३५ ब्रह्मचारिद्वैविध्यम्

ब्रह्मचारिद्वैविध्यम्

द्विविधो ब्रह्मचारी उपकुर्वाणो नैष्ठिकश् च । तत्रोपकुर्वानस्योक्ता धर्माः । अधुना नैष्ठिकब्रह्मचारिणो धर्मा उच्यन्ते । तत्र याज्ञवल्क्यः ।

नैष्ठिको ब्रह्मचारी तु वसेद् आचार्यसंनिधौ ।
तदभावे ऽस्य तनये पत्न्यां वैश्वानरे ऽपि वा ॥

उपकुर्वाणोक्तविधिनात्मानं निष्ठाम् उत्क्रान्तिकालं गमतीति नैष्ठिकः । स पुनर् आचार्यादिसंनिधौ वसेत्, न समावर्तेतेत्य् अर्थः । अत्र च तदभाव इति सर्वत्रानुवर्तते । एवं च पत्न्यभावे ऽग्निं परिचरेद् इत्य् उक्तं भवति । एतच् च सपिण्डाभावविषयम् । यद् आह मनुः ।

आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते ।
गुरुदारे सपिण्डे वा गुरुवद् व्र्त्तिम् आचरेत् ॥
एतेष्व् अविद्यमानेषु स्थानासनविहारवान् ।
प्रयुञ्जानो ऽग्निशुश्रूषां साधयेद् देहम् आत्मनः ॥

स्थानासनविहारवान् कालविशेषाश्रयणेन उत्थानोपवेशगमनवान् इत्य् अर्थः । एतद् अप्य् अनूचानब्राह्मणगुर्वादिविषयम् अन्यथा दोषश्रवणात् । तद् आह स एव ।

नाब्राह्मणे गुरौ शिष्यो वासम् आत्यन्तिकं वसेत् ।
ब्राह्मणे वाननूचाने काङ्क्षन् गतिम् अनुत्तमाम् ॥ इति ।

तत्र वसतो ये धर्मास् तान् आह बृहस्पतिः ।

उपकुर्वाणकस्यैतत् समादिष्टं मया व्रतम् ।
अधुना संप्रवक्ष्यामि नैष्ठिकस्य समासतः ॥
संध्याग्निकार्यं स्वाध्यायो भिक्षाधःशयनं दया ।
आ मृत्योर् नैष्ठिकं कुर्वन् ब्रह्मलोकम् अवाप्नुयात् ॥ इति ।

वसिष्ठो ऽपि - “संयतवाक् चतुर्थषष्ठाष्टकलभोजी भैक्षम् आचरेत् गुर्वधीनो जटिलः शिखाजटो वा गुरुं गच्छन् तम् अनुगच्छन् आसीनं चेत् तिष्ठन् शयानं चेद् आसीन उपासीत । आहूताध्यायी सर्वं लब्धं निवेद्य तदनुज्ञया भुञ्जीत । खट्वाशयनदन्तप्रक्षालनाञ्जनाभ्यञ्जनोपानच्छत्रवर्जी तिष्ठेद् अहनि रात्राव् आसीत । त्रिर् अहो ऽभ्युपेयाद् अपः” इति । अहनि त्रिर् अपो ऽभ्युपेयात् त्रिषवणस्नायी स्याद् इत्य् अर्थः । देवलो ऽपि - “ब्रह्मसूत्राक्षमालादण्डकाष्ठकुण्डिकामौञ्जीमेखलाधारणं सकृद्भोजनम् असकृदवगाहनम् उभयकालम् अग्निहोत्रं संध्योपासनम् अलुप्तलोमकेसनखत्वग्गन्धमाल्यस्नेहाञ्जनाभ्यञ्जनवेषालंकारच्छत्रोपानद्वाहन-लङ्घनप्लवनधावनचिकित्साज्यौतिषलक्षणवास्तुविद्यामङ्गलपौष्टिकशान्तिकर्मगान्धर्व-सङ्घसमयबन्धनशिल्पलेखनकारुकर्मवेश्मक्षेत्रद्रव्यधनधान्यपरिच्छदवस्त्र-द्यूतव्यवहारज्ञभावलीलापरिहासप्रणयकुहकविस्मापनविदम्बनविवादोत्सेकपरिवेदन-रोदनपादोद्वर्तनवर्जनम्” इति । हारीतस् त्व् अग्निपरिचर्याविधिम् आह - “यज्ञियाः समिध आहृत्य संमार्जनोपलेपनोद्बोधनसमूहनसमिन्धनपर्यग्निकरणपरिक्रमोपस्थानहोम-स्तोत्रनमस्कारादिभिर् अग्निं परिचरेन् नाग्निम् अधितिष्ठेन् न पद्भ्यां कर्षेन् न मुखेनोपधमेत् । नापश् चाग्निं च युगपद् धारयेत् । नाजीर्णभुङ् नार्थिभो दद्यान् नेन्धनेभ्यो दधद् अतिक्रामेन् न निष्ठीवेद् विविधचरुहविर्धानविशेषैर् आग्नेयैर् अहर् अहर् अग्निम् इन्धेतामन्त्र्य गच्छेद् आहृत्य निवेदयेत्” इति । एवं कुर्वतः फलम् आह मनुः ।

