३३ अनध्यायाः

अथानध्यायाः

तत्र मनुः ।

विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे ।
आकालिकम् अनध्यायम् एतेषु मनुर् अब्रवीत् ॥

स्तनितं मेधगर्जनम् । एतेषु विद्युदादिषु प्रत्येकम् आकालिको निमित्तकालाद् आरभ्य परेद्युर् यावत् स एव कालस् तावद् अनध्याय इत्य् अर्थः । एतच् च विद्युदादित्रयं वर्षाभ्यो ऽन्यत्र संध्याकाले वेदितव्यम् । यद् आह स एव ।

एतान् अभ्युदितान् विद्याद् यदा प्रादुष्कृताग्निषु ।
तदा विद्याद् अनध्यायम् अनृतौ चाब्भ्रदर्शने ॥

प्रादुष्करणं विहरणम् । तेनात्र संध्यकालो लक्ष्यते । अनृतौ वर्षाभ्यो ऽन्यत्र । अथाकालिका इत्य् अनुवृत्तौ गौतमः - “स्तनयित्नुवर्षविद्युतश् च प्रादुष्कृताग्निषु” इति । उल्कायां तु सर्वदाकालिकम् एव । तथा च आपस्तम्बः - “उल्कायाम् अग्नुयुत्पाते च सर्वासां विद्यानां सार्वकालिकम् आकालिकम्” इति । अग्न्युत्पाते तु मनुर् अपि।

चओरैर् उपप्लुते ग्रामे संभ्रमे चाग्निकारिते ।
आकालिकम् अनध्यायं विद्यात् सअर्वाद्भुतेषु च ॥

अद्भुतेषु रुधिरादिवर्षेषु । तथा च वसिष्ठः - “उपलरुधिरपांसुवर्षेष्व् आकालिकम्” इति । यदा तु विद्युदादित्रयं युगपद् उत्पद्यते तदा त्र्यहम् अनध्यायः । अत एव त्रिरात्रम् इत्य् अनुवृत्तौ गौतमः - “वर्षविद्युत्स्तनियित्नुसंनिपाते” इति । एतद् अपि वर्षाकालाद् अन्यत्र वेदितव्यम् । यद् आह आपस्तम्बः - “विद्युत् स्तनयित्नुर् वृष्टिश् चापर्तौ यत्र संनिपतेयुस् त्र्यहम् अनध्यायो यावद् भूमिर् व्युदकेत्य् एके । एकेन द्वाभ्यां वैतेषाम् आकालम्” इति । भारद्वाजो ऽपि -

अग्न्युत्पाते ऽपर्तुवर्षे ग्रामे ऽनध्ययनं भवेत् ।
आकालिकं त्रिरात्रं तु सविद्युत्स्तनयित्नुके ॥

यदा तु वर्षास्व् एव संध्यायां विद्युत्स्तनितः तदा सज्योतिर् अनध्यायः । तथा च मनुः ।

प्रादुष्कृतेष्व् अग्निषु तु विद्युत्स्तनितनिःस्वने ।
सज्योतिः स्याद् अनध्यायः शेषे रात्रौ यथा दिवा ॥

प्रातःसंध्यायां निमित्तोत्पाते सज्योतिर् यावत् सूर्यः तावद् एवानध्ययनं दिवेत्य् अर्थः । अपरस्यां तु यावन् नक्षत्राणि तावद् एव । शेषे ऋतौ यथा दिवानध्यायस् तथा रात्राव् अपीत्य् अर्थः । हारीतस् तु स्तनिते विशेषम् आह - “सायं संध्यायां स्तनिते रात्रौ नाधीयेरन् । प्रातःसंध्यायां स्तनिते त्व् अहोरात्रम्” इति । आपस्तम्बो ऽपि - “सप्रदोषम् अहर् अनध्यायो दह्रे ऽपरररात्रे स्तनयित्नुनोर्ध्वम् अर्धरात्राद् इत्य् एके गवां चावरोधे” इति । दह्रे अल्पे अपररात्रे स्तनयित्नुना गर्जितेन निमित्तेन सप्रदोषम् अहर् अनध्याय इत्य् अर्थः । निर्घातादयस् तु वर्षास्व् अप्य् आकालिका इत्य् आह मनुः ।

