०३ धर्मस्वरूपनिरूपणम्

धर्मस्वरूपनिरूपणम्

श्रुत्यादिप्रमाणको धर्म इत्य् उक्तम् । तस्य धर्मस्य सामान्यलक्षणम् आह विश्वामित्रः ।

यमार्थाः क्रियमाणं तु शंसन्त्य् आगमवेदिनः ।
स धर्मो यं विगर्हन्ते तम् अधर्मं प्रचक्षते ॥ इति ।

मनुर् अपि ।

विद्वद्भिः सेवितः सद्भिः नित्यम् अद्वेषरगिभिः ।
हृदयेनाभ्यनुज्ञातः (?) यो धर्मस् तं निबोधत ॥ इति ।

तथा विशेषतो ऽपि स एवाह ।

धृतिः क्षमा दमो ऽस्तेयं शौचम् इन्द्रियनिग्रहः ।
ह्रीर् विद्या सत्यम् अक्रोधो दशकं धर्मलक्षणम् ॥ इति ।

धृतिः धैर्यम् । अपरधे ऽपि चित्तस्याविकारः क्षमा । अन्तःकरणसंयमः दमः । अस्तेयम् अदत्तास्वीकारः । शौचं बाह्यम् आभ्यन्तरं च । इन्द्रियनिग्रहः निषिद्धेभ्यः इन्द्रियाणां निवारणम् । ह्रीः अकर्यनिवृत्तिः । विद्या आत्मज्ञानम् । सत्यं यथार्थवचनम् । तच् च प्रियम् एव वेदितव्यम् । तथा च मनुः ।

सत्यं भ्रूयात् प्रियं ब्रूयान् न ब्रूयात् सत्यम् अप्रियम् ।
प्रियं च नानृतं ब्रूयाद् एष धर्मः सनातनः ॥ इति ।

अक्रोधः क्रोधराहित्यम् । एतद् दशकं धर्मलक्षणं धर्मस्वरूपम् इत्य् अर्थः । व्यासो ऽपि ।

सत्यं दमस् तपः शौचं संतोषो ह्रीः क्षमार्जवम् ।
ज्ञानं शमो दया ध्यानम् एष धर्ः सनातनः ॥ इति ।

सत्यादीनां लक्षणं स एवाह ।

सत्यं भूतहितं प्रोक्तं मनसो दमनं दमः ।
तपः स्वधर्मवर्तित्वं शौचं संकरवर्जनम् ॥
संतोषो विषयत्यागः ह्रीर् अकार्यनिवर्तनम् ।
क्षमा द्वन्द्वसहिष्णुत्वम् आर्जवं समचित्तता ॥
ज्ञानं तत्त्वार्थसंबोधः शमः चित्तप्रशान्तता ।
दया भूतहितैषित्वं ध्यानं निर्विषयं मनः ॥ इति ।

तथा च धर्मान्तर्ण्य् अपि स एवाह ।

दानं यज्ञः सतां पूजा वेदधारणम् आर्जवम् ।
एष धर्मः परो ज्ञेयः फलवान् प्रेत्य चेह च ॥
भोगेष्व् आसक्तिरहितं तथैवात्मावलोकनम् ।
श्रेयः परं मनुष्याणां कपिलः प्राह पार्थिव (?) ॥
सर्वत्र समदर्शित्वं निर्ममत्वम् असङ्गिता ।
श्रेयः परं मनुष्याणां प्राह पञ्चशिखो मुहिः ॥ इति ।

सुमन्तुर् अपि ।

वर्णत्वम् एकम् आश्रित्य यो धर्मः संप्रवर्तते ।
वर्णधर्मः स उक्तस् तु यथोपनयनं किल ॥
यस् त्व् आश्रमत्वम् आश्रित्य अधिकारः प्रवर्तते ।
स एवाश्रमधर्मः स्याद् भिक्षादण्डादिको यथा ॥
वर्णत्वम् आश्रमत्वं च यो ऽधिकृत्य प्रवर्तते ।
स वर्णाश्रमधर्मस् तु यथा मौञ्जी तु मेखला ॥
यो गुणेन प्रवर्तेत गुणधर्मः स उच्यते ।
यथा मूर्धाभिषिक्तस्य प्रजानां परिपालनम् ॥
निमित्तम् एकम् आश्रित्य यो धर्मः संप्रवर्तते ।
नैमित्तिकः स विज्ञेयः प्रायश्चित्तविधिर् यथा ॥ इति ।

इति स्मृतिचन्द्रिकायां धर्मस्वरूपनिरूपणम्

श्रुत्यादिबलाबलनिर्णयः