां तु पृथक्त्वं नोपपद्यते ।
सपिण्डीकरणाद् ऊर्ध्वम् ऋते कृष्णचतुर्दशीम् ॥ इति ।

यत् तु मार्कण्डेयपुराणे,

प्रतिपद्धनलाभाय द्वितीया द्विपदप्रदा ।
परार्थिनां तृतीया तु चतुर्थी शत्रुनाशिनी ॥
पञ्चम्यां श्रियम् आप्नोति षष्ट्यां पूज्यो भवेन् नरः ।
गाणाधिपत्यं सप्तम्याम् अष्टम्याम् ऋद्धिम् उत्तमाम् ॥
श्रियो नवम्याम् आप्नोति दशम्यां पूर्णकामताम् ।
वेदांस् तथाप्नुयात् सर्वान् एकादश्यां क्रियापरः ॥
द्वादश्यां जपलाभं च प्राप्नोति पितृपूजकः ।
प्र्जाम् इष्टां पशून् मेध्यान् स्वातन्त्र्यं बुद्धिम् उत्तमाम् ॥
दीर्घम् आयुस् तथैश्वर्यं कुर्वाणस् तु त्रयोदशीम् ।
अवाप्नोति न संदेहः श्राद्धं श्राद्धपरो नरः ॥
युवानः पितरो यस्य मृताः शस्त्रेण वा हताः ।
तेन कार्यं चतुर्दश्यां तेषां सिद्धिम् अभीप्सता ॥
श्राद्धं कुर्वन्न् अमावास्यां यत्नेन पुरुषः शुचिः ।
सर्वान् कामान् अवाप्नोति स्वर्गं चानन्तम् अश्नुते ॥

इति, तत् नित्यत्वनिराकरणार्थं न, किं तु कालविशेषात् फलविशेषो भवतीत्य् एवंपरम् । अत एव आपस्तम्बः - “सर्वेष्व् एवापरपक्षस्याहःसु क्रियमाणे पितॄन् प्रीणाति कर्तुस् तु कालनियमात् फलविशेषः” इति । प्रकृतम् उच्यते - अयनद्वयं मकरकर्कटकसंक्रान्ती । अत्रापि श्राद्धं नित्यम् । अत एव विष्णुपुराणे पराशरः ।

उपप्लवे चन्द्रमसो रवेश् च त्रिष्व् अष्टकास्व् अप्य् अयनद्वये च ।
पानीयम् अप्य् अत्र तिलैर् विमिश्रं दद्यात् पितृभ्यः प्रयतो मनुष्यः ॥
श्राद्धं कृतं तेन समाः सहस्रं रहस्यम् एतत् पितरो वदन्ति ॥

अत्र पानीयम् अप्य् अत्रेति वचनाद् अयनश्राद्धं नित्यम् इति गम्यते । जातूकर्ण्यो ऽपि ।

ग्रहोपरागे विषुवे च जाते पित्र्ये मघायाम् अयनद्वये च ।
नित्यं च शङ्खे च तथैव पद्मे दत्तं भवेन् निष्कसहस्रतुल्यम् ॥ इति ।

अत्र नित्यं दत्तं निष्कसहस्रतुल्यम् इत्य् अन्वयः । पित्र्ये नभस्यापरपक्षे या मघा तस्याम् इत्य् अर्थः । शङ्खादिस्वरूपममि (?) तेनैवोक्तम् ।

शङ्खं प्राहुर् अमावास्यां क्षीणसोमां द्विजोत्तमाः ।
अष्टकासु भवेत् पद्मं तत्र दत्तं यथाक्षयम् ॥ इति ।

अथ वा पद्मं शङ्खोक्तम् ।

यथा विष्टिर् व्यतीपातो भानुवरस् तथैव च ।
पद्मकं नाम तत् प्रोक्तम् अयनाच् च चतुर्गुणम् ॥ इति ।

यत् तु विष्णुनोक्तम् - “आदित्यसंक्रमो विषुवद्द्वयं व्यतीपातो जन्मर्क्षम् अभ्युदयश् च,

एतांश् च श्राद्धकालान् वै काम्यान् आह प्रजापतिः ।
श्राद्धम् एतेषु यद् दत्तं तद् आनन्त्याय कल्पते” ॥

इति, तद् अपि न नित्यत्वनिराकरणार्थम् । वचनद्वयेनाग्निहोत्रादिवन् नित्यत्वकाम्यत्वयोर् अविरोधात् । द्रव्यं ब्राह्मणसंपत्तिर् इति, द्रव्यस्य श्राद्धार्हस्य ब्राह्मणस्य वा वक्ष्यमाणस्य संपत्तिर् लाभो यस्मिन् काले सः श्राद्धकाल इत्य् अर्थः । अत्रापि श्राद्धम् आवश्यकम् । यथाह हारीतः ।

तीर्थे द्रव्योपपत्तौ तु न कालम् अवधारयेत् ।
पात्रं च ब्राह्मणं प्राप्य सम्यक् छ्राद्दं विधीयते ॥ इति ।

तीर्थं गङ्ग्दि । विषुवत् मेषे तुलायां च सूर्यसंक्रमः । अत्र पुलस्त्योक्तो विशेषः ।

अयनद्वितये श्राद्धं विषुवद्द्वितये तथा ।
युगादिषु च सर्वासु पिण्डनिर्वापणाद् ऋते ॥ इति ।

सूर्यसंक्रमः सूर्यस्य राशितो राश्यन्तरगमनम् । सूर्यसंक्रम इत्य् अनेनैव संक्रान्तिमात्रसिद्धौ अयने विषुवे चेति पृथग्वचनं फलभूयस्त्वार्थम् । अत एव शङ्खः ।

हस्तिच्छायासु यद् दत्तं यद् दत्तं राहुदर्शने ।
विषुवत्य् अयने चैव सर्वम् आनन्त्यम् अश्नुते ॥ इति ।

व्यतीपातो योगविशेषः वृद्धमनुनोक्तः ।

श्रवणाश्विधनिष्ठार्द्रानागदैवतमस्तकैः ।
यद्य् अमा रविवारेण व्यतीपातः स उच्यते ॥ इति ।

यद्य् अमावास्या रविवारेण श्रवणादिना च युक्ता स व्यतीपात इत्य् अर्थः । नागदैवतम् आश्लेषानक्षत्रम् । मस्तकं मृगशिराः । तत्रापि श्राद्धं नित्यम्,

अमावास्याव्यतीपातपौर्णमास्यष्टकासु च ।
विद्वान् श्राद्धम् अकुर्वाणः प्रायश्चित्तीयते तु सः ॥

इति पितामहस्मरणात् । गजच्छाया हस्तिच्छाया, तस्यां श्राद्धं दद्यात् । तथा काठकश्रुतिः - “एतद् धि देवपितॄणाम् अयनं यद् धस्तिच्छायायां श्राद्धं दद्यात्” इति । महाभारते ऽपि -

आजेन सर्वलोहेन वर्षासु नियतव्रतः ।
हस्तिच्छायासु विधिवत् कर्णव्यजनवीजितम् ॥ इति ।

श्राद्धं दद्याद् इति शेषः । कर्णव्यजनवीजितम् इत्य् अनेनैतद् धस्तिच्छायाविषयम् इत्य् अवगम्यते । मनुर् अपि ।

अपि नः स कुले भूयाद् यो नो दद्यात् त्रयोदशीम् ।
पायसं मधुसर्पिर्भ्यां प्राक्छाये कुञ्जरस्य च ॥ इति ।

प्राची छाया यस्य देशस्य स प्राक्छायः, तस्मिन्न् इत्य् अर्थः । अथ वा पारिभाषिकी गजच्छाया । सा च स्मृत्यन्तरे दर्शिता ।

यदेन्दुः पितृदैवत्ये हंसश् चैव करे स्थितः ।
तिथिर् वैश्रवणी या च गजच्छायेति सा स्मृता ॥ इति ।

पितृदैवत्ये मखायाम् । हंसः सूर्यः । करो हस्तनक्षत्रम् । वैश्रवणी त्रयोदशी । पुराणे ऽपि ।

हंसे हस्तस्थिते या तु मखायुक्ता त्रयोदशी ।
तिथिर् वैश्रवणी नाम सा छाया कुञ्जरस्य तु ॥
हंसे करस्थिते या तु अमावास्या करान्विता ।
सा छाया कुञ्जरच्छाया इति बोधायोनो ऽब्रवीत् ॥
वनस्पतिगते सोमे या छाया प्राङ्मुखी भवेत् ।
गजच्छाया तु सा प्रोक्ता तस्यां श्राद्धं प्रकल्पयेत् ॥ इति ।

अमावास्यायाम् अपराह्ण् इत्य् अर्थः ।

सैंहिकेयो यदा सूर्यं ग्रसते पर्वसंधिषु ।
गजच्छाया तु सा प्रोक्ता तस्यां श्राद्धं प्रकल्पयेत् ॥

सैंहिकेयो राहुः । अत्र फलविशेषो वायुपुराणे दर्शितः ।

घृतेन भोजयेद् विप्रान् घृतं भूमौ समुत्सृजेत् ।
छायायां हस्तिनश् चैव दत्वा श्राद्धं न शोचति ॥

श्रीविष्णुधर्मोत्तरे ऽपि ।

गयायां दर्शने राहोः खड्गमांसेन योगिनम् ।
भोजयेच् च कुले ऽस्माकं छायायां कुञ्जरस्य च ॥
आकल्पिकी तु सा तृप्तिस् तेनास्माकं भविष्यति ।
दाता सर्वेषु लोकेषु कामचारी भविष्यति ॥
यदैतत् पञ्चकं न स्याद् एकेनापि वयं सदा ।
तृप्तिं प्राप्स्याम चानन्तां किं पुनः सर्वसंपदा ॥ इति ।

तथा भोक्तुर् अपि दोषः स्मृत्यन्तरे दर्शितः ।

कृष्णाजिनप्रतिग्राही विक्रयी वा भवेत् तु यः ।
गजच्छायाश्रितो भुक्त्वा न भूयः पुरुषो भवेत् ॥

ग्रहणं चन्द्रसूर्ययोर् इति, ग्रहणम् उपरागः । अत्रापि श्राद्धं नित्यम् । अत एव शातातपः ।

सर्वस्वेनापि कर्तव्यं श्राद्धं वै राहुदर्शने ।
अकुर्वाणस् तु तच् छ्राद्धं पङ्के गौर् इव सीदति ॥

तथात्र फलविशेषो विष्णुना दर्शितः ।

राहुदर्शनदत्तं हि श्राद्धम् आचन्द्रतारकम् ।
गुणवत् सर्वकामीयं पितॄणाम् उपतिष्ठति ॥ इति ।

ऋष्यशृङ्गो ऽपि ।

राहुग्रस्ते तु वै सूर्ये यस् तु श्राद्धं प्रकल्पयेत् ।
तेन वै सकला पृथ्वी दत्ता विप्रस्य वै करे ॥ इति ।

अत्र कालनियमम् आह वृद्धवसिष्ठः ।

त्रिदशाः स्पर्शसमये तृप्यन्ति पितरस् तथा ।
मनुष्या मध्यकाले तु मोक्षकाले तु राक्षसाः ॥ इति ।

यत् तु मार्कण्डेयपुराणे,

विशिष्टब्राह्मणप्राप्तौ सूर्येन्दुग्रहणे ऽयने ।
विषुवे रविसंक्रान्तौ व्यतीपाते च पुत्रके ॥
श्राद्धार्हद्रव्यसंप्राप्तौ तथा दुःस्वप्नदर्शने ।
जन्मर्क्षग्रहपीडासु श्राद्धं कुर्वीत चेच्छया ॥

इति — इच्छा कामः तदापि (तद् अपि?) श्राद्धं कुर्वीतेत्य् एवंपरम्, न पुनः काम्यम् एवेति वक्तुम् । अत एव कूर्मपुराणे ।

नैमित्तिकं तु कर्तव्यं ग्रहणे चन्द्रसूर्ययोः ।
बान्धवानां च मरणे नरकी (?) स्यात् ततो ऽन्यथा ॥
काम्यानि चैव श्राद्धानि शस्यन्ते ग्रहणादिषु ॥ इति ।

“श्राद्धं प्रति रुचिः” इति - रुचिर् इच्छा श्राद्धं प्रति यदा तदैव तत् कार्यम् इत्य् अर्थः । चकारो ऽन्येषाम् अपि श्राद्धकालानां प्रदर्शनार्थः । अत एव यमः ।

आषाढ्याम् अपि कार्तिक्यां माघ्यां त्रीन् पञ्च वा द्विजान् ।
तर्पयेत् पितृपूर्वं तु तस्याप्य् अक्षय्यम् उच्यते ॥

देवलो ऽपि ।

तृतीया रोहिणीयुक्ता वैशाखस्य सिता तु या ।
मधाभिः सहिता कृष्णा नभस्ये तु त्रयोदशी ॥
तथा शतभिषः शुक्ता कार्तिके नवमी तथा ।
इन्दुक्षयगजच्छायावैधृतीषु युगादिषु ॥
एते कालाः समुद्दिष्टाः पितॄणां प्रीतिवर्धनाः ॥ इति ।

युगादयस् तु मत्स्यपुराणे दर्शिताः ।

वैशाखस्य तृतीया तु नवमी कार्तिकस्य तु ।
माधे पञ्चदशी चैव नभस्ये च त्रयोदशी ।
युगादयः स्मृता ह्य् एता दत्तस्याक्षयकारकाः ॥ इति ।

विष्णुपुराणे ऽपि ।

वैशाखमासस्य सिता तृतीया नवम्य् असौ कारित्कशुक्लपक्षे ।
नभस्यमासस्य च कृष्णपक्षे त्रयोदशी पञ्चदशी च माघे ॥
पानीयम् अप्य् अत्र तिलैर् विमिश्रं दद्यात् पितृभ्यः प्रयतो मनुष्यः ।
श्राद्धं कृतं तेन समाः सहस्रं रहस्यम् एतत् पितरो वदन्ति ॥

अत्र शुक्लपक्षे तृतीया, पञ्चदशी कृष्णपक्षे इत्य् अन्वयः । अत एव नारदीयपुराणम् ।

द्वे शुक्ले द्वे च कृष्णे तु युगाद्याः कवयो विदुः ॥ इति ।

ब्रह्मपुराणे तु माधस्य पौर्णमासी युगादिर् इत्य् उक्तम् ।

वैशाखशुक्लपक्षस्य तृतीयायां कृतं युगम् ।
कार्तिके शुक्लपक्षे च त्रेता च नवमे ऽहनि ॥
अथ भाद्रपदे कृष्णे त्रयोदश्यां तु द्वापरम् ।
माघे च पौर्णमास्यां तु घोरं कलियुगं तथा ॥
युगारंभास् तु तिथयो युगाद्यास् तेन विश्रुताः ।
सूर्यस्य सिंहसंक्रान्त्याम् अन्तं कृतयुगस्य तु ॥
अथ वृश्चिकसंक्रान्त्याम् अन्तं त्रेतायुगस्य तु ।
ज्ञेयो वृषभसंक्रान्त्यां द्वापरान्तश् च संख्यया ॥
तथा च कुम्भसंक्रान्त्याम् अन्तः कलियुगे स्मृतः ।
युगादिषु युगान्तेषु श्राद्धम् अक्षय्यम् उच्यते ॥ इति ।

पुराणे ऽपि ।

वैशाखस्य तृतीया या नवमी कार्तिकस्य तु ।
पौर्णमासी तु माधस्य नभस्ये च त्रयोदशी ॥
युगादयः स्मृता ह्य् एता दत्तस्याक्षयकारकाः ।
तथा मन्वन्तरादौ च देयं श्राद्धं विजानता ॥ इति ।

अत्र कल्पभेदेन व्यवस्थेति केचित् । अत्र पुलस्त्योक्तो विशेषः ।

अयनद्वितये श्राद्धं विषुवद्द्वितये तथा ।
युगादिषु च सर्वेषु पिण्डनिर्वापणाद् ऋते ॥

मन्वन्तरादयस् तु मत्स्यपुराणे दर्शिताः ।

अश्वयुक्छुक्लनवमी कार्तिके द्वादशी सिता ।
तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ।
फाल्गुनस्य त्व् अमावास्या पुष्यस्यैकादशी सिता ॥
आषाढस्यापि दशमी माघमासस्य सप्तमी ।
श्रावणस्याष्टमी कृष्णा तथाषाढी च पूर्णिमा ॥
कार्तिकी फाल्गुनी चैत्रे ज्येष्ठे पञ्चदशी सिता ।
मन्वन्तरादयस् त्व् एते दत्तस्याक्षय्यकारकाः ॥

इति स्मृतिचन्द्रिकायां श्राद्धकालाः

अमावास्याद्वैधनिर्णयः

अथ अमावास्याद्वैधनिर्णयः

तत्र गौतमः - “अथ श्राद्धम् अमावास्यायां पितृभ्यो दद्यात्” इति । अमावास्या कृष्णपक्षस्य पञ्चदशी तिथिः । तस्यां श्राद्धं कार्यम् इत्य् अर्थः । तत्र कात्यायनोक्तो विशेषः ।

पिण्डान्वहार्यकं श्राद्धं क्षीणे राजनि शस्यते ।
वासरस्य तृतीये ऽंशे नातिसंध्यासमीपतः ॥ इति ।

पिण्डपितृयज्ञाङ्गभूतानां पिण्डानाम् अनु पश्चाद् आह्रियते क्रियत इति पिण्डान्वाहार्यकं श्राद्धम् अमावास्यायां क्षीणे राजनि इन्दौ कर्तव्यम् इत्य् अर्थः । सो ऽपीन्दुक्षयः कदा भवतीत्य् अपेक्षिते स एवाह ।

अष्टमांशे चतुर्दश्याः क्षीणो भवति चन्द्रमाः ।
अमावास्याष्टमांशे च पुनः किल भवेद् अणुः ॥ इति ।

एवं च तिथिद्वैधे सिनीवाल्याम् एव श्राद्धं कार्यम् इत्य् उक्तं भवति । उक्तं च व्यासेन ।

दृष्टचन्द्रा सिनीवाली नष्टचन्द्रा कुहूर् मता ।
सिनीवाली यदा पित्र्ये कुहूर् दैवे तु कर्मणि ॥

हारीतो ऽपि ।

यस्यां संध्यागतः सोमो मृणालम् इव दृश्यते ।
अपराह्णे क्शयस् तस्यां पिण्डानां करणं ध्रुवम् ॥ इति ।

यस्यां तिथौ शर्वर्यां पूर्वस्यां दिशि संध्यागतः सोमः सूक्ष्म इव दृश्यते तस्याम् अपराह्णे चन्द्रक्षय इति तत्रैव श्राद्धं कार्यम् इत्य् अर्थः । एतच् च कर्मकालव्यापिन्यां सिनीवाल्यां द्रष्टव्यम्, अन्यथा दोषश्रवणात् । तथा च बोधायनः ।

मध्याह्नात् परतो यत्र चतुर्दश्य् अनुवर्तते ।
सिनीवाली तु सा ज्ञेया पितृकार्ये तु निष्फला ॥ इति ।

उक्तलक्षणा सिनीवाली पितृकार्ये निष्फलेति ज्ञेयेत्य् अर्थः । बृहस्पतिर् अपि ।

मध्याह्नाद् या अमावास्या परस्तात् सम्प्रवर्तते ।
भूतविद्धा तु सा ज्ञेया न सा पञ्चदशी भवेत् ॥

मध्याह्नात् परस्तात् कर्मकालम् अतिक्रमेत्य् अर्थः । अनेनैवाभिप्रायेण कार्ष्णाजिनिर् अपि ।

भूतविद्धाम् अमावास्यां मोहाद् अज्ञानतो ऽपि वा ।
श्राद्धकर्मणि ये कुर्युस् तेषाम् आयुः प्रहीयते ॥ इति ।

अतः कर्मकालव्यापिन्य् एव सिनीवाली ग्राह्येत्य् अर्थः । अत एव वृद्धमनुः ।

यस्याम् अस्तं रविर् याति पितरस् ताम् उपासते ।
तिथिं तेभ्यो यतो दत्तो ह्य् अपराह्णः स्वयंभुवा ॥ इति ।

यदा त्व् एवंविधा सनीवाली न लभ्यते तदा कर्मकालव्यापिनी कुहूर् एव ग्राह्येत्य् आह हारीतः ।

अपराह्णः पितॄणां तु यापराह्णानुयायिनी ।
सा ग्राह्या पितृकार्येषु न पूर्वास्तानुयायिनी ॥

या कुहूर् अपराह्णानुयायिनी सैव ग्राह्या, न पुनर् एवंविधा सिनीवालीत्य् अर्थः । एवं च तिथिद्वैधे या कर्मकालव्यापिनी सैव ग्राह्येत्य् उक्तं भवति । उक्तं च तेनैव ।

भूतविद्धाप्य् अमावास्या प्रतिपन्मिश्रितापि वा ।
पित्र्ये कर्मणि विद्वद्भिः ग्राह्या कुतुपकालिका ॥

भूतविद्धा चतुर्दशीविद्धा । स्मृत्यन्तरे ऽपि ।

मध्याह्नव्यापिनी या तु तिथिः पूर्वा परापि वा ।
तद् अहः कर्म कुर्वीत ह्रासवृद्धी न कारणम् ॥ इति ।

यदा तु तिथिद्वये ऽपि कर्मकालव्यापिनी न भवति तदा भूतविद्धैव परिग्राह्येत्य् आह बोधायनः ।

घटिकैकाप्य् अमावास्या प्रतिपत्सु न चेत् तथा ।
भूतविद्धापि कर्तव्या दैवे पित्र्ये च कर्मणि ॥ इति ।

प्रतिपत्सु घटिकैका कर्मकालसंबन्धिनी यदि न स्याद् इत्य् अर्थः । अत एव जाबालिः ।

प्रतिपत्स्व् अप्य् अमावास्या पूर्वाह्णव्यापिनी यदि ।
भूतविद्धापि सा कार्या पित्र्ये कर्मणि सर्वदा ॥ इति ।

एवं च यद् उक्तं हारीतेन,

पूर्वाह्णे चेद् अमावास्या अपराह्णे च चेत् तु सा ।
प्रतिपद्य् अपि कर्तव्यं श्राद्धं श्राद्धविदो विदुः ॥

इति, यत् यत्र पूर्वेद्युश् चन्द्रदर्शनासंभवेन पिण्डपितृयज्ञोत्कर्षः, तत्र प्रतिपदि पिण्डपितृयज्ञविधानार्थम्, अन्यथा पूर्वोक्तवचनविरोधात् । यद् अपि तेनैवोक्तम्,

तुलामकरमीनेषु कन्यायां मिथुने तथा ।
भूतविद्धाप्य् अमावास्या पूज्या भवति यत्नतः ॥

इति, एतत् व्रतोपवासादिविषयम् इति कैश्चिद् व्याख्यातम् । यदा तु तिथिद्वये ऽपि कर्मकालव्यापिनी तदा प्रचेतसोक्तम् ।

सिनीवाली कुहूश् चैव श्रुत्युक्ते श्राद्धकर्मणि ।
स्यायां चेत् ते तु मध्याह्ने श्राद्धं दद्यात् कथं तदा ॥
तिथिक्षये सिनीवाली तिथिवृद्धौ कुहूस् तथा ।
साम्ये ऽपि च कुहूर् ज्ञेया वेदवेदाङ्गवेदिभिः ॥

साम्ये क्षयवृद्ध्यभावे । एवम् अविशेषेण सर्वेषाम् अपि क्षये सिनीवल्याम् एव श्राद्धप्राप्तौ विशेषार्थम् आह लौगाक्षिः ।

