१० सीमन्तोन्नयनम्

अथ सीमन्तोन्नयनम्

तत्र लोगाक्षिः - “तृतीये गर्भमासे सीमन्तोन्नयनं करयेत्” इति । आपस्तम्बो ऽपि - “सीमन्तोन्नयनं प्रथमे गर्भे चतुर्थे मासि” इति । बैजावापो ऽपि - “अथ सीमन्तोन्नयनं मसि चतुर्थे पञ्चमे षष्ठे वापि” इति । साङ्ख्यायनगृह्ये ऽपि - “सप्तमे मासि प्रथमे गर्भे सीमन्तोन्नयनम्” इति । याज्ञवल्क्यो ऽपि ।

षष्ठे ऽष्टमे वा सीमन्तो मास्य् एते जातकर्म च । इति ।

एते आगते जात इत्य् अर्थः । शङ्खो ऽपि - “गर्भस्पन्दने सीमन्तोन्नयनं यवद् वा न प्रसवः” इति । अत्र शौनकेन विशेष उक्तः - “आपूर्यमाणपक्षे यथा पुंसा नक्षत्रेण चन्द्रमा युक्तः स्यात्” इति । एतच् च सीमन्तोन्नयनं क्षेत्रसंस्करत्वात् सकृद् एव कार्यं न प्रतिगर्भम् । तथा च हारीतः ।

सकृत् संस्कृतसंस्कारः सीमन्तेन द्विजस्त्रियः ।
यं यं गर्भं प्रसूयन्ते स सर्वः संस्कृतो भवेत् ॥ इति ।

देवलो ऽपि ।

सकृच् च संस्कृता नारी सर्वगर्भेषु संस्क्र्ता । इति ।

केचित् सीमन्तोन्नयनं गर्भसंस्कार इति प्रतिगर्भम् आवर्तयन्ति । तथा च विष्णुः ।

सीमन्तोन्नयनं कर्म तत् स्त्रीसंस्कार इष्यते ।
केचिच् च गर्भसंस्काराद् गर्भं गर्भं प्रयुञ्जते । इति ।

अकृतसीमन्तायाः प्रसवे सत्यव्रत आह ।

स्त्री यदाकृतसीमन्ता प्रसूयेत कथंचन ।
गृहीतपुत्रा विधिवत् पुनःसंस्कारम् अर्हति ॥ इति ।

एतेषां च पक्षाणां तत्तद्गृह्यानुसारेण व्यवस्था वेदितव्या ।

इति स्मृतिचन्द्रिकायां सीमन्तोन्नयनम्