निर्घाते भूमिचलने ज्योतिषां चोपसर्जने ।
एतान् आकालिकान् विद्याद् अनध्यायान् ऋताव् अपि ॥

निर्घात आन्तरिक्षो द्वनिविशेषः । ज्योतिषाम् उपसर्जनं चन्द्रसूर्ययोः परिवेषः । आपस्तम्बस् तु परिवेषादौ तात्कालिकम् अनध्यायम् आह ।

संध्यागर्जितनिर्घातभूकम्पोल्कानिपातने ।
समाप्य वेदं द्युनिषम् आरण्यकम् अधीत्य च ॥

द्युनिषम् अहोरात्रम् । यतु तु यमेनोक्तम्,

शक्रध्वजनिपाते च उल्कापाते तथैव च ।
अनध्यायस् त्रिरात्रं तु भूमिकम्पे तथैव च ॥

इति, तद् उल्काया विद्युत्सहभावे द्रष्टव्यम् । अत एव वसिष्ठः - “उल्काविद्युत्समासे त्रिरात्रम्” इति । अत्र मनुः ।

अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी ।
ब्रह्माष्टकापौर्णमास्यौ तस्मात् ताः परिवर्जयेत् ॥ इति ।
अत्र चानध्ययनम् अहोरात्रं वेदितव्यम् । अत एव द्युनिषम् इत्य् अनुवृत्तौ याज्ञवल्क्यः ।

पञ्चदश्यां चतुर्दश्याम् अष्टम्यां राहुसूतके ।
ऋतुसंधिषु भुक्त्वा च श्राद्धिकं प्रतिगृह्य च ॥

राहुसूतके चन्द्रसूर्योपरागे । ऋतुसंधिषु वसन्तादीनां संधिषु प्रतिपत्स्व् इत्य् अर्थः । तथा रामायणे हनुमद्वाक्यम् ।

सा स्वभावेन तन्वङ्गी त्वद्वियोगाच् च कर्शिता ।
प्रतिपत्पाठशीलस्य विद्येव तनुतां गता ॥ इति ।

हारीतो पि ।

प्रतिपत्सु चतुर्दश्याम् अष्टम्यां पर्वणोर् द्वयोः ।
श्वो ऽनध्याये ऽद्य शर्वर्यां नाधीयीत कदाचन ॥

स्मृत्यन्तरे ऽपि ।

प्रदोषे तु त्रयोदश्यां नाध्येयं प्रतिपत्सु च । इति ।

श्राद्धसंबन्धि श्राद्धिकम् । तद् भुक्त्वा प्रतिगृह्य वा द्युनिषम् अनध्याय इत्य् अर्थः । तथा च वसिष्ठः

फलाण्य् अपस् तिलान् भक्ष्यान् यच् चान्यच् छ्राद्धिकं भवेत् ।
प्रतिगृह्याप्य् अनध्यायाः पाल्याः स्युर् ब्राह्मणैः स्मृताः ॥

एतच् च एकोद्दिष्टव्यतिरिक्तविषयम्, तत्र त्रिरात्रविधानात् । तथा च मनुः ।

प्रतिगृह्य द्विजो विद्वान् एकोद्दिष्टस्य केतनम् ।
त्र्यहं न कीर्तयेद् ब्रह्म राज्ञो राहोश् च सूतके ॥

केतनं निमन्त्रणम् । राहुदर्शने शङ्खो ऽपि - “राहुदर्शने शक्रद्वजप्रपतने आचार्ये च प्रमृते त्रिरात्रम्” इति । गौतमस् त्व् आकालिकम् आह - “आकालिका निर्घातभूकम्पराहुदर्शनोकाः” इति । एवं च राहुदर्शने त्रिरात्राकालिकाहोरात्राणां विकल्पो वेदितव्यः । याज्ञवल्क्यो ऽप्य् आचार्यमरणे त्रिरात्रम् आह ।

