०८ गर्भाधानम्

अथ गर्भाधानम्

तत्र याज्ञवल्क्यः ।

षोडशर्तुर् निशाः स्त्रीणां
तस्मिन् युग्मासु संविशेत् ।

इति ।

रजोदर्शनप्रभृति षोडश निशाः स्त्रीणाम् ऋतुर् गर्भग्रहणस्य कालः । तस्मिन् युग्मासु समासु रात्रिषु संविशेद् गच्छेद् यदि पुत्रार्थी भवति । कन्यार्थी त्व् अयुग्मासु । तथा च मनुः ।

युग्मासु पुत्रा जायन्ते
स्त्रियो ऽयुग्मासु रात्रिषु ।
तस्माद् युग्मासु पुत्रार्थी
संविशेद् आर्तवे स्त्रियम् ॥

इति ।

तथा चापस्तम्बः - “चतुर्थीप्रभृत्य् आ षोडशीम् उत्तराम् उत्तरां युग्मां प्रजानिःश्रेयसम् ऋतुगमनम् इत्य् उपदिशन्ति” इति । व्यासो ऽपि ।

रात्रौ चतुर्थ्यां पुत्रः स्याद् आयुर्धनवर्जितः ।
पञ्चम्यां पुत्रिणी नारी षष्ट्यां पुत्रस् तु मध्यमः ॥
सप्तम्याम् अप्रजा योषिद् अष्टम्याम् ईश्वरः सुतः ।
नवम्यां सुभगा नारी दशम्यां च परः पुमान् ॥
एकादश्याम् अधर्म्या स्त्री द्वादश्यां पुरुषोत्तमः ।
त्रयोदश्यां सुता तत्र वर्णसंकरकारिणी ॥
धर्मध्वजः कृतज्ञः स्याद् आत्मवेदी दृढव्रतः ।
प्रजायते चतुर्दश्यां गणौघैर् जगतीपतिः ॥
राजपत्नी महाभागा राजसंशगता तथा ।
जायते पञ्चदश्यां तु बहुपुत्रा पतिव्रता ॥
विद्यालक्षणसंपन्नः सत्यवादी जितेन्द्रियः ।
आश्रयः सर्वभूतानां षोडश्यां जायते पुमान् ॥ इति ।

युग्मास्व् अपि गच्छन् प्रतिषिद्देतरास्वे व गच्छेत् । तत्र प्रतिषिद्धान्य् आह मनुः ।

अमावास्याम् अष्टमीं च पौर्णमासीं चतुर्दशीम् ।
ब्रह्मचारी भवेन् नित्यम् अप्य् ऋतौ स्नातको द्विजः ॥
तासाम् आद्याश् चतस्रस् तु निन्दितैकादशी तथा ।
त्रयोदशी च शेषाः स्युः प्रशस्ता दश रात्रयः ॥ इति ।

तासां षोडशरात्रीणां मध्ये रजोदर्शनाद् आरभ्य चतस्रो रात्रीर् वर्जयेत् । अत एव पैठीनसिः ।

न प्रथमे न द्वितीये न तृतीये न चतुर्थ आह्वयेत् । इति ।

केचित् तु स्नानाद् ऊर्ध्वं चतस्रो वर्जयेद् इत्य् आहुः । पूर्वं तस्याः स्पर्शननिषेधेनैव गमनस्यापि निषिद्धत्वात् तद्गमने प्रायश्चित्तविधानाच् च । अतः “षोडशर्तुर् निशाः स्त्रीणाम्” इति स्नानाद् ऊर्ध्वं वेदितव्यम्, तन् न,

ऋतुः स्वाभविकः स्त्रीणां रात्रयः षोडश स्मृताः ।
चतुर्भिर् इतरैः सार्धम् अहोभिः सद्विगर्हितैः ॥

इति मन्वचनविरोधात् । न हि स्नानाद् ऊर्ध्वं गर्हिता रात्रयः सन्ति । तद् आह कात्यायनः ।

रजस्वला चतुर्थे ऽह्नि स्नानाच् छुद्धिम् अवाप्नुयात् । इति ।

अर्वाक् पुनः, “सैषा ब्रह्महत्या स्त्रीणां यन् मासि मासि रजोदर्शनं यस् ततो जायते सो ऽभिशस्तः” इत्यादिभिर् गर्हितश्रवणात् पूर्वोक्तैव ज्यायसी । यत् तु गर्भाधानम् अधिकृत्य हारीतेनोक्तम्, “चतुर्थे ऽह्नि स्नातायां युग्मासु च” इति, तच् चतुर्थे ऽहि (स्नातायां) रजोनिवृत्तौ द्रष्टव्यम् । अत एव गोभिलः - “यदर्तुमती भवत्य् उपरतशोणिता तदा संभवकालः” इति, “षोडशर्तुनिशाः स्त्रीणाम्” इति वदन् अह्नि गर्भाधाननिषेधम् आह । अत एव शङ्खलिखितौ - “नार्तवे दिवा मैथुनं व्रजेत् । क्लीबा अल्पविर्याश् च दिवा प्रसूयन्ते ऽल्पायुषश् च” इति । याज्ञवल्क्यो ऽपि संवेशने विशेषम् अह ।

एवं गच्छन् स्त्रियं क्षामां
मघां मूलं च वर्जयेत् ।
सुस्थ इन्दौ सकृत् पुत्रं
लक्षण्यं जनयेत् पुमान् ॥

इति ।

सुस्थ इन्दौ चन्द्रबले सति मघामूले विहाय क्षामां कृशां सकृद् गच्छन् लक्षण्यं लक्षणयुक्तं पुत्रं जनयेद् इत्य् अर्थः । ज्योतिःशास्त्रे ऽपि ।

