०५ जीवपितृकश्राद्धनिर्णयः

अथ जीवपितृकश्राद्धनिर्णयः

तत्र कात्यायनः ।

सपितुः पितृकृत्येषु अधिकारो न विद्यते ।
न जीवन्तम् अतिक्रम्य किंचिद् दद्याद् इति श्रुतिः ॥ इति ।

पितृकृत्येषु श्राद्धेषु पितामहादिसंबन्धेष्व् इत्य् अर्थः । अत्र केषुचिद् अपवादो मैत्रायणीयपरिशिष्टे दर्शितः ।

उद्वाहे पुत्रजनने पित्र्येष्ट्यां सौमिके मखे ।
तीर्थे ब्राह्मण आयाते षड् एते जीवतः पितुः ॥ इति ।

जीवतः पितुः पुत्रस्य षड् एते श्राद्धकाला इत्य् अर्थः । पित्र्येष्ट्यां चातुर्मास्येषु, सौमिके मखे सोमयागादौ पुरोडाशात् पिण्डदाने च । एतत् सागिकाभिप्रायम् । अत एव सुमन्तुः ।

न जीवपितृकः कुर्याच् छ्राद्धम् अग्निम् ऋते द्विजः (?) ।
येभ्य एव पिता दद्यात् तेभ्यः कुर्वीत साग्निकः ॥
पितामहो ऽप्य् एवम् एव कुर्याज् जीवति साग्निकः ।
साग्निको ऽपि न कुर्वीत जीवति प्रपितामहे ॥ इति ।

प्रपितामहग्रहणं पितृपितामहोपेतप्रपितामहप्रदर्शनार्थम् । अत एव विष्णुः - “पितरि पितामहे प्रपितामहे च (?) जीवति नैव दद्यात्” इति । पितरि पितामहे च जीवति कथं कार्यम् इत्य् अपेक्षिते स एवाह - “पितरि जीवति यः श्राद्धं कुर्यात् स येषां पिता कुर्यात् तेषां कुर्यात् पितरि पितामहे च येषां पितामहः” इति । तथा पितादिषु (?) त्रिषु द्वयोर् एकस्य वा मरणे ऽपि तेनैवोक्तम् - “यस्य पिता प्रेतः स्यात् स पित्रे पिण्डं निधाय पितामहात् परं द्वाभ्यां दद्यात् । यस्य पितामहः प्रेतः स्यात् तस्मै पिण्डं निधाय प्रपितामहात् परं द्वाभ्यां दद्यात् । यस्य पितामहप्रपितमहौ च प्रेतौ स्यायां यस्य पिता प्रपितामहश् च प्रेतौ स्यातां स पित्रे पिण्डं निधाय पितामहात् परं द्वाभ्यां दद्यात्” इति । भविष्यत्पुराणे पितरि जीवति द्वयोर् एव श्राद्धम् उक्तम् ।

जीवमाने न देयं स्याद् यस्माद् भरतसत्तम ।
तस्माज् जीवपिता कुर्याद् द्वाभ्याम् एव न संशयः ॥ इति ।

मनुस् तु त्रिषु यो जिवति तम् एव श्राद्धे भोजयेद् इत्य् आह ।

ध्रियमाणे तु पितरि पूर्वेषाम् एव निर्वपेत् ।
विप्रवद् भावितं श्राद्धे स्वकं पितरम् आशयेत् ॥
पिता यस्य तु वृत्तः स्याज् जीवेद् वापि पितामहः ।
पितुस् तु नाम संकीर्त्य कीर्तयेत् प्रपितामहम् ॥
पितामहो वा तच् छ्राद्धं भुञ्जीतेत्य् अब्रवीन् मनुः ॥ इति ।

पूरेवेषां पितामहादीनाम् । निगमो ऽपि - “यो जीवति पितॄणां तं भोजयेत् पितृस्थान इत्य् एके, जीवताम् अजीवतां वा देयम् एवेति हिरण्यकेतुः” इति । एवं पिण्डपितृयज्ञे ऽपि द्रष्टव्यम् । अत एव याज्ञवल्क्यः ।

होमतः पितृयज्ञस्य जीवेत् पितरि जीवतः ।
पितरं भोजयित्वा वा पिण्डौ निर्वृणुयात् पिता ॥
उभौ यस्य व्यतीतौ तु जीवेच् चेत् प्रपितामहः ।
पिण्डौ निर्वृणुयात् पूर्वौ भोजयेत् प्रपितामहम् ॥ इति ।

यमस् तु होमो ऽपि पाक्षिक इत्य् आह ।

पित्र्यं जीवपितुर् नोक्तम् अग्नौ होमो ऽपि पाक्षिकः ।
येभ्यो वापि पिता तेभ्यो दद्याद् वैतानकर्मणि ॥
दद्यात् तेभ्यः परेभ्यस् तु जीवेच् चेत् त्रितयं यदि ॥ इति ।

पित्र्यं पिण्डदानम्, वैतानकर्मणि पिण्डपितृयज्ञ इत्य् अर्थः । आपस्तम्बस् तु पितरि जीवति न पिण्डदानं नित्यम् इत्य् आह - “यदि जीवति पिता न दद्याद् आ होमात् त्यक्त्वा विरमेत्” इति । अत्र यथास्वशाखं व्यवस्था । भविष्यत्पुराणे ऽपि श्राद्धे प्रत्यक्षार्चनं निषिद्धम् इत्य् उक्तम् ।

प्रत्यक्षम् अर्चनं श्राद्धे न युक्तं मनुर् अब्रवीत् ।
पिण्डनिर्वापणं चापि महापातकसंमितम् ॥ इति ।

मनुर् अत्र ज्ञानवान्, मनुना तु प्रत्यक्षार्चनस्योक्तत्वात् ॥

**इति स्मृतिचन्द्रिकायां जीवपितृश्राद्धाधिकारनिर्णयः **