सिनीवाली द्विजैः कार्या साग्निकैः पितृकर्मणि ।
स्त्रीभिः शूद्रैः कुहूः कार्या तथा चानग्निकैर् द्विजैः ॥ इति ।

एवं च क्षये साग्निकैः सिनीवाल्यां श्राद्धं कार्यम् । वृद्धौ तु सर्वैर् एव परेद्युः कार्यम् इत्य् अनुसंधेयम् ।

नन्व् एवम् अपि न क्षयमात्रे साग्निकैः सनीवाली ग्राह्या । यत्र क्षये सिनीवाल्यां पिण्डपितृयज्ञः तत्रैव । अन्यथा,
पितृयज्ञं तु निर्वर्त्य विप्रश् चन्द्रक्षये ऽग्निमान् ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यान् मासानुमासिकम् ॥

इति मनुना साग्निकैः कृते पिण्डपितृयज्ञे श्राद्दविधानाघटनात् । अतो यत्र क्षये कुह्वां पिण्डपितृयज्ञस् तत्र साग्निकैर् अपि सैव ग्राह्येति ।

मैवम्, दिनद्वये ऽपि मध्याह्नव्यापित्वे क्षये सिनीवाल्याम् एव चन्द्रदर्शनसंभवेन कदाचिद् अपि पिण्डपितृयज्ञाप्राप्तेः “यद् अहश् चन्द्रमसं न पश्यन्ति तद् अहः पिण्डपितृयज्ञं कुर्वीत” इत्य् आपस्तम्बेन चन्द्रादर्शन एव पिण्डपितृयज्ञविधानात् । चन्द्रादर्शनं च यत्र चतुर्दशी मुहूर्तत्रयाद् अर्वाग् एव समाप्यते तत्रैवेति ज्योतिःशास्त्रे प्रसिद्धम् । अतो यत्र श्राद्धदिने चन्द्रादर्शने च पिण्डपितृयज्ञप्राप्तिः तत्राग्निमान् कृत्वैव पितृयज्ञं श्राद्धं कुर्याद् इति मनुना नियम्यते, न पुनः सर्वत्र कृतपिण्डपितृयज्ञस्यैव अग्निमतः श्राद्धाधिकार इति पितृयज्ञशब्दस्य पिण्डपितृयज्ञपरत्वम् अङ्गीकृत्वोक्तम् । परमार्थतस् तु पितृयज्ञशब्दः तर्पणाख्यपितृयज्ञपर एव । तद् उक्तं मत्स्यपुराणे ।
पितृयज्ञं तु निर्वर्त्य तर्पणाख्यं तु यो ऽग्निमान् ।
पिण्डान्वाहार्यकं कुर्याच् छ्राद्धम् इन्दुक्षये सदा ॥ इति ।

इति स्मृतिचन्द्रिकायाम् अमावास्याद्वैधनिर्णयः

अमावास्याविषयान्तरम्

अथान्यान्य् अप्य् अमावास्यविषयाणि कानिचिद् वचनानि लिख्यन्ते

तत्र व्यासः ।

अमा वै सोमवारेण रविवारेण सप्तमी ।
चतुर्थी भौमवारेण विषुवत् सदृशं फलम् ॥

अमा अमावास्या । शङ्खो ऽपि ।

अमावास्या तु सोमेन सप्तमी भानुना सह ।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी ॥
चतस्रस् तिथयस् त्व् एताः तुल्याः स्युर् ग्रहणादिभिः ।
सर्वम् अक्षयम् अत्रोक्तं स्नानदानजपादिकम् ॥

भूमिपुत्रो मङ्गलः । सोमपुत्रो बुधः । श्रीविष्णुपुराणे ऽपि ।

अमावास्या यदा मैत्रविशाखास्वातियोगिनी ।
श्राद्धे पितृगणस् तृप्तिम् अवाप्नोत्य् अष्टवार्षिकीम् ॥

मैत्रम् अनूराधा ।

अमावास्या यदा पुष्ये रौद्र ऋक्षे पुनर्वसौ ।
द्वादशाब्दं तदा तृप्तिं प्रयान्ति पितरो ऽर्चिताः ॥

रौद्रम् आर्द्रा ।

वासवाजैकपादृक्षे पितॄणां तृप्तिम् इच्छताम् ।
वारुणेनाप्य् अमावास्या देवानाम् अपि दुर्लभा ॥

वासवं वसुदैवत्यं धनिष्ठानक्षत्रम् । अजैकपादृक्षं पूर्वभाद्रनक्षत्रम् । वारुणं शतभिषङ्नक्षत्रम् ।

माघासिते पञ्चदशी कदाचिद् उपैति योगं यदि वारुणेन ।
ऋक्षेण कालः स परः पितॄणां न ह्य् अल्पपुण्यैर् उपलभ्यते ऽसौ ॥
काले धनिष्ठा यदि नाम तस्मिन् भवेत् तु भूपाल तदा पितृभ्यः ।
दत्तं जलान्नं प्रददाति तृप्तिं वर्षायुतं तत् कुलजैर् मनुष्यैः ॥

तस्मिन् काले माघासितपञ्चदश्यम् इत्य् अर्थः ।

तत्रैव चेद् भाद्रपदास् तु पूर्वाः काले तदा यत् क्रियते पितृभ्यः ।
श्राद्धं परां तृप्तिम् उपेत्य तेन युगान् सहस्रं पितरः स्वपन्ति ॥

तत्रैव तस्याम् एव पञ्चदश्याम् इत्य् अर्थः ॥

इति स्मृतिचन्द्रिकायाम् अमावास्याविषयाणि

पर्व

अथ प्रसङ्गात् पर्वापि निर्णीयते

तत्र गोबिलः - “यः परमो विप्रकर्षः सूर्याचन्द्रमसोः सा पौर्णमासी, यः परमः संनिकर्षः सामावास्या” इति । ते च द्विविधे, तथा च पुराणम् ।

राका चानुमतिश् चैव पौर्णमासी द्विधा स्मृता ।
सिनीवाली कुहूश् चैव अमावास्या द्विधैव तु ॥ इति ।

अत्रानुमतिः सिनीवाली च चतुर्दशीमिश्रा, राका कुहूश् च प्रतिपन्मिश्रे । तथा च श्रुतिः - “या पूर्वा पौर्णमासी सानुमतिः, योत्तरा सा राका, या पूर्वामावास्या सा सिनीवाली, योत्तरा सा कुहूः” इति । अत्र व्यवस्थया कर्मनिर्णयम् आह गोभिलः - “पक्षान्ता उपवस्तव्याः पक्षादयो ऽभियष्टव्याः” इति । पक्षान्ताः पञ्चदश्य उपवस्तव्यास् तास्व् अन्वाधानादि कार्यम् । पक्षादयः प्रतिपदः, ता अभियष्टव्याः । तासु हस्तावनेजनाद्य् अभीज्या कार्येत्य् अर्थः । अत्र लौगाक्षिणोक्तो विशेषः ।

त्रीन् अंशान् औपवस्तस्य यागस्य चतुरो विदुः ।
द्वाव् अंशाव् उत्सृजेद् अन्त्यौ यागे च व्रकर्मणि ॥

अन्त्यः पादः पञ्चदश्या औपवस्ते ऽन्वाधानादौ परिहर्तव्यः, पक्षादेश् चान्त्यः पादः यागे परिहरणीय इत्य् अर्थः । कथं तर्हि यागे चतुर इत्य् अपेक्षिते यज्ञपार्श्वः ।

पञ्चदश्याः परः पादः पक्षादेः प्रथमास् त्रयः ।
कालः पार्वणयागे स्याद् अन्यथा तु न विद्यते ॥

वृद्धशातातपो ऽपि ।

पर्वणो यश् चतुर्थो ऽंश आद्याः प्रतिपदस् त्रयः ।
यागकालः स विज्ञेयः प्रातर् उक्तो मनीषिभिः ॥ इति ।

अनेन प्रतिपच्चतुर्थांशे न यष्टव्यम् इत्य् उक्तं भवति । उक्तं च कात्यायनेन ।

न यष्टव्यं चतुर्थांशे यागैः प्रतिपदः क्वचित् ।
रक्षांसि तद् विलुम्पन्ति श्रुतिर् एषा सनातनी ॥ इति ।

यत् तु श्रुतौ “संधौ यजेत” इति, तत्र संधेर् अतिसूक्ष्मत्वात् तत्र यागानुपपत्तेः तत् समीपकाललक्षणायां प्रस्तुतायाम् अविशेषात् संधिशब्दः संनिहितपर्वप्रतिपदात्मककालद्वयपर इत्य् अविरोधः । अत एव श्रुत्यन्तरम् “संधिम् अभितो यजेत” इति । पर्वप्रतिपदोः संधिम् अभित उभयतो यजेतेत्य् अर्थः । अतो यत्र पर्वचतुर्थांशे यागस् तत्रादिप्रतिपद्य् एव यागसमाप्तिः, अन्यथा “संधिम् अभितः” इति श्रुतिविरोधात् । उक्तं च गर्गेण ।

प्रतिपद्य् अप्रविष्टायां यदा त्व् इष्टिः समाप्यते ।
पुनः प्रणीय कृत्स्नेष्टिः कर्तव्या यागवित्तमैः ॥ इति ।

प्रतिपद्योगे तु संधेः पूर्वम् अग्न्यन्वाधानाद् इत्य् अविरोधः । संधिपरिज्ञाने तु स्मृत्यन्तरे विशेषो दर्शितः ।

तिथेः परस्या घटिकास् तु याः स्युः न्यूनास् तथा चाभ्यधिकास् तु तासाम् ।
अर्धं वियोज्यं च तथा प्रयोज्यं ह्रासे च वृद्धौ प्रथमे दिने तत् ॥ इति ।

परस्यास् तिथेः प्रतिपदो या घटिकाः पूर्वस्यास् तिथेः स्युः न्यूना अधिका वा तासाम् अर्धं पूर्वस्मिन् दिने ह्रासे वियोज्यं वृद्धौ तु संयोज्यम् इत्य् अर्थः । अनेन राकाकुह्वोर् उत्तरे ऽहनि च यत् पर्वप्रतिपदयोः घटिकावृन्दं तदहर्भिर् इतं तद् एकीकृत्य द्वेधा विभज्य संधिपरिज्ञानं कार्यम् इत्य् उक्तं भवति । एवं च यस्मिन्न् अहनि पर्वसंधिस् तस्मिन्न् उत्तरेद्युर् वा प्रातः पर्वचतुर्थांशादिविहितसंधिसंभवः तत्रैव यागो नान्यत्रेत्य् अनुसंधेयम् । अत एव लौगाक्षिः ।

पूर्वाह्णे वाथ मध्याह्ने यदि पर्व समाप्यते ।
उपोष्य तत्र पूर्वेद्युः तद् अहर् याग इष्यते ॥
अपराह्णे ऽथ वा रात्रौ यदि पर्व समाप्यते ।
उपोष्य तस्मिन्न् अहनि श्वोभूते याग इष्यते ॥ इति ।

तत्रैव विहितकालसंभवाद् इति भावः । गृह्यकारिकापि ।

पञ्चदशी प्रतिपच् च समेते एकदिने महती यदि तस्मिन् ।
पञ्चदशी प्रकृतेर् उपवासः पञ्चदशीह तनुर् यदि यागः ॥ इति ।

समेते संबद्धे इत्य् अर्थः । अनेनैवाभिप्रायेण आपस्तम्बो ऽपि - “यद् अहः पुरस्ताच् चन्द्रमाः पूर्ण उत्सर्पेत् तां पौर्णमासीम् उपवसेत् । श्वः पूरितेति वा । खर्विकां तृतीयां वाजसनेयिनः समामनन्ति । यद् अहर् न दृश्यते तद् अहर् अमावास्या । श्वो नद्रष्टार इति वा” इति । तत्र खर्विकासूत्रस्यार्थ उपरिष्टाद् भविष्यति । यद् अहः पुरस्ताच् चन्द्रमाः पूर्ण उत्सर्पेत् यद् अहर् न दृश्यते इति च सूत्रद्वयस्यायम् अर्थः । सर्वथा तावद् राकाकुह्वोर् एव चन्द्रमसः पूर्णत्वम् अदर्शनत्वं चेति ज्योतिःशास्त्रे प्रसिद्धम् । तत्र यस्मिन्न् अहनि पुरस्तात् पूर्वस्यां दिशि चन्द्रमाः पूर्ण उत्सर्पेत् उदयान् न दृश्येत वा तत्र यद्य् अप्य् अपराह्णे रात्रौ वा सर्वसंधिः तदा पौर्णमासीम् अमावास्यां वोपवसेद् इति । यदा तु पूर्वाह्णे वा मध्यन्दिने वा पर्वसंधिस् तदा यस्याह्नश् चन्द्रमाः पूरिता पूर्णो भविता यस्यां वा नद्रष्टारो नेक्षितारो भवेयुः ताम् अनुमतिं सिनीवालीं वोपवसेद् इति श्वःपूरिता श्वो नद्रष्टार इति वेति सूत्रद्वयस्यायम् अर्थः । उक्तं च भाष्यार्थसंग्रहकारेण ।

अपराह्णे ऽथ वा रात्रौ यदि पर्व समाप्यते ।
उपोष्या तत्र राका स्यात् सा पूर्णोत्सर्पिलक्षणा ॥
पूर्वाह्णे वाथ मध्याने यदि पर्व समाप्यते ।
उपोष्यानुमतिस् तत्र सा श्वःपूरितलक्षणा ॥
अपराह्णे क्षपायां वा पर्वसंधिर् भवेद् यदि ।
उपोष्या तु कुहूस् तत्र यद् अहर् नेतिलक्षणा ॥
पूर्वाह्णे वाथ मध्याह्ने पर्वसंधिर् यदा भवेत् ।
तत्रोपोष्या सिनीवाली श्वो नद्रष्टारलक्षणा ॥ इति ।

तत्र पूर्वाह्णापराह्णशब्दाभ्यां द्वेधा विभक्तस्याह्नः पूर्वापरभागौ प्रतिपाद्येते । मध्याह्नशब्देन तु तयोसंधिर् इत्य् अनुसंधेयम् ।

नन्व् अत्र पूर्वाह्णादिशब्दानां त्रेधा विभक्तस्याह्नः क्रमेण भागत्रयपरत्वम् अस्तु ।
मैवम्, तस्मिन् पक्षे मध्याह्नस्यावर्तनाद् उपरि घटिकापञ्चकपर्यन्तत्वात् तत्र संधौ तद् अहर् एव यागः प्रसज्येत । न च प्रसज्यताम् इति वाच्यम्, तत्र प्रातः पर्वचतुर्थांशादिविहितकालासंभवेन “पर्वणो यश् चतुर्थो ऽंशः” इत्यादिवचनविरोधात् ।
ननु द्वेधा विभागेन यत्रावर्तनाद् उपरि घटिकामात्रे पर्वसंधिः तत्रोत्तरेद्युर् एव याग इति तत्रापि कालासंभवाद् वचनविरोधस् तुल्य एव ।
मैवम्, “पर्वणो यश् चतुर्हो ऽंशः” इत्यादिकालस्य यागान्वयावगतेः भवितव्यं तावद् यागस्य कालान्वयेनेत्य् उपगन्तव्यम् । एवं च तत्रोत्तरेद्युर् यागे क्रियमाणे न यागस्य कालान्वय इति पूर्वेद्युर् एव याग इत्य् अविरोधः । एवं सर्वत्र द्रष्टव्यम् ।
नन्व् एवं तर्ह्य् अपराह्णसंधाव् उत्तरेद्युर् यागविधानं विरुध्येत ।
मैवम्, यत्रापराह्णे पर्वसंधाव् उत्तरेद्युः प्रतिपच्चतुर्थांशे यागो न भवति, तथाविधापराह्णस्यैवात्र ग्रहणम् इत्य् अविरोधः । युक्तं चैतत्, अन्यथा हेमन्तकाले ऽतिस्वल्पत्वाद् अह्नां तत्र किंचिद् ऊनचतुर्दशघटिकामात्र आवर्तनं भवति । तथा तत्रैव तिथिवृद्धौ कदाचित् षोडशनाडिको ऽपि चतुर्थांशो भवति । तत्रावर्तनाद् उपरि घटिकामात्रपर्वसंधाव् उत्तरेद्युर् एव यागः प्रस्ज्येत, न चैतद् युक्तम्, तत्र विहितकालासंभवान् न यष्टव्यम् इति निषेधात् पूर्वेदुय्ः कालसंभवाच् च । अत्रोक्तापराह्णशब्दस्य संकोच एव स्यात् ज्यायान् । किं च ग्रीष्मकाले ऽह्नाम् अतिदीर्घत्वात् तत्र पादाधिकषोषशघटिकात्मके काले आवर्तनं भवति । तथा तत्रैव तिथिह्रासे कदाचित् सार्धत्रयोदशनाडिको ऽपि पर्वचतुर्थांशो भवति । तत्र यदा पादोनावर्तनेन पर्वसंधिः तदा पूर्वाह्ण एव पर्वसंधिर् इति तदहर् एव यागः स्यात् । न चैतद् युक्तम्, तत्र प्रातः पर्वचतुर्थांशादिविहितकालासंभवात् । अस्मिन् पक्षे तूत्तरेद्युर् एव यागः, तत्रैव विहितकालसंभवात् । अत एवोक्तोम् आपस्तम्बेनापि - “खर्विकां तृतीयां वाजसनेयिनः समामनन्ति” इति । खर्विकाम् अल्पिकाम् इति यावत् । अल्पत्वं च दिनार्धत्वाभावात् । उक्तं च भाष्यार्थसंग्रहकारेण ।
मध्यन्दिनात् स्याद् अहनीह यस्मिन् प्राक्पर्वणः संधिर् इयं तृतीया । इति ।

अमावास्यायां तु सुतराम् अत्रोत्तरेद्युर् एव यागः, उदयात् प्राग् एव तस्यास् तत्र प्रारम्भात् ।

नन्व् एवं तर्हि पूर्वाह्णसंधौ तदहर् एव यागविधानं विरुध्येत ।
मैवम्, तस्यैतद्व्यतिरिक्तविषयान्तरसंभवेनाविरोधात् ।
ननु तर्हि “पूर्वाह्णे वाथ मध्याह्ने” इति लौगाक्षिवचनबलाद् एव विहितकालाभावे ऽपि तत्रैव यागो ऽस्तु ।
मैवम्,
पञ्चदश्याः परः पादः पक्षादेः प्रथमास् त्रयः ।
कालः पार्वणयागे स्याद् अन्यथा तु न विद्यते ॥

इति वचनार्धांशोदितकालव्यतिरेकेण कालान्तराभावस्मरणात् । किं च, एवं सति “पर्वणो यश् चतुर्थांशः” इत्यादिकालविधायकशास्त्राणां विषयासंभवेन वैयर्थ्यम् एव स्यात् । अतो यत् कैश्चिद् उक्तम् - “अपराह्णसंधाव् उत्तरेद्युः प्रतिपच्चतुर्थांशे ऽपि यागो न दोषाय” इति, तद् अपास्तम् । एवं च यद् उक्तं कात्यायनेन,

यजनीये ऽह्नि सोमश् चेद् वारुण्यां दिशि दृश्यते ।
तत्र व्याहृतिभिर् हुत्वा दण्डं दद्याद् द्विजातये ॥

इति, यद् अपि स्मृत्यन्तरम्,

त्रिमुहूर्ता द्वितीया चेत् प्रतिपद्य् आपराह्णिकी ।
अन्वाधानं चतुर्दश्यां परतः सोमदर्शनात् ॥

इति, तत् पूर्वाह्णपर्वसंधिविषयम् इत्य् अवगन्तव्यम् । यद् अपि वचनान्तरम्,

षोडशे ऽहन्य् अभीष्टेष्टिर् मध्या पञ्चदशे ऽहनि ।
चतुर्दशे जघन्येष्टिः पापा सप्तदशे ऽहनि ॥

इति, तेन सप्तदशे ऽहनीष्टिं न कुर्यान् नान्वादधीतेति तत्रान्वाधानम् एव निषिध्यते न यागः । तथात्वे तिथिवृद्धौ विशिष्टैर् अननुष्ठानम् एव स्यात् । अतो यजनीयदिनाद् आरभ्य सप्तदशे ऽह्न्य् औपवसथकर्म न कार्यम् इत्य् अवगन्तव्यम् । अत एव बोधायनः ।

यत्रौपवसथं कर्म यजनीयात् त्रयोदशम् ।
भवेत् सप्तदशं वापि तत् प्रयत्नेन वर्जयेत् ॥ इति ।
ननु दिनद्वयस्य क्षयवृद्ध्योः संभवात् त्रयोदशे ऽहनि सप्तदशे ऽहनि वा कदाचिद् औपवसथ्यं कर्म न प्राप्तम् इति कथं निषेधः ।
उच्यते, यद्य् अप्राप्तिः तर्हि “नान्तर्क्षे न दिवि” इतिवन् नित्यानुवाद इति सर्वम् अनवद्यम् । पौर्णमास्यां त्व् आपस्तम्बोक्तो विशेषः - “पौर्णमास्याम् अन्वाधानपरिस्तरणोपवासात् सद्यो वा सद्यःकालायां सर्वं क्रियते” इति । अस्यार्थः - सद्यःकालायां पौर्णमास्याम् अग्न्यन्वाधानादीनि सद्यः समाने ऽहनित् क्रियन्ते पूर्वेद्युर् वा तत्र सर्वं ब्राह्मणतर्पनान्तं क्रियते । नेडान्तादिकम् इत्य् उक्तं भाष्यार्थसंग्रहकारेण ।
अन्वाहितिश् चास्तरणोपवासाः पूर्वेद्युर् एते खलु पौर्णमास्याम् ।
आवर्तनात् प्राग् यदि पर्वसंधिः सद्यस् तदा वा क्रियते समस्तम् ॥ इति ।

आवर्तनात् प्राक् सङ्गवाद् ऊर्ध्वम् इति शेषः,

संधिश् चेत् सङ्गवाद् ऊर्ध्वं प्राक् पर्यावर्तनाद् रवेः ।
सा पौर्णमासी विज्ञेया सद्यःकालविधौ तिथिः ॥

