अथ धर्मप्रमाणानि
तत्र याज्ञवल्क्यः ।
पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ इति ।
पुराणं ब्राह्मादि । न्यायः तर्कः । मीमांसा वेदवाक्यविचारः । धर्मशास्त्रं मन्वादिस्मृतयः । अङ्गैः व्याकरणादिभिः युक्ताः चत्वारो वेदाः । एताश् चतुर्दश विद्यानां धर्मज्ञानानां निमित्तानि प्रमाणानि धर्मस्य च विद्याद्वारेण । मनुर् अपि ।
वेदो ऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
आचारश् चैव साधूनाम् आत्मनस् तुष्टिर् एव च ॥ इति ।
अयम् अर्थः - वेदः धर्ममूलं धर्मे प्रमाणम् । तथा वेदविदां स्मृतिशीले अपि, शीलं रागद्वेषादिवर्जनम् । आचारः कङ्कणबन्धनादिः । आत्मतुष्टिः वैकल्पिकेषु पदार्थेषु यस्मिन् क्रियमाणे आत्मनः प्रीतिः सापि प्रमाणम् इति । व्यासो ऽपि ।
धर्ममूलं वेदम् आहुः ग्रन्थराशिम् अकृत्रिमम् ।
तद्विदां स्मृतिशीले च साध्वाचारं मनःप्रियम् ॥
साधवः शिष्टाः । तथा च मनुः ।
शिष्टाचारः (?) स्मृतिर् वेदास् त्रिविधं धर्मलक्षणम् । इति ।
लक्षणं प्रमाणम् इत्य् अर्थः । शिष्टानाम् अपि स्वरूपं स एवाह ।
ध्र्मेणाधिगतो यैस् तु वेदः सपरिबृंहणः ।
ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥ इति ।
इतिहासपुराणान्य् अङ्गानि च वेदस्य परिबृंहणानि । तथा च बृहस्पतिः ।
इतिहासपुराणेभ्यो वेदं समुपबृंहयेत् ।
बिभेत्य् अल्पश्रुताद् वेदः माम् अयं प्रतरिष्यति ॥
श्रुतिः प्रत्यक्षहेतुः धर्माधिगतौ येषां ते तथोक्ताः ।
ननु यदि वेदविदाचारः प्रमाणं तर्हि इन्द्रचन्द्रादेर् अहल्यातारादिगमनम् अपि प्रमाणं स्यात् । न च तथा । अतः कथम् आचारप्रामाण्यम् । तद् अह गौतमः - “दृष्टो धर्मव्यतिक्रमः साहसं च (तेषां तेजोविशेषेण प्रत्यवायो न विद्यते”) । इति । साहसं परशुरामादेः मातुः शिरःछेदादि ।
उच्यते । सत्यम्, इन्द्रादीनाम् अहल्यागमनम् अपि, तथापि तेषां तपःसंजनिततेजोविशेषेण योगिनां प्रत्यवायो न भवति । अस्मदादीनां तदभावेन तत्करणे भवत्य् एव प्रत्यवायः । तद् आह आपस्तम्बः ।
तेषां तेजोविशेषेण प्रत्यवायो न विद्यते ।
तद् अन्वीक्ष्य प्रयुञ्जानः सीदत्य् अवर(जो ऽबल)ः ॥ इति ।
धर्मेषु धर्मप्रमाणेष्व् इत्य् अर्थः । ते च शिष्टाः दशावराः । तद् आह गौतमः - “अनाम्नाते दशावरैः शिष्टैः ऊहवद्भिः अलुब्धैः प्रशस्तं कार्यम्” । यत् तैः प्रशस्तम् इत्य् उक्तं तत् कार्यम् इत्य् अर्थः । बोधायनो ऽपि - “तदभावे दशावरा परिशत्” इति । तदभावे श्रुत्याद्यभावे । याज्ञवल्क्यो ऽपि ।
चत्वारो वेदधर्मज्ञाः परिषत् त्रैविद्यम् एव वा ।
सा भ्रूते यं स धर्मः स्याद् एको वाध्यात्मवित्तमः ॥ इति ।
धर्मः धर्मशास्त्रम् । तिस्रो विद्या येषां ते त्रैविद्याः, तेषां समूहः त्रैविद्यम् । ऋगादिवेदत्रयज्ञा धर्मज्ञांश् च त्रयो वा परिषद् इत्य् अभिप्रायः । तथा च मनुः ।
