०५ देशनिर्णयः

अथ देशनिर्णयः

तत्र मनुः ।

सरस्वतीदृषद्वत्योर् देवनद्योर् यद् अन्तरम् ।
तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ॥ इति ।
कुरुक्षेत्रं च मत्स्याश् च पाञ्चालाः शूरसेनकाः ।
एष ब्रहर्षिदेशो वै ब्रह्मावर्ताद् अनन्तरम् ॥

अनन्तरम् ईषदूनम् इत्य् अर्थः ।

हिमवद्विन्ध्ययोर् मध्यं यत् प्राग् विनशनाद् अपि ।
प्रत्यग् एव प्रयागाच् च मध्यदेशः प्रकीर्तितः ॥

विनसनं सरस्वत्या अन्तर्धानदेसः ।

आ समुद्रात् तु वै पूर्वाद् आ समुद्राच् च पश्चिमात् ।
तयोर् एवान्तरं गिर्योर् आर्यावर्तं विदुर् बुधाः ॥ इति ।

अत्र च पूर्वः पूर्व उत्तरोत्तरात् प्रशस्तः । तथा च सुमन्तुः ।

ब्रह्मावर्तः परो देश ऋषिदेशस् त्व् अनन्तरः ।
मध्यदेशस् ततो न्यूनः आर्यावर्तस् ततः परः ॥ इति ।

यत् पुनर् मनुनोक्तम्,

कृष्णसारस् तु चरति मृगो यत्र स्वभावतः ।
स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस् ततः परः ॥

इति, तत् पूर्वोक्तदेशचतुष्टयालाभे द्रष्टव्यम्, तद् अनन्तरम् अस्यभिधानात् । एतच् च न देशान्तरनिराकरणाय । यत् आह विष्णुः ।

चातुर्वर्ण्यव्यवस्थानं यस्मिन् देशे न विद्यते ।
स म्लेच्छदेसो विज्ञेय आर्यवर्तस् ततः परः ॥ इति ।

अतश् च यत्र कृष्णसारश् चातुर्वर्ण्यव्यवस्थानं वा स धर्मदेश इत्य् मन्तव्यम् । तथा चादिपुराणम् ।

कृष्णसारैर् यवैर् दर्भैश् चतुर्वर्ण्याश्रमैस् तथा ।
समृद्धो धर्मदेशः स्याद् आश्रयेरन् विपश्चितः ॥ इति ।

एतैर् विहीनो म्लेच्छदेश इत्य् अभिप्रायः । म्लेच्छदेश इति वदन् तत्र धर्मक्रियानिषेधम् आह । अत एव विष्णुः - “न म्लेच्छविषये श्रद्धं कुर्यान् न गच्छेत् तं विषयम्” इति । आदिपुराणे ऽपि ।

अधर्मेशमध्ये तु कृत्वा क्रतुशतान्य् अपि ।
न पश्यन्ति द्विजाः श्रेयो यातुः स्वर्गे महार्गलम् ॥ इति ।

अनेनैवाभिप्रायेण याज्ञवल्क्यो ऽप्य् आह ।

यस्मिन् देशे मृगः कृष्णस् तस्मिन् धर्मान् निबोधत । इति ।

धर्मानुष्ठानतयेति शेषः । तस्य धर्मसधनत्वात् । अत एव संवर्तः ।

स्वभावाद् यत्र विचरेत् कृष्णसारः सदा मृगः ।
धर्मदेशः स विज्ञेयो द्विजानां धर्मसाधनम् ॥ इति ।

स्वभावाद् अनदित इत्य् अर्थः । शङ्खस् त्व् आर्यावर्तम् आह - “कृष्णमृगो यवद् विचरति तावद् आर्यावर्तः स्यात्” इति । आर्यावर्त इत्य् अनुवृत्तौ, वसिष्ठो ऽपि - “यवत् कृष्णमृगो विचरति” इति । आर्यावर्तोत्पन्नस्य आदिपुराणे नियमविशेष उक्तः ।