इति कात्यायनस्मरणात् ।

केचित् तु, “पौर्णमास्याम्” इत्यादि “सद्यो वा” इत्य् एतदन्तम् एकं सूत्रम्, अपरं तु “सद्यःकालायां सर्वं क्रियते” इति वदन्ति । तत्र सर्वस्यां पौर्णमास्याम् अग्न्यन्वाधानादि सद्यः पूर्वेद्युर् वा क्रियत इति पूर्वसूत्रस्यार्थः । द्वितीयस्य तु सद्यःकाला विकृतिः तस्यां सर्वं ब्राह्मणतर्पणान्तं क्रियते नेडान्तादिकम् इति ।
नैतद् युक्तम्, अपराह्णसंधौ सयःकालपक्षे “संधिम् अभितो यजेत” इति श्रुतिविरोधात् एवं प्रकृताव् उक्तम् । विकृतौ यद्य् अपि “दर्शपूर्णमासाव् इष्टीनां प्रकृतिः” इत्य् अनेन दर्शपूर्णमासिकविध्यन्तातिदेशाद् अत्रापि स एव पर्वचतुर्थांशादिलक्षणः काल इति प्रतिभाति । तथापि “यदीष्ट्या यदि पशुना यदि सोमेन यजेतामावास्यायां पौर्णमास्यां वा यजेत” इत्य् आपस्तम्बेन विकृतौ पुनःकालविधानात् पञ्चदश्याम् एव यागसमापत्तिः, अतो यत्र संपूर्नैव पञ्चदशी प्रतिपच् च तत्र पञ्चदश्याम् एव विकृतिं समाप्यानन्तरं प्रकृतेर् अग्न्यन्वाधानादि । खण्दतिथौ यदा पूर्वाह्णे पर्वसंधिः तदा पूर्वेद्युर् उपदिष्टकालासंभवात् संभवे ऽपि कर्मोपक्रमदशायाम् असंभवेन साङ्गप्रधानाव्यापितत्वात् “साङ्गप्रधानं देशे काले कर्तरीति निर्दिश्यते” इत्य् आपस्तम्बेन साङ्गस्यैव विहितकालसंबन्धविधानात् । उक्तं परेद्युर् अपि । प्रकृतेः पूर्वोक्तत्वात् “अपूर्वम् अन्ते स्यात्” इत्य् आपस्तम्बेनैव विकृतेः पूर्वं प्रकृतिविधानात् अनन्तरम् एवातिदेशिकप्रतिपदाद्यभागत्रये ऽङ्गप्रधानपर्याप्तेर् विकृत्यनुष्ठानम् अवगन्तव्यम् । यदा त्व् अपराह्णे रात्रौ वा पर्वसंधिः तदा तदहर् एव यागः, तत्रैवोपदिष्टकालसंभवात् । एतत् सर्वम् अभिसंधायोक्तम् ।
आवर्तनात् प्राग् यदि पर्वसंधिः कृत्वा तु तस्मिन् प्रकृतिं विकृत्याः ।
तदैव यागः परतो यदि स्यात् तस्मिन् विकृत्याः प्रकृतेः श्व एव ॥ इति ।

एवं पशाव् अपि द्रष्टव्यम् । अत एव तत्राप्य् उक्तम् ।

अर्वाग् अध्नो भवति नियतः पर्वसंधिः पुरस्तात्
कृत्वा तस्मिन्न् अहनि तु पशून् सद्य एव द्व्यहं वा ।
आरभ्याथ प्रकृतिर् अथ चेत् पर्वसंधिः परस्तात्
कृत्वा तस्मिन् प्रकृतिम् अथ तु स्यात् पशुः सद्य एव ॥ इति ।

पूर्वाह्णसंधाव् उत्तरेद्युर् विहितकालासंभवात् सद्य एवेत्य् उक्तम् । उपदेशस् तत्रापि द्व्यहकालताम् आह । तन् न यष्टव्यम् इत्यादिवचनविरुद्धम् इत्य् उपेक्षणीयम् एव ॥

इति स्मृतिचन्द्रिकायां पर्वनिर्णयः

तिथिद्वैधनिर्णयः

अथ प्रसङ्गात् तिथिद्वैधनिर्णयः

तत्र स्कन्दपुराणम् ।

प्रतिपत्प्रभृतयः सर्वा उदयादोदयाद् रवेः ।
संपूर्णा इति विख्याता हरिवासरवर्जिताः ॥ इति ।

अत्र संपूर्णासु निःसंदिग्धम् एव कर्मानुष्ठानम् । यत्र पुनः क्षयवृद्धिभ्यां तिथिद्वैविध्यं तत्र निगमोक्तम् ।

युग्माग्नियुगभूतानां षण्मुन्योर् वसुरन्ध्रयोः ।
रुद्रेण द्वादशी युक्ता चतुर्दश्या च पूर्णिमा ॥
प्रतिपदाप्य् अमावास्या तिथ्योर् युग्मं महाफलम् ।
एतद् व्यस्तं महादोषं हन्ति पुण्यं पुराकृतम् ॥ इति ।

तत्र युग्मादिरन्ध्रान्त्यैः शब्दैः क्रमेण द्वितीयादिनवम्यन्तानां ग्रहणम्, तिथ्योर् युग्मम् इत्य् अभिधानात् । रुद्र एकादशी । द्वितीयादिप्रतिपदन्तासु क्रमेण द्वयोर् द्वयोस् तिथ्योः परस्परम् एव युग्मं महाफलम्, न पुनर् व्यस्ततिथ्यन्तरयुगम् इत्य् अर्थः । अनेनोक्तयुग्मतिथिसप्तके पूर्वा तिथिः उत्तरविद्धा ग्राह्या । उत्तरा तु पूर्वविद्धेत्य् उक्तं भवति । तृतीयादिवद् दशमीत्रयोदश्याव् अपि पूर्वविद्धे । तथा च पैठीनसिः ।

पञ्चमी सप्तमी चैव दशमी च त्रयोदशी ।
प्रतिपन्नवमी चैव कर्तव्या संमुखा तिथिः ॥ इति ।

संमुखा पूर्वविद्धेत्य् अर्थः,

संमुखा नाम सायाह्नव्यापिनी दृश्यते यदा ।

इति स्कन्दपुराणे दर्शनात् । यत् तु निगमवाक्ये तृतीयापौर्णमास्योः पूर्वविद्धत्वम् उक्तम्, तत् व्रतविशेषाभिप्रायम् । अत एव ब्रह्मकैवर्ते ।

रम्भाख्यां वर्जयित्वा तु तृतीयां द्विजसत्तम ।
अन्येषु सर्वकार्येषु गणयुक्ता प्रशस्यते ॥
भूतविद्धा न कर्तव्या अमा पूर्णा कदाचन ।
वर्जयित्वा मुनिश्रेष्ठ सावित्रीव्रतम् उत्तमम् ॥ इति ।

रम्भाख्यां तृतीयां रम्भातृतीयाख्यं व्रतम् इत्य् अर्थः । गणयुक्ता चतुर्थीयुक्ता अमा अमावास्या । एवं च यद् उक्तं नारदीयपुराणे,

दर्शं च पूर्णमासं च पितुः सांवत्सरं दिनम् ।
पूर्वविद्धम् अकुर्वाणो नरकं प्रतिपद्यते ॥

इति, तद् अपि सावित्रीव्रतविषयम् इत्य् अनुसंधेयम् । उपवासे तु परान्वितैव ग्राह्या । तथा च बृहस्पतिः ।

एकादश्य् अष्टमी षष्ठी पौर्णमासी चतुर्दशी ।
अमावास्या तृतीया च ता उपोष्याः परान्विताः ॥ इति ।

वृद्धवसिष्ठो ऽपि ।

द्वितीया पञ्चमी वेधात् दशमी च त्रयोदशी ।
चतुर्दशी चोपवासे हन्युः पूर्वोत्तरे तिथी ॥
उपवासे सप्तमी तु वेधा धन्त्य् उत्तरं दिनम् ॥ इति ।

द्वितीयाद्यास् तिथयो वेधात् उपवासे स्वपूर्वोत्तरे तिथी हन्युः, सप्तमी तु स्वोत्तराम् एवेत्य् अर्थः । अनेन प्रतिपत् तृतीया च द्वितीयाविद्धे न ग्राह्ये इत्य् उक्तं भवति । एवं पञ्चम्यादिष्व् अपि द्रष्टव्यम् । एवं च यन् निगमवाक्ये चतुर्थ्या उत्तरविद्धत्वम् उक्तम्, तद् उपवासव्यतिरिक्तविषयम् इत्य् अवगन्तव्यम्, अस्मिन् वाक्ये पूर्वविद्धाया उपादेयत्वस्मरणात् । यद् अपि ब्रह्मकैवर्ते,

प्रतिपत्संमुखा कार्या द्वितीया द्विजसत्तम ।

इति प्रतिपद्विद्धाया उपादेयत्वम् उक्तम्, तद् अप्य् उप्वासव्यतिरिक्तविषयम् । उपवासे परिविद्धाया एवोपादेयत्वस्मरणात् । तथा च श्रीविष्णुपुराणे ।

एकादश्य् अष्टमी षष्ठी द्वितीया च चतुर्दशी ।
अमावास्या तृतीया च उपोष्याः स्युः परान्विताः ॥ इति ।

अत्र चतुर्दश्यां परविद्धत्वं शुक्लपक्षाभिप्रायम् । अत एव निगमः ।

एकादश्य् अष्टमी षष्ठी शुक्लपक्षे चतुर्दशी ।
पुण्याः परेण संयुक्ताः पराः पूर्वेण संयुताः ॥ इति ।

परा अनन्तरा इत्य् अर्थः,

नागविद्धा तु या षष्ठी रुद्रविद्धो दिवाकरः ।
कामविद्धो भवेद् विष्णुर् न ग्राह्यास् तेषु वासराः ॥
नवम्य् एकादशी चैव दिशा विद्धा यदा भवेत् ।
तदा वर्ज्या विशेषेण गङ्गाम्भः श्वदृतौ यथा ॥

इति पुराणस्मरणात् । नागः पञ्चमी रुद्रो ऽष्टमी दिवाकरः सप्तमी कामस् त्रयोदशी । विष्णुः द्वादशी । दिक् दसमी । एवम् अष्टम्य् अपि द्रष्टव्या । अत एव स्मृत्यन्तरम् ।

कृष्णपक्षे ऽष्टमी चैव कृष्णपक्षे चतुर्दशी ।
पूर्वविद्धा तु कर्तव्या परिविद्धा न कस्यचित् ॥
शुक्लपक्षे ऽष्टमी चैव शुक्लपक्षे चतुर्दशी ।
पूर्वविद्धा न कर्तव्या कर्तव्या परसंयुता ॥
उपवासादिकार्येषु ह्य् एष धर्मः सनातनः ॥ इति ।

त्रयोदश्याः परविद्धत्वं कृष्णपक्षाभिप्रायम् । अत एव निगमः ।

षष्ट्य् अष्टमी तथा दर्शः कृष्णपक्षे त्रयोदशी ।
एताः परयुताः पूज्याः पराः पूर्वयुतास् तथा ॥

परा अनन्तरा इत्य् अर्थः । एवं च यद् उक्तं मार्कण्देयेन,

शुक्लपक्षे तिथिर् ग्राह्या यस्याम् अभ्युदितो रविः ।
कृष्णपक्षे तिथिर् ग्राह्या यस्याम् अस्तमितो रविः ॥

इति, तत् शुक्लकृष्णपक्षव्यवस्थया व्यवस्थितचतुर्दश्यादिविषयम् इत्य् अवगन्तव्यम् । यद् अपि देवलेनोक्तम्,

यां तिथिं समनुप्राप्य उदयं याति भास्करः ।
सा तिथिः सकला ज्ञेया स्नानदानजपादिषु ॥

इति, तद् यासां तिथीनाम् उत्तरविद्धानाम् उपादेयत्वम् उक्तं तद्विषयम् । यद् अपि तेनैवोक्तम्,

यां तिथिं समनुप्राप्य अस्तं याति दिवाकरः ।
सा तिथिः सकला ज्ञेया दानाध्ययनकर्मसु ॥

इति, तद् अपि यास् तिथयः पूर्वविद्धाः सत्यो ग्राह्याः तद्विषयम् । सकला संपूर्णेत्य् अर्थः । एतच् च उदयव्यापिन्यास् तिथेर् अल्पत्वेन तिथ्यन्तरानुष्ठाने ऽपि तस्याम् एव तिथाव् अनुष्ठितं भवतीति वक्तुम् । अनेनैवाभिप्रायेण भविष्यत्पुराणे ऽपि ।

व्रतोपवासनियमे घटिकैका यदा भवेत् ।
सा तिथिः सकला ज्ञेया पित्रर्थे चापराह्णिकी ॥ इति ।

अतो ऽन्यत्र कर्मानुष्ठाने तिथिवृद्धिह्रासाभ्याम् उपयोग इति निर्णयः । उक्तं च विष्णुधर्मोत्तरे ।

सा तिथिस् तद् अहोरात्रं यस्याम् अस्तमितो रविः ।
तदा कर्माणि कुर्वीत ह्रासवृद्धी न कारणम् ॥ इति ।

यदा तु नोत्तरेद्युः उदयव्यापिनी किं तु पूर्वेद्युः निषिद्धतिथिविद्धैव, तदा स्मृत्यन्तरोक्तम् ।

एकादशी तृतीया च षष्ठी चैव त्रयोदशी ।
पूर्वविद्धा तु कर्तव्या यदि न् स्यात् परे ऽहनि ॥ इति ।

एवं च यद् उक्तम्,

वर्धमानस्य पक्षस्य उदयात् पूज्यते तिथिः ।
यदा पक्षः क्षयं याति तदा स्याद् आपराह्णिकी ॥

इति, तत्र पक्षक्षये प्रायेण परेद्युर् उदयव्यापिन्या असंभवात् पूर्वविद्धैव परिग्राह्येति पूर्ववचनेन समानार्थम् । अत्र विशेषम् आह ऋश्यशृङ्गः ।

अविद्धानि निषिद्धैश् च न लभ्यन्ते दिनानि तु ।
मुहूर्तैः पञ्चभिर् विद्धा ग्राह्यैवैकादशी तिथिः ॥ इति ।

निषिद्धैर् दिनैर् अविद्धानि दिनानि यदि न लभ्यन्ते तदोक्तलक्षणानि ग्राह्याणीत्य् अर्थः । यदा चैवंविधापि तिथिः न लभ्यते तदापि तेनैवोक्तम् ।

अविद्धानाम् अलाभे तु पयोदधिघृतेन वा ।
सकृद् एवाल्पम् अश्नीयाद् उपवासस् त्व् असौ भवेत् ॥ इति ।

“सा तिथिः सकला ज्ञेया” इत्य् अस्य क्वचिद् अपवादम् आह नारदीयपुराणे वसिष्ठः ।

पारणे मरणे नॄणां तिथिस् तात्कालिकी स्मृता ।
पित्र्ये ऽस्तमयवेलायां स्पृष्टा पूर्णा निगद्यते ॥ इति ।

पारणे मरणे वा तात्कालिक्य् एव तिथिः न पुनः सा तिथिः सकला ज्ञेयेत्य् एतद् भवतीत्य् अर्थः । एवं मन्वाद्यादाव् अपि द्रष्टव्यम् । अत एव स्कन्दपुराणम् ।

मन्वादौ च युगादौ च ग्रहणे चन्द्रसूर्ययोः ।
व्यतीपाते च वैधृत्यां तत्कालव्यापिनी तिथिः ।
नक्तव्रते च संप्राप्ते तत्कालव्यापिनी तिथिः ॥ इति ।

तस्य नक्तव्रतस्य यः कालः प्रदोषाख्यः तद्व्यापिनी तिथिः ग्राहेत्य् अर्थः । तथा च वसिष्ठः ।

प्रदोषव्यापिनी ग्राह्या तिथिर् नकव्रते सदा ।
एकादशीं विना सर्वाः शुक्ले कृष्णे समाः स्मृताः ॥ इति ।

प्रदोषपरिमाणं तु स्कन्दपुराणे उक्तम् ।

उदयात् प्राक्तनी संध्या घटिकात्रयम् उच्यते ।
सायंसंध्या त्रिघटिका अस्ताद् उपरि भास्वतः ।
त्रिमुहूर्तं प्रदोषः स्याद् रवाव् अस्तमिते ततः ॥ इति ।

यद् अत्र संध्याद्वये मौनादि कार्यम्, तद् एतावति काले कार्यम् इत्य् अभिप्रायः । यदा तु दिनद्वये ऽपि प्रदोषव्यापिनी तिथिर् न भवति, तदा तु स्कन्दपुराणोक्तम् ।

प्रदोषव्यापिनी न स्याद् दिवा नक्तं विधीयते ।
आत्मनो द्विगुणां छायाम् अतिक्रामति भास्करे ॥
तन्नक्तं नक्तम् इत्य् आहुः न नक्तं निशि भोजनम् ।
एवं ज्ञात्वा ततो विद्वान् सायाह्ने तु भुजिक्रियाम् ॥
कुर्यान् नक्तव्रती नक्तफलं प्राप्नोति निश्चितम् ॥ इति ।

नक्षत्रोपवासे तु विष्णुनोक्तम् ।

उपोषितव्यं नक्षत्रं यस्मिन्न् अस्तम् इयाद् रविः ।
यत्र वा युज्यते राम निशीथः शशिना सह ॥ इति ।

यत्र वा निशीथो ऽर्धरात्रः शशिना नक्षत्रेनास्तमयाद् उपर्य् आरब्धेन संयुज्यते तद् वा नक्षत्रम् उपोषितव्यम् इत्य् अर्थः । तथा च सुमन्तुः ।

यत्रार्धरात्राद् अर्वाक् तु नक्षत्रं प्राप्यते तिथौ ।
तन् नक्षत्रव्रतं कुर्याद् अतीते पारणं भवेत् ॥ इति ।

प्राप्यते प्रारभ्यत इत्य् अर्थः । अतीते तस्मिन् नक्षत्र इति शेषः । एवं तिथिप्रयुक्तोपवासे ऽपि द्रष्टव्यम् ।

तिथिनक्षत्रनियमे तिथिभान्ते च पारणम् ।
अतो ऽन्यथा पारणात् तु व्रतभङ्गम् अवाप्नुयात् ॥

इति स्मरणात् । एतन् नक्षत्रप्रयुक्तोपवासविषयम् । नक्षत्रयुक्तायां तिथौ श्रीविष्णुपुराणे उक्तम् ।

याः काश्चित् तिथयः प्रोक्ताः पुण्या नक्षत्रयोगतः ।
तास्व् एव तद् व्रतं कुर्याच् छ्रवणद्वादशीं विना ॥ इति ।

कथं तर्हि श्रवणद्वादश्याम् इत्य् अपेक्षिते मत्स्यपुराणम् ।

द्वादश्यां शुक्लपक्षस्य नक्षत्रं श्रवणं यदि ।
उपोष्यैकादशीं तत्र द्वादश्यां पूजयेद् धरिम् ॥ इति ।

इति स्मृतिचन्द्रिकायां तिथिद्वैधनिर्णयः

एकादशी

अथ तिथिप्रसङ्गाद् एकादश्य् अपि निर्णीयते

एकादशीमहिमा

तत्रादौ एकादशीमहिमा । तत्र नारदीयपुराणे वसिष्ठः ।

एकादशीसमुत्थेन वह्निना पातकेन्धनम् ।
भस्मतां याति राजेन्द्र अपि जन्मशतोद्भवम् ॥
नेदृशं पावनं किंचिन् नराणां भूप विद्यते ।
यादृशं पद्मनाभस्य दिनं पातकहानिदम् ॥
तावत् पापानि देहे ऽस्मिन् तिष्ठन्ति मनुजाधिप ।
यावन् नोपवसेज् जन्तुः पद्मनाभदिनं शुभम् ॥
अश्वमेधसहस्राणि वाजपेयशतानि च ।
एकादश्युपवासस्य कला नार्हन्ति षोडशीम् ॥
एकादशेन्द्रियैः पापं यत् कृतं भवति प्रभो ।
एकादश्युपवासेन तत् सर्वं विकलं नयेत् ॥
एकादशीसमं किंचित् प्रापत्राणं न विद्यते ।
स्वर्गमोक्षप्रदा ह्य् एषा राज्यपुत्रप्रसाधिनी ॥
सुकलत्रप्रदा ह्य् एषा शरीरारोग्यदायिनी ।
न गङ्गा न गया भूप न काशी न च पुष्करम् ॥
न चापि कौरवक्षेत्रं न रेवा न च देविका ।
यमुना चन्द्रभागा च तुल्या न च हरेर् दिनात् ॥
अनायासेन राजेन्द्र प्राप्यते वैष्णवं पदम् ।
चिन्तामणिसमा ह्य् एषा अथ वापि निधेः समा ॥
सा कल्पपादपप्रख्या देवगोर् उपमाथ वा ॥

नारदो ऽपि ।

एकाम् एकादशीं वापि समुपोष्य जनार्दनम् ।
कामेनापि समभ्यर्च्य संसारान् मुक्तिम् आप्नुयात् ॥
प्रसङ्गाद् अथ वा दम्भाल् लोभाद् वा त्रिदशाधिप ।
एकादश्याम् अनश्नन् यः सर्वदुःखाद् विमुच्यते ॥ इति ।

इति स्मृतिचन्द्रिकायाम् एकादशीमहिमा

एकादशीनिर्णयः

अथैकादशीनिर्णयः

तत्र देवलः ।

न शङ्खेन पिबेत् तोयं नाश्नीयात् कूर्मसूकरौ ।
एकादश्यां न भुञ्जीत पक्षयोर् उभयोर् अपि ॥

कात्यायनो ऽपि ।

यानि कानि च पापानि ब्रह्महत्यासमानि च ।
अन्नम् आश्रित्य तिष्ठन्ति संप्राप्ते हरिवासरे ॥
रटन्तीह पुराणानि भूयो भूयो वरानने ।
न भोक्तव्यं न भोक्तव्यं संप्राप्ते हरिवासरे ॥ इति ।

न भोक्तव्यम् उपोषितव्यम् इत्य् अर्थः । अत एव नारदः ।

नित्यं भक्तिसमायुक्तैर् नरैर् विष्णुपरायणैः ।
पक्षे पक्षे तु कर्तव्यम् एकादश्याम् उपोषणम् ॥ इति ।

अत्रोपोषणं नित्यं कर्तव्यम् इत्य् अन्वयः । अनेनैकादशीव्रतस्य नित्यत्वम् उक्तं भवति । अत एवाकरणे दोषः पुराणे दर्शितः ।

प्रतिग्रासं स भुङ्क्ते ऽन्नं किल्बिषं श्वानविट्समम् ।
एकादश्यां सुरश्रेष्ठ यो भुङ्क्ते द्विजजन्मवान् ॥
एकादश्यां तु यो भुङ्क्ते शक्तिमान् निरुपद्रवः ।
सुरापानसमं पापं भवेत् तस्य न संशयः ॥
मद्यपानात् सुरश्रेष्ठ पातैव नरकं व्रजेत् ।
एकादश्यन्नकामस् तु पितृभिः सह मज्जति ॥ इति ।

अतः पक्षद्वये ऽप्य् एकादश्याम् उपवसेद् इति भावः । एतच् च पक्षद्वयोपवासविधानं वनस्थादिविषयम् (?) । अत एव गोभिलः ।

एकादश्याम् न भुञ्जीत पक्षयोर् उभयोर् अपि ।
वनस्थयतिधर्मो ऽयं शुक्लाम् एव सदा गृही ॥ इति ।

एवं ब्रह्मचार्यादेर् अपि द्रष्टव्यम् । अत एव स्मृत्यन्तरम् ।

एकादश्यां न भुञ्जीत पक्षयोर् उभयोर् अपि ।
ब्रह्मचारी च नारी च शुक्लाम् एव सदा गृही ॥ इति ।

गृही पुत्रवान् इति शेषः, तस्य कृष्णैकादश्याम् उपवासनिषेधस्मरणात् ।

संक्रान्त्याम् उपवासं तु कृष्णैकादशिवासरे ।
चन्द्रसूर्यग्रहे चैव न कुर्यात् पुत्रवान् गृही ॥
एकादश्यां तु कृष्णायां संक्रान्तौ च रवेस् तथा ।
पारणं चोपवासं च न कुर्यात् पुत्रवान् गृही ॥

स्मृत्यन्तरे ऽपि ।

आदित्यवारे संक्रान्त्याम् असितैकादशीदिने ।
व्यतीपाते कृते श्राद्धे पुत्री नोपवसेद् गृही ॥

पुत्राणे ऽपि ।

संक्रान्त्याम् उपवासेन पारणेन युधिष्ठित ।
एकादश्यां च कृष्णायां ज्येष्ठः पुत्रो विनश्यति ॥

न चैवं सति शुक्लैकादश्यां संक्रान्त्यादियोगे गृहिणः पुत्रवतो नोपवास इति शङ्कनीयम् । यत आह जैइनिः ।