ऋग्वेदविद् यजुर्विच् च सामवेदविद् एव च ।
त्र्यवरा परिषज् ज्ञेया धर्मसंशयनिर्णये ॥ इति ।
अध्यात्मवित्तमः अध्यात्मविधां श्रेष्ठो धर्मज्ञश् च स एको वा यम् अर्थं ब्रूते धर्मतया सो ऽपि धर्मः स्यात् । वसिष्ठो ऽपि ।
त्रैविद्यवृद्धा यं ब्रूयुः धर्मं धर्मविदो जनाः ।
पतने पातने चैव स धर्मो नात्र संशयः ॥ इति ।
तद् अपि श्रुत्यादिवद् एव प्रमाणम् इत्य् आह यमः ।
वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम् ।
यस्य प्रमाणंन भवेत् प्रमाणं न तस्य कुर्याद् वचनं प्रमाणम् ॥
यस्य श्रुत्यादिकं प्रमाणंन भवति तस्य वाक्यं न प्रमाणम् । अतः तत्परित्याज्यम् इत्य् अभिप्रायः । अत एव प्रचेताः ।
अमीमांसा बहिःशास्त्राः ये चान्ये वेदवर्जिताः ।
यत् ते ब्रूयुः न तत् कुर्याद् वेदाद् धर्मो विधीयते ॥ इति ।
तथा संप्रदायो ऽपि क्वचित् प्रमाणम् इत्य् आह मनुः ।
येनास्य पितरो याता येन याताः पितामहाः ।
तेन यायात् सतां मार्गं तेन गच्छन् न रिष्यति ॥
स्वकुलप्रम्परायात आचारः संप्रदायः । सो ऽपि शास्त्रविप्रतिपत्तौ द्रष्टव्यः । तथा च सुमन्तुः ।
यत्र शास्त्रगतिर् भिन्ना सर्वकर्मसु भारत ।
उदिते ऽनुदिते चैव होमभेदो यथा भवेत् ॥
तस्मिन् कुलक्रमायातम् आचारं त्व् आचरेद् बुधः ।
स गरीयान् महाबाहो सर्वशास्त्रोदिताद् अपि ॥
तथा धर्मज्ञसमयो ऽपि प्रमाणम् इत्य् आह आपस्तम्बः - “धर्मज्ञसमयः प्रमाणं वेदाश् च” । एतच् च धर्मशास्त्रस्यापि धर्मोपयोगित्वाद् अध्ययने फलश्रवणाच् च तद् अध्येतव्यम् इत्य् आह मनुः ।
यथैव वेदाध्ययनं धर्मशास्त्रम् इदं तथा ।
अध्येतव्यं ब्राह्मणेन नियतं स्वर्गम् इच्छता ॥
यमो ऽपि ।
धन्यं यशस्यम् आयुष्यं पुण्यं स्वर्ग्यं तथैव च ।
धारणं धर्मशास्त्रस्य वेदानां धारणं तथा ॥
ग्रहणाद् धर्मशास्त्रस्य ब्रह्मलोकम् अवाप्न्युयात् ॥
बृहस्पतिर् अपि ।
श्रुतिस्मृती हि विप्राणां चक्षुषी परमे मते ।
काणस् तत्रैकया हीनः द्वाभ्याम् अन्धः प्रकीर्तितः ॥
अधीत्य चतुरो वेदान् सषडङ्गपदक्रमान् ।
स्मृतिहीना न शोबन्ते चन्त्रहीनेव शर्वरी ॥ इति ।
मनुर् अपि ।
इदं शास्त्रम् अधीयानो ब्राह्मणः संशितव्रतः ।
मनोवाग्देहजैर् नित्यं कर्मदोषैर् न लिप्यते ॥ इति ।
अत्र ब्राह्मणग्रहणं द्विजात्युपलक्षणार्थम् । अत एव यमः ।
इदं शास्त्रम् अधीयानो ब्राह्मणः क्षत्रियो ऽपि विट् ।
पुनाति हि पितॄन् पूर्वान् सप्त सप्तावरान् अपि ॥
यत् पुनर् मनुनोक्तम्,
विदुषा ब्राह्मणेनेदम् अध्येतव्यं प्रयत्नतः ।
विद्वद्भिश् च प्रवक्तव्यं सम्यङ् नान्येन केनचित् ॥
तच् छूद्राधिकारनिवृत्तिपरम् । अत एव शूद्राधिकारं प्रकृत्य यमः ।
तस्माद् अस्याधिकारो ऽस्ति न वेदेषु न तु स्मृतौ । इति ।