पैत्र्यं पौष्णं नैरृतं चापि धिष्ण्यं
त्यक्त्वा नारीं सुप्रसन्नां प्रसन्नः ।
पुष्टः क्षामां पुत्रकामो ऽभिगच्छन्
सल्लक्षण्यं पुत्रम् आप्नोति सत्यम् ॥ इति ।

पैत्र्यं मखानक्षत्रम् । पौष्णं रेवती । नैरृतं मूलम् । धिष्ण्यं नक्षत्रम् । क्षामता तु तस्मिन् काले रजस्वलाव्रतेनैव भवति । यदा रजोनिवृत्तिर् भवति तदा लघ्वाहारादिना क्षामता संपादनीया पुत्रोत्पत्त्यर्थम् । पुंसा च शुक्लवृद्ध्यर्थं स्निग्धादिभोजनं कर्तव्यम् । तथा च बृहस्पतिः ।

स्त्रियो रजो ऽधिके स्त्री स्यात् पुमान् शुक्लाधिके भवेत् ।
तस्माच् छुक्लविवृद्ध्यर्थम् वृष्यं स्निग्धं च भक्षयेत् ॥
लघ्वारारां स्त्रियं कुर्याद् एवं संजनयेत् सुतम् । इति ।

वृष्यं वीर्यवृद्धिकरं द्रव्यम् । मनुर् अपि ।

पुमान् पुंसो ऽधिके शुक्ले स्त्री भवत्य् अधिके स्त्रियः ।
समे ऽपुमान् पुंस्त्रियौ वा क्षीणे ऽल्पे च विपर्ययः ॥ इति ।

समे साम्ये बिजद्वयस्य अपुमान् नपुंसक इति यावत् । पुंस्त्रियौ वा यदि तदा बीजविभागः । तद् आह यमः ।

यदि संयोगकाले तु पुरुषो रागमोहितः ।
द्विधा समुत्सृजेच् छुक्लं यमलं तत्र जायते ॥ इति ।

क्षीणे निःसारे ऽल्पे च विपर्ययः गर्भाग्रहणम् । ऋतुयौगपद्ये तु गमनक्रमम् आह देवलः ।

यौगपद्ये तु तीर्थानां विप्रादिक्रमशो व्रजेत् ।
रक्षणार्थम् अपुत्राणां ग्रहणक्रमशो ऽपि वा ॥ इति ।

तीर्थम् ऋतुः । तद्यौगपद्ये तु वर्णक्रमेणोद्वाहक्रमेण वा गच्छेत् । अपुत्राणां पूर्वम् इत्य् अर्थः । अनेन ऋतुकालतिक्रमः कथम् अपि न कार्य इत्य् उक्तं भवति । अत एव मनुः ।

ऋतुकालाभिगामी स्यात् स्वदारनिरतः सदा ।
पर्ववर्जं व्रजेद् एनां तद्व्रतो रतिकाम्यया ॥ इति ।

तद्व्रतः पुत्रोत्पत्तिव्रतः । अनेन विनापि रतिकाम्यया पुत्रजन्मार्थम् ऋतौ गच्छेद् एवेति नियम्यते, अन्यथा दोषश्रवणात् । तथा च पराशरः ।

ऋतुस्नातां तु यो भार्यां संनिधौ नोपगच्छति ।
घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ॥ इति ।

बोधायनो ऽपि ।

ऋतुस्नातां तु यो भार्यां संनिधौ नोपगच्छति ।
पितरस् तस्य तन् मासं तस्मिन् रेतसि शेरते ॥ इति ।

संनिधिग्रहणाद् असंनिधौ न दोष इति मन्तव्यम् । संनिधाव् अपि यावद् अशक्तः तावद् अदोष एव । तथा च स्मृतिः ।

यः स्वदारान् ऋतुस्नातान् संनिधौ नोपगच्छति ।
भ्रूणहत्याम् अवाप्नोति प्रजा प्राप्ता विनश्यति ॥

एतद् अजातपुत्रविषयम्, “जायमानो वै ब्राह्मणस् त्रिभिर् ऋणवान् जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारिवासी (?)” इत्य् अस्याः श्रुतेर् एकपुत्रोत्पादनेनैव वरितार्थत्वात् । उक्तं च कूर्मपुराणे ।

ऋतुकालाभिगामी स्याद् यावत् पुत्रो ऽभिजायते । इति ।

ननु पुत्रान्तरोत्पत्तिविधायको ऽप्य् अस्ति, “दशास्यां पुत्रान् आधेहि” इति ।

सत्यम्, न त्व् इयं विधायिका स्यात्, किं तु बह्व्-अपत्य-प्रशंसार्था । अत एव नारदः ।

ऋणम् अस्मिन् संनयत्य्
अमृतत्वं च गच्छति ।
पिता पुत्रस्य जातस्य
पश्येच् चेज् जीवतो मुखम् ॥
अनन्ताः पुत्रिणो लोका
नापुत्रस्येति च श्रुतिः ।

इति ।

ज्येष्ठपुत्रस्य जनन-मात्रेण पितुर् आनृण्यं भवतीत्य् अभिप्रायः । तथा च मनुः ।

ज्येष्ठेन जातमात्रेण
पुत्री भवति मानवः ।
पितॄणाम् अनृणश् चैव
स तस्मात् सर्वम् अर्हति ॥

इति ।

अत एवेतरेषां कमजन्मत्वम् अप्य् आह स एव ।

यस्मिन् ऋणं संनयति
येन चानन्त्यम् अश्नुते ।
स एव धर्मजः पुत्रः
कामजान् इतरान् विदुः ॥

इति ।

तेनाजातपुत्रस्यैवायम् ऋतुगमननियम इति सिद्धम् ।

इति स्मृतिचन्द्रिकायां गर्भाधानम्