आदित्ये ऽहनि संक्रान्तौ ग्रहणे चन्द्रसूर्ययोः ।
पारणं चोपवासं च न कुर्यात् पुत्रवान् गृही ॥
तन्निमित्तोपवसस्य निषेधो ऽयम् उदाहृतः ।
नानुषङ्गकृतो ग्राह्यो यतो नित्यम् उपोषणम् ॥ इति ।

तन्निमित्तस्य आदित्यवारादिनिमित्तस्य प्रतिषेधः, न पुनर् एकादश्याम् आदित्यवाराद्यन्वयनिबन्धनोपवासनिषेधः, यत एकादश्यां नित्यम् उपोषणम् इत्य् अर्थः । केचित् - अस्यैकादशीप्रकरणपाठात् तच्छब्दस्य प्रकरणसंनिहितैकादशीपरत्वाद् अनुषङ्गकृत इत्य् अस्य कृच्छ्रप्राप्तोपवासपरत्वाद् गृहिणः पुत्रवतः संक्रान्त्यादियुक्तायाम् एकादश्याम् उपवासनिषेधपरम् एतद् इति वर्णयन्ति । तन् मन्दम् - वाक्यसंनिधेः प्रकरणसंनिधितः शीघ्रभावित्वात् । अन्यथा एकादश्यां राहुदर्शनासंभवेन तत्र कथं तच्छब्दोपपत्तिः । अथ राहुदर्शनमात्रपरत्वं तर्हि सकृद् उच्छरितस्यार्थद्वयपरत्वम् इति वैरूप्यं स्यात्, अतः पूर्वोक्तैव व्याख्या ज्यायसी । अत एव नारदः ।

भानुवारसमोपेता तथा संक्रान्तिसंयुता ।
एकादशी सदोपोष्या पुत्रपौत्रवर्धिनी ॥

पुराणे ऽपि ।

एकादश्यां यदा वत्स आदित्यस्य दिनं भवेत् ।
तत्रोपोष्या प्रयत्नेन पुत्र्पौत्रविवर्धिनी ॥

अन्ये - गृहिणः पुत्रवतः शुक्लैकादश्याम् उपवासः कृष्णैकादश्याम् नियमरहितम् अभोजनमात्रम् इति वदन्ति, तत् स्वबुद्धिमात्रपरिकल्पितम् इत्य् उपेक्षणीयम् । यत् तु नारदीयपुराणे रुक्माङ्गदस्य पुत्रपौत्रवतो हरिवासरमात्रोपवासनिषेधाय ब्राह्मणं प्रति यमवचनम्,

मनुष्याः पितृभिः सार्धं तथैव च पितामहैः ।
तेषाम् अपीह पितरः पितॄणां पितरस् तथा ॥
अथ मातामहा यान्ति तेषां ये जनकास् तथा ।
तेषाम् अपि जनयितारो जनितॄणां तु पूर्वजाः ॥
प्रयान्ति वैष्णवं लोकम् उपोष्य हरिवासरम् ।
एष दण्डः पटो ह्य् एष तव पद्भ्यां नियोजितः ॥
लोकपालत्वम् अतुलम् आर्जितं येन भूभुजा ।
तम् एकं वदतां श्रेष्ठ संप्राप्ते हरिवासरे ॥
यदि चालयसे धैर्यात् ततो ऽहं तव किंकरः ॥

इति, तत्रापि हरिवासरग्रहणं रुक्माङ्गदस्य विहितैकादशीपरम् इत्य् अवगन्तव्यम् । अतो गृहिणः पुत्रवतः शुक्लैकादश्याम् उपवासः इतरेषां तु उभयोर् इति सिद्धम् । एवं च यद् उक्तं विष्णुधर्मोत्तरे,

ब्रह्महा स भवेत् स्तेनः सुरापो गुरुतल्पगः ।
विवेचयति यो मोहाद् एकादस्योः सितासिते ॥

इति, यद् अपि पुराणे,

मातृहा पितृहा चैव भ्रातृहा गुरुहा तथा ।
एकादश्यां तु भुञ्जानः पक्षयोर् उभयोर् अपि ॥

इति, तत् पुत्रवद्गृहिव्यतिरिक्तविषयम् इत्य् अनुसंधेयम् । एवम् उक्तरीत्या व्यवस्थासंभवे ऽपि केचित् “न कुर्यात् पुत्रवा गृही” इत्य् एवमादीनां काम्योपवासविषयत्वं परिकल्प्य गृहिणः पुत्रवतो ऽपि कृष्णैकादश्याम् अप्य् उपवासं वर्णयन्ति । यद् अत्र युक्तं तद् ग्राह्यम् । यत् पुनर् आपस्तम्बेनोक्तम्,

आहिताग्निर् अनड्वांश् च ब्रह्मचारी च ते त्रयः ।
अश्नन्त एव सिद्ध्यन्ति नैषां सिद्धिर् अनश्नताम् ॥

इति, तत् एकादशीव्यतिरिकविषयम् । अत एव अग्निपुराणम् ।

गृहस्थो ब्रह्मचारी च आहिताग्निस् तथैव च ।
एकादश्यां न भुञ्जीत पक्षयोर् उभयोर् अपि ॥ इति ।

यद् अपि पुराणे,

श्राद्धे जन्मदिने चैव संक्रान्त्यां राहुसूतके ।
उपवासं न कुर्वीत यदीच्छेच् छ्रेय आत्मनः ॥

इति श्राद्धे उपवासनिषेधपरं च वचनम्, तद् अप्य् एकादशीव्यतिरिक्तविषयम् । अत एव स्मृत्यन्तरम् ।

उपवासो यदा नित्यः श्राद्धं नैमित्तिकं भवेत् ।
उपवासं तदा कुर्याद् आघ्राय पितृसेवितम् ॥ इति ।

उपवासलक्षणं व्यासेनोक्तम् ।

उपावृत्तस्य पापेभ्यो यस् तु वासो गुणैः सह ।
उपवासः स विज्ञेयो सर्वभोगविवर्जितः ॥ इति ।

पापेभ्य उपावृत्तस्य गुणैर् एकभकादिनियमैः सह यो वासः ताम्बूलादिभोगरहित उपवास इत्य् अर्थः । ते च गुणा नारदीयपुराणे दर्शिताः ।

तस्यैवं क्रीडमानस्य मोहिन्या सह पार्थिव ।
रुक्माङ्गदस्य श्रोत्राभ्यां पटहध्वनिरागतः ॥
मत्तेभकुम्भसंस्थस् तु धर्माङ्गदमते स्थितः ।
प्रातर् हरिदिनं लोकास् तिष्ठध्वं चैकभोजनाः ॥
अक्षारलवणाः सर्वे हविष्यान्ननिषेविणः ।
अवनीतल्पशयनाः प्रियासङ्गविवर्जिताः ॥
स्मरध्वं देवम् ईशानं पुराणं पुरुषोत्तमम् ।
सकृद्भोजनयुक्ताश् च उपवासे भविष्यथ ॥
अष्टवर्षाधिको मर्त्यो ह्य् अशीतिर् न हि पूर्यते ।
यो भुङ्क्ते मामके राष्ट्रे विष्णोर् अहनि पापकृत् ॥
स मे वध्यश् च दण्ड्यश् च निर्वास्यो विषयाद् बहिः ॥ इति ।

उपवासे कृते द्वादश्याम् इत्य् अर्थः । देवलो ऽपि ।

दशम्याम् एकभुक्तस् तु मांसमैथुनवर्जितः ।
एकादश्याम् उपवसेत् पक्षयोर् उभयोर् अपि ॥
ब्रह्मचर्यं तथा शौचं सत्यम् आमिषवर्जनम् ।
व्रतेष्व् एतानि चत्वारि वरिष्ठानीति निश्चयः ॥
स्त्रीणां तु प्रेक्षणात् स्पर्शात् ताभिः संकथनाद् अपि ।
निष्यन्दते ब्रह्मचर्यं न दारेष्व् ऋतुसंगमात् ॥
असकृज्जलपानाच् च अकृत्ताम्बूलचर्वणात् ।
उपवासो विनिश्येत दिवास्वापाच् च मैथुनात् ॥

व्यासो ऽपि ।

पुष्पालंकारवस्त्राणि गन्धुधूपानुलेपनम् ।
उपवासे न दुष्येत दन्तधावनम् अञ्जनम् ॥ इति ।

एतत् पुण्यजनकोपवासे स्त्रीविषयम् इति कैश्चिद् उक्तम् । दन्तधावनम् अत्र पर्णादिना, न काष्ठेन,

उपवासे तथा श्राद्धे न खादेद् दन्तधावनम् ।
दन्तानां काष्ठसंयोगः हन्ति सप्त कुलान्य् अपि ॥

इति तेनैवोक्तत्वात् । विष्णुर् अपि - “पतितपाषण्डसंभाषणानृतस्तेयादिकं वर्जयेत्” इति । कूर्मपुराणे ऽपि ।

कांस्यं मांसं मसूरं च चणकं कोद्रमाषकान् ।
शाकं मधु परान्नं च त्यजेद् उपवसन् स्त्रियम् ॥ इति ।

उपवसन् उपवत्स्यन्न् इत्य् अर्थः । अतो दशम्याम् एते नियमाः । स्मृत्यन्तरे ऽपि ।

असत्यभाषणं द्यूतं दिवास्वापं च मैथुनम् ।
एकादश्यां न कुर्वीत उपवासपरो नरः ॥ इति ।

ब्रह्माण्डपुराणे ऽपि ।

कांस्यं मांसं सुरां क्षौद्रं तैलं वितथभाषणम् ।
व्यवायं च प्रवासं च दिवास्वापम् अथाञ्जनम् ॥
तिलपिष्टं मसूरं च द्वादशैतानि वैष्णवः ।
द्वादश्यां वर्जयेन् नित्यं सर्वपापैः प्रमुच्यते ॥

बृहस्पतिर् अपि ।

दिवानिद्रां परान्नं च पुनर् भोजनमैथुने ।
क्षौद्रं कांस्यामिषं तैलं द्वादश्याम् अष्ट वर्जयेत् ॥

अङ्गिरा अपि ।

सायम् आद्यन्तयोर् अह्नोः सायं प्रातश् च मध्यमे ।
उपवासफलप्रेप्सुर् जह्याद् भक्तचतुष्टयम् ॥ इति ।

न चात्र फलश्रवणात् काम्योपवासविषयम् इति शङ्कनीयम्, नित्ये ऽप्य् उपात्तदुरितक्षयादिफलसंबन्धात् । केचित् तु - नित्ये फलाभावाद् यान्य् एकभक्तानीति तानि,

य इच्छेद् विष्णुसायुज्यं श्रियं सन्ततिम् एव च ।
एकादश्यां न भुञ्जीत पक्षयोर् उभयोर् अपि ॥

इत्यादिविहितकाम्योपवासविषयाणीति वर्णयन्ति । यद् अत्र युक्तं तद् ग्राह्यम् । अत्रोपवासग्रहणविधिम् आह देवलः ।

गृहीत्वौदुम्बरं पात्रं वारिपूर्णम् उदङ्मुखः ।
उपवासं तु गृह्णीयात् यद् वा संकल्पयेद् बुधः ॥ इति ।

औदुम्बरं ताम्रमयं पात्रं जलपूर्णम् उदङ्मुखः आदाय उपवासं गृह्णीयात्, यद् वा संकल्पयेत् संकल्पमात्रं कुर्याद् इत्य् अर्थः । अत्र पात्रग्रहणं प्रथमसंकल्पविषयं काम्योपवासविषयं चेति कैश्चिद् उक्तम् । संकल्पमन्त्रो ऽपि तेनैव दर्शितः ।

एकादश्यां निराहारो भूत्वाहम् अपरे ऽहनि ।
भोक्ष्यामि पुण्डरीकाक्ष गतिर् मम भवाच्युत ॥ इति ।

विष्णुस् तु मन्त्रान्तरम् आह ।

एकादश्यां निराहारः स्थित्वाहम् अपरे ऽहनि ।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत ॥ इति ।

मन्त्रोच्चारणानन्तरं कात्यायनः ।

इत्य् उच्चार्य ततो विद्वान् पुष्पाञ्जलिम् अथार्पयेत् । इति ।

एवम् उपवाससमर्पणम् अपि द्रष्टव्यम् । तद् आह नारदः ।

मन्त्रम् उच्चार्य यत्नेन पुष्पाञ्जलिम् अथार्पयेत् ।
अज्ञानतिमिरान्धस्य व्रतेनानेन केशव ॥
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव ।
एवं समर्पयेद् विद्वान् पारणं समनन्तरम् ॥ इति ।

एतच् च सूतकादाव् अपि कार्यम् । तद् उक्तं विष्णुरहस्ये ।

परमापदम् आपन्नो हर्षे वा समुपस्थिते ।
सूतके मृतके वापि न त्याज्यं द्वादशीव्रतम् ॥ इति ।

अत्र वराहपुराणोक्तो विशेषः ।

सूतके तु नरः स्नात्वा प्रणम्य मनसा हरिम् ।
एकादश्यां न भुञ्जीत व्रतम् एतन् न लुप्यते ॥
द्वादश्यां तु ततो भुक्त्वा सूतकान्ते जनार्दनम् ।
पूजयित्वा विधानेन पूजयेच् च द्विजोत्तमान् ॥
मृतके ऽपि न भुञ्जीत एकादश्यां सदा नरः ।
द्वादश्यां तु समश्नीयात् स्नात्वा विष्णुं प्रणम्य च ॥ इति ।

उपवासाशक्तौ तु विष्णुरहस्योक्तम् ।

असामर्थ्ये शरीरस्य व्रते च समुपस्थिते ।
कारेयेद् धर्मपत्नीं तु पुत्रं वा विनयान्वितम् ॥

कात्यायनो ऽपि ।

पितुर् मातुर् भ्रातुर् अर्थे आचार्यार्थे विशेषतः ।
उपवासं तु कुर्वाणः पुण्यं शतगुणं लभेत् ॥
यम् उद्दिश्य कृतो विद्वान् सो ऽपि संपूर्णम् आप्नुयात् ।
नारी स्वपतिम् उद्दिश्य एकादश्याम् उपोषिता ।
पुण्यं शतगुणं प्राहुः मुनयः पारदर्शिनः ॥
उपवासफलं तस्याः पतिः प्राप्नोत्य् असंशयः ॥ इति ।

अथ वा स्मृत्यन्तरोक्तम् ।

उपवासे त्व् अशक्तानाम् अशीतेर् ऊर्ध्वजीविनाम् ।
एकभुक्तादिका कार्येत्य् आह बोधायनो मुनिः ॥

अनेनैवाभिप्रायेण मार्कण्डेयो ऽपि ।

एकभुक्तेन नक्तेन तथैवयाचितेन च ।
उपवासेन दानेन न निर्द्वादशिको भवेत् ॥

नक्ते तु विशेषम् आह व्यासः ।

हविष्यभोजनं स्नानं सत्यम् आहारलाघवम् ।
अग्निकार्यम् अधःशय्यां नक्तभोजी समाचरेत् ॥ इति ।

एवं कुर्वतः फलम् आह नारदीयपुराणे वसिष्ठः ।

हरिदिनम् उपवासैर् यः क्षपेत् प्राप्य जन्तुः
न विशति जठरं विण्मूत्रपूर्णं जनन्याः ॥
बहुवृजिनसमेतः कामरागाभिभूतो
व्रजति पदम् अनन्तं लोकनाथस्य विष्णोः ॥

इति स्मृतिचन्द्रिकायाम् एकादशीनिर्णयः

एकादशीद्वैधनिर्णयः

**अथैकादशीद्वैधनिर्णयः **

तत्र स्कन्दपुराणम् ।

प्रतिपत्प्रभृतयः सर्वा उदयादोदयाद् रवेः ।
संपूर्णा इति विख्याता हरिवासरवर्जिताः ॥ इति ।

कीदृशस् तर्हि संपूर्णो हरिवासर इत्य् अपेक्षिते गारुडपुराणम् ।

उदयात् प्राग् यदा विप्र मुहूर्तद्वयसंयुता ।
संपूर्णैकादशी नाम तत्रैवोपवसेद् गृही ॥
पुनः प्रभातसमये घटिकैका यदा भवेत् ।
अत्रोपवासो विहितश् चतुर्थाश्रमवासिनाम् ॥
विधवायाश् च तत्रैव परतो द्वादशी न चेत् ॥ इति ।

अनेन यत्र त्रयोदश्यां द्वादशी नास्ति किं त्व् एकादश्य् एव दिनद्वययुता तत्र या संपूर्णैकादशी तस्याम् उपवासं गृही कुर्याद् अपरस्यां यत्यादय इत्य् उक्तं भवति । उक्तं च स्मृत्यन्तरे ।

संपूर्णैकादशी यत्र प्रभाते पुनर् एव सा ।
लुप्यते द्वादशी तस्मिन्न् उपवासः कथं भवेत् ॥
उपोष्ये द्वे तिथी तत्र विष्णुप्रीणनतत्परैः ॥ इति ।

तस्मिन् त्रयोदशे ऽहनि यदा द्वादशी नास्ति तदा पूर्वोक्ताधिकारिभेदेन द्वे तिथी उपोष्ये न त्व् एकैवेत्य् अर्थः । अत एव कूर्मपुराणे ।

संपूर्णैकादशी यत्र प्रभाते पुनर् एव सा ।
उत्तरां तु यतिः कुर्यात् पूर्वाम् उपवसेद् गृही ॥ इति ।

अस्मिन्न् एव विषये यदा त्रयोदश्याम् अपि द्वादशी तदा द्वितीयैकादश्याम् एवोपवासः । तथा च भृगुः ।

संपूर्णैकादशी यत्र प्रभाते पुनर् एव सा ।
तत्रोपोष्या द्वितीया तु परतो द्वादशी यदि ॥ इति ।

अस्मिन्न् एव विषये यदा द्वादश्याम् एकादशी नास्ति तदा द्वादश्याम् एवोपवासः । तथा च स्मृत्यन्तरम् ।

एकादशी भवेत् पूर्णा परतो द्वादशी यदि ।
एकादशीं परित्यज्य द्वादशीं समुपोषयेत् ॥ इति ।

एवं च यत्र दशमीशेषस्योदयात् प्राचीनमुहूर्तद्वयाननुप्रवेशः तत्रोपवासः कार्य इत्य् उक्तं भवेति । अनुप्रवेशे तु गारुडपुराणोक्तम् ।

उदयात् प्राक् त्रिघटिकाव्यापिन्य् एकादशी यदा ।
संविद्धैकादशी नाम वर्ज्या धर्मार्थकाङ्क्षिभिः ॥
पुत्रराज्यसमृद्ध्यर्थं द्वादश्यां समुपोषयेत् ।
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम् ॥
आदित्योदयवेलायाम् आरद्धा षष्टिनाडिका ।
संकीर्णैकादशी नाम ज्याज्या धर्मफलेप्सुभिः ॥
पुत्रपौत्रप्रवृद्ध्यर्थं द्वादश्याम् उपवासयेत् ।
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणे ॥ इति ।

एवं च यतैकादशी द्वादश्यां नास्ति, द्वादशी न च त्रयोदश्याम्, दशमीशेषस्योदयात् प्राचीनमुहूर्तद्वयानुप्रवेशः तत्रैकादशीं परित्यज्य द्वादश्याम् उपोष्य त्रयोदश्यां पारणम् इत्य् उक्तं भवति । अनेनैवाभिप्रायेण कण्वो ऽपि ।

अरुणोदयवेलायां दशमी यदि संगता ।
तत्रोपोष्या द्वादशी स्यात् त्रयोदश्यां तु पारणम् ॥
अरुणोदयवेलायां दशमी यदि संयुता ।
रविचक्रार्धमात्रापि द्वादशीम् उपवासयेत् ॥
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम् ॥
अरुणोदयवेलायां विद्धा काचिद् उपोषिता ।
तस्याः पुत्रशतं नष्टं तस्मात् तां परिवर्जयेत् ॥

भविष्यत्पुराणे ऽपि ।

अरुणोदयवेलायां दशमी यदि विद्यते ।
पापमूलं सदा ज्ञेयम् एकादश्य् उपवासिनाम् ॥

नारदो ऽपि ।

अरुणोदयवेलायां दशमी यदि दृश्यते ।
न तत्रैकादशी कार्या धर्मकामार्थनाशिनी ॥

गोबिहो ऽपि ।

अरुणोदयवेलायां दशमी यदि संगता ।
संयुक्तैकादशीपुण्यं मोहिन्यै दत्तवान् विभुः ॥
उदयाद् उपरिविद्धा दशम्य् एकादशी यदा ।
दानवेभ्यः प्रीणनार्थं दत्तवान् पाकशासनः ॥
तस्मात् सर्वप्रयत्नेन संकीर्णैकादशीं त्यजेत् ।
द्वादश्याम् उपवासो ऽत्र त्रयोदश्यां तु पारणम् ॥

अरुणोदयाभ्प्रायेण नारदीयपुराणे मोहिनीवाक्यम् ।

अग्नेर् विहारकाले तु वध्वा उत्थापने तथा ।
गवां दोहनकाले ऽपि पक्षिसंनादने तथा ॥
निर्गमे सर्ववेदानां मार्जनीग्रहणे तथा ।
द्वारोद्घाटनवेलायां स्नानकाल उपस्थिते ॥
व्रतिनां दीक्षितानां च वादित्रनिनदे तथा ।
तथा प्रान्तो दशम्या यस् त्व् एकादश्या समन्वितः ॥
प्रदीयतां निवासार्थं कालो विबुधसत्तमाः ।
तन् मोहिन्या वचः श्रुत्वा सुराः सर्वे महीयते ॥
संमन्त्र्य सुचिरं कालं दिगम्बरपुरोगमाः ।
यमस्य दर्शनार्थाय वैकुठध्वंसनाय च ॥
पाषण्डिनां विवृद्ध्यर्थं पापसंजननाय च ।
ऊचुस् ते मोहिनीं देवाः लोकसंमोहनाय वै ॥
दत्तं मोहिनि ते स्थानं प्रत्यूषसमये हि तत् ।
दुष्टं हरिदिनोपेतं दशम्याः प्रान्तम् एव हि ॥ इति ।

अरुणोदयविद्धां परित्यजेद् इति भावः । अरुणोदयो ऽपि पुराणे दर्शितः ।

चतस्रो घटिकाः प्रातर् अरुणोदय उच्यते ।
यतीनां स्नानकालस् तु गङ्गाम्बुसदृशः स्मृतः ॥ इति ।

यतयो ऽत्र नियताः । तेषां स्नानकाल इति । अनेन उदयात् प्राचीनं घटिकाचतुष्टयम् अरुणोदय इत्य् उक्तं भवति । अरुणोदयाभिप्रायेण नारदो ऽपि ।

दशम्यानुगता यत्र तिथिर् एकादशी भवेत् ।
तत्रापत्यविनाशश् च परेत्य नरकं व्रजेत् ।\

विष्णुरहस्ये ऽपि ।

दशमीसेषसंयुक्ताम् उपोष्यैकादशीं किल ।
संवत्सरकृतेनेह नरो धर्मेण मुच्यते ॥
दशमीशेषसंयुक्ता गान्धार्या समुपोषिता ।
तस्याः पुत्रशतं नष्टं तस्मात् तां परिवर्जयेत् ॥

ब्रह्मकैवर्ते ।

दशमीशेषसंयुक्तां यः करोति विमूढधीः ।
एकादशीफलं तस्य न स्याद् द्वादशवार्षिकम् ॥ इति ।

एवं च यानि विद्धोपवासनिषेधपराणि तानि सर्वाण्य् अरुणोदयवेधाभिप्रायाणीति मन्तव्यम् । अत एव भविष्यपुराणम् ।