अतः सिद्धो द्विजातीनाम् एवाध्ययने ऽधिकार इति । एवं तदर्थानुष्ठाने ऽपि द्रष्टव्यम् । अत एव मनुः ।
निषेकादिश्मशानान्तं मन्त्रैर् यस्योदितो विधिः ।
तस्य शास्त्रे ऽधिकारो ऽस्मिन् ज्ञेयो नान्यस्य कस्चचित् ॥ इति ।
निषेको गर्भादानम् । श्मशानं प्रेतकर्म । व्यासो ऽपि ।
तेन स्मार्तम् अनुष्ठानम् अन्तरेण तु वैदिकम् ।
प्रवर्तते द्विजातीनां धर्मशुद्धिम् अभीप्सुभिः ॥ इति ।
यत् पुनः शाक्यादिप्रणीतं तन् नानुष्ठेयम्, तस्यावेदमूलत्वात् । तद् उक्तं चतुर्विंशतिमते ।
अर्हच्चार्वाकवाक्यानि बौद्धादिपठितान्य् अपि ।
विप्रलम्भकवाक्यानि तानि सर्वाणि वर्जयेत् ॥
व्यासो ऽपि ।
एतेभ्यो ऽपि यद् अन्यत् स्यात् किंचिद् धर्माभिधायकम् ।
तद् दूरतरतो विद्धि मोहस् तस्याश्रयो मतः ॥ इति ।
किं तर्हि अनुष्ठेयम् इत्य् अपेक्षिते स एवाह ।
वेदार्थवित्तमैः कर्म यत् स्मृतं मुनिभिः पुरा ।
तद् यत्नेनानुतिष्ठेत तन् निषिद्धं तु वर्जयेत् ॥
ते हि वेदार्थतत्त्वज्ञा लोकानां हितकाम्यया ।
आदिष्टवन्तो यं धर्मं तं धर्मं न विचालयेत् ॥ इति ।
अत्र कात्यायनः ।
यत्रोपदिश्यते कर्म कर्तुर् अङ्गं न वोच्यते ।
दक्षिणस् तत्र विज्ञेयः कर्मणां पारगः करः ॥
यत्र दिङ्नियमो न स्याज् जपहोमदिकर्मसु ।
तिस्रस् तत्र दिसः प्रोक्ता ऐन्द्री सौम्यापराजिता ॥
आसीन ऊर्ध्वः प्रह्वो वा नियमो यत्र नेदृशः ।
तदासीनेन कर्तव्यं न प्रह्वेण न तिष्ठता ॥
प्रवृत्तम् अन्यथा कुर्याद् यदि मोहात् कथंचन ।
यतस् तद् अन्यथाभूतं तत एव समापयेत् ॥
समाप्तं यदि जानीयान् मयैतद् अयथाकृतम् ।
तावद् एव पुनः कुर्यान् नावृत्तिः सर्वकर्मणः ॥
प्रायो यस्यां क्रियायां तु साङ्गं तत् क्रियते पुनः।
तद् अङ्गस्याक्रियायां तु नावृत्तिर् नैव तत् क्रिया ॥ इति ।
ननु किम् अत्र सकलस्मार्ताङ्गोपसंहारेणानुष्ठानम् उत न (अन्येन) ? यदि नोपसंहारः, तदा
सर्वशाखोपसंहारद् उक्तः श्रौतो यथा विधिः ।
सर्वस्मृत्युपसंहारात् स्मार्तो ऽप्य् उक्तस् तथा विधिः ॥
इत्यादिविरोधः स्यात् । अथोपसंहारः, तदा नानुष्ठातुं शक्यं विरुद्धोपसंहारसंभवात् ।
उच्यते । सत्यम्, यदि सर्वोपसंहारः स्यात् । किं तु यन् नाम्नातं स्वतन्त्रेण तावन्मात्रपरिपूर्णम् एवान्यतः क्रियत इत्य् अविरोधः । अत एव कात्यायनः ।
यन् नाम्नातं स्वशाखायां पारक्यम् अविरोधि च ।
विद्वद्भिस् तद् अनुष्ठेयम् अग्निहोत्रादिकर्मवत् ॥ इति ।
अनेनैवाभिप्रायेणोक्तम् “सर्वस्मृत्युपसंहारात्” इति । यत् तु कात्यायनेनोक्तम्,
बह्व् अल्पं वा स्वगृह्योक्तं यस्य कर्म प्रकीर्तितम् ।
तस्य ताव् इति शास्त्रार्थे कृते सर्वं कृतं भवेत् ॥
इति, तन् निराकांक्षाभिप्रायम् । यतः स एवाह ।
आत्मतन्त्रे तु यन् नोक्तं तत् कुर्यात् पारतन्त्रिकम् । इति ।
इति स्मृतिचन्द्रिकायां धर्मप्रमाणानि