०२ श्राद्धभेदाः

अथ श्राद्धभेदाः

तत्र विश्वामित्रः ।

नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं सपिण्डनम् ।
पार्वणं चेति विज्ञेयं गौष्ठ्यं शुद्ध्यर्थम् अष्टमम् ॥
कर्माङ्गं नवमं प्रोक्तं दैविकं दशमं स्मृतम् ।
यात्रास्व् एकादशं प्रोक्तं पुष्ट्यर्थं द्वादशं स्मृतम् ॥

तत्र नित्यनैमित्तिकयोर् लक्षणं पारस्करेणोक्तम् ।

अहन्य् अहनि यच् छ्राद्धं तन् नित्यम् इति कीर्तितम् ।
वैश्वदेवविहीनं तु अशक्तो ऽप्य् उदकेन तु ॥
एकोद्दिष्टं तु यच् छ्राद्धं तन् नैमित्तिकम् उच्यते ।
तद् अप्य् अदैवं कर्तव्यम् अयुग्मान् आशयेद् द्विजान् ॥ इति ।

काम्यादीनां लक्षणं वृद्धवसिष्ठेनोक्तम् ।

अभिप्रेतार्थसिद्ध्यर्थं काम्यं पार्वणवत् स्मृतम् ।
पुत्रजन्मविवाहादौ वृद्धिश्राद्धम् उदाहृतम् ॥
नवानीतार्घ्यपात्रं च पिण्डश् च परिकीर्यते ।
पितृपात्रेषु पिण्डेषु सपिण्डीकरणं तु तत् ॥
प्रतिपर्व भवेद् यस्मात् प्रोच्यते पार्वणं तु तत् ।
गोष्ठ्यां यत् क्रियते श्राद्धं गोष्ठीश्राद्दं तद् उच्यते ।
बहूनां विदुषां प्राप्तौ सुखार्थं पितृतृप्तये ॥ इति ।

शुद्ध्यर्थस्य लक्षणं प्रचेतसोक्तम् ।

क्रियते शुद्धये यत् तु ब्राह्मणानां तु भोजनम् ।
शुद्ध्यर्थम् इति तत् प्रोक्तं श्राद्धं पार्वणवत् कृतम् ॥

कर्माङ्गादीनां लक्षणं पारस्करेणोक्तम् ।

निषेककाले सोमे च सीमन्तोन्नयने तथा ।
ज्ञेयं पुंसवने श्राद्धं कर्माङ्गं विधिवत् कृतम् ॥
देवान् उद्दिश्य क्रियते यत् तद् दैविकम् उच्यते ।
तन् नित्यश्राद्धवत् कुर्याद् द्वादश्यादिषु यत्नतः ॥
गच्छन् देशान्तरं यद् धि श्राद्धं कुर्यात् तु सर्पिषा ।
तद् यात्रार्थम् इति प्रोक्तं प्रवेशे च न संशयः ॥ इति ।

अत्र कर्माङ्गवचनम् अकरणे कर्मवैगुण्यज्ञापनार्थम् । सर्पिषा सर्पिः प्रधानकेनेत्य् अर्थः । अन्यथा केवलेन तृप्तेर् अशक्यत्वात् ॥

**इति स्मृतिचन्द्रिकायां श्राद्धभेदाः **