११ गर्भिणीधर्माः

अथ गर्भिणीधर्माः

तत्र कश्यपः ।

नावस्करेषूपविशेन् मुसलोलूखलादिषु ।
जलं च नावगाहेत शून्यागारं च वर्जयेत् ॥
वल्मीकं नधितिष्ठेत न चोद्विग्नमना भवेत् ।
विलिखेन् न नखैर् भूमिं नाङ्गारेण न भस्मना ॥
न शयालुः सदा तिष्ठेद् व्यायमं च विवर्जयेत् ।
न तुषाङ्गारभस्मास्थिकपालेषु समाविशेत् ॥
वर्जयेत् कलहं लोकैर् गात्रभङ्गं तथैव च ।
न मुक्तकेशी तिष्ठेत् तु नाशुचिः स्यात् कदाचन ॥
न शयीतोत्तरशिरा न चैवाधःशिराः क्वचित् ।
न वस्त्रहीना नोद्विग्ना न चार्द्रवरणा सती ॥
नामङ्गल्यं वदेद् वाक्यं न च हास्यादिकं तथा ।
कुर्याच् छ्वशुरयोर् नित्यं पूजां मङ्गलतत्परा ॥
तिष्ठेत् प्रसन्नवदना भर्तृप्रियहिते रता । इति ।

तथा मात्स्योदितं कश्यप आह ।

संध्यायां नैव भोक्तव्यं गर्भिण्या तु प्रयत्नतः ।
न स्नातव्यं न गन्तव्यं वृक्षमूलेषु सर्वदा ॥
न शयालुः सदा तिष्थेन् मञ्वच्छायां विवर्जयेत् ।
सर्वौषधीभिः कोष्णेन वारिणा स्नानम् आचरेत् ॥
कृतरक्षा सुभाषा च वस्तुपूजनतत्परा ।
दानशीला तृतीयायां पार्वत्यां नक्तम् आचरेत् ॥
पतिव्रता भवेन् नारी विशेषेण तु गर्भिणी ।
यस् तु तस्या भवेत् पुत्रः शतायुर् वृत्तिसंयुतः ॥
अन्यथा गर्भपतनम् अवाप्नोति न संशयः । इति ।

सुश्रुतो ऽपि - “ततः प्रभृति व्यायमव्यवसायातितर्पणदिवास्वप्नरात्रिजागरणशोकभय-यानारोहणवेगधारणकुक्कुटासनशोणितमोक्षणानि परिहरेत्” इति । ततः प्रभृति गर्भग्रहणप्रभृतीत्य् अर्थः । तद्ग्रहणं च श्रमादिभिर् लिङ्गैर् अवगन्तव्यम् । तान्य् अपि तेनैवोक्तानि - “सद्यो गृहीतगर्भायां श्रमो ग्लानिः पिपासा सक्थिक्लेदनं शुक्लशोणितयोः संबन्धे स्फुरणं च योन्याः” इति । गर्भिण्याश् च यद् अभिलषितं तत् तस्यै दातव्यम् । अन्यथा दोषश्रवणात् । तथा च याज्ञवल्क्यः ।

दोहदस्याप्रदानेन गर्भो दोषम् अवाप्नुयात् ।
वैरूप्यं मरणं वापि तस्मात् कार्यं प्रियं स्त्रियाः ॥ इति ।

श्रुतिर् अपि - “द्विहृदयां नारीं दौहृदिनीम् आचक्षते । तदभिलाषितम् दद्यात् । वीर्यवन्तं चिरायुषं पुत्रं जनयति” इति ।

*इति गर्भिणीधर्माः *