अरुणोदयं यदा शुद्धं दशमीवेधवर्जितम् ।
सर्वदोषविनिर्मुक्तम् उपोष्यं तद् दिनं स्मृतम् ॥ इति ।

यदा तु शुद्धम् अरुणोदयं वेधराहित्येन जानाति तदा सर्वदोषरहितं तद् दिनम् उपोष्यम् इत्य् अर्थः । एवं च यत् कैश्चिद् उक्तम् “यानि विद्धोपवासनिषेधपराणि तान्य् उदयाद् ऊर्ध्वविषयाणि” इति, तद् अपास्तम् । ततो यत्र दशमीविद्धैकादशी द्वादश्यां नास्ति तत्र द्वादश्याम् उपोष्य त्रयोदश्यां पारणं कार्यम् इति सिद्धम् । यत् तु हारीतेनोक्तम्,

त्रयोदश्यां यदा न स्याद् द्वादशी घटिकाद्वयम् ।
दशम्य् एकादशी विद्धा सैवोपोष्या सदा तिथिः ॥

यद् अपि ऋष्यशृङ्गेण,

पारणे न हि लभ्येत द्वादशी कलयापि चेत् ।
तदानीं दशमीविद्धा उपोष्यैकादशी तिथिः ॥

इति, यद् अपि विष्णुरहस्ये,

दशमीशेषसंयुक्ता उपोष्यैकादशी तथा ।
यदा न स्यात् त्रयोदश्यां मुहूर्तं द्वादशी तिथिः ॥

इति, एतत् सर्वम् एकादशीदिनक्षयविषयम् । अत एव नारदः ।

दशमीशेषसंयुक्ता नोपोष्यैकादशी तिथिः ।
एकादश्यां रात्रिशेषे द्वादशी चेन् न दृश्यते ॥ इति ।

यदैकादशीदिवसे क्षयो न भवति तदा दशमीविद्धा नोपोष्येत्य् अर्थः । अनेनैकादशीदिनक्षये दशमीविद्धोपोष्येत्य् एतद् अर्थाद् उक्तं भवति । उक्तं च तेनैव ।

यदि दैवात् तु संसिद्ध्येद् एकादश्यां तिथित्रयम् ।
तत्र क्रतुशतं पुण्यं द्वादश्यां पारणं भवेत् ॥

कूर्मपुराणे ।

द्विस्पृगेकादशी यत्र तत्र संनिहितो हरिः ।
ताम् एवोपवसेत् कामम् अकामो विष्णुतत्परः ॥

दशमीं द्वादशीं च या स्पृशति सा द्विस्पृक् । पुराणे ऽपि ।

दिनक्षयमृते देवि नोपोष्या दशमीयुता ।
सैवोपोष्या सदा पुण्या परतश् चेत् त्रयोदशी ॥ इति ।

यदैकादशीदिनक्षयः त्रयोदश्यां च न द्वादशी तदैव दशमीविद्धोपोष्या नान्यथेय् अर्थः । अनेन यस्मिन् दिनक्षये त्रयोदश्याम् अपि द्वादशी तस्मिन् नैवोपवसेद् इत्य् अर्थाद् उक्तं भवति । अत एव व्यासः ।

एकादशी यदा लुप्ता परतो द्वादशी भवेत् ।
उपोष्या द्वादशी तत्र यदीच्छेत् परमां गतिम् ॥

लुप्ता क्षयं गता । परतः त्रयोदश्याम् इत्य् अर्थः । यत् तु गोभिलेनोक्तम्,

एकादश्यां यदा ब्रह्मन् दिनक्षयतिथिर् भवेत् ।
तदा ह्य् एकादशीं त्यक्त्वा द्वादश्याम् उपवासयेत् ॥
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम् ॥

इति, यद् अपि पितामहेन,

एकादश्यां यदा वत्स दिनक्षयतिथिर् भवेत् ।
अत्रोपोष्या द्वादशी स्यात् त्रयोदश्यां तु पारणम् ॥

इति, तत् पुत्रवद्गृहिविषयम्, तस्यैव दिनक्षयोपवासनिषेधात् । तथा च मत्स्यपुराणम् ।

दिनक्षये ऽर्कसंक्रान्त्यां ग्रहणे चन्द्रसूर्ययोः ।
उपवासं न कुर्वीत पुत्रपौत्रसमन्वितः ॥

व्यासो ऽपि ।

एकादशीषु नष्टासु रविसंक्रमणेषु च ।
पारणं चोपवासं च न कुर्यात् पुत्रवान् गृही ॥ इति ।

पितामहो ऽपि ।

एकादशीदिनक्षय उपवासं करोति यः ।
तस्य पुत्रा विनश्यन्ति मघायां पिण्डदो यथा ॥ इति ।

एवं च यानि विद्धोपवासनिषेधपराणि तानि सर्वाण्य् एकादशीदिनक्षयव्यतिरिक्तविषयाणीति मन्तव्यम् । उक्तं च पुराणे ।

दिनक्षयमृते देवि नोपोष्या दशमीयुता । इति ।

अनेनैवाभिप्रायेण कूर्मपुराणे ऽपि ।

कलार्धेनापि विद्धा स्याद् दशम्यैकादशी यदा ।
तदा ह्य् एकादशीं त्यक्त्वा द्वादशीं समुपोषयेत् ॥
द्वादश्याम् उपवासो ऽत्र त्रयोदश्यां तु पारणम् ॥

व्यासो ऽपि ।

दशमीमिश्रिता पूर्वा द्वादशी यदि लुप्यते ।
एकादश्यां महाप्राज्ञ उपवासः कथं भवेत् ॥
शुद्धैव द्वादशी राजन्न् उपोष्या मोक्षकाङ्क्षिभिः ।
पारणं तु त्रयोदश्यां पूजयित्वा जनार्दनम् ॥

स्कन्दपुराणे ऽपि ।

शुद्धं हरिदिनं न स्यात् द्वादशीं ग्राहयेत् ततः ।
द्वादश्याम् उपवासो ऽत्र त्रयोदश्यां तु पारणम् ॥
एवं कुर्वन् नरो भक्त्या विष्णुसायुज्यम् आप्नुयात् ।
अन्यथा कुरुते यस् तु स याति नरकं ध्रुवम् ॥ इति ।

एवं वेधसंदेहे ऽपि द्रष्टव्यम् । अत एव कूर्मपुराणम् ।

बहुवाक्यविरोधेन संदेहो जायते यदा ।
द्वादशी तु तदा ग्राह्या त्रयोदश्यां तु पारणम् ॥ इति ।

एवं च यत्र दशमीविद्धैकादशी द्वादश्यां नास्ति द्वादशी च त्रयोदश्याम्, तत्र द्वादश्याम् उपोष्य त्रोयोदश्यां पारणं कार्यम् इत्य् उक्तं भवति । अस्मिन्न् एव विषये यदा द्वादश्याम् प्य् एकादशी तदा द्वितीयैकादश्याम् एवोपवासः । तथा च नारदः ।

द्वादश्यैकादशी यत्र संगता त्रिदशाधिप ।
ताम् उपोष्य ततः कुर्यात् त्रयोदश्यां तु पारणम् ॥ इति ।

बोधायनो ऽपि ।

कलाप्य् एकादशी यत्र परतो द्वादशी न चेत् ।
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम् ॥

पुराणे ऽपि ।

द्वादशीमिश्रिता ग्राह्या सर्वत्रैकादशी तिथिः ।
द्वादशी च त्रयोदश्यां विद्यते यदि वा न वा ॥ इति ।

अस्मिन् विषये यदा त्रयोदश्याम् अपि द्वादशी तदा द्वितीयैकादश्याम् एवोपवासः । तथा च नारदीयपुराणं ।

द्वादश्य् एकादशी यत्र द्वादशी परतो ऽपि वा ।
द्वादशीपारणं कुर्यात् क्रतुकोटिफलं भवेत् ॥

पुराणे ऽपि ।

एकादशीकलायुक्ता येन द्वादश्य् उपोषिता ।
किं तस्य बहुभिर् यज्ञैर् अश्वमेधादिभिर् नृप ॥
एकादशी द्वादशी च तत्र संनिहितो हरिः ।
उपोष्य रजनीम् एकां ब्रह्महत्यां व्यपोहति ॥ इति ।

अस्मिन्न् एव विषये द्वादश्याम् एकादशी नास्ति तदा द्वादश्याम् एवोपवासः । तथा च नारदीयपुराणम् ।

उपोष्या द्वादशी शूद्धा द्वाध्याम् एव पारयेत् ।
निर्गता चेत् त्रयोदश्यां कला वा द्विकलापि वा ॥ इति ।

द्वादशीदिनक्षये कूर्मपुराणे ।

एकादशी द्वादशी च रात्रिशेषे त्रयोदशी ।
त्रिभिर् मिश्रा तिथिः कर्या सर्वपापहरा स्मृता ॥
उपवासः कृतस् तस्यां महापातकनाशनम् ।
एकादशी द्वादशी च रात्रिशेषे त्रयोदशी ॥
तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम् ॥

स्कन्दपुराणे ऽपि ।

द्वादशीसंगता यत्र भवत्य् एकादशी तिथिः ।
दिनक्षये ऽपि सा पुण्या निरस्या न कथंचन ॥ इति ।

यत् तु वृद्धशातातपेनोक्तम्,

दशम्यैकादशी विद्धा द्वादशी च क्षयं गता ।
क्षीणा सा द्वदशी ज्ञेया नक्तं तत्र विधीयत् ॥

यद् अपि विष्णुधर्मोत्तरे,

एकादशी यदा विद्धा द्वादशी च क्षयं गता ।
क्षीणा सा द्वादशी ज्ञेया नक्तं तत्र विधीयते

इति, तत् पुत्रवद्गृहिविषयम्, तस्यैव दिनक्षयोपवासनिषेधात् । तथा च मत्स्यपुराणम् ।

एकादशी द्वादशी च विशेषेण त्रयोदशी ।
उपवासं न कुर्वीत पुत्रपौत्रसमन्वितः ॥

नन्व् अनेनोपवासो निषिध्यते न नक्तविधानम् । मैवम्, निषिद्दस्योपवासस्य वायुपुराणे नक्तविधानात् ।

उपवासनिषेधे तु भक्ष्यं किंचित् प्रकल्पयेत् ।
न दुष्यत्य् उपवासेन उपवासफलं लभेत् ॥ इति ।

भक्ष्यप्रकल्पनम् अपि तत्रैवानन्तरम् उक्तम् ।

नक्तं हविष्यान्नम् अनोदनं वा यवास् तिलाः क्षीरम् अथाम्बुवाज्यम् ।
यत् पञ्चगव्यं यदि वापि वायुः प्रशस्तम् अत्रोत्तरम् उत्तरं च ॥ इति ।

एवं यद् उक्तं व्यासेन,

एकादशी द्वादशी च रात्रिशेषे त्रयोदशी ।
द्वादश द्वादशीर् हन्ति त्रयोदश्यां तु पारणम् ॥

इति, तत् पुत्रवद्गृहिविषयम् इत्य् अनुसंधेयम् । ननु च यानि त्रयोदशीपारणपराणि तेष्व् एव “तत्र क्रतुशतं पुण्यम्” इत्यादिफलश्रवणात्, तानि काम्योपवासाभिप्रायाणि, विद्धोपवासविधिपराणि तु नित्योपवासविषयाणीति व्यवस्था किं न स्यात् । मैवम्,

यदि दैवात् तु संसिद्ध्येद् एकादश्यां तिथित्रयम् ।
तत्र क्रतुशतं पुण्यं द्वादशीपारेणे कृते ॥
द्वादश्य् एकादशी यत्र द्वादशी परतो ऽपि च ।
द्वादशीपारणं कुर्यात् क्रतुकोटिफलं भवेत् ॥

इति द्वादशीपारणे ऽपि फलश्रवणाविशेषात् । किं च,

सर्वत्रैकादशी कार्या द्वादशीमिश्रिता नरैः ।
प्रातर् भवतु वा मा वा यतो नित्यं हि पारणम् ॥
पारणं तु त्रयोदश्यां निष्कामानां विमुक्तिदम् ।

इत्यादिषु त्रयोदशीपारणस्यापि नित्यत्वश्रवणाच् च । अतो नेयं फलश्रुतिः, अपि त्य् अर्थवाद इत् मन्तव्यम् । केचित् तु,

शुद्धैव द्वादशी राजन्न् उपोष्या मोक्षकाङ्क्षिभिः ।
पारणं तु त्रयोदश्यां पूजयित्वा जनार्दनम् ॥

इति वचनाद् यतीनाम् एव मोककाङ्क्षित्वात् तद्विषयाण्य् एव शुद्धद्वादश्युपवासविधिपराणि । विद्धोपवासविधिपराणि तु गृहस्थविषयाण्य् एवेति व्यवस्थापयन्ति । तन् मन्दं, स्वर्गादिफलस्य भङ्गित्वेन सर्वेषाम् अपि मोक्षकाङ्क्षित्वाविशेषात् । किं च,

उपोष्या सर्वदा शुद्धा द्वादशी तु द्विजोत्तमैः ।
क्षत्रैर् वैश्यैश् तथा शुद्धैः किम् अन्यच् छ्र्तोतुम् इच्छसि ॥

इति शुद्धद्वादश्युपवासे यतिव्यतिरिक्तानाम् अप्य् अधिकारदर्शनात् । तथा,

एकादशी दिशा विद्धा परतो न निवर्तते ।
गृहिभिर् यतिभिश् चैव सैवोपोष्या सदा तिथिः ॥

इति मत्स्यपुराणे यतीनाम् अपि विद्धोपवासविधानाच् च । यद् अन्यैर् उक्तम्,

संपूर्णैकादशी यत्र प्रभाते पुनर् एव सा ।
उत्तरां तु यतिः कुर्यात् पूर्वाम् उपवसेद् गृही ॥

इत्य् अत्र यतीनां त्रयोदश्यां पारणदर्शनात् तद्विषयाण्य् एव त्रयोदशीपारणपराणि, विद्धोपवासविधिपराणि तु गृहस्थविष्याण्य् एवेति, तद् अपि पूर्वोक्तवचनद्वयेनैवापास्तम् इत्य् उपेक्षणीयम् । अपरे तु विद्धोपवासविधिपराण्य् अरुणोदयवेधविषयाणि, द्वादश्युपवासविधिपराणि तूदयाद् ऊर्ध्वविषयाणीति मन्यन्ते, तद् अपि त्रयोदशीपारणविधिविरुद्धम् इत्य् उपेक्षणीयम् । ननु च कथं त्रयोदश्यां पारणं, यावता कूर्मपुराणे,

एकादश्याम् उपोष्यैव द्वादश्यां पारणं स्मृतम् ।
त्रयोदश्यां न तत् कुर्याद् द्वादशद्वादशीक्षयात् ॥

इति त्रयोदशीपारणनिषेधात् । श्रीविष्णुरहस्ते ऽपि ।

पारणं तु न कर्तव्यम् उपोष्यैकादशीम् इह ।
त्रयोदश्यां नरैर् नित्यं धर्मवृद्धिम् अभीप्सुभिः ॥ इति ।

स्मृत्यन्तरे ऽपि ।

दशम्यनुगता हन्ति द्वादशद्वादशीफलम् ।
धर्मापत्यधनायूंषि त्रयोदश्यां तु पारणम् ॥ इति ।

उच्यते - सत्यम् एवम्, तथापि यत्र त्रयोदश्यां द्वादशीसंभवः तत्र ताम् अतिक्रम्य त्रयोदश्यां पारणं न कार्यम् इत्य् एवंपरम्, न पुनः शुद्धत्रयोदश्याम् । अत एव कूर्मपुराणम् ।

यदा भवति चाल्पा तु द्वादशी पारणे दिने ।
उषःकाले द्वयं कुर्यात् प्रातर्माधाह्निकं तथा ॥

नारदीयपुराणे ऽपि ।

अल्पायाम् अथ विप्रेन्द्र द्वादश्याम् अरुणोदये ।
स्नानार्चनक्रियाः कुर्याद् दानहोमादिसंयुताः ॥
त्रयोदश्यां तु शुद्धायां पारणम् पृथिवीफलम् ।
शतयज्ञाधिकं वापि नरः प्राप्नोत्य् असंशयः ॥
एतस्मात् कारणाद् विप्राः प्रत्यूषे स्नानम् आचरेत् ।
पितृतर्पणसंयुक्तम् अल्पां दृष्ट्वैव द्वादशीम् ॥
महाहानिकरी ह्य् एषा द्वादशी लङ्घिता नृणाम् ।
करोति धर्महरणम् अस्नातेव सरस्वती ॥

न च,

यां तिथिं समनुप्राप्य उदयं याति भास्करः ।
सा तिथिः सकला ज्ञेया स्नानदानजपादिषु ॥

इति देवलवचनाद् द्वादश्यतिक्रमे ऽपि न दोष इति शङ्कनीयम् । यत आह नारदीयपुराणे वसिष्ठः ।

पारणे मरणे नॄणां तिथिस् तात्कालिकी स्मृता । इति ।

यस्मिन् काले पारणं मरणं वा तत्र तात्कालिक्य् एव तिथिः न पुनः सा तिथिः सकला ज्ञेयेत्य् एतद् भवतीत्य् अर्थः । यत्र पुनस् त्रयोदश्यां कलामात्रैव द्वादशी तत्र पुराणोक्तम् ।

त्रयोदश्यां यदा राजन् द्वादश्यास् तु कला भवेत् ।
सा तिथिः सकला चेति वसिष्ठः प्राह धर्मवित् ॥ इति ।

एवं च यानि त्रयोदशीपारणनिषेधपराणि तानि त्रयोदश्यां द्वादशीसंभवविषयाणीति सिद्धम् । यानि पुनः,

कला काष्ठा मुहूर्तं वा यदि चेद् अपरे ऽहनित् ।
द्वादश द्वादशीर् हन्ति त्रयोदश्यां तु पारणम् ॥

इति, त्रयोदश्यां द्वादशीसंभवम् अनूद्य पारणनिषेधपराणि, तानि,

विद्धाप्य् एकादशी ग्राह्या परतो द्वादशी न चेत् ।
द्वादश द्वादशीर् हन्ति त्रदश्यां तु पारणम् ॥

इत्यादिभिः समानार्थानीत्य् अनवद्यम् । एवं च यत् कैश्चिद् उक्तं त्रयोदश्यां द्वादशीसंभवे ऽपि त्रयोदशीपारणं न दोषायेति, तद् अपास्तम् ॥

**इति स्मृतिचन्द्रिकायाम् एकादशीद्वैधनिर्णयः **

अपराह्णनिर्णयः

अपराह्णनिर्णयः

एवं प्रसक्तन् अनुप्रसक्तं च परिसमाप्याधुना प्रकृता अप्राह्णनिर्णयः क्रियते । तत्र शातातपः ।

दर्शश्राद्धं तु यत् प्रोक्तं पार्वणं तत् प्रकीर्तितम् ।
अपराह्णे पितॄणां च तत्र दानं प्रशस्यते ॥

अपराह्णो ऽपि पञ्चधाविभक्तस्याध्नश् चतुर्थो भाग इत्य् आह व्यासः ।

मुहूर्तत्रितयं प्रातः तावान् एव च सङ्गवः ।
मध्याह्नस् त्रिमुहूर्तः स्याद् अपराह्णो ऽपि तादृशः ॥
सायाह्नस् त्रिमुहूर्तस् तु सर्वकर्मबहिष्कृतः ॥ इति ।

वाजसनेयश्रुतिर् अपि - “आदित्यो वै सर्वा ऋतवः स यदैवोदेत्य् अथ वसन्तो यदा सङ्गवो ऽथ ग्रीष्मो यदा मध्यन्दिनो ऽथ शरद् यदापराह्णस् तदा वर्षा यदास्तम् एत्य् अथ हेमन्तः” इति । श्रुत्यन्तरे तु त्रेधा विभक्तस्याह्नस् तृतीयभागे ऽपराह्णशब्दः प्रयुक्तः - “पूर्वाह्णो वै देवानां मध्यंदिनं मनुष्याणाम् अप्राह्णः पितॄणाम्” इति । मनुस् तु द्वेधा विभक्तस्याह्नो द्वितीयभागे ऽपराह्णशब्दम् आह ।

यथा चैवापरः पक्षः पूर्वपक्षाद् विशिष्यते ।
तथा श्राद्धस्य पूर्वाह्णाद् अपराह्णो विशिष्यते ॥

स्कन्दपुराणे ऽपि ।

आवर्तनात् तु पूर्वाह्णो ह्य् अपराह्णस् ततः परः । इति ।

आवर्तनावधिः पूर्वाह्णः इत्य् अर्थः । एवम् अनेकधापराह्णशब्दप्रयोगे ऽपि मनूक्त एवापराह्णशब्दार्थः स्वीक्रियते ।

शुक्लपक्षस्य पूर्वाह्णे श्राद्धं कुर्याद् द्विजोत्तमः ।
कृष्णपक्षापराह्णे तु रौहिणं तु न लङ्घयेत् ॥

इति मार्कण्डेयेन द्वेधा विभक्तस्याह्नो द्वितीयभागे श्राद्धावधानात्, तथा “रौहिणं तु न लङ्घयेत्” इति चतुर्थभागाद् अर्वाग् एव समाप्तिविधानाच् च । रौहिणो नवमो मुहूर्तः । किं च,

भूतविद्धा त्व् अमावास्या प्रतिपन्मिश्रितापि वा ।
पित्र्ये कर्मणि विद्वद्भिः ग्राह्या कुतपकालिकी ॥

इति हारीतः श्राद्धाङ्गत्वेन कुतपकालं विधत्ते, तद् अपि न स्यात् । ननु नानेन कुतपकालस्य श्राद्धाङ्गत्वम् अवगम्यते । मैवम्, कुतपकालिकीग्रहणविधेः दृष्टार्थत्वायाङ्गत्वस्यैवोचितत्वात् । उक्तं च पुराणे ।

कुं यत्र गोपतिर् गोभिः कार्त्स्न्येन तपति क्षणे ।
स कालः कुतपो नाम श्राद्धं तत्र पर्दीयते ॥ इति ।

कुः पृथ्वी । गोपतिः सूर्यः । अत्र यत् कैश्चिद् उक्तम् “एकोद्दिष्टं तु मध्याह्ने” इति वचनात् कुतपकालविधानम् एकोद्दिष्टविषयम् एवेति, तद् अनेन दर्शश्राद्दे ऽपि कुतपकालविधानेनापास्तम् । न चैवं सति कुतपापराह्णविध्योर् विकल्पः स्याद् इति शङ्कनीयम्, कुतपोत्तरार्धस्यापराह्णन्तर्भावः । कुतपो हि नाम पञ्चदशमुहूतात्मकस्याह्नो ऽष्टमो मुहूर्तः । तथा च मत्स्यपुराणम् ।

अह्नो मुहूता विख्याता दश पञ्च च सर्वदा ।
तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः ॥ इति ।

वायुपुराणे ऽपि ।

मुहूर्ता सप्तमाद् ऊर्ध्वं मुहूरान् नवमादयः ।
स कालः कुतपो नाम पितॄणां दत्तम् अक्षयम् ॥ इति ।

एवं च यद् अपराह्णे विहितं तद् अपराह्णान्तर्गतकुतपे कार्यं विधीयत इत्य् अविरोधः । एतद् अपि प्रारम्भाभिप्रायम् । तद् आह मत्स्यः ।

मध्याह्ने सर्वा यस्मान् मन्दीभवति भास्करः ।
तस्माद् अनन्तफलदः तत्रारम्भो विशिष्यते ॥

गौतमो ऽपि ।

प्रारभ्य कुतपे श्राद्धं कुर्याद् आरौहिणं बुधः ।
विधिज्ञो विधिम् आस्थाय रौहिणं तु न लङ्घयेत् ॥ इति ।

