०३ श्राद्धाधिकारिनिर्णयः

अथ श्राद्धाधिकारिनिर्णयः

तत्र बृहस्पतिः ।

प्रमीतस्य पितुः पुत्रैः श्राद्धं देयं प्रयत्नतः ।
ज्ञातिबन्धुसुहृच्छिष्यऋत्विग्भृत्यपुरोहितैः ॥ इति ।

पुत्राभाव इति शेषः । पितुर् ग्रहणं मातुर् अपि प्रदर्शनार्थम् । अत एव सुमन्तुः ।

मातुः पितुः प्रकुर्वीत संस्थितस्यौरसः सुतः ॥ इति ।

एतद् अनुपनीतेनापि कार्यम् । तद् आह सुमन्तुः ।

श्राद्धं कुर्याद् अवश्यं तु प्रमीतपितृको हि यः ।
व्रतस्थो वाव्रतस्थो वा एक एव भवेद् यदि ॥

अव्रतस्थो ऽनुपनीतः । अत एव वृद्धमनुः ।

कुर्याद् अनुपनीतो ऽपि श्राद्धम् एको हि यः सुतः ।
पितृयज्ञाहुतिं पाणौ जुहुयाद् ब्राह्मणस्य सः ॥ इति ।

अत्र वेशेषम् आह व्याघ्रः ।

कृतचौलस् तु कुर्वीत उदकं पिण्डम् एव च ।
स्वधाकारं प्रयुञ्जीत वेदोच्चारं न कारयेत् ॥

मातापितोर् इति शेषः । स्मृत्यन्तरे ऽपि ।

कृतचूडो ऽनुपेतस् तु पित्रोः श्राद्धं समाचरेत् ।
उदाहरेत् स्वधाकारं न तु वेदाक्षराण्य् असौ ॥ इति ।

वेदाक्षराण्य् अपि प्रयोक्तव्यानीत्य् आह ।

न ह्य् अस्मिन् युज्यते कर्म किंचिद् आ मौञ्जिबन्धनात् ।
नाभिव्याहारयेद् ब्रह्म स्वधानिनयनाद् ऋते ॥ इति ।

एवं चात्र विकल्पो द्रष्टव्यः । पुत्राभावे तु शङ्खोक्तम् ।

पितुः पुत्रेण कर्तव्याः पिण्डदनोदकक्रियाः ।
पुत्राभावे तु पत्नी स्यात् पत्न्यभावे तु सोदरः ॥ इति ।

पुत्रग्रहणेनात्र मुख्या गौणाश् च गृह्यन्ते,

पिण्डदो ऽंशहरश् चैषां पूर्वाभावे परः परः ।

इति याज्ञवल्क्यस्मरणात् । अतो द्विविधपुत्राभावे “पुत्राभावे तु पत्नी स्यात्” इत् वचनार्थः । तद् अपि पौत्राभावविषयम्,

पौत्रो ऽथ पुत्रिकापुत्रः स्वर्गप्राप्तिकराव् उभौ ।
रक्थे च पिण्डदाने च समौ तौ परिकीर्तितौ ॥

इति बृहस्पतिना गौणपुत्रसामान्याभिधानात् । न चैवं पिण्डदाने पुत्रपौत्रयोर् विकल्पः स्याद् इति शङ्कनीयम्,

पुत्रेषु विद्यमानेxउ नान्यो वै कारयेत् स्वधाम् ।

इति ऋश्यशृङ्गस्मरणात्,

नैतत् पौत्रेण कर्तव्यं पुत्रवांश् चेत् पितामहः ।

इति कात्यायनस्मरणात् । पुत्राभावे तु पत्नी स्याद् इत्य् एतद् यज्ञपत्न्या दायहरत्वात् तद्विषयम् । अन्यथा तु यो दायहरः स एव दद्यात् । अत एव विष्ण्वापस्तम्बौ - “यश् चार्थरहः स पिण्डदायी, पुत्रः पितृवित्ताभावे पिण्डं दद्यात्” इति । अत एव याज्ञवल्क्येनापि,

पिण्डदो ऽंशहरश् चैषां पूर्वाभावे परः परः ।

इति पिण्डदत्वांशहरत्वयोर् ऐकादिकरण्यम् उक्तम् । एवं सोदरे ऽपि द्रष्टव्यम् । एवं च यद् उक्तं मनुना,

