०६ युगधर्माः

अथ युगधर्माः

तत्र मनुः ।

अन्ये कृतयुगे धर्माः त्रेतायां द्वापरे परे ।
अन्ये कलियुगे नॄणां युगह्रासानुरूपतः ॥
तपः परं कृतयुगे त्रेतायां ज्ञानम् एव च ।
द्वापरे यज्ञम् एवाहुर् दानम् एव कलौ युगे ॥

तपः कृच्छ्रचान्द्रायणादि, परं प्रधानम् इत्य् अर्थः । बृहस्पतिर् अपि ।

तपो धर्मः कृतयुगे ज्ञानं त्रेतायुगे स्मृतम् ।
द्वापरे चाध्वरः प्रोक्तस् तिष्ये दानं दया दमः ॥

तिष्यः कलिः । पराशरो ऽपि ।

कृते तु मानवो धर्मस् त्रेतायां गौतमस्य तु ।
द्वापरे शङ्खलिखितौ कलौ पाराशरः स्मृतः ॥
त्यजेद् देशं कृतयुगे त्रेतायां ग्रामम् उत्सृजेत् ।
द्वापरे कुलम् एकं तु कर्तारं तु कलौ युते ॥
कृते संभाष्य पतितस् त्रेतायां स्पर्शनेन तु ।
द्वापरे धनम् आदाय कलौ पतति कर्मणा ॥

बृहस्पतिर् अपि ।

कृते यद् अब्दाद् यो धर्मः स त्रेतायाम् ऋतुत्रयात् ।
द्वापरे तु त्रिपक्षेण कलाव् अह्ना तु तद् भवेत् ॥

विष्णुपुराणे ऽपि ।

यत्कृते दशभिर् वर्षैस् त्रेतायां हायनेन तु ।
द्वापरे तच् च मसेन अहोरात्रेण तत् कलौ ॥

ब्रह्माण्डपुराणे ऽपि ।

त्रेतायाम् आब्दिको धर्मो द्वापरे। मासिकः स्मृतः ।
यथाशक्ति चरेत् प्राज्ञः तम् अह्ना प्राप्नुयात् कलौ ॥

विष्णुधर्मोत्तरे ऽपि ।

पुष्करं तु कृते सेव्यं त्रेयायां नैमिशं तथा ।
द्वापरे तु कुरुक्षेत्रं कलौ गङ्गां समाश्रयेत् ॥

इति स्मृतिचन्द्रिकायां युगधर्माः

कलियुगधर्माः

अथ कलियुगधर्माः

तत्र व्यासः ।

ध्यायन् कृते यजन् यज्ञैस् त्रेतायां द्वापरे ऽर्चयन् ।
यद् आप्नोति तद् आप्नोति कलौ सङ्कीर्त्य केशवम् ॥
धर्मोत्कर्षम् अतीवात्र प्राप्नोति पुरुषः कलौ ।
अल्पायासेन धर्मज्ञास् तेन तुष्टो ऽस्म्य् अहं कलौ ॥ इति ।

आदिपुराणे ऽपि ।

यस् तु कार्तयुगो धर्मो न कर्तव्यः कलौ युगे ।
पपप्रसक्तास् तु यतः कलौ नार्यो नरास् तथा ॥
न विद्वत्ता न शुद्धो ऽर्थः न शुद्धिर् मनसः कलौ ।
यतो ऽतः सत्यम् एवैकं नराणाम् उपकारकम् ॥ इति ।

कार्तः कृतयुगसंबन्धी । तथा निषिद्धधर्मा अपि तत्रैवोक्ताः ।

दीर्घकालं ब्रह्मचर्यं धारणं च कमण्डलोः ।
गोत्रान् मातृसपिण्डात् तु विवाहो गोवधस् तथा ॥
नराश्वमेधौ मद्यं च कलौ वर्ज्या द्विजातिभिः ।

क्रतुर् अपि ।

देवराच् च सुतोत्पत्तिः दत्ता कन्या न दीयते ।
न यज्ञे गोवधः कार्यः कलौ च न कमण्डलुः ॥

ब्राह्मे ।

ऊढायाः पुनर् उद्वाहं ज्येष्ठांशं गोवधं तथा ।
कलौ पञ्च न कुर्वीत भ्रातृजायां कमण्डलुम् ॥ इति ।

तथान्ये ऽपि धर्मज्ञसमयप्रमाणम् आहुः ।

विधवायां प्रजोत्पत्तौ देवरस्य नियोजनम् ।
बालिकाक्षतयोन्योश् च वरेणान्येन संस्कृतिः ॥
कन्यानाम् असवर्णानां विवाहश् च द्विजातिभिः ।
आततायिद्विजाग्र्याणां धर्मयुद्धेन हिंसनम् ॥
द्विजस्याब्धौ तु नौयातुः शोधितस्यापि संग्रहः ।
सत्रदीक्षा च सर्वेषां कमण्डलुविधारणम् ॥
महाप्रथानगमनं गोहिंसा चैव् गोसवे ।
सौत्रामण्याम् अपि सुराग्रहणस्य च संग्रहः ॥
अग्निहोत्रहवण्याश् च सहालीढा परिग्रहः ।
वानप्रस्थाश्रमस्यापि प्रवेशो विधिचोदितः ॥
वित्तं स्वाध्यायसपेक्षम् अघसंकोचनं तथा ।
प्रायश्चित्तविधानं च विप्राणां मरणान्तिकम् ॥
संसर्गदोषः स्तेनाद्यैर् महापातकनिष्कृतिः ।
वरातिथिपितृभ्यश् च पशूपहरणक्रिया ॥
दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रहः ।
सवर्णानां तथा दुष्टैः संसर्गः शोधितैर् अपि ॥
अयोनौ संग्रहे वृत्ते परित्यागो गुरुस्त्रियाः ।
अस्थिसंचयनाद् ऊर्ध्वम् अङ्गस्पर्सनम् एव च ॥
शमितृत्वं च विप्राणां सोमविक्रयणं तथा ।
षड्भक्तानशनेनान्नहरणं हीनकर्मणः ॥
शूद्रेषु दासगोपालकुलमित्रार्थसीरिणाम् ।
भोज्यान्नता गृहस्थस्य तीर्थसेवातिदूरतः ॥
शिष्यस्य गुरुदारेषु गुरुवद् वृत्तिर् ईरिता ।
आपद्वृत्तिर् द्विजाग्र्याणाम् अश्वस्तनिकता तथा ॥
प्रजार्थं तु द्विजाग्र्याणां प्रजारणिपरिग्रहः ।
ब्राह्मणानां प्रवासित्वं मुखाग्निधमनक्रिया ॥
बलात्काराद् धि दुष्टस्त्रीसंग्रहो विधिचोदितः ।
यतेस् तु सर्ववर्णेषु भिक्षाचर्या विधानतः ॥
नवोदके दशाहं च दक्षिणा गुरुचोदिता ।
ब्राह्मणादिषु शूद्रस्य पचनदिक्रियापि च ॥
भृग्वग्निपतनैश् चैव वृद्धादिमरणं तथा ।
गोतृप्तिशिष्टे पयसि शिष्टैर् आचमनक्रिया ॥
पितापुत्रविरोधेषु साक्षिणां दण्डकल्पनम् ।
यत्र सायं गृहस्थत्वं सूरिभिः सत्यतत्परैः (?) ॥
एतानि लोकगुप्त्यर्थं कलेर् आदौ महात्मभिः ।
निवर्तितानि कर्माणि व्यवस्थापूर्वकं बुधैः ॥
समयश् चापि सधूनां प्रमाणं वेदवद् भवेत् ॥ इति ।

उक्तम् आपस्तम्बेनापि - “धर्मज्ञसमयः प्रमाणं वेदाश् च” इति ॥

**इति स्मृतिचन्द्रिकायां प्रिभाषा समाप्ता **