एतच् च कुतपादिश्राद्धविधानम् अनग्निकविषयम्, साग्नेः कृतपिण्डपितृयज्ञस्यैव मनुना श्राद्धविधानात्,

पितृयज्ञं तु निर्वर्त्य विप्रश् चन्द्रक्षये ऽग्निमान् ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यान् मानानुमासिकम् ॥

इति पिण्डपितृयज्ञस्याप्य् अपराह्णकालत्वेन श्राद्धस्य कुतपादित्वासंभवाद् इति भावः । न च,

पितृयज्ञं तु निर्वर्त्य तर्पणाख्यं तु यो ऽग्निमान् ।
पिण्डान्वाहार्यकं श्राद्धं कुर्याद् इन्दुक्षये सदा ॥

इति मत्स्यपुराणवचनात् पितृयज्ञशब्दः तर्पणाख्यपितृयज्ञपर इति साग्नेर् अपि कुतपाद्य् एव श्राद्धम् इति शङ्कनीयम्,

पक्षान्तं कर्म निर्वर्त्य वैश्वदेवं च साग्निकः ।
पिण्डयज्ञं ततः कुर्यात् ततो ऽन्वाहार्यकं बुधः ॥

इति लौगाक्षिना साग्नेः पिण्डपितृयज्ञानन्तरम् एव श्राद्धविधानात् । अतस् तर्पणशब्दो ऽपि कथंचित् पिण्डपितृयज्ञपर इत्य् अवगन्तव्यम् । एवं च यत्र श्राद्धदिने चन्द्रदर्शनेन पिण्डपितृयज्ञप्राप्तिः तत्राग्निमान् कृत्वैव पिण्डपितृयज्ञं श्राद्धं कुर्यात् । अन्यथा तु साग्नेर् अपि कुतपाद्य् एव श्राद्धम् इत्य् अनुसंधेयम् । ननु कुतपादिरौहिनान्तत्वाच् छ्राद्धकालस्य तस्य च कर्मद्वयापर्याप्तत्वात् कथम् अग्निमच् छ्राद्दस्यापि पिण्डपितृयज्ञानन्तर्यम् । मैवम्, मत्स्यपुराणे रौहिनाद् उपर्य् अपि कालविधानात्,

ऊर्ध्वं मुहूर्तं कुतपाद् यन् मुहूर्तचतुष्टयम् ।
मुहूर्तपञ्चकं ह्य् एतत् स्वधाभवम् इष्यते ॥

इति कुतपादिमुहूर्तपञ्चकं श्राद्धस्याङ्गम् इत्य् अर्थः । यत् तु यमेनोक्तम्,

चतुर्थे प्रहरे प्राप्ते यः श्राद्धं कुरुते नरः ।
आसुरं तद् भवेच् छ्राद्धं दाता च नरकं व्रजेत् ॥

इति, तत् चतुर्थप्रहरे प्राप्ते सति यो ऽन्तिमे मुहूर्तत्रये श्राद्धं करोति तस्य दोष इत्य् एवंपरम्, न पुनः प्रहरनिषेधपरं पूर्वोक्तमत्स्यपुराणवचनविरोधात् । उक्तं च तत्रैव ।

सायाह्नस् त्रिउहूर्थः स्याच् छ्राद्धं तत्र न कारयेत् ।
राक्षसी नाम सा वेला गर्हिता सर्वकर्मसु ॥ इति ।

यद् अपि कात्यायनोक्तम्,

पिण्डान्वाहार्यकं श्राद्धं क्षीणे राजनि शस्यते ।
वासरस्य तृतीये ऽंशे नास्तिसंध्यासमीपतः ॥

इति, तद् अपि कूर्मपुराणवचनविरोधात् “वासरस्य तृतीये ऽंशे नातिसंध्यासमीपतः” इति दिनान्तिमे मुहूर्तत्रये न कार्यम् इत्य् एवंपरम्, न पुनर् विशेषेण तृतीयांशए विधिपरम् इति । यद् अपि व्याघ्रपादवचनम्,

विधिज्ञः श्रद्धयोपेतः सम्यक्पात्रनियोजकः ।
रात्रेर् अन्यत्र कुर्वाणः श्रेयः प्राप्नोत्य् असंशयम् ॥

इति, तद् अप्य् उक्तयुक्त्यैव नाहर्मात्रविधिपरम् इति सर्वम् अनवद्यम् । रात्रिनिषेधस्य क्वचिद् अपवादम् आह विष्णुः ।

संध्यारात्र्योर् न कर्तव्यं श्राद्धं खलु विचक्षणैः ।
तयोर् अपि च कर्तव्यं यदि स्याद् राहुदर्शनम् ॥ इति ।

अत्र शातातपः ।

कालातीतं तु यत् कुर्याच् छ्राद्धं होमं जपं तथा ।
व्यर्थीभवति तत् सर्वम् अमृते तु विषं यथा ॥

इति स्मृतिचन्द्रिकायाम् अपराह्णनिर्णयः

श्राद्धकाले शिष्टम्

अथान्यान्य् अपि श्राद्धकालविष्याणि कानिचिद् वचनानि लिख्यन्ते

तत्र विष्णुधर्मोत्तरे मार्कण्डेयः ।

उत्तराद् अयनाद् राजन् श्रेष्ठं स्याद् दक्षिणायनम् ।
याम्यायनाच् चतुर्मासं तत्र सुप्ते तु केशवे ॥
प्रोष्ठपद्यपरः पक्षः तत्रापि च विशेषतः ।
पञ्चम्यूर्ध्वं तु तत्रापि दशम्यूर्ध्वं ततो ऽपि च ॥
मघायुक्तापि तत्रापि शस्ता राजन् त्रयोदशी ॥ इति ।

श्राद्धकालेषूदगयना दक्षिणायनं श्रेष्ठं याम्यायनाद् दक्षिणायनाद् इत्य् अर्थः । तत्र दक्षिणायने केशवे सुप्ते सति मासचतुष्टयं श्रेष्ठम्, याम्यायने ऽप्य् आषाढीं पौर्णमासीम् आरभ्य मासचतुष्टयं श्रेष्ठम् इति यावत् । तत्रापि प्रोष्ठपदमासस्यापरपक्षो विशेषतः श्रेष्ठः । तत्रापि पञ्चम्या ऊर्ध्वं दर्शान्तानि दिनानि श्रेष्ठानि । तत्रापि दशम्या ऊर्ध्वं पञ्चदिनानि श्रेष्ठानि । तेष्व् अपि मखानक्षत्रयुक्ता त्रयोदशी अतिप्रशस्तेत्य् अर्थः । आदित्यपुराणे ऽपि ।

आषाढीम् अवधिं कृत्वा यः स्यात् पक्षस् तु पञ्चमः ।
श्राद्धं तत्र तु कुर्वीत कन्यां गच्छतु वा न वा ॥

पञ्चमे पक्षे सूर्यः कन्याराशिं गच्छतु वा न वेत्य् अर्थः । अत्र न वेति पक्षः कन्यागतत्वाभावे ऽपि तत्र श्राद्धं कुर्वीतेति विधातुं नोक्तम्, किं तु पञ्चमः पक्षः कन्यागतसूर्यरहितो ऽपि श्रेष्ठः किं पुनस् तत्सहित इति दर्शयितुम् इति मन्तव्यम् । अत एव शाट्यायनिः ।

नभस्यस्यापरे पक्षे तिथिषोडशकस् तु यः ।
कन्यागतान्वितश् चेत् स्यात् स कालः श्राद्धकर्मणि ॥ इति ।

तिथिषोडशक इति कदाचित् पक्षवृद्धेः षोडशदिनात्मको ऽपि नभस्यस्यापरः पक्षः श्राद्धकर्मणि कालो न तु तत्र पञ्चदशदिनात्मक एवेति दर्शयितुम् उक्तम् । यद् वा अमावास्याया अनन्तरभूता या प्रतिपत्तिथिः तस्या अपि संग्रहणार्थं तिथिषोडशक इत्य् उक्तम्, प्रतिपदो ऽपि क्षीणचन्द्रत्वेनापरपक्षतुल्यत्वात् । न चैवं वाच्यम्, नभस्यस्यापरे पक्षे कन्यागते सूर्ये सति तद्दिनात् प्रभृति तिथिषोडशकं श्राद्धकालः स्याद् इत्य् अनेन प्रतिपाद्यत इति । यत आह वृद्धमनुः ।

मध्ये वा यदि वाप्य् अन्ते यत्र कन्या रविर् व्रजेत् ।
स पक्षः सकलः पूज्यः श्राद्धं तत्र विधीयते ॥ इति ।

यत्र यस्मिन् पञ्चमे पक्षे यत्र कुत्रचित् कन्यागते सवितरि सति सकलः स पक्षः श्राद्धे प्रशस्ततरकालः । तेन तत्र प्रतिदिनम् एकस्मिन् वा दिने शक्त्यनुसारेण श्राद्धं कर्तव्यम् इत्य् अवगन्तव्यम् । तथा च आदित्यपुराणम् ।

पक्षान्तरे ऽपि कन्यास्थे रवौ श्राद्धं प्रशस्यते ।
कन्यागते पञ्चमे तु विशेषेणैव कारयेत् ॥

पक्षान्तरे ऽपि पञ्चमपक्षात् पक्षान्तरे ऽपीत्य् अर्थः । पञ्चमपक्षस्य प्रशस्ततरत्वम् “विशेषेणैव कारयेत्” इत्य् अनेनोक्तम् । अनेनैवाभिप्रायेण जातूकर्ण्यः ।

आकाङ्क्षन्ति स्म पितरः पञ्चमं पक्षं आश्रिताः ।
तस्मात् तत्रैव दातव्यं दत्तम् अन्यत्र निष्फलम् ॥

प्रशस्तकाले दत्तम् अत्यन्ताधिकफलसाधकम् इत्य् अर्थः । किं पुनः प्रशस्ततरकाले दत्तस्य फलम् इत्य् अपेक्षिते कार्षाजिनिः ।

पुत्रान् आयुस् तथारोग्यम् ऐश्वय्रम् अतुलं तथा ।
प्राप्नोति पञ्चमे दत्वा श्राद्धं कामांश् च पुष्कलान् ॥

पुराणे ऽपि ।

कन्यागते सवितरि यान्य् अहानि तु षोडश ।
क्रतुभिस् तानि तुल्यानि पितॄणां दत्तम् अक्षयम् ॥ इति ।

तद् एतच् छाट्यायनिवचनेन समानार्थतया व्याख्येयम् । प्रशस्ततरकालातिक्रमे दोषो ऽपि कार्ष्णाजिनिना दर्शितः ।

प्रेतास् तं चैव हिंसन्ति पञ्चमं यो व्यतिक्रमेत् ।
तस्मान् नातिक्रमेद् विद्वान् पञ्चमे पैतृकं विधिम् ॥

यदा तु पञ्चमे पक्षे कथंचिद् एतच् छ्राद्धं न कृतं तदा त्व् आह सुमन्तुः ।

कन्याराशौ महाराज यावत् तिष्ठेद् विभावसुः ।
तस्मात् कालाद् भवेद् देयं वृश्चिके यावद् आगतः ॥
येयं दीपान्विता राजन् ख्याता पञ्चदशी भुवि ।
तस्यां दद्यान् न चेद् दत्तं पितॄणां वै महालये ॥ इति ।

महालये महालयाख्ये पञ्चमे पक्षे पितॄणां पितृभ्यो न दत्तं चेत् तदा कन्याराशौ यावद् विभावस्तुस् (?) तिष्ठेत् तावद् अन्यस्मिन् पक्षे ऽपि दद्यात् । तस्मात् कालात् कन्यागतसूर्यान्वितकालात् पश्चात् तुलाराशिगतसूर्यान्विते ऽपि श्राद्धं देयं भवेत् । तत्रापि काले यदि कथंचिन् न दत्तं तदा दीपावल्याख्यायां पञ्चदश्यां दद्याद् इत्य् अर्थः । पुराणे ऽपि ।

कन्यागते सवितरि पितरो यान्ति वै सुतान् ।
शून्या प्रेतपुरी सर्वा यावद् वृश्चिकदर्शनम् ॥
ततो वृश्चिकसंप्राप्तौ निराशाः पितरो गताः ।
पुनस् त्व् अभवनंयान्ति शापं दत्वा सुदारुणम् ॥
सूर्ये कन्यागते कुर्याच् छ्राद्धं यो न गृहाश्रमी ।
धनं पुत्राः कुतस् तस्य पितृनिःश्वासपीडनात् ॥

आदित्यपुराणे ऽपि ।

प्रावृष्य् ऋतौ यमः प्रेतान् पितॄंश् चाथ यमालयात् ।
विसर्जयित्वा मानुष्ये कृत्वा शून्यं स्वकं पुरम् ॥
क्षुधार्ताः कीर्तयन्तश् च दुष्कृतं च स्वयंकृतम् ।
काङ्क्षन्तः पुत्रपौत्रेभ्यः पायसं मधुसंयुतम् ॥
तस्मात् तांस् तत्र विधिना तर्पयेत् पायसेन तु ।
मध्वाजतिलमिश्रेण तथा शीतेन चम्भसा ॥
ग्रासमात्रं परगृहाद् अन्नं यः प्राप्नुयान् नरः ।
भिक्षामात्रेण यः प्राणान् संधारयति वा स्वयम् ॥
यो वा संवर्धयेद् देहं प्रत्यह्ं स्वात्मविक्रयात् ।
श्राद्धं तेनापि कर्तव्यं तैस् तैर् द्रव्यैः सुसंचितैः ॥ इति ।

यमालयात् प्रेतान् पितॄंश् च विसर्जयित्वा स्वकं पुरं शून्यं कृत्वा मनुष्यलोके प्रावृषि भाद्रपदमासकृष्णपक्षप्रभृति यावद् वृश्चिकदर्शनं वासयति तावद् इत्य् अध्याहृतेन संबन्धः । क्षुधार्ताः प्रेताः पितरस् तिष्ठन्तीत्य् अध्याहृतेन संबन्धः । विधिना तर्पयेत् पुत्र इति शेषः । चतुर्विंशतिमते ऽपि ।

आचार्यगुरुशिष्येभ्यः सखिज्ञातिभ्य एव च ।
तत्पत्नीभ्यश् च सर्वाभ्यस् तथैव च जलाञ्जलीन् ॥
पिण्डदानं च तेभ्यस् तु दद्याद् भाद्रपदे नरः ।
तीर्थेषु चैव सर्वेषु माघमासे तथैव च ॥
एकस्मिन् ब्राह्मणे सर्वान् आचार्यादीन् प्रपूजयेत् ।
दश् द्वादश पिण्डांश् च दद्याद् अकरणं न तु ॥
नियामको विधिर् नूनं पक्षे वै पञ्चमे स्मृतः ।
तस्मिन् दत्तं हविर् नूनं पितॄणाम् अक्षयं भवेत् ॥ इति ।

एकस्मिन् ब्राह्मन इत्य् असमर्थविषयम् । समर्थस् तु स्वसामर्थ्यानुसारेण प्रत्येकम् एकैकस्मिन् ब्राह्मणे आचार्यादीन् सर्वान् एकस्मिन् दिने प्रपूजयेत् । एकैकम् आचर्यादिकम् एकैकस्मिन् वा दिने प्रपूजयेत् । तत्र तदा प्रथमः स्वीक्रियते तदा एकपाकेन समानतन्त्रम् आश्रित्य प्रपूजयेत् । तथा च भृगुणा,

एककाले गतासूनां बहूनाम् अथ वा द्वयोः ।
तन्त्रेण श्रपणं कृत्वा कुर्याच् छ्राद्धं पृथक् पृथ ॥
पूर्वकस्य मृतस्यादौ द्वितीयस्य ततः पुनः ।
तृतीयस्य ततः कुर्यात् ॥॥॥॥॥॥॥॥ ॥

इत्य् उक्त्वोक्तम् “संनिपातेष्व् अयं क्रमः” इति । संनिपातेषु समसमये नानाश्राद्धेषु कर्तव्यतयापतितेषु अयं क्रमः तन्त्रेण श्रपणं कृत्वा ज्येष्ठानुक्रमेण श्राद्धानुष्ठाने क्रमो ऽनुसंधेय इत्य् अर्थः । अत्र यद् उक्तं स्मृत्यर्थसारे,

एकः पाको वैश्वदेवं तन्त्रं पिण्डं बर्हिश् चैकम् ।

इति, तत्र “वैश्वदेवं तन्त्रम्” इति चिन्त्यम्, “आचार्यगुरुशिष्यसखिज्ञात्यादीनाम् एकोद्दिष्टविधानेनैव श्राद्धं कार्यम्” इति स्मृतिवचनैर् उक्तत्वात्, तत्र वैश्वदेवासंभवात् “नवमिश्रपुराणानीति त्रिविधान्य् एकोद्दिष्टानि” इत्य् उक्तत्वेन सर्वैकोद्दिष्टेषु दैवं नास्तीति स्मृत्यर्थसार एवोक्तत्वाच् च । स्मृतिवचनानि त्व् अदूरे दर्शयिष्यामः । यमो ऽप्य् अस्मर्थं प्रत्य् आह ।

हंसे वर्षासु कन्यास्थे शाकेनापि गृहे वसन् ।
पञ्चम्योर् अन्तरे दद्याद् उभयोर् अपि पक्षयोः ॥

वर्षासु प्रावृषि हंसे सूर्ये कन्याराशिस्थे पञ्चमपक्षस्य पञ्चमीप्रभृत्यनन्तरपक्षस्य पञ्चमीपर्यन्तसेष्व् अन्यतमे दिवसे यथासंभवं गृही पितृभ्यो दद्याद् इत्य् अर्थः । पञ्चम्योर् अन्तरे चतुर्दशीव्व्यतिर्क्त इति शेषः । तद् आह मरीचिः ।

विषशस्त्रश्वापदाहितिर्यग्ब्राह्मणघातिनाम् ।
चतुर्दश्यां क्रिया कार्या अन्येषां तु विगर्हिता ॥

विषादिब्राह्मणान्तैः कृतः घातः एषां ते पिषशस्त्रश्वापदाहितिर्यग्ब्राह्मणघातिनः । क्रिया श्राद्धक्रिया एकोद्दिष्टविधानेनेति शेषः । तथा च सुमन्तुः (?) ।

समत्वम् आगतस्यापि पितुः शस्त्रहतस्य तु ।
एकोद्दिष्टं सुतैः कार्यं चतुर्दश्यां महालये ॥

समत्वम् एकत्वम् आगतस्यापि कृतसपिण्डीकरणस्यापीत्य् अर्थः । शस्त्रहतस्य पितुः महालये चतुर्दश्याम् एकोद्दिष्टश्राद्धे कृते ऽपि दिनान्तरे पार्वणश्राद्धं कार्यम्, एकोद्दिष्टश्राद्धेन पितामहादितृप्त्यसिद्धेः । नन्व् एवं मृताहे ऽप्य् एकोद्दिष्टश्राद्धे कृते पार्वणश्राद्धम् अपि पितामहादितृप्तिसिद्ध्यर्थं कर्तव्यं स्यात् । मैवम्, पितृमृताहे पितामहादेस् तर्पणीयत्वास्मरणेन तत्तृप्त्यर्थं श्राद्धस्याननुष्ठेयत्वात् । महालयप्रकरणे,

काङ्क्षन्ति पुत्रपौत्रेभ्यः पायसं मधुसंयुतम् ।
तस्मात् तांस् तत्र विधिना तर्पेयेत् पायसेन तु ॥
मध्वाज्यतिलमिश्रेण ॥॥॥॥॥॥। ॥

इति पितामहादेर् अपि तर्पणीयत्वस्मरणात् तत्तृप्तये दिनान्तरे पार्वणश्राद्धं कार्यम् एव । यस्य तु पितामहो ऽपि शस्त्रादिना हतः तस्य महालये पितामहश्राद्धम् अपि चतुर्दश्याम् एकोद्दिष्टरूपं कर्यम् । तथा च स्मृत्यन्तरम् “एकस्मिन् द्वयोर् वैकोद्दिष्टविधिः” इति । एकस्मिन् पितरि शस्त्रादिना हते द्वयोर् वा पितृपितामहयोः चतुर्दश्याम् एकोद्दिष्टविधिना प्रत्येकं श्राद्धं कार्यम् इत्य् अर्थः । द्वयोर् एकोद्दिष्टविधानेन प्रत्येकं श्राद्धे कृते प्रपितामतृप्तिसिद्ध्यर्थं दिनान्तरे पारणश्राद्धं कार्यम्, “एकस्मिन् द्वयोर् वा” इत्य् अभिधानात् । त्रिषु पितृपितामहप्रपितामहेषु शस्त्रादिनिहतेषु नैकोद्दिषविधिर् इति गम्यते । तेषु त्रिषु शस्त्रादिहतेषु चतुर्दश्यां पार्वणविधिर् एव । युक्तं चैतत्, सपिण्डीकृतानां शस्त्रादिहतानां त्रयाणाम् अपि चतुर्दशीरूपविहितकालसंभवे ऽपि विहितकालसंभवनिबन्धनैकोद्दिष्टविधेर् अनवतारात् । अनेनैवाभिप्रायेण् अपरार्केणाप्य् उक्तम् - “तत्र चैकस्य शस्त्रहतत्वे एकोद्दिष्टविधानं न तु त्रयाणां तथात्वे तत्र तु पार्वणम् एव” इति । त्रयाणां तथात्वे शस्त्रहतत्वे नैकोद्दिष्टविधानम्, किं तु पार्वणम् एवेति तस्यार्थः । देवस्वामिना तु “त्रिष्व् अपि शस्त्रहतेषु पृथग् एकोद्दिष्टत्रयम् एव कार्यम्, आहत्य वचनाभावान् न पार्वणम्” इत्य् उक्तम् । यद् अत्र युक्तं तद् ग्राह्यम् । यत् पुनः शाकटायनेनोक्तम्,

जलाग्निभ्यां विपन्नानां संन्यासे वा गृहे पथि ।
श्राद्धं कुर्वीत तेषां वै वर्जयित्वा चतुर्दशीम् ॥

इति, तत् प्रायश्चित्तार्थं विहितजलाग्न्यादिकृतमरणयुक्तविषयम् । ये हि पापमृत्यवः तेषाम् एव जलाग्न्यादिविपन्नानां चतुर्दशी ग्राह्या,

वृक्षारोहणलोहाद्यैर् विद्युज्ज्वालाविषादिभिः ।
नखिदंष्ट्रिविपन्नानां तेषां शस्ता चतुर्दशी ॥

इति प्रचेतसो वचनेन विद्युज्ज्वालादिसमभिव्याहारेण पापमृत्यूनां (?) चतुर्दशी शस्तेत्य् अवगमात् । एतेषाम् अपि मृताहादौ यच् छ्राद्धं तत् पार्वणविधानेनैव कार्यम्,

चतुर्दश्यां तु यच् छ्राद्धं सपिण्डीकरणात् परम् ।
एकोद्दिष्टविधानेन तत् कार्यं शस्त्रघातिनः ॥

इति गार्ग्यस्मरणात् । शस्त्रघातिने यदापरपक्षिकश्राद्धं चतुर्दश्यां क्रियते, तत्रैवैकोद्दिष्टविधानेन नान्यदेत्य् अर्थः । न च शस्त्रादिहतानां कथंचिच् चतुर्दश्यतिक्रमे विहितकालातिक्रमे श्राद्दस्याकरणम् एवेति वाच्यम्, प्रशस्ततरकालालाभे ऽपि महालयश्राद्धस्यानुष्ठानम् आवश्यकम् इति प्राग्दर्शितत्वात् । ततश् च शस्त्रहस्तानाम् अपि प्रशस्ततरपञ्चमपक्षचतुर्दश्यतिक्रमे पार्वणविधानेनैव दिनान्तरे ऽपि कार्यम्,

