०४ श्रुत्यादीनां बलाबलम्

अथ श्रुत्यादीनां बलाबलम्

तत्र मनुः ।

श्रुतिद्वैधं तु यत्र स्यात् तत्र धर्माव् उभौ स्मृतौ ।
उभाव् अपि हि तौ धर्मौ सम्यग् उक्तौ मनीषिभिः ॥ इति ।

यत्र श्रुत्योः द्वैविध्यं परस्परविरोधतः तत्र श्रुतिप्रतिपादितौ द्वाव् अपि धर्मौ, यतः मन्वादिभ्यः पूर्वतरैर् अपि “तौ धर्मौ” इत्य् उक्तौ । तुल्यप्रमाणविशिष्टत्वाद् अनयोर् विकल्प इत्य् अभिप्रायः । अनेनैव स्मृत्योर् विरोधे ऽपि विकल्प इत्य् उक्तं भवति । अत एव स्मृत्यधिकारे गौतमः - “तुल्यबलविरोधे विकल्पः” इति । श्रुतिस्मृत्योर् विरोधे स्मृतेः बध एव । यथाह लोगाक्षिः ।

श्रुतिस्मृतिविरोधे तु श्रुतिर् एव गरीयसी ।
अविरोधे सदा कार्यं स्मार्थं वैदिकवत् सदा ॥ इति ।

एवम् आचारस्यापि स्मृतिविरोधे बध एव स्यात्, “श्रुतिस्मृतिविहितो धर्मः, तदभावे शिष्टाचारः प्रमाणम्” इति वसिष्ठस्मरणात् । एवं परिषद्वचने ऽपि द्रष्टव्यम् । तद् उक्तं चतुर्विंशतौ ।

स्मृतेर् वेदविरोधेन परित्यागो यथा भवेत् ।
तथैव लौकिकं वाक्यं स्मृतिबाधात् परित्यजेत् ॥ इति ।

यत्र पुनर् मानवस्य स्मृत्यन्तरेण विरोधः तत्र मनूक्त एव श्रेयान् । तद् आह अङ्गिराः ।

यत् पूर्वं मनुना प्रोक्तं धर्मशास्त्रम् अनुत्तमम् ।
न हि तत् समतिक्रम्य वचनं हितम् आत्मनः ॥ इति ।

मनूक्तम् अतिक्रम्यान्यदीयं वचनम् अत्मनो ज्ञानाय न भवति । बृहस्पतिर् अपि ।

वेदाद् उपनिबद्धत्वात् प्राधान्यं तु मनोः स्मृतम् ।
मन्वर्थविपरीता तु या स्मृतिः सा न शस्यते ॥

श्रुतिर् अपि - “यद् वै किं च मनुर् अवदत् तद् भेषजम्” इति । यत्र पुनर् धर्मद्वयविरोधस् तत्र लघीयस एव बाध इत्य् आह व्यासः ।

धर्मं यो बाधते धर्मो न स धर्मः कथंचन ।
अविरोधी तु यो धर्मः स धर्मः सिद्धिर् उच्यते ॥
तस्माद् विरोधे धर्मस्य निश्चित्य गुरुलाघवम् ।
यतो भूयस् ततो विद्वान् कुर्याद् धर्मविनिर्णयम् ॥ इति ।

इति स्मृतिचन्द्रिकायां श्रुत्यादिबलाबलनिर्णयः