आ समाप्तेः शरीरस्य यस् तु शुस्रूषते गुरुम् ।
स गच्छत्य् अञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् ॥

याज्ञवल्क्यो ऽपि ।

अनेन विधिना देहं साधयन् विजितेन्द्रियः ।
ब्रह्मलोकम् अवाप्नोति न चेहाजायते पुनः ॥

यमो ऽपि ।

आ निपाताच् छरीरस्य ये चरन्त्य् ऊर्ध्वरेतसः ।
ते यान्ति ब्रह्मणः स्थानं जायन्ते न पुनर् भुवि ॥

यत् तु हारीतेनोक्तम्,

भृत्योः परस्ताद् अमृता भवन्ति ये ब्राह्मणा ब्रह्मचर्यं चरन्ति ।

इति, तद् ब्रह्मविन्नैष्ठिकविषयम्, “सर्वे ते पुण्यलोका भवन्ति ब्रह्मसंस्थो ऽमृतत्वम् एति” इत् श्रुतेः । सर्व एते चत्वार आश्रमिणः कर्म कुर्वाणाः पुण्यलोका भवन्ति । यः पुनर् एषां मध्ये ब्रह्मसंस्थो ब्रह्मनिष्ठः सो ऽमृतत्वम् अपुनरावृत्तिलक्षणं फलम् एति । एतच् च नैष्ठिकत्वं कुब्जादीनां नित्यम् इत्य् आह विष्णुः ।

कुब्जवामनजात्यन्धक्लीबपङ्ग्वार्तरोगिणाम् ।
व्रतवर्या भवेत् तेषां यवज्जीवम् अनंशतः ॥

अनंशतः अंशाभावाद् इत्यर्थः । संग्रहकारो ऽपि ।

पङ्ग्वादीनाम् अनंशत्वाद् असमर्थ्याच् च शास्त्रतः ।
नियतं नैष्ठिकत्वं स्यात् कर्मस्व् अनधिकारतः ॥ इति ।

नन्व् एवं तर्हि कुब्जादीनाम् एव नैष्ठिकत्वम् अस्तु नेतरेषाम् । मैवम्,

यदि त्व् आत्यन्तिकं वासं रोचयेत् गुरोः कुले ।
युक्तः परिचरेद् एनम् आ शरीरविमोक्षणात् ॥

इति पाक्षिकत्वप्रतिपादकमनुवचनविरोधात् । न हि कुब्जादीनां पाक्षिकं नैष्ठिकत्वम् अस्ति । ननु च यदीतरेषाम् अपि नैष्ठिकत्वम् अस्ति, तर्हि “यावज्जीवम् अग्निहोत्रं जुहुयात्” इति गृहस्थधर्मविधायिका श्रुतिर् बाध्येत । मैवम्, नैष्ठिकत्वस्य पाक्षिकत्वेन विषयान्तरसंभवात्, ये हि स्त्रीरागवशाद् गार्हस्थ्यम् एव कमयन्ते तद्विषयेयं यवज्जीविका श्रुतिर् इत्य् अविरोधः । तथा च जाबालिः - “गृही वनं प्रविशेत् । यदि गृहम् एव कामयेत तदा यावज्जीवम् अग्निहोत्रं जुहुयात्” इति । युक्तं चैतत्, अन्यथा “यम् इच्छेत् तम् आविशेद् यदि वेतरथा ब्रह्मचर्याद् एव प्रव्रजेत्” इत्यादयो बाध्येरन् । ननु च स्मार्तनैष्ठिकत्वस्य श्रौताग्निहोत्रादिना बाध एवास्तु । मैवम्, तस्यापि “ब्रह्मचार्य् आचार्यकुलवासी द्वितीयो ऽत्यन्तम् आत्मानम् आचार्यकुले ऽवसादयेत्” इत्य् एतच्छ्रुतिमूलत्वेनाविशेषात् । अतो न ब्रह्मचारिद्वैविध्यम् अपहातुं शक्यम् । उक्तं च हारीतेन - “द्विविधो ब्रह्मचारी उपकुर्वाणो नैष्ठिकस् च” इति । ननु ब्रह्मचारिद्वैविध्ये चत्वार आश्रमा इत्य् आपस्तम्बादिवचनं बाध्येत । मैवम्, संकल्पभेदमात्रेण नित्यकाम्याग्निहोत्रवद् अनयोर् अभेदोपपत्तेः । अत एव दक्षः ।

द्वितीयो नैष्ठिकश् चैव तस्मिन्न् एवाश्रमे स्थितः । इति ।

तस्मिन्न् एवाश्रमे इति वदन् तद्धर्मातिदेशम् आह । अत एव गौतमः - “तत्रोक्तं ब्रह्मचारिणः” इति । तत्रोपकुर्वाणप्रकरणे यद् उक्तम् अग्नीन्धनभैक्षचर्यादिकं तन् नैष्ठिकस्यापि भवतीत्य् अर्थः ।

इति स्मृतिचन्द्रिकायां ब्रह्मचारिप्रकरणम्