संक्रान्ताव् उपरागे च वर्षोतसवमहालये ।
निर्वपेद् अत्र पिण्डांस् त्रीन् ॥॥॥॥॥॥॥ ॥

इति प्रजापतिस्मरणात् । संक्रान्त्यादाव् अपि अपुत्रस्यैकोद्दिष्टम् एव । यथाह गर्गः ।

अपुत्रा ये मृताः केचित् स्त्रियो वा पुरुषास् तथा ।
तेषाम् अपि च देयं स्याद् एकोद्दिष्टं न पार्वणम् ॥ इति ।

स्त्रियो भगिन्यादयः । पुरुषाः भ्रात्रादयः । तथा च सुमन्तुः ।

सपिण्डीकरणाद् ऊर्ध्वं यत्र यत्र प्रदीयते ।
भ्रात्रे भगिन्यै पुत्राय स्वामिने मातुलाय च ॥
मित्राय गुरवे श्राद्धम् एकोद्दिष्टं न पार्वणम् ॥ इति ।

यत्र यत्र संक्रान्त्युपरागवर्षोत्सवमहालयगयादौ भ्रात्रादिभ्यः प्रदीयते तदैकोद्दिष्टविधानेन कर्तव्यम् इत्य् अर्थः । कात्यायनो ऽपि ।

संबन्धिवान्धवादीनाम् एकोद्दिष्टं तु सर्वदा ॥ इति ।

यत् तु जातूकर्ण्येन सपिण्डीकरणं प्रकृत्योक्तम्,

अत ऊर्ध्वं न कर्तव्यम् एकोद्दिष्टं कदाचन ।
सपिण्डीकरणान्तं च तत् प्रोक्तम् इति मुद्गलः ॥
प्रेतत्वं चैव निस्तीर्णः प्राप्तः पितृगणं तु सः ।
च्यवते पितृलोकात् तु पृथक्पिण्डेन योगितः ॥
सपिण्डीकरणाद् ऊर्ध्वं पृथक्त्वं नोपपद्यते ।
पृथक्त्वे तु कृते पश्चात् पुनः कार्या सपिण्डता ॥

इति, यच् च कार्ष्णाजिनिना,

अत ऊर्ध्वं न कर्तव्यम् एकोद्दिष्टं कदाचन ।
सपिण्डीकरणान्तं च प्रेतस्यैतद् अमङ्गलम् ॥

यच् च यमेन,

यः सपिण्डीकृतं प्रेतं पृथक्पिण्डेन योजयेत् ।
विधिघ्नस् तेन भवति पितृहा चोपजायते ॥
एकम् उद्दिश्य यद् दानं प्रेतकर्म तद् उच्यते ।
पितृभ्यो दीयते श्राद्धम् आहुस् तत्र द्विजोत्तमाः ॥

इति, यच् च पुराणे,

प्रदानं यत्र यत्रैषां सपिण्डीकरणात् परम् ।
तत्र पार्वणवच् छ्राद्धम् एकोद्दिष्टं त्यजेद् बुधः ॥

इति, तद् एतत् सर्वं प्रातिपद्येनैकोद्दिष्टविध्यभावे द्रष्टव्यम् । ननु,

मधायुक्ता तु तत्रापि शस्ता राजन् रयोदशी ।

इति पूर्वोक्तमार्कण्डेयवचनेन मघानक्षत्रयुक्तत्रयोदश्यां यत् प्राशस्त्यम् उक्तं तद् अयुक्तम् इव प्रतिभाति,

कृष्णपक्षे त्रयोदश्यां यच् छ्राद्धं कुरुते नरः ।
पञ्चत्वं तस्य जानीयाज् ज्येष्ठपुत्रस्य निश्चितम् ॥
मधासु कुर्वतः श्राद्धं ज्येष्ठपुत्रो विनश्यति ।

इत्यादिवचनैः कृष्णपक्षत्रयोदश्यां मघानक्षत्रे च श्राद्धानुष्ठाने दोषस्मरणात् । सत्यम्, किं तु प्रागुक्तप्राशस्त्यं मातामहवर्गसहितपितृवर्गश्राद्धविषयम्, “कृष्णपक्षत्रयोदश्याम्” इत्यादिदोषाभिधायकवचनं तु केवलपितृवर्गश्राद्धविषयम् इति विषयभेदान् मधानक्षत्रयुक्तत्रयोदश्याः प्राशस्त्यं युक्तम् एव । अत एव स्मृत्यन्तरम् ।

इच्छेत् त्रयोदशीश्राद्धं पुत्रवान् यः सुतायुषोः ।
एकस्यैव तु नो दद्यात् पार्वणं तु समाचरेत् ॥ इति ।

यः पुत्रवान् सुतायुषोर् अभिवृद्धिम् इच्छेत् स एकस्य वर्गस्य त्रयोदशीश्राद्धं नो दद्यात् । वर्गद्वयस्य पार्वणं समाचरेद् इत्य् अर्थः । अयम् एवार्थः कार्ष्णाजिनिना स्पष्टीकृतः ।

श्राद्धं नैवैकवर्गस्य त्रयोदश्याम् उपक्रमेत् ।
न तृप्तास् तत्र ये यस्य प्रजा हिंसन्ति तस्य ते ॥ इति ।

तेन वर्गद्वयस्य श्राद्धं कार्यम् इत्य् अभिप्रायः । तस्य फलम् आह शङ्खः ।

प्रोष्ठपद्याम् अतीतायां मघायुक्तां त्रयोदशीम् ।
प्राप्य श्राद्धं तु कर्तव्यं मधुना पायसेन च ॥
प्रजाम् इष्टां यशः स्वर्गम् आरोग्यं च धनं तथा ।
नॄणां श्राद्धे सदा प्रीताः प्रयच्छन्ति पितामहाः ॥

मार्कण्देयपुराणे ऽपि ।

प्रजाम् इष्टां (?) पशून् मेध्यांत् स्वातन्त्र्यं बुद्धिम् उत्तमाम् ।
दीर्घम् आयुस् तथैश्वर्यं कुर्वाणस् तु त्रयोदशीम् ॥ इति ।

मघात्रयोदशीश्राद्धं कुर्वाणः प्रजादिकं प्राप्नोतीत्य् अर्थः । महाभारतम् अपि ।

ज्ञानिनां तु भवेच् छ्रेष्ठः कुर्वन् श्राद्धं त्रयोदशीम् ।
नावश्यं तु युवानो ऽस्य प्रमीयन्ते नरा गृहे ॥

अत्र मघात्रयोदशीश्राद्धकर्तुः गृहे युवानो नरा अवश्यं निश्चितं न प्रमीयन्त इत्य् अर्थः । अस्मिन् श्राद्धे पिण्डप्रदानं पुत्रवद्भिः पुत्ररहितैश् च न कार्यम्, मघात्रयोदश्याः युगादित्वात् । तथा च पुलस्त्यः ।

अयनद्वितये श्राद्धं विषुवद्द्वितये यथा ।
युगादिषु च सर्वेषु पिण्डनिर्वापणाद् ऋते ॥

कर्तव्यम् इति शेषः । पुत्रवद्गृहिणा तु पिण्डनिर्वापणं सुतरां न कर्तव्यं मघानक्षत्रान्वितत्वात्,

संक्रान्त्याम् उपवासेन पारणेन च भारत ।
मघायां पिण्डदानेन ज्येष्ठपुत्रो विनश्यते ॥

इति पुराणे दोषश्रवनात् । तसमात् पिण्डमात्रवर्जं वर्गद्वयस्य श्राद्धं मघात्रयोदश्यां पुत्रवद्गृहिणा पुत्ररहितेन वा कर्तव्यम् । न च वाच्यम्,

श्राद्दं नैवैकवर्गस्य त्रयोदश्याम् उपक्रमेत् ।
न तृप्तास् तत्र ये यस्य प्रजा हिंसन्ति तस्य ते ॥

इति वचनात्, मातामहवर्गस्य पृथगुद्देशेन श्राद्धवन् मातृवर्गस्यापि मघात्रयोदश्यां पृथगुद्देशेन श्राद्धम् आवश्यकम् इति, पृथगुद्देशाभावे ऽपि मातृवर्गस्य तृप्तिसंभवात् । तथा च स्मृतिः ।

न मातृषु पृथक् श्राद्धं मुनिभिर् यत्र कीर्तितम् ।
पितुः पिण्डोदके साध्वी भुङ्क्ते यानपचारिणी ॥ इति ।

बृहस्पतिर् अपि ।

स्वेन भर्त्रा समं श्राद्धं माता भुङ्क्ते सदैवतम् ।
पितामही सदा स्वेन स्वेनैव प्रपितामही ॥ इति ।

सदैवतं श्राद्धं पार्वणश्राद्धम् इत्य् अर्थः । एतत् पत्या सह स्त्रीणां सपिण्डीकरणविषयम् । श्वशुरेण सह सपिण्डीकरणविषये तु तेन सह पार्वणश्राद्धं भुङ्क्ते । तथा च शातातपः ।

एकमूर्तित्वम् आयाति सपिण्डीकरणे कृते ।
पत्नी पतिपितॄणां तु तस्माद् अंशेषु भागिनी ॥ इति ।

पत्युः पित्रा सह सपिण्डीकरणे पत्युः पित्रंशभागिनीति विवेकः । स्मृत्यन्तरे ऽपि ।

सपिण्डीकरणाद् ऊर्ध्वं यत् पितृभ्यः प्रदीयते ।
सर्वत्रांशहरा माता इति धर्मेषु निश्चयः ॥

सर्वत्रेति वचनान् महालयाख्ये भाद्रपदापरपक्षे गयाख्ये च देशविशेषे क्रियमाणे पार्वणे ऽत्यन्तप्रीतिजनके ऽपि मातुर् अंशहारित्वम् अस्तीति महालयगयादाव् अपि पुत्रेण मातुः पृथगुद्देशेन श्राद्धं न कार्यम् इति गम्यते । अत एव चतुर्विंशतिमते,

षयाहं वर्जयित्वैकं स्त्रीणां नास्ति पृथक्क्रिया ।

इत्य् उक्तम् । यत् पुनस् तत्रैवोक्तम्,

केचिद् इच्छन्ति नारीणां पृथक्छ्राद्धं महर्षयः ।

इति, तत् यत्र नारीणां पितामह्यादिभिः सह सपिण्डीकरणं कृतं तद्विषयम्, तत्र पितृपिण्डेष्व् अंशभागित्वाभावात् । एवं च सांवत्सरिकश्राद्धाद् अन्यत्र पार्वणश्राद्धे ऽपि पित्राद्युद्देशेन क्रियमाणे पत्यादिभिः सह सपिण्डीकृतानां पृथगुद्देशेन श्राद्धं न कर्तव्यम् । पितामह्यादिभिः सार्धं सपिण्डीकृतानां पृथगुद्देशेन श्राद्धं कर्तव्यम् इति स्थितम् । कथं तर्हि वृद्धिश्राद्धे ऽन्वष्टक्ये च पत्यादिभिः सह सपिण्डीकृतानाम् अपि मात्रादीनां पृथक्छ्राद्धानुष्ठानम्, अंशहारिणीनां पृथक्छ्राद्धाभावात् । उच्यते,

अन्वष्टकासु वृद्धौ च प्रतिसंवत्सरे तथा ।
अत्र मातुः पृथक्श्राद्धम् अन्यत्र पतिना सह ॥

इति स्मृत्यन्तरवचनबलात्,

अन्वष्टके तथा मातृश्राद्धे चैव् मृते ऽहनि ।
एकोद्दिष्टं तथा मुक्त्वा त्रिषु नान्यत् पृथग् भवेत् ॥

इति शङ्खवचनबलाच् च अन्वष्टकादौ पृथग् अनुष्ठानम् । मातृश्राद्धं नान्दीश्राद्धम् । एवं च यत्र श्राद्धं स्त्रीणां पत्यादिभागहारित्वं न संभवति, संभवत्य् अपि वचनात् पृथक्छ्राद्धविधानं तद्विषयम्,

केचिद् इच्छन्ति नारीणां पृथक्छ्राद्धं महर्षयः ।

इति चतुर्विंशतिवचनम् इति मन्तव्यम् । अपरे त्व् एवं मन्यन्ते -

एकमृतित्वम् आयाति सपिण्डीकरणे कृते ।
पत्नी पतिपितॄणां तु तस्माद् अंशेषु भागिनी ॥

इति वचनेन सपिण्डीकरणानन्तरकालं पत्यादिदेवत्ये श्राद्धे मातॄणां सहभावेन देवतात्वं भवतीत्य् एतन्मात्रं विधीयते । न तु येन सह सपिण्डीकरणं कृतं तद्देवत्ये श्राद्धे सहभावेन दैवतात्वम् इति, अस्मिन् वचने तथाविधविशेषानवगमात् । अतश् च पितामह्यादिभिः सह सपिण्डीकृताया अपि मातुर् न पृथक्छ्राद्धम् । एतच् च मातुर् अपृथक्छ्राद्धम् अनित्यम्,

केचिद् इच्छन्ति नारीणां पृथक्छ्राद्धं महर्षयः ।

इति चतुर्विंशतिमते पृथक्छ्राद्धपक्षस्याप्य् अभिधानात् । एवं चान्वष्टकादित्रये मातॄणां श्राद्धं पृथग् एव, गयामहालयादिदेशकालवैशिष्ट्यात् तृप्त्याधिक्यापादकश्राद्धे तु पृथक् सह वा स्वभर्तृभिर् इति विकल्पो न सर्वत्रामावास्यादिष्व् अपीति । यद् अत्र युक्तं तद् ग्राह्यम् ।

कन्यागते सवितरि महालयाख्ये पञ्चमापरपक्षे श्राद्धं कर्तव्यम् इत्य् उक्तम् । यदा तु कन्यागतत्वाभावः तदा श्राद्धं न कार्यम् । यद् आह ज्योतिःपराशरः ।
अर्के नभस्यकन्यास्थे श्राद्धपक्षः प्रकीर्तितः ।
सिनीवालीम् अतिक्रम्य यदा कन्यां व्रजेद् रविः ॥
तदा कालस्य वृद्धत्वाद् अतीतैव पितृक्रिया ॥

कालस्य वृद्धत्वात् वृद्धियुक्तत्वात् अतीतैव पञ्चमपक्षम् अतिक्रान्तैव पितृक्रिया, तत्र महालयश्राद्धनिषेधात् । तथा च भृगुः ।

एकराशिस्थिते सूर्ये यदा दर्शद्वयं भवेत् ।
हव्यकव्यक्रियाहन्ता तदा ज्ञेयो ऽधिमासकः ॥
वृद्धिश्राद्धं तदा सोमम् अग्न्याधेयं महालयम् ।
राजाभिषेकं काम्यं च न कुर्याद् भानुलङ्घितः ॥ इति ।

महालयं महालयश्राद्धम् । ज्योतिःपितामहो ऽपि ।

षष्ट्या तु दिवसैर् मासः कथितो वादरायणैः ।
पूर्वार्धं तु परित्यज्य कर्तव्या उत्तरे क्रिया ॥

षष्टिदिनात्मकमासस्य पूर्वार्धं परित्यज्य उत्तरार्धे श्राद्धक्रिया यथाकालम् अनुष्ठेयेत्य् अर्थः । ज्योतिःपराशरो ऽपि ।

यातुधानप्रियो मासः कन्यार्के जायते यदा ।
पित्र्यं दैवं तथा कर्म उत्तरे मासि युज्यते ॥

यदा कन्यागते ऽर्के यातुधानप्रियो मासो जायते असंक्रान्तिको भाद्रपदो मासो जायते इत्य् अर्थः । “नैऋतयातुधानानाम् असंक्रान्तिको ऽधिमासः” इति ब्रह्मसिद्धान्ते । नैऋतदिग्वर्तिराक्षससंबन्धितया असंक्रान्तिकमासस्याभिधानाद् एवं व्याख्यातम् । उत्तरे मासि युज्यते इत्य् अस्यायम् अर्थः ।

षष्ट्या तु दिवसैर् मासः कथितो बादरायणैः ।

इति मतानुसारेण भाद्रपदमासस्य द्वैगुण्ये सति त्रिंशद्दिनस्य पक्षस्यानीयत्वाद् उत्तरो मास उत्तरं त्रिंशद्दिनं षष्टिदिनात्मकभाद्रपदमासस्यापरपक्षो भवति । कन्यासंक्रान्तियुक्तश् चेति महालये कर्तव्यं पित्र्यादिकर्म तत्रैव युज्यत इति, तत्रापि शुक्लपक्षात् कृष्णपक्षः प्रशस्ततर इति शास्त्रान्तरतो ऽवगन्तव्यम् । यत् तु तेनैवोक्तम्,

मासः कन्यागते भानौ असंक्रान्तो यदा भवेत् ।
पित्र्यं देयं तथा कर्म तुलास्थे कर्तुर् अक्षयम् ॥

इति, तत् पूर्वोक्तकाले कथंचिच् छ्राद्धस्याकरणे द्रष्टव्यम्, पूर्वोक्तकालापेक्षया जघन्यकालत्वात् ।

इति स्मृतिचन्द्रिकायां श्राद्धकालविषयाणि

अधिमासः

अथान्यान्य् अप्य् अधिमासविषयाणि कानिचिद् वचनानि लिख्यन्ते

तत्र पैठीनसिः ।

श्रौतस्मार्ताः क्रियाः सर्वा द्वादशे मासि कीर्तिताः ।
त्रयोदशे तु सर्वास् ता निष्फला इति संज्ञिताः ॥
तस्मात् त्रयोदशे मासि कुर्यात् ता न कथंचन ॥ इति ।

ताः श्रौतस्मार्तक्रिया इत्य् अर्थः । त्रयोदशे मासि अधिमासीत्य् अर्थः । अत एव गभस्तिः ।

न कुर्याद् अधिके मासि तस्मिन् कर्म कदाचन ।

इति अधिकमासस्य कालमलत्वेन कर्मानर्हत्वाद् इत्य् अभिप्रायः । तथा च गृह्यपरिशिष्टे ।

मलं वदन्ति कालस्य मासं कालविदो ऽधिकम् । इति ।

अधिकं मासं कालस्य मलं वदन्तीत्य् अन्वयः । एवंविधो मासः कदा भवतीत्य् अपेक्षिते ब्रह्मसिद्धान्त उक्तम् ।

चैत्राद् अर्वाङ् नाधिमासः परतस् त्व् अधिको भवेत् । इति ।

चैत्राद् अर्वाक् कन्यासंक्रान्तिम् आरभ्येत्य् अर्थः । अत एव ज्योतिःसिद्धान्त उक्तम् ।

घटकन्यागते सूर्ये वृश्चिके वाथ धन्वनि ।
मकरे वाथ कुम्भे वा नाधिमासो विधीयते ॥

कन्यातुलावृश्चिकधनुर्मकरकुम्भगते सूर्ये अधिमासो न संपद्यते, किं त्व् अवशिष्टराशिगते सूर्ये कदाचित् कालवृद्धौ संपद्यत इति शेषः । तथा च वासिष्ठसिद्धान्त उक्तम् ।

द्वात्रिंशद्भिर् गतैर् मासैर् दिनैः षोडशभिस् तथा ।
घटिकानां चतुष्केण पतत्य् अधिकमासकः ॥

अतीताधिकमासाद् आरभ्य द्वात्रिंशन्मासाद् उपरि षोडशदिनेषु घटिकाचतुष्टयाधिकेषु गतेष्व् अधिमासो भवतीत्य् अर्थः । यत् तु काठकगृह्ये ऽभिहितम्,

यस्मिन् मासे न संक्रान्तिः संक्रान्तिद्वयम् एव वा ।
मलमासः स विज्ञेयो मासे त्रिंशत्तमे भवेत् ॥

इति, तत् त्रिंशन्मासाद् अर्वाङ् न संभवतीत्य् एवंपरम् । यत् तु ब्रह्मसिद्धान्ते ऽभिहितम्,

मासद्वये ऽब्दमध्ये तु संक्रान्तिर् न यदा भवेत् ।
प्राकृतस् तत्र पूर्वः स्याद् अधिमासस् तथोत्तरः ॥

इति, अत्र त्रिंशन्मासाद् ऊर्ध्वं यः संक्रान्तिरहितो मासः सो ऽधिमासः । ततो ऽर्वाग् यो ऽसंक्रान्तो मासः स प्राकृतः नाधिमास इत्य् एतावन्मात्रं विवक्षितं न पुनः पौर्वापर्यम् इति मन्तव्यम् । यदा त्व् एकस्मिन् संवत्सरे असंक्रान्तमासद्वयं संक्रान्तिद्वययुतो मासः तत्रापि त्रिंशन्मासाद् ऊर्ध्वं यो ऽसंक्रान्तो मासः सो ऽधिमासः । शेषौ तु संसर्पांहस्पतिसंज्ञकाव् इति बोद्धव्यम् । तथा च बाहस्पत्ये ज्योतिर्ग्रन्थे ऽभिहितम् ।

यस्मिन् मासे न संक्रान्तिः संक्रान्तिद्वयम् एव वा ।
संसर्प्ंहस्पती मासाव् अधिमासश् च निन्दिताः ॥ इति ।

यस्मिन् मासे चैत्राद् अर्वाङ् न संक्रान्तिः संक्रान्तिद्वयम् एव वा भवति तौ संसर्पांहस्पतिसंज्ञकौ मासौ, चैत्रात् परतो यो ऽसंक्रान्तो मासः सो ऽध्माससंज्ञकः । एते च त्रयो मासा निन्दिता इत्य् अर्थः । एतेष्व् अधिमासो ऽतिनिन्दितः, कालमलरूपत्वात् तस्य । तथा तरैवोक्तम् - “अधिमासो ऽतिदुष्टत्वात्” इति, अत एवास्य मलिम्लुचसंज्ञा लघुहारीतेन दर्शिता ।

इन्द्राग्नी यत्र हूयेते मासादिः संप्रकीर्तितः ।
अग्नीषोमौ स्मृतौ मध्ये समाप्तौ पितृसोमपौ ॥
तम् अतिक्रम्य चान्यस्मिन् मासे गच्छेत् कदाचन ।
आद्यो मलिम्लुचो ज्ञेयो द्वितीयः प्राकृतः स्मृतः ॥ इति ।

“इन्द्राग्नी यत्र हूयेते” इत्य् अनेन वचोभङ्ग्या कृष्णप्रतिपन् निर्दिष्टा । “अग्नीषोमौ स्मृतौ मध्ये” इत्य् अनेन शुक्लप्रतिपन् निर्दिष्टा । “समाप्तौ पितृसोमपौ” इत्य् अनेनामावास्या । एतेन चान्द्रो मास उपलक्षितः । पूर्वाधिमासाद् आरभ्य त्रिंशन्मासात् परतो यो भवति तम् अतिक्रम्यान्यस्मिन् मासे यदा सूर्यो राश्यन्तरं गच्छति तदा पूर्वो सङ्क्रान्तो मासो मलिम्लुचो ज्ञेयः । उत्तरः ससङ्क्रान्तिमसः प्राकृतो ज्ञेय इत्य् अर्थः । पराशरो ऽपि ।

रविणा लङ्घितो मासश् चान्द्रश् चाद्यो मलिम्लुचः ।
तत्र यद् विहितं कर्म उत्तरे मसि कारयेत् ॥

स्मृत्यन्तरे ऽपि ।

एवं षष्टिदिनो मासः तदर्धं तु मलिम्लुचः ।
त्यक्त्वा तद् उत्तरे कुर्यात् पितृदैवादिकाः क्रियाः ॥

मलिम्लुचम् अप्य् अर्धं कासांचित् पितृदेवक्रियाणाम् अनुष्ठाने च त्याज्यम् इत्य् आह बृहस्पतिः ।

नित्यनैमित्तके कुर्यात् प्रयतः स मलिम्लुचे । इति ।

यस्य नित्यस्याकरणे कालात्ययनिमित्तं प्रायश्चित्तम् आम्नायते, तद् यथा - “अग्नये पथिकृते पुरोषाशम् अष्टाकपालं निर्वपेद् यो दर्शपूर्णमासयाजी सन्न् अमावास्यां वा पौर्णमासीं वातिपादयेत्” इति । तथाभूतस्य नित्यस्य ग्रहणम्, न तु नित्यमात्रस्य । तेन दर्शपूर्णमासाग्निहोत्रपञ्चमहायज्ञादेर् अनुष्ठानं मलिम्लुचे कर्तव्यम्, स्वकालातिक्रमे प्रायश्चित्ताम्नानात् । एवं च नित्यापि सोमयागक्रिया मलिम्लुचे मासि च कार्या, मलिम्लुचमासातिक्रमे ऽपि वसन्तादिकालस्य सोमयागाङ्गभूतस्यानतिक्रान्तत्वेनात्र प्रायश्चित्तप्राप्तेर् असम्भवात् । एवं यस्य नैमित्तिकस्य गृहदाहेष्ट्यादेर् निमित्तानन्तरकाले कर्तव्यस्य मासान्तरे विहितकालालाभः तथाभूतावश्यकक्रियाविषय एव मलिम्लुचे मासि कुर्याद् इति विधानम् । जातेष्ट्यादेर् नैमित्तिकस्यापि शिशुसंरक्षणार्थं निमित्तानन्तरकालम् अपहाय कालान्तरे कर्तव्यस्य यथा दशरात्रादिसूतककालमध्ये ऽनुष्ठानम् अन्याय्यम्, तथा मलिम्लुचकालमध्ये ऽपीति तस्य न मलिम्लुचे ऽनुष्ठानम् । एवं च नित्यत्वं नैमित्तिकत्वं चाविवक्षितम् । यस्यातिक्रमे प्रायश्चित्तप्राप्तिः यस्य च मासान्तरे विहितकालालाभेनावश्यकं मलिम्लुचे ऽनुष्ठानं तत् सर्वं मलिम्लुचे कुर्याद् इति बार्हस्पत्यवचनतात्पर्यार्थः प्रत्येतव्यः । तथा च स्मृत्यन्तरे ।

अनन्यगति यन् नित्यं कुर्यान् नैमित्तिकं तथा । इति ।

गृह्यपरिशिष्टे ऽपि ।

मलं वदन्ति कालस्य मासं कालविदो ऽधिकम् ।
नेहेतात्र त्व् अशेषेज्याम् अन्यत्रावश्यकाद् विधेः ॥ इति ।

अनेनावश्यको विधिर् अधिकमासे ऽनुष्ठेय इत्य् अर्थाद् उक्तं भवति । उक्तं च साक्षाद् अपि तत्रैव,

अवषट्कारहोमाश् च पर्व चाग्रयणं तथा ।
मलमासे तु कर्तव्यम् ॥॥॥॥॥॥॥॥॥ ॥ इति ।

अवषट्कारमोमाः अग्निहोत्रौपासनवैस्वदेवादयः । पर्व दर्शपूर्णमासौ, पार्वणः स्थालीपाकश् च । आग्रयणम् आग्रयणेष्टिः । यद्य् अप्य् आग्रयणम् “वर्षासु श्यामाकैर् यजेत” इति मासद्वयात्मकवर्षाख्यर्तौ विहितं तत् अमलिम्लुचमासे ऽपि तत्कालसंभवाद् अनन्यगतिकं न भवति । तथापि दुर्भिक्षे नवश्यामाकव्यतिरिक्तधान्यासंभवे जीवनार्थं नवश्यामाकान्न्भोजनम् अकृताग्रयणेनाकर्तव्यम् इत्य् आग्रयणानुष्ठानं जीवनार्थम् आवश्यकम् इति युक्तम् उक्तम् आग्रयणं तथेति । यदा तु दुर्भिक्षाभावाद् अनावश्यकं तदाधिमासे नवश्यामाकाग्रयणं न कर्तव्यम् । अनेनैवाभिप्रायेण पैठीनसिना,

संक्रान्तिरहिते मासि कुर्याद् आग्यणं न वा ।

इति विकल्प उक्तः । अन्यान्य् अपि कानिचिन् मलिम्लुचे कार्याणीत्य् उक्तानि यमेन ।

गर्भे वार्धुषिके भृत्ये श्राद्धकर्मणि मासिके ।
सपिण्डीकरणे नित्ये नाधिमासं विवर्जयेत् ॥
तीर्थस्नानं जपो होमो यवव्रीहितिलादिभिः ।
जातकर्मान्त्यकर्माणि नवश्राद्धं तथैव च ॥
मखात्रयोदशीश्राद्धं श्राद्धान्य् अपि च षोडश ।
चन्द्रसूर्यग्रहे स्नानं श्राद्धं दानं जपादिकम् ॥
कार्याणि मलमासे ऽपि नित्यं नैमित्तिकं तथा । इति ।

गर्भे गर्भनिमित्तके गर्भमात्रप्रयुक्त्या विहिते पुंसवनसीमन्तादिक इति यावत् । वार्धुषिके,

अशीतिभागो वृद्धिः स्यात् मासि मासि सबन्धके ।

इत्यादिवचनोक्तवृद्धिग्रहणे । भृत्ये संवत्सरादिपर्यन्तकालकृते भृत्ये । मासिके श्राद्धकर्मणि, अमावास्याश्राद्धकर्मणीत्य् अर्थः । अन्ये तु मन्यन्त - अमावास्याश्राद्धं त्रयोदशे ऽपि मासि ऋश्यशृङ्गवचनेन निषिद्धम्, तेन मासिकशब्दो नामावास्याश्राद्धम् आह, किं तु प्रथमसंवत्सरविहितमासिकश्राद्धम् आहेति । ऋश्यशृङ्गवचनं चैवं पठन्ति ।

संवत्सरातिरेको वै मासो यः स्यात् त्रयोदशः ।
तस्मात् त्रयोदशे श्राद्धं न कुर्याद् इन्दुसंक्षये ॥ इति ।

अपरे तु -

तस्मात् त्रयोदशं श्राद्धं न कुर्यान् नोपतिष्ठते ।

इति पठन्ति । अयम् एव पाठो युक्तः । इन्दुसंक्षय इति पाठे पिण्डपितृयज्ञवत् तदनन्तरम् अवश्यानुष्ठेयस्यामावास्याश्राद्धस्य प्रतिषेधानर्हस्य प्रतिषेधप्रसङ्गात्,

जातकर्मणि यच् छ्राद्धं दर्शश्राद्धं तथैव च ।
प्रतिसंवत्सरं यच् च पूर्वमासे प्रकीर्तितम् ॥

इति वचनविरोधप्रसङ्गाच् च । तस्मात् “श्राद्धकर्मणि मासिके” इत्य् अनेन अमावास्याश्राद्धम् उक्तम् इति व्याख्यानम् एव युक्तम् । ऋश्यशृङ्गवचनार्थ उपरिष्टाद् भविष्यति । नित्ये नित्यदाने । होमो ऽत्रौपासनहोमः, “यवव्रीहितिलादिभिः” इति तत्र होतव्यद्रव्यानुवादात् । अत्यन्तकर्माणि दहनोदकपिण्डदानास्थिसंचयनादीनि । शेषं व्यक्तम् । जातकर्मग्रहणं जातश्राद्धादेर् उपलक्षणार्थम् । अत एव स्मृत्यन्तरम् ।

श्राद्धजातकनामानि ये च संस्कारसव्रताः ।
मलिम्लुचे ऽपि कर्तव्या इष्टीः काम्याश् च वर्जयेत् ।

संस्काराः अन्नप्राशननिष्क्रमणादयः । सव्रता जनार्दनशयनाद् आरभ्य यावद् उत्थानं धारणपारणादिकं करिष्यामीत्य् एवं संकल्पसहिताः । काम्या इति ग्रहणं काम्यपशुबन्धादिकर्मोपलक्षणार्थम्, सर्वेषाम् अपि काम्यानाम् अनावश्यकत्वेन वर्जनीयत्वात् । अत एव हारीतः ।

अधिमासे न कर्तव्यं श्राद्धम् अभ्युदयं तथा ।
तथैव काम्यं यत् कर्म ॥॥॥॥॥॥॥॥ ॥ इति ।

यत् काम्यं कर्म इष्ट्यादिकं तत् सर्वम् अधिमासे न कर्तव्यम् इत्य् अर्थः । आभ्युदयिकं श्राद्धं चूडाकरणात् प्राक्तनसंस्कारेषु विहिताभ्युदयिकश्राद्धव्यतिरिक्तं द्रष्टव्यम्, जातकर्मादौ विशेषेणाभ्युदयिकश्राद्धविधानस्य पूर्वम् एव प्रदर्शितत्वात् । अन्यान्य् अपि च वर्ज्यान्य् आह वृद्धमनुः ।

अग्न्याधेयं प्रतिष्ठां च यज्ञदानव्रतानि च ।
वेदव्रतवृषोत्सर्गचूडाकरणमेखलाः ॥
माङ्गल्यम् अभिषेकं च मलमासे विवर्जयेत् ।
बाले वा यदि वा वृद्धे शुक्रे चास्तम् उपागते ॥
मलमास इवैतानि वर्जयेद् देवदर्शनम् ॥ इति ।

“अग्न्याधेयं प्रतिष्ठां च यज्ञदानव्रतानि च” इत्य् अत्र अनावस्यकत्वे सतीत्य् विशेषो द्रष्टव्यः । तेन मलमासे ऽपि प्रायश्चित्तभूतम् अग्न्याधेयम् अग्न्यनुगत्यनन्तरं कर्तव्यं न प्रतिषिध्यते । एवं प्रतिमादिनाशे पुनःप्रतिष्ठा न प्रतिषिध्यते । एवं प्रायश्चित्तभूतसंसर्गेष्ट्यादियज्ञो न प्रतिषिध्यते । यद् यत् प्रायश्चित्ते देयम् इति प्रायश्चित्तदानं च “ब्राह्मणं तु वसत्यै नापरुन्ध्यात्” इत्यादिव्रतं च । वृषोत्सर्गस्य चैकादशादिकस्य प्रतिषेधः, षोडशश्राद्धादिवत् तस्यापि प्रेतोपकारकत्वात् । शुक्रास्तमयादाव् अप्य् अनावश्यकत्वे सत्य् एव अग्न्याधेयादि प्रतिषिध्यते । मलमास इत्य् एवाभिधानात् । “वर्जयेद् देवदर्शनम्” इति प्रतिषेधः प्रथमदर्शनविषय एवेत्य् आहुः । हारीतो ऽपि ।

॥॥॥॥॥॥॥॥॥॥॥॥॥। वत्सरात् प्रथमाद् ऋते ।
सपिण्डीकरणाद् ऊर्ध्वं यत् किंचिच् छ्राद्दकं भवेत् ॥
इष्टं वाप्य् अथ वा पूर्तं तन् न कुर्यान् मलिम्लुचे ॥ इति ।

सपिण्डीकरणाद् ऊर्ध्वं यत् प्रथमसंवत्सरे प्रतिमासं पुनः क्रियमाणं त्रैपुरुषिकं मासिकं श्राद्धं तन् मलिम्लुचे ऽपि मासे कार्यम् इति वक्तुम् “वत्सरात् प्रथमाद् ऋते"इत्य् उक्तम् । अस्मिन्न् एव विषये वसिष्ठो ऽपि - “संवतस्रमध्ये ऽधिमासो भवेत् मासिकार्थं दिनम् एकं वृद्धिं नयेत्” इति । स्मृत्यन्तरे ऽपि ।

संवत्सरे विवृद्धे ऽपि प्रतिमासं च मासिकम् ॥ इति ।

सपिण्डीकरणात् प्राक् क्रियमाणमासिकविषये तु गभस्तिनोक्तम् ।

एकोद्दिष्टं तु यच् छ्राद्धं तन् नैमित्तिकम् उच्यते ।
तत् कार्यं पूर्वमासे च कालाधिक्ये ऽपि धर्मतः ॥ इति ।

चशब्दाद् उत्तरमासे ऽपि कार्यम् इति गम्यते । तद् एतत् सपिण्डीकरणात् प्राक्तनमासिकविषयम्, एकोद्दिष्टरूपमासिकविष्यत्वात् । यत् तु ऋश्यशृङ्गेनोक्तम्,

संवत्सरातिरेको यो मासश् चैव त्रयोदशः ।
असुराणां तु मासो ऽसौ तस्माद् देवविगर्हितः ॥
तस्मात् त्रयोदशं श्राद्धं न कुर्यान् नोपतिष्ठते ॥

इति, तत् सपिण्डीकरणात् प्राक्तनमासिकेषु सपिण्डीकरणात् प्राक् कथंचिद् अकृतेषु वचनबलात् सपिण्डीकरणाद् ऊर्ध्वम् अनुष्ठातव्येष्व् एकोद्दिष्टेषु प्रतिमासं क्रियमाणेषु त्रयोदशे मासि प्राप्तमासिकश्राद्धविषयम् । विगर्हिते मासि प्रतिप्रसवम् अन्तरेण क्रियमाणं यतो नोपतिष्ठते अतस् त्रयोदशं श्राद्धं न कुर्याद् इत्य् अर्थः । अस्य वचनस्योक्ता विषयव्यवस्था देवस्वामिना दर्शिता - “यस्य तारतम्याच् छीघ्रतरम् उपस्थिते पिण्डपितृयज्ञादौ देशकालानुरोधतो द्रव्यब्राह्मणाभावात् षोडशश्राद्धान्य् अकृत्वा संवत्सराद् अर्वाक् सपिण्डीकरणं कृतम्, तस्य कृते ऽपि सपिण्डीकरणे,

मासिकं चोदकुम्भं च देयं तस्यापि वत्सरम् ।

इति वाक्यात् यदा त्रयोदशं श्राद्धं प्राप्तमासिकाख्यां प्रेतश्राद्धं तद् अनेन ऋश्यशृङ्गवाक्येन निषिध्यते” इति ग्रन्थेन । एवं च त्रयोदशमासशालिनि संवत्सरे प्रमीतस्य मासिकानि श्राद्धानि त्रयोदश भवन्ति । यदा तु द्रव्यब्राह्मणाद्यलाभेन सपिण्डीकरणाद् ऊर्ध्वम् एव मासिकश्राद्धानि क्रियन्ते तदा तानि द्वादश भवन्तीति मन्तव्यम् । एवं च यत् कैश्चिद् उक्तम् - संवत्सरविमोकान्तम् आनुमासिकानि कुर्वन् मलमासे नैव कुर्याद् उत्तरे कुर्याद् एव । संवत्सरान्ते सपिण्डीकरणं संवत्सरविमोकं च यथाकालं मासिकानि कुर्वन्न् अपि मलमासे नैव कुर्याद् उत्तरे कुर्याद् एवेति, तत् “मासिकार्थं दिनम् एकं वृद्धिं नयेत्,”

संवत्सरे विवृद्धे ऽपि प्रतिमासं च मासिकम् ।
पूर्वमासे च कर्तव्यं कालाधिक्ये ऽपि धर्मतः ॥

इति वचनद्वयादर्शननिबन्धनम् इत्य् उपक्षणीयम् । मासिकश्राद्धाभिप्रायेण वृद्धवसिष्ठेनाप्य् उक्तम् ।

श्राद्धीयाहनि संप्राप्ते अधिमासो भवेद् यदि ।
श्राद्धद्वयं प्रकुरवीत एवं कुर्वन् न मुह्यति ॥ इति ।

श्राद्धद्वयं प्रकुर्वीत अधिमासे तदुत्तरमासे च मासिकश्राद्धं प्रकुर्वीतेत्य् अर्थः । यत् तु ज्योतिःपराशरेनोक्तम्,

उपाकर्म तथोत्सर्गः प्रसवाहोत्सवाष्टकाः ।
मासवृद्धौ पराः कार्याः वर्जयित्वा तु पैतृकम् ॥

इति, पराः कार्याः उत्तरे मासि कार्या इत्य् अर्थः । तत्र प्रसवाहोत्सवशब्देन जातेष्टिर् एव गृह्यते । न पुनर् आभ्युदयिकं श्राद्धं जातकर्म च, तयोर् अपि ग्रहणे,

श्राद्धजातकनामानि ये च संस्कारसव्रताः ।
मलिम्लुचे ऽपि कर्तव्या इष्टीः काम्याश् च वर्जयेत् ॥

इति स्मृतिव्रोधापत्तेः । पैतृकशब्देन सांवत्सरिकरूपं गृह्यते न तु सामान्यम्,

प्रतिसंवत्सरश्राद्धे नाधिमासं विवर्जयेत् ।
मलमासे ऽपि कर्तव्यं श्राद्धं यत् प्रतिवत्सरम् ॥
प्रतिसंवत्सरं यच् च पूर्वमासे प्रकीर्तितम् ॥

इत्यादिवचनेषु तस्यैव स्पष्टम् अभिधानात् । सर्वाण्य् एतानि वचनानि मलमासमृतस्य पुनर् मलमासप्राप्तौ द्रष्टव्यानि,

मासपक्षतिथिस्पृष्टे यो यस्मिन् म्रियते ऽहनि ।
प्रत्यब्दं तु तथाभूतं क्षयाहं तस्य तं विधुः ॥

इति स्मरणात् । एवं च मलमासमृतस्य मलमाससंभवे सति मलमासगतक्षयाह एवाब्दिकश्राद्धं कर्तव्यम् । न तु शुद्धमासगतक्षयाहे, अतथाभूतत्वात् । मलमासासंभवे तु गुणलोपन्यायात् मलमासास्पृष्टे ऽपि क्षयाहे मृताहश्राद्धं कर्तव्यम् एवेत्य् अवगन्तव्यम् । यत् तु सत्यव्रतेनोक्तम्,

वर्षे वर्षे तु यच् छ्राद्धं मातापित्रोर् मृते ऽहनि ।
मलमासे न कर्तव्यं व्याघ्रस्य वचनं यथा ॥

इति, तत् अधिकमासाद् अन्यत्र मृतस्य मृताहश्राद्धविषयम् । शुद्धे मासि मृतस्य शुद्धमासस्पृष्ट एव मृताहः तथाभूतो न तु मलमासस्पृष्टः, मलमासगतक्षयाहस्याविहितकालत्वात् । अत एव पैठीनसिः ।

मलमासे मृतानां तु श्राद्धं यत् प्रतिवत्सरम् ।
मलमासे तु कर्तव्यं नान्येषां तु कथंचन ॥ इति ।

अन्येषां मलमासाद् अन्यत्र मृतानाम् इत्य् अर्थः । मलमासे ऽपि कर्तव्यं तत्रैव विहितकालसद्भावद् इत्य् अभिप्रायः । भृगुर् अपि ।

मलमासमृतानां तु श्राद्धं यत् प्रतिवत्सरम् ।
मलमासे ऽपि तत् कार्यं नान्येषां तु कथंचन ॥

यत् तु वृद्धवसिष्ठेनोक्तम्,

श्राद्धियाहनि संप्राप्ते अधिमासो भवेद् यति ।
श्राद्धद्वयं प्रकुर्वीत एवं कुर्वन् न मुह्यति ॥

इति, न तत् सांवत्सरिकश्राद्धविषयम्, सांवत्सरिकश्राद्धे उत्तरे मासि मलमासस्पृष्टक्षयाहासंभवात् । तेन मासिकश्राद्धविषयम् एतद् वचनम् । एवं च मासिकश्राद्धं मलमासे उत्तरमासे च कार्यम् । सांवत्सरिकं त्व् अन्यतरमासे, तत्र मलमासमृतानाम् आद्यमासे तदन्यमासमृतानाम् उत्तरे मासीत्य् अनुसंधेयम् । “नान्येषां तु कथंचन” इति यो ऽयं प्रतिषेधः स तु प्रथमाब्दिकव्यतिरिक्तविषयः, प्रथमाब्दिकस्य मलमासे वचनबलेन कर्तव्यत्वात् । तथा च हारीतः ।

असंक्रान्ते तु कर्तव्यम् आब्दिकं प्रथमं द्विजैः ॥ इति ।

स्मृत्यन्तरे ऽपि ।

आब्दिकं प्रथमं यत् स्यात् तत् कुर्वीत मलिम्लुचे ॥ इति,
त्रयोदशे च संप्राप्ते कुर्वीत पुनर् आब्दिकम् ॥

पुनराब्दिकं प्रथमाब्दिकं त्रयोदशे उत्तरे मासि संप्राप्ते कुर्वीतेत्य् अर्थः । लघुहारीतो ऽपि ।

प्रत्यब्दं द्वादशे मासि कार्या पिण्डक्रिया द्विजैः ।
क्वचित् त्रयोदशे ऽपि स्याद् आद्यं मुक्त्वा तु वत्सरम् ॥

पिण्डक्रिया मृताहश्राद्धक्रिया द्वादशे मासि परिपूर्णे सति त्रयोदशे मासीति यावत् । क्वचिद् अधिमासयुक्तसंवत्सरे त्रयोदशे मासि परिपूर्णे सति चतुर्दशे मास इति यावत् । आद्यम् आब्दिकं त्व् अधिमासवत्य् अपि संवत्सरे द्वादशे मासि परिपूर्णे सति कार्यम्, त्रयोदशे मासि कार्यम् इत्य् अर्थः । यत् तु शातातपेनोक्तम्,

एकसंज्ञौ यदा मासौ स्यायां संवत्सरे क्वचित् ।
तत्राद्ये पितृकार्याणि देवकार्याणि चोत्तरे ॥

इति, यच् च पैठीनसिना,

द्वौ मासाव् एकनामानौ स्यातां संवत्सरे यदि ।
पूर्वे तु पितृकार्याणि देवकार्याणि चापरे ॥

इति, तत् येषां पितृकार्याणां मलिम्लुचे विधिः, येषां च देवकार्याणाम् उत्तरे मासि विधिः, तथाविधपितृदेवकार्यपरम् इत्य् अवगन्तव्यम् । यद्य् अप्य् असंक्रान्तिः संक्रान्तिद्वययुतो वा संसर्पसंज्ञो ऽंहस्पतिसंज्ञश् (?) च मासः कदाचिच् चैत्राद् अर्वाग् भवति, तथापि तत्र न पूर्वोक्तविधिनिषेधवचनानि विधायकानि निषेधकानि वा, तेषां वचनानाम् अधिमासविषयत्वात् । न च संसर्पांहस्पतिसंज्ञकावधिमासौ,

चैत्राद् अर्वाङ् नाधिमासः परतस् त्व् अधिको भवेत् ।
दृष्टा हि सर्वशास्त्रेषु तस्मिन् मूर्तिस् त्रयोदशी ॥

इति वचनेन चैत्रात् परत एवाधिमासस्मरणात् । तस्मिन् चैत्राद् उत्तरत्रैव त्रयोदशी मूर्तिर् अधिमासमूर्तिः सर्वगणितशास्त्रेषु यतो दृष्ट्वेत्य् अर्थः । एवं च संसर्पांहस्पतिसंज्ञकौ न कर्मानर्हकलौ किं तु प्रशस्ताव् एवेति मन्तव्यम् ॥

इति स्मृतिचन्द्रिकायाम् अधिमासविषयाणि