आर्यावर्ते समुत्पन्नो द्विजो वा यदि वाद्विजः ।
नर्मदां सिन्धुपारं च करतोयां न लङ्घयेत् ॥
आर्यावर्तम् अतिक्रम्य विना तीर्थकिर्यां द्विजः ।
आज्ञां चैव तथा पित्रोर् ऐन्दवेन विसुध्यति ॥

करतोया नदी । एवमुक्तेष्व् अपि देशेषु केषुचिद् अपवादम् आह मनुः ।

न शूद्रराज्ये निवसेन् नाधार्मिकजनावृते ।
न पाषण्डिद्विजाक्रान्ते नोपसृष्टे ऽन्त्य्जैर् नृभिः ॥ इति ।

व्यासो ऽपि ।

देशांश् छूद्रावृत्तानन्यान् अधार्मिकजनावृतान् ।
म्लेच्छावृतान् प्रयत्नेन वर्जयेद् धर्मिको जनः ॥ इति ।

अत्राप्य् अपवादम् आह पितामहः ।

शूद्रराज्ये ऽपि निवसेद् यत्र मध्ये तु जाह्नवी ।
सो ऽतिपुण्यतमो देशो नरैर् अपि समाश्रितः ॥
कुरुक्षेत्रनिवासेन वाराणस्यां च मानवः ।
अहिंसकः पपरतः पापं हित्वा दिवं व्रजेत् ॥
न गङ्गया विना वासः सर्वक्षत्रक्षयद् ऋते ।
काश्याम् हि मरणं श्रेष्ठं विना क्षेत्रं प्रजापतेः ॥
गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे ।
निवासो न विना पुण्यैर् नराणाम् इह जयते ॥

सर्वक्षत्रक्षयः कुरुक्षेत्रम् । व्यासो ऽपि ।

ते देशास् ते जनपास् ते शैलास् ते तथाश्रमाः ।
पुण्या त्रिपथगा येषां मध्ये याति सरिद् वरा ॥

आदिपुराणे ऽपि ।

यत्र गङ्गा सर्च् छ्रेष्ठा स देसस् तत् तपोवनम् ।
सिद्धक्षेत्रं च तज् ज्ञेयं गङ्गातरिसमाश्रितम् ॥

विष्णुधर्मोत्तरे ।

प्रभासे पुष्करे काश्यं नैमिशे ऽमरकण्टके ।
गङ्गायां सरयूतीरे निवसेद् धार्मिको जनः ॥

व्यासो ऽपि ।

अन्तर्वेदिर् मध्यदेशं ब्रह्मावर्तं च यज्ञियम् ।
मिश्रितं सरयूतीरं पुष्करं नैमिशं तथा ॥
देशान् एतान् निवासाय संश्रयेरन् द्विजातयः । इति ।

अत्र द्विजातिग्रहणं शूद्रस्य प्रदर्शनार्थम्, तस्य आपद्य् एव मनुना देशानुग्रहस्मरणात् ।

एतान् द्विजतयो देशान् संश्रयेरन् प्रयत्नतः ।
शूद्रस् तु यस्मिन् कस्मिन् वा निवसेद् वृत्तिकर्शितः ॥ इति ।

निषिद्धदेशाः

अथ निषिद्धदेशाः

तत्र बोधायनः ।

आनर्ता अङ्गमगधाः सौराष्ट्रा दक्षिणापथः ।
अपास्याः सिन्धुसौवीरा एते सङ्कीर्णयोनयः ॥ इति ।

व्यासो ऽपि ।

अङ्गवङ्गान्ध्रविषयो ये चान्ये म्लेच्छजातयः ।
कृष्णसारविहीनाश् च देशान् एतान् विसर्जयेत् ॥