भ्रातॄणाम् एकजातानां एकश् चेत् पुत्रवान् भवेत् ।
सर्वे ते तेन पुत्रेण पुत्रिणो मनुर् अब्रवीत् ॥

इति, तत्र पुत्रग्रहणं ग्रामस्य तात इतिवत् प्रशंसार्थम् इत्य् अवगन्तव्यम् । अन्यथा “पत्नी दुहितरः” इत्याद्य् असमञ्जसं स्यात् । अनेनैवाभिप्रायेण गौतमो ऽपि - “पुत्राभावे ऽस्य बान्धवाः सपिण्डाः मातृसपिण्डाः शिष्याश् च दद्युः । तदभावे ऋत्विगाचार्यौ” इति । मातृसपिण्डा मातुलादयः । सपिण्डाभावे समानोदकाः पिण्डं दद्युः । तथा च मार्कण्डेयपुराणे ।

पुत्राभावे सपिण्डास् तु तदभावे तु सोदकाः ।
मातुः सपिण्डा ये वा स्युर् ये वा मातुश् च सोदकाः ॥
कुर्युर् एनं विधिं सम्यग् अपुत्रस्य सुताः स्मृताः ।
कुर्यान् मातामहायैवं पुत्रिकातनयस् तथा ॥
सर्वाभावे स्त्रियः कुर्युः स्वभर्तॄणाम् अमन्त्रकम् ।
तदभावे च नृपतिः कारयेत् स्वकुटुम्बिनाम् ॥
तज्जातीयैः नरैः सम्यग् दाहाद्याः सकलाः क्रियाः ।
सर्वेषाम् एव वर्णानां बान्धवो नृपतिर् यतः ॥

श्रीविष्णुपुराणे पराशरो ऽपि ।

पुत्रः पौत्रः प्रपौत्रो वा तद्वद् वा भ्रातृसन्ततिः ।
सपिण्डसन्ततिर् वापि क्रियार्हा नृप जायते ॥
तेषाम् अभावे सर्वेषां समनोदकसन्ततिः ।
मातृपक्षस्य पिण्डेन संबद्धा ये जलेन वा ॥
कुलद्वये ऽपि चोत्सन्नैः स्त्रीभिः कर्याः क्रिया नृप ।
तत्सङ्घातगतैर् वापि कार्या प्रेतस्य वै क्रियाः ॥
उत्सन्नबन्धुरिक्थानां कारयेद् अवनीपतिः ॥ इति ।

उक्तेषु पुत्रादिषु कस्यकस्मिन् कर्मण्य् अधिकार इत्य् आशङ्क्य स एवाह ।

पूर्वाः क्रिया मध्यमाश् च तथा चैवोत्तराः क्रियाः ।
त्रिप्रकाराः क्रिया ह्य् एतास् तासां भेदान् शृणुष्व मे ॥
आद्याहाद् द्वादशाहाच् च मध्ये याः स्युः क्रिया मताः ।
ताः पूर्वा मध्यमा मासि मास्य् एकोद्दिष्टसंज्ञिकाः ॥
प्रेते पितृत्वम् आपन्ने सपिण्डीकरणाद् अनु ।
क्रियन्ते याः क्रियाः पत्न्याः प्रोच्यन्ते ता नृपोत्तराः ॥
पितृमातृसपिण्डैस् तु समानसलिलैस् तथा ।
तत्सङ्घातगतैश् चैव राज्ञा वा धनहारिणः ॥
पूर्वाः क्रियाश् च कर्तव्याः पुत्राद्यैश् चोत्तराः क्रियाः ।
दौहित्रैर् वा नृपश्रेष्ठ कार्यास् तत्तनयैस् तथा ॥ इति ।

सपिण्डाद्यैर् अवनिपत्यन्तैः पूर्वाः क्रियाः मध्यमाश् च कर्तव्याः । पुत्राद्यैर् एव भ्रातृसन्तत्यन्तरैर् दौहित्राद्यैश् चोत्तराः क्रियाः कर्तव्या न सपिण्डाद्यैर् अवनिपत्यन्तैर् इत्य् अर्थः । दौहित्रे तु भविष्यत्पुराणोक्तो विशेषः ।

