०१ प्रमाणसाधनम्

प्रमाणसाधनम्

मन्वादिप्रणीतानाम् एव धर्मशास्त्राणां वेदमूलत्वाद् एव तान्य् एव धर्मे प्रमाणानीति तदधिगमोपयोगितया तच्छास्त्रप्रणेतारः प्रथमं प्रदर्श्यन्ते । तत्र पतिठीनसिः ।

तेषां मन्वङ्गिरोव्यासगौतमात्र्युशनोयमाः ।
वसिष्ठदक्षसंवर्तशातातपपराशराः ॥
विष्ण्वापस्तम्बहारीताः शङ्खः कात्यायनो गुरुः ।
प्रचेता नारदो योगी बोधायनपितामहौ ॥
सुमन्तुः कश्यपो बभ्रुः पैठीनो व्याघ्र एव च ।
सत्यव्रतो भरद्वाजो गार्ग्यः कार्ष्णाजिनिस् तथा ॥
जाबालिर् जमदग्निश् च लोगाक्षिर् ब्रह्मसंभवः ।
इति धर्मप्रणेतारः षट्त्रिषदृषयः स्मृताः ॥ इति ।
ननु किम् इयं परिसङ्ख्या ।
मैवम्, तथा सति वत्समरीचिदेवलपारस्करपुलस्त्यपुलहक्रतुऋष्यशृङ्गलिखितच्छागलेयादीनां धर्मशास्त्रप्रणेतृत्वं न स्यात् । न च तथास्त्व् इति वाच्यम्, तेषाम् अपि वेदमूलस्मृतिशास्त्रप्रणेतृत्वेन मन्वादिभ्यो ऽविशेषात् । अत एव शङ्खः - “मनुयमदक्षविष्ण्वङ्गिरोबृहस्पत्युशनआपस्तम्बगौतमसंवर्तात्रेयहारीतकात्यायन-शङ्खलिखितपराशरव्यासशातातपप्रचेतोयाज्ञवल्क्यादयः” इत्य् आदिग्रहणं कृतवान् । अतः प्रदर्शनार्थम् एव परिगणनं न्याय्यम् । अत्राङ्गिराः ।
जाबालिर् नाचिकेतश् च स्कन्दो लोगाक्षिकाश्यपौ ।
व्यासः सनत्कुमारश् च शन्तनुर् जनकस् तथा ॥
व्याघ्रः कात्यायनश् चैव जातूकर्णः कपिञ्जलः ।
बोधायनः कणादश् च विश्वामित्रस् तथैव च ।
उपस्मृतय् इत्य् एताः प्रवदन्ति मनीषिणः ॥ इति ।

अथ पुराणानि ।

ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ।
तथान्यन् नारदीयं च मार्काण्डेयं च सप्तमम् ॥
आग्नेयम् अष्टमं चैव भविष्यं नवमं तथा ।
दशमं ब्रह्मवैवर्तं लैङ्गम् एकादशं तथा ॥
वाराहं द्वादशं चैव स्कान्दं चैव त्रयोदशम् ।
चतुर्दशं वामनं च कौर्मं पञ्चदशं स्मृतम् ॥
मात्स्यं च गारुडं चैव ब्राह्माण्डं च तथापरम् ॥

वक्त्रनपेक्षत्वेन वेदश् च प्रमाणम् । तन्मूलत्वेन स्मृत्याचाराव् अपि । तन्मूलत्वं च तत्प्रतिपादितार्थाभिधायित्वात् । तथा च भृगुः ।

यः कश्चित् कस्यचिद् धर्मो मनुना परिकीर्तितः ।
स सर्वो ऽभिहितो वेदे ब्रह्मज्ञानमयो हि सः ॥ इति ।

शङ्खो ऽपि - “तत्र वेदमूलाः स्मृतयः” इति । एतद् अप्य् अदृष्टार्थानाम् एव, न पुनर् दृष्टार्थानाम् । तथा च पुराणम् ।

सर्वा एता वेदमूला दृष्टार्थाः परिहृत्य तु । इति ।
ननु यदि स्मृतिशास्त्रस्य वेदप्रतिपादितार्थपरत्वेन वेदमूलत्वं तर्हि तेनैवालं किं धर्मशास्त्रेण,
इत्य् आशङ्क्याह मरीचिः -
दुर्बोधा वैदिकाः शब्दाः प्रकीर्णत्वाच् च ये खिलाः ।
तज्ज्ञैस् त एव स्पष्टार्थाः स्मृतितन्त्रे प्रतिष्ठिताः ॥ इति ।

एवं पुराणानाम् अपि प्रामाण्यं प्रयोजनवत्त्वं च सिद्धम् । अत एव वेदचतुष्टयं दर्शयित्वाह श्रुतिः - “इतिहासपुराणं पञ्चमम्” इति । न च श्रुत्यादीनां पौरुषेयत्वादितर्कअबलेनाप्रामाण्यं शङ्कनीयम्, तस्याप्रतिष्ठितत्वाद् दोषाभिधानाच् च । तथा च मनुः ।

यो ऽवमन्येत ते तूभे हेतुशास्त्राश्रयो द्विजः ।
स साधुभिर् बहिष्कार्यः नास्तिको वेदनिन्दकः ॥ इति ।

उभे श्रुतिस्मृती । यमो ऽपि ।

एतैर् यानि प्रणीतानि धर्मशास्त्राणि वै पुरा ।
तान्य् एतानि प्रमाणानि न हन्तव्यानि हेतुभिः ॥
यस् तानि हेतुभिर् हन्यात् सो ऽन्धे तमसि मज्जति ॥ इति ।

धर्मशास्त्रग्रहणं पुराणादेर् अपि प्रदर्शनार्थम् । अत एव विष्णुः ।

पुराणं मानवो धर्मः साङ्गो वेदश् चिकित्सितम् ।
आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥ इति ।

एवं च गृह्यकाराणाम् अपि प्रामाण्यम् अविरुद्धम् । तेषाम् अपि मन्वादिप्रणीतस्यैव संस्कारकलापस्य स्वशाखावगतमन्त्रविनियोगद्वारेण प्रयोगकत्वात् । तथा च देवलः ।

मन्वादयः प्रयोक्तारो धर्मशास्त्रस्य कीर्तिताः ।
तत्प्रयुक्तप्रयोक्तारो गृह्यकाराः समूचिरे ॥ इति ।

इति स्मृइचन्द्रिकायां प्रमाणसाधनम्

धर्मप्रमाणानि