आदिपुराणे ऽपि ।

काञ्चीकोसलसौराष्ट्रा देवराष्ट्रा द्विकच्छजाः ।
सौवीरकोङ्कणोद्भूता एते ऽष्टौ निन्दिता भृशम् ॥
पञ्च नद्यो वहन्त्य् एता यत्र निस्रुत्य पर्वतात् ।
आरट्टा नाम ये देशा न तेष्व् आर्यो ऽन्वहं वसेत् ॥
नर्मदासिन्धुकाशीनां पारं पद्मस्य पश्चिमम् ।
गत्वा नरकम् आप्नोति तीर्थकालाधिकं वसन् ॥
अङ्गवङ्गकलिङ्गाश् च विन्ध्यमालवकास् तथा ।
नर्मदादिक्षिणं यच् च सिन्धोर् उत्तरम् एव च ॥
पौण्ड्रश् चैव सुराष्ट्रश् च चैद्यकेरलमागधाः ।
न विवाहं तथा श्राद्धं यज्ञं चैव समाचरेत् ॥
पपदेशास् च ये केचित् पपैर् अध्युषिता जनैः ।
गत्वा देशान् अपुण्यांस् तु कृत्स्नं पापं समश्नुते ॥
सौराष्ट्रं सिन्धुसौवीरम् आवन्त्यं दक्षिणापथम् ।
गत्वैतान् कामतो देशान् कलिङ्गांश् च पतेद् द्विजः ॥ इति ।

एतत् पूर्वोक्तकृष्णसारादिविहीनदेशाभिप्रायं मन्तव्यम्, तस्यापि धर्मसाधनत्वात् । बोधायनस् तु सिन्धुसौवीरदिगमने प्रायश्चित्तम् आह ।

सिन्धुसौवीरसौर्ष्ट्रान् तथा प्रत्यन्तवासिनः ।
अङ्गवङ्गकलिङ्गांश् च गत्वा संस्कारम् अर्हति ॥ इति ।

प्रत्यन्तो ऽन्तदेशः । तथा च श्रुतिः - “तस्मान् न जघन्यान् नान्त्यान्” इति । आदिपुराणे ऽपि -

सौराष्ट्रसिन्धुसौवीरम् आवन्त्यं दक्षिणापथम् ।
एतान् देशान् द्विजो गत्वा पुनःसंस्कारम् अर्हति ॥
हिमवत्कौशिकं विन्ध्यं पारं पद्मस्य पश्चिमम् ।
तीर्थयात्रां विना गत्वा पुनःसंस्कारम् अर्हति ॥
तस्मात् प्रभातसमये गत्वा गङ्गातटं शुभम् ।
प्रत्यन्तवासशुद्ध्यर्थं करिष्यामो महत् तपः ॥ इति ।

तथा द्विजानाम् आपदि वृत्त्यर्थं देशानुग्रहः स्कन्दपुराणे दर्शितः ।

अङ्गवङ्गकलिङ्गांश् च पार्वतांश् तत्समीपगान् ।
सिन्धुसौवीरसौराष्ट्रान् केरलान्ध्रकमालवान् ॥
निवासाय द्विजो नित्यम् अनापदि विसर्जयेत् ।
एतेष्व् अपै गत्वा तु तन्निवृत्तौ पुनर् व्रजेत् ॥ इति ।

इति स्मृतिचन्द्रिकायां निषिद्धदेशनिर्णयः

देशधर्माः

अथ देशधर्माः

तत्र बोधायनः - “पञ्चधा विप्रतिपत्तिर् दक्षिणतः अनुपनीतेन भार्यया च सह भोजनं पर्युषितभोजनं मातुलपितृष्वसृदुहितृपरिणयनम् इति । तथोत्तरतः ऊर्णाविक्रयः सीधुपानम् उभयतोदद्भिर् व्यवहारः आयुधीयं समुद्रयानम् इति । इतर इतरस्मिन् कुर्वन् दुष्यतीतर इतरस्मिन् । तत्र तत्र देशप्रामाण्यम् एव स्यात्” इति । अयम् अर्थः । इतरो दाक्षिणात्य इतरस्मिन् उदीच्ये देशे ऽनुपनीतादिना सह भोजनादिकं कुर्वन् दुष्यति न स्वदेशे । तथोदीच्य इतरस्मिन् दक्षिणे ऊर्णाविक्रयादिकं कुर्वन् दुष्यति न स्वदेसे, कुतः देशप्रामाण्यात् देशनिबन्धनत्वात् प्रामान्यस्येत्य् अर्थः बृहस्पतिर् अपि ।

