०१ श्राद्धमहिमा

उक्तम् आह्निके नित्यश्राद्धम् । अधुना तत्प्रसङ्गाच् छ्राद्धप्रकरणम् आरभ्यते । तत्रादौ श्राद्धमहिमा । तत्र सुमन्तुः ।

श्राद्धात् परतरं नान्यच् छ्रेयस्करम् उदाहृतम् ।
तस्मात् सर्वप्रयत्नेन श्राद्धं कुर्याद् विचक्षणः ॥

देवलो ऽपि ।

अरोगः प्रकृतिस्थश् च चिरायुः पुत्रपौत्रवान् ।
अर्थवान् अर्थकामी च श्राद्धकामो भवेद् इह ॥
परत्र च परां तुष्टिं लोकांश् च विविधान् शुभान् ।
श्राद्धकृत् समवाप्नोति यशश् च विपुलं नरः ॥

याज्ञवल्क्यो ऽपि ।

आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च ।
प्रयच्छन्ति तथा राज्यं प्रीता नॄणां पितामहाः ॥

यमो ऽपि ।

ये यजन्ति पितॄन् देवान् ब्राह्मणान् सहुताशनान् ।
सर्वभूतान्तरात्मानं विष्णुम् एव यजन्ति ते ॥
आयुः पुत्रान् यशः स्वर्गं कीर्तिं पुष्टिं बलम् श्रियम् ।
पशून् सुखं धनं धान्यं प्राप्नुयात् पितृपूजनात् ॥

मार्कण्डेयपुराणे ऽपि ।

पिता पितामहश् चैव तथैव प्रपितामहः ।
पिण्डसंबन्धिनो ह्य् एते विज्ञेयाः पुरुषास् त्रयः ॥
लेपसंबन्धिनस् त्व् अन्ये पितामहपितामहात् ।
प्रभृत्य् उक्तास् त्रयस् तेषां यजमानश् च सप्तमः ॥
तथान्ये पूर्वजाः स्वर्गे ये चान्ये नरकौकसः ।
ये च तिर्यक्त्वम् आपन्ना ये च भूतादिसंस्थिताः ॥
तांत् सर्वान् यजमानो वै श्राद्धं कुर्वन् यथाविधि ।
समाप्याययते वस्त्स येन येन शृणुष्व तत् ॥
अन्नप्रकिरणं यत् तु मनुष्यैः क्रियते भुवि ।
तेन तुष्टिम् उपायान्ति ये पिशाचत्वम् आगताः ॥
यद् अम्बु स्नानवस्त्रोत्थं भूमौ पतति पुत्रक ।
तेन ये मरुतां प्राप्तास् तेषां तृप्तिः प्रजायते ॥
यास् तु गन्धाम्बुकणिकाः पतन्ति धरणीतले ।
ताभिर् आप्ययनं तेषां ये देवत्वं कुले गताः ॥
उद्धृतेषु तु पिण्डेषु याश् चात्र कणिका भुवि ।
ताभिर् आप्यायनं तेषां ये तिर्यक्त्वं कुले गताः ॥
ये चादन्ताः कुले बालाः क्रियायोग्या ह्य् असंस्कृताः ।
विपन्नास् ते तु विकिरसंमार्जनजलाशिनः ॥
भुक्त्वा चाचमतां यच् च जलं यच् चाङ्घ्रिसेचने ।
ब्राह्मणानां तथैवान्ते तेन तृप्तिं प्रयान्ति वै ॥
तेनानेककुले तत्र तत् तद् योन्यन्तरं गताः ।
प्रयान्त्य् अप्यायनं वत्स सम्यक् श्राद्धक्रियावताम् ॥

बृहस्पतिर् अपि ।

य एवं वेत्ति मतिमांस् तस्य श्राद्धफलं भवेत् ।
उपदेष्टानुमन्ता च लोके तुल्यफलौ स्मृतौ ॥
इमं श्राद्धविधिं पुण्यं कुर्याद् वापि पठेत् तु यः ।
सर्वकामैः स बध्नाति ह्य् अमृतत्वं च विन्दति ॥

तथाकरणे ऽपि दोषस् तेनैव दर्शितः ।

न तत्र वीरा जायन्ते नारोगा न शतायुषः ।
न च श्रेयो ऽधिगच्छन्ति यत्र श्राद्धं विवर्जितम् ॥

आदित्यपुराणे ऽपि ।

न सन्ति पितरश् चेति कृत्वा मनसि यो नरः ।
श्राद्धं न कुरुते तत्र तस्य रक्तं पिबन्ति ते ॥

तथा धनाशुद्धाव् अपि दोषो मार्कण्डेयपुराणे दर्शितः ।

अन्यायोपार्जितैर् द्रव्यैर् यच् छ्राद्धं क्रियते नरैः ।
तृप्यन्ति तेन चण्डालाः पुल्कसाद्याश् च योनयः ॥ इति ॥

इति स्मृतिचन्द्रिकायां श्राद्धमहिमा