त्र्यहं प्रेतेष्व् अनध्यायः शिष्यर्त्विग्गुरुबन्धुषु ।

गुरुर् अत्राचार्यः, न मुख्यः तत्र दशाहविधानात् । अत एव बान्धवा अप्य् असपिण्डा एव ग्राह्याः । वसिष्ठस् तु शिष्यर्त्विगादिष्व् अप्य् अहोरात्रम् आह - “आचार्यपुत्रशिष्यभार्यास्व् अहोरात्रम्, ऋत्विक्षु योनिसंबन्धेषु च” इति । योनिसंबन्धा मातुलादयः । एवं सब्रह्मचारिण्य् अपि द्रष्टव्यम् । अत एवाहोरात्रम् इत्य् अनुवृत्तौ गोबिलः -

सब्रह्मचारिणि प्रेते स्वे च भूमिपताव् अपि । इति ।

उपाकर्मोत्सर्जनयोस् तु त्रिरात्रं वेदितव्यम् । अत एव त्र्यहम् अनुवृत्तौ याज्ञवल्क्यः ।

उपाकर्मणि चोत्सर्गे स्वशाखाश्रोत्रिये तथा । इति ।

मनुस् तूत्सर्जने पक्षिणीम् एकाहं त्रिरात्रं च विकल्पेनाह ।

यथाशास्त्रं तु कृत्वैवम् उत्सर्वं छन्दसां बहिः ।
विरमेत् पक्षिणीं रात्रिं यद् वाप्य् एकम् अहर्निशम् ॥
उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम् । इति ।

उभयतः पक्षौ दिवाहनी यस्या रात्रेः सा पक्षिणी । एतेषां पक्षिण्यादीनां तत्तद्गृह्यानुसारेण व्यवस्था । आपस्तम्बस् तु उपाकरणम् आरब्य मासं प्रदोषे ऽनध्यायम् आह - “श्रावण्यां पौर्ण्मास्याम् अध्यायम् उपाक्र्त्य मासं प्रदोषे नाधीयीत” इति । तत्र त्रयोदश्यादीनां तु मासाद् उपर्य् अपि नाधीयीत । तथा च पुराणम् ।

मेधाकामस् त्रयोदश्यां सप्तम्यां च विशेषतः ।
चतुर्त्यां च प्रदोषेषु न स्मरेन् न च कीर्तयेत् ॥

अत्र प्रजापतिः ।

षष्ठी च द्वादशी चैव अर्धरात्रोननाडिका ।
प्रदोषे न त्व् अधीयीत तृतीया नवनाडिका ॥

अर्धरात्रोननाडिका अर्धरात्राद् घटृइकयैकया हीनेत्य् अर्थः । नवनाडिका रात्राव् इति शेषः । प्रदोषे निशायाः प्रथमे प्रहरे । यथाह उशनाः - “त्रयोदश्यां प्रथमांश् चतुरो मुहूर्तान् नाधीयीत” इति । दक्षो रजन्या मध्यमयामद्वये ऽनध्ययनम् आह ।

प्रदोषपश्चिमौ यामौ वेदाभ्यासेन तौ नयेत् ।
यामद्वयं शयानस् तु ब्रह्मभूयाय कल्पते ॥ इति ।

अत्र शातातपः ।

पञ्चदश्यां चतुर्दश्याम् अष्टकासु महोत्सवे ।
प्रदोषे च त्रयोदश्याम् अष्टम्यां प्रतिपद्य् अपि ॥