यथा व्रतस्थो ऽपि सुतः पितुः कुर्यात् क्रियां नृप ।
उदकाद्या महाबाहो दौहित्रो ऽपि तथार्हति ॥ इति ।
ननु च पुत्राभावे तु पत्नी स्याद् इत्य् एतत् “सर्वाभावे स्त्रियः कुर्युः स्वभर्तॄणाम् अमन्त्रकम्” इति पुराणवचनेन विरुध्यते ।
मैवम्, “पुत्राभावे तु पत्नी स्यात्” इत्य् एतद् ब्राह्मादिविवाहोढादिविषयम्, तस्या यज्ञान्वितत्वेन तत्रैव पत्नीशब्दप्रयोगात् । इतरत्र तु,
क्रयक्रीता तु या नारी न सा पत्नी विधीयते ।
न सा दैवे न सा पित्र्ये दासीं तां कवयो विदुः ॥

इति पत्नीत्वाभावात् स्वभर्तॄणाम् अमन्त्रकम् इति पुराणवचनं तद्विषयम् । यद् वा, “पुत्राभावे तु पत्नी स्यात्” इत्य् एतद् ब्रह्मवादिनीविषयम्, तस्या अध्ययनसद्भावेन मन्त्रयोगित्वात् । पुराणवचनं त्व् अध्ययनविहीनसद्योवध्वभिप्रायम् इत्य् अनुसंधेयम् । यद् अत्र युक्तं तद् ग्राह्यम् । पत्न्यां तु विशेषम् आह वृद्धमनुः ।

अपुत्रा शयनं भर्तुः पलयन्ती व्रते स्थिता ।
पत्नी दद्यात् तु तत्पिण्डं कृत्स्नम् अंशं लभेत च ॥ इति ।

शयनं पालयन्ती सुसंयतेत्य् अर्थः । विष्णुर् अपि ।

श्वश्र्वादीनां तथा पिण्डं पत्नी दद्यात् सुसंयता ॥ इति ।

यत् तु कात्यायनेनोक्तम्,

पुत्रः शिष्यो ऽथ वा पत्नी पिता भ्राताथ वा गुरुः ।
स्त्रीहारी धनहारी च कुर्युः पिण्डोदकक्रियाम् ॥

इति, यद् अपि वृद्धशातातपेन,

मातुलो भागिनेयस्य स्वस्त्रीयो मातुलस्य च ।
श्वशुरस्य गुरोश् चैव सख्युर् मातामहस्य च ॥
एतेषां चैव भार्याणां स्वसुर् मातुः पितुस् तथा ।
श्राद्दम् आमं तु कर्तव्यम् इति वेदविदां स्थितिः ॥

इति, अत्रापि श्रीविष्णुपुराणवचनानुसारेण व्यवस्था वेदितव्या । यत् तु कात्यायनेनोक्तम्,

अपुत्रायां पतिर् दद्यात् सपुत्रायां तु न क्वचित् ।
न पुत्रस्य पिता कुर्यान् नानुजस्य तथाग्रजः ॥

इति, तत् स्नेहविहीनपित्रादिविषयम् । अत एव बोधायनः ।

पित्रा श्राद्धं न कर्तव्यं पुत्राणां तु कथंचन ।
भ्रात्रा नैव च कर्तव्यं भ्रातॄणां च कनीयसाम् ॥
अपि स्नेहेन कुर्यातां सपिण्डीकरणं विना ।
गयायां तु विसेषेण ज्यायान् अपि समाचरेत् ॥ इति ।

अत्र धनहारित्वादिनिमित्ताभावे ऽपि कृते ऽभ्युदय इत्य् आह वृद्धशातातपः ।

पितुः श्राद्धं तु कर्तव्यं सर्वेषां वर्णलिङ्गिनाम् ।
एवं कुर्यान् नरः सम्यङ् महतीं श्रियम् आप्नुयात् ॥ इति ।

लिङ्गिन आश्रमिणः । एतच् च सवर्णाभिप्रायेण, अन्यथा दोषश्रवणात् । तथा च मरीचिः ।

ब्राह्मणो ह्य् असवर्णस्य यः करोत्य् और्ध्वदैहिकम् ।
तद्वर्णत्वम् असौ याति इह लोके परत्र च ॥

पारस्करो ऽपि ।

न ब्राह्मणेन कर्तव्यं शूद्रस्य त्व् और्ध्वदैहिकम् ।
शूद्रेण वा ब्राह्मणस्य विना पारशवात् क्वचित् ॥

इति स्मृतिचन्द्रिकायां श्राद्धाधिकारिनिर्णयः