०९ पुंसवनम्

अथ पुंसवनम्

तत्र याज्ञवल्क्यः ।

गर्भाधानम् ऋतौ पुंसः सवनं स्पन्दनात् पुरा । इति ।

प्राग् गर्भचलनात् पुंसवनाख्यं कर्म कार्यम् इत्य् अर्थः । बैजावापो विशेषम् आह - “मासि द्वितीये तृतीये वा पुरा स्पन्दतः” इति । पुंसवनम् इत्य् अनुवृत्तौ पारस्करो ऽपि - “मासि द्वितीये तृतीये वा यद् अहः पुंसो नक्षत्रेण चन्द्रमा युक्तः स्यात्” इति । पुन्नक्षत्राणि च रत्नकोशे ऽभिहितानि ।

हस्तो मूलं श्रवण पुनर्वसुर् मृगशिरास् तथा तिष्यः ।
पुंसंज्ञितेषु कार्येष्व् एतानि शुभानि धिष्ण्यानि ॥ इति ।

धिष्ण्यानि नक्षत्राणि । बृहस्पतिस् तु गर्भस्पन्दने पुंसवनम् आह ।

गर्भादानम् ऋतौ कुर्यात् सवनं स्पन्दिते शिशौ । इति

इति पुंसवनम्