०४ मातामहश्राद्धाधिकारिनिर्णयः

अथ मातामहश्राद्धाधिकारिनिर्णयः

तत्र पुलस्त्यः -

मातुः पितरम् आरभ्य त्रयो मातामहाः स्मृताः ।
तेषां तु पितृवच् छ्राद्धं कुर्युर् दुहितृसूनवः ॥

पितृवच् छ्राद्धं पार्वणम् इत्य् अर्थः । तच् च श्राद्धम् आवश्यकम् । अत एव व्यासः ।

पितॄन् मातामहांश् चैव द्विजः श्राद्धेन् तर्पयेत् ।
अनृणश् च पितॄणां तु ब्रह्मलोकं स गच्छति ॥

पुराणे ऽपि ।

कृत्वा तु पैतृकं श्राद्धं पितृप्रभृतिषु त्रिषु ।
कुर्यान् मातामहानां च तथैवानृण्यकारणात् ॥ इति ।

आनृण्यग्रहणं नित्यत्वज्ञापनार्थम् । अत एवाकरणे दोष पुराणे दर्शितः ।

पार्वणं कुरुते यस् तु केवलं पितृहेतुकम् ।
मातामह्यं न कुरुते पितृहा स प्रजायते ॥
पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम् ।
अविशेषेण कर्तव्यं विशेषान् नरकं व्रजेत् ॥ इति ।

यत्र यस्मिन् कर्मणि पितरः पूज्यन्ते तत्राविशेषेण मातामहा अपि पूज्या इत्य् अर्थः । अनेन सर्वस्मिन्न् अपि पितृश्राद्धे मातामहश्राद्धम् अपि कार्यम् इत्य् उक्तं भवति । अत्र केषुचिद् अपवादम् आह कात्यायनः ।

कर्षूसमन्वितं मुक्त्वा तदाद्यं श्राद्धषोडशम् ।
प्रत्याब्दिकं च शेषेषु पिण्डाः स्युः षड् इति स्थितिः ॥ इति ।

कर्षूसमन्वितं सपिण्डीकरणश्राद्धम् । षोडशग्रहणम् एकोद्दिष्टोपलक्षणार्थम् । एवं च यन् मातामहश्राद्धं पितृश्राद्धेषु विहितं तत्रैव दोषानृण्ययोर् अभिधानात् तद् एव सर्वदौहित्रसाधारणम् । यः पुनर् धनहारी दौहित्रः स नवश्राद्धाद्य् अपि कुर्याद् एव, “यो यत आददीत स तस्मै श्राद्धं कुर्यात्” इति स्मरणात् । अनेनैवाभिप्रायेण स्कन्दो ऽपि ।

श्राद्धं मातामहानां तु अवश्यं धनहारिणा ।
दौहित्रेणार्थनिष्कृत्यै कर्तव्यं विधिवत् सदा ॥ इति ।

यो धनहारी दौहित्रः तेनावश्यं नवश्राद्धाद्यौर्धवदैहिकं कार्यम् इत्य् अर्थः । तत्रोपपत्तिम् आह स एव ।

मलम् एतन् मनुष्याणां द्रविणं यत् प्रकीर्तितम् ।
तद् गृह्णन् मलम् आदत्ते दुर्भेदं ज्ञानिनाम् अपि ॥
ऋषिभिस् तस्य निर्दिष्टा निष्कृतिः पावनी परा ।
आ देहपतनात् कुर्यात् तस्य पिण्डोदकक्रियाम् ॥ इति ।

ननु च,

कुर्यान् मातामहश्राद्धं नियमात् पुत्रिकासुतः ।
उभयोर् अपि संबद्धः कुर्यात् स उभयोर् अपि ॥

इति यमेन पुत्रिकापुत्र एव नियमग्रहणाद् अन्यत्र नियमो न गृह्यते । मैवम्, वचनार्थापरिज्ञानात् । अस्यार्थः - द्विविधो हि पुत्रिकापुत्रः, एको मातामहेन संबद्धः अपरः पितृमातामहाभ्याम् इति । तत्र प्रथमो मातामहश्राद्धं नियमेन कुर्यात् पितृश्राद्धम् इच्छया, य उभयसंबद्धः स उभयोर् अपीति । अतो नानेन नियमो ऽवगम्यते । यद् अपि मनुनोक्तम्,

दौहित्रो ह्य् अखिलं रिक्थम् अपुत्रस्य पितुर् हरेत् ।
स एव दद्यात् द्वौ पिण्डौ पित्रे मातामहाय च ॥

इति, तद् अपि यो धनहारी दौहित्रः स एव पितृमातामहयोर् नवश्राद्धाद्यौर्ध्वदैहिकं कुर्यात्, नेतर इत्य् एवंपरं न पुनर् इतरस्य श्राद्धमात्रनिषेधार्थम्, पूर्वोक्तानृण्यादिप्रतिपादकवचनविरोधात् । एवं च यत् कैश्चिद् उक्तं धनहारिपुत्रिकापुत्रयोर् मातामहश्राद्धम् आवश्यकं नान्यस्येति, तत् पूर्वोक्तवचनादर्शननिबन्धनम् इत्य् उपेक्षणीयम् । पुत्रिकापुत्रश्राद्धे विशेषम् आह मनुः ।

मातुः प्रथमतः पिण्डं निर्वपेत् पुत्रिकासुतः ।
द्वितीयं तु पितुस् तस्यास् तृतीयं तु पितुः पितुः ॥ इति ।

द्व्यामुष्यायणे तु पुत्रिकापुत्रे उशनसोक्तो विशेषः ।

मातामह्यं तु मात्रादि पैतृकं पितृपूर्वकम् ।
मातृतः पितृतो यस्माद् अधिकारो ऽस्ति धर्मतः ॥ इति ।

क्षेत्रजे तु द्व्यामुष्यायणे देवलोक्तम् ।

द्व्यामुष्यायणका दद्युः द्वाभ्यां पिण्डोदके पृथक् । इति ।

द्वाभ्यां पितृमातृवर्गाभ्याम् इत्य् अर्थः । अत्र क्रमविशेषम् आह मरीचिः ।

सगोत्रो वान्यगोत्रो वा यो भवेद् विधिना सुतः ।
पिण्डं श्राद्धविधानं च क्षेत्रिणे प्राग् विनिर्वपेत् ॥
बीजिने तु ततः पश्चात् क्षेत्री जीवति चेत् क्वचित् ।
बीजिने दद्युर् आदौ तु मृते पश्चात् प्रदीयते ॥ इति ।

क्षेत्रिण इति शेषः ॥

**इति स्मृतिचन्द्रिकायां मातामहश्राद्धादिकारिनिर्णयः **