उद्वाह्यते दाक्षिणात्यैर् मातुलस्य सुता द्विजैः ।
मध्यदेशे कर्मकराः शिबिनश् च गवाशिनः ॥
मत्स्यादाश् च नराः पूर्वे व्यभिचारताः स्त्रियः ।
उत्तरे मद्यपा नार्यः स्पृश्या नॄणां रजस्वलाः ॥
सहजाताः प्रगृह्णन्ति भ्रातृभार्याम् अभर्तृकाम् । इति ।

एतेषां च देशव्यवस्थया प्रमाण्यम् आह स एव ।

देशजातिकुलानां च ये धर्मास् तत्प्रवर्तिताः ।
तथैव ते पलनीयाः प्रजा प्रक्षुभ्यते ऽन्यथा ॥ इति ।

देवलो ऽपि ।

येषु देशेषु ये देवाः येषु देशेषु ये द्विजाः ।
येषु देशेषु यत् तोयं य च यत्रैव मृत्तिका ॥
येषु स्थानेषु यच् छौचं धर्माचारश् च यादृशः ।
तत्र तान् नवमन्येत धर्मस् तत्रैव तादृशः ॥
यस्मिन् देशे पुरे ग्रामे त्रैविद्यनगरे ऽपि वा ।
यो यत्र विहितो धर्मस् तं धर्मं न विचालयेत् ॥ इति ।

एवम् अविशेषेण देशधर्माणां प्रामाण्यप्रसक्तौ मनुर् आह ।

सद्भिर् आचरितं यच् च धार्मिकैश् च द्विजातिभिः ।
तद्देशकुलजातीनाम् अविरुद्धं प्रकल्पयेत् ॥ इति ।

सद्भिर् आचरितं यच् छ्रुत्यादिप्रमाणाविरुद्धं तद्देशकुलजातीनां धर्मत्वेन प्रकल्पयेद् इत्य् अर्थः । तथा च गौतमः - “देशजातिकुलधर्मा आम्नायैर् अविरुद्धाः प्रमाणम्” इति । तत्र विरुद्धा अप् क्वचित् क्वचिद् दृश्यन्ते । यथा,

विरुद्धास् तु प्रदृश्यन्ते दाक्षिणात्येषु संप्रति ।
स्वमातुअसुतोद्वाहो मातृबन्धुत्वदूषितः ॥
अभर्तृकभ्रातृभार्याग्रहणं चातिदूषितम् ।
कुले कन्याप्रदानं च देशेष्व् अन्येषु दृश्यते ॥
तथा भ्रातृविवाहो ऽपि पारसीकेषु दृश्यते ।
तथैकादशरात्रादौ श्राद्धे भुक्तं तु यैर् द्विजैः ॥
तेभ्यः श्राद्धे पुनर् दानं केचिन् नेच्छन्ति देशिनः ।
दत्वा धान्यं वसन्ते ऽन्ये शरदि द्विगुणं पुनः ॥
गृह्णन्ति बन्धुक्षेत्रं च प्रविष्टे द्विगुणे धने ।
भुज्यते ऽन्यैर् अप्रविष्टे मूले तच् च विकथ्यते ॥
इत्थं विरुद्धान् आचारान् प्रभूतान् विनिवर्तयेत् ।
देशजात्यादिधर्मस्य प्रामाण्यम् अविरोधिनः ॥
शास्त्रेणातो नृपः सर्वं शास्त्रम् दृष्ट्वा प्रवर्तयेत् ॥ इति ।

तथा लोकविरुद्धम् अपि परित्याज्यम् एव । तद् आह वराहमिहिरः ।

देशाचारस् तावद् आदौ विचिन्त्य देशे देशे या स्थितिस् सैवे कार्या ।
लोकविद्विष्टं पण्डिता वर्जयन्ति दैवज्ञा ये लोकमार्गेण यान्ति ॥

**इति स्मृतिचन्द्रिकायां देसधर्माः **