महोत्सवे प्रतिष्ठादौ । अष्टका अपि पैठीनसिनोक्ताः - “पौषप्रभृतयः कृष्णे भवास् तिस्रो ऽष्टका मार्गशीर्षप्रभृतय इत्य् एके” इति । पुष्येण युक्ता पौर्णमासी पौषी । सा यस्मिन् मासि स पौषः । शौनकस् तु हेमन्तशिशिरयोः कृष्णे भवास् तिस्रो ऽष्टका इत्य् आह - “हेमन्तशिसिरयोश् चतुर्णाम् अपरपक्षाणाम् अष्टमीष्व् अष्टकाः” इति । अत्र चानध्ययनम् अहोरात्रं वेदितव्यम् । तथा च मनुः ।

अष्टकासु त्व् अहोरात्रम् ऋत्वन्तासु च रात्रिषु । इति ।

गौतमो ऽपि - “कार्तिकी फाल्गुन्य् आषाढी पौर्णमासी । तिस्रो ऽष्टका त्रिरात्रम्” इति । उक्तपौर्णमासीर् आरभ्य त्रिरात्रम् । तथैव तिस्रो ऽष्टकाः सप्तम्यादयस् तास्व् अपि त्रिरात्रम् अनध्ययनम् इत्य् अर्थः । एवं महानवम्यादिष्व् अपि द्रष्टव्यम् । तथा च पुराणम् ।

महानवम्यां द्वादश्यां भरण्यां च महातिथौ ।
तथाक्षयतृतीयायां शिष्यान् नाध्यापयेद् बुधः ॥
माघमासस्य सप्तम्यां रथाख्यायां च वर्जयेत् ।
अध्यपनम् अथाभ्यक्तस्नानकाले च वर्जयेत् ॥
नीयमानं शवं दृष्ट्वा महीस्थं वा द्विजोत्तमः ।
अकालगर्जितादौ च परस्वाशौचकादिषु (?) ॥
अनध्यायं बुधः कुर्याद् उपरागादिके ऽपि च ।

महानवम्याश्वयुजशुक्लनवमी । महाद्वादशी कार्तिकशुक्लद्वादशी । महाभरणी प्रौष्ठपद्य् अनन्तरा । अक्षयतृतीया वैशाखशुक्लतृतीया । रथाख्या माधशुक्लसप्तमी । नारदीये ऽपि ।

अयने विषुवे चैव शयने बोधने हरेः ।
अनध्यायस् तु कर्तव्यो मन्वादिषु युगादिषु ॥

पुराणन्तरे ऽपि ।

युगादिषु च सर्वेषु तथा मन्वन्तरादिषु ।
अनध्यायं प्रकुर्वीत या च सोपपदा तिथिः ॥

मन्वन्तरदयस् तु मत्स्यपुराणे दर्शिताः ।

आश्वयुक्छिक्लनवमी कार्तिके द्वादशी तथा ।
तृतीया चैत्रमासस्य तथा भाद्रपदस्य् च ॥
फाल्युनस्य त्व् अमावस्या पुष्यस्यैकादशी तथा ।
आषाढस्यापि दशमी माघमासस्य सप्तमी ॥
श्रावणस्याष्टमी कृष्णा आषाढस्यापि पूर्णिमा ।
कार्तीकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता ॥
मन्वन्त्रादयस् चैते दत्तस्याक्षयकारकाः । इति ।

युगादयो ऽपि विष्णुपुराणोक्ता वेदितव्याः ।

वैशाखमासस्य सिता तृतीया नवम्य् असौ कार्तिकशुक्लपक्षे ।
नभस्यमासस्य च कृष्णपक्षे त्रयोदशी पञ्चदशी च माघे ॥ इति ।

गौतमस् तु मधगमने ऽनध्यायम् आह - “श्वनकुलसर्पमण्डूकमार्जाराणां त्र्यहम् उपवासो विप्रवासश् च” इति । अत्रोपवासः प्रायश्चित्तम् । विप्रवासः सहवासाभावः । सो ऽपि त्रिरात्रम् एव, श्वगोमायुमार्जारसर्पनकुलमूषिकानुवृत्तौ - “एतेषाम् एवाधीयानानाम् अन्तरागमