३४ ब्रह्मचर्यकालावधिः

अथ ब्रह्मचर्यकालावधिः

तत्र आपस्तम्बः - “उपेतस्याचार्यकुले ब्रह्मचारिवासः । अष्टाचत्वारिंशद् वर्षाणि । पादूनम् अर्धेन त्रिभिर् वा” इति । तथा च देवलः - “अतः परम् अष्टाचत्वारिंशद्वार्षिकीं वेदव्रतचर्याम् आतिष्ठेद् अशक्तश् चेच् चतुर्विंशतिवार्षिकीं द्वादशवार्षिकीं वा” इति । एतद् अपि प्रतिवेदाभिप्रायम् । यद् आह बोधायनः - “अष्टाचत्वारिंशद् वर्षाणि पौराणं वेदब्रह्मचर्यं चतुर्विंशतिं द्वादश वा प्रतिवेदम्” इति । यमो ऽपि ।

वसेद् द्वादश् वर्षाणि चतुर्विंशतिम् एव वा ।
षट्त्रिंषतं वा वर्षाणि प्रतिवेदं व्रतं चरेत् ॥

मनुस् तु वेदग्रहणान्तं ब्रह्मचर्यम् इत्य् आह ।

षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् ।
तदर्धिकं पादिकं वा ग्रहणान्तिकम् एव वा ॥

अस्यार्थः - त्रैवेदिकम् ऋग्यजुःसामाख्यात्मकवेदत्रयविषयम् । तत् षट्त्रिंशदाब्दिकं कार्यम् । एवं च प्रतिवेदं द्वादश वर्षाणि ब्रह्मचर्यव्रतं चरेद् इत्य् उक्तं भवति । अर्धिकपक्षे प्रतिवेदं षड्वर्षाणि । पादिके तु त्रीण्य् एव । याज्ञवल्क्यो ऽपि ।

प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि पञ्च वा ।
ग्रहणान्तिकम् इत्य् एके केशान्तश् चैव षोडशे ॥

केशान्तो गोदानाख्यं कर्म । तत् तु षडशे वर्षे कार्यम् इत्य् अर्थः । एतच् च ब्राह्मणविषयम् । यद् आह मनुः ।

केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते ।
राजन्यबन्धोर् द्वाविंशे वैश्यस्य द्व्यधिके ततः ॥ इति ।

इति स्मृतिचन्द्रिकायां ब्रह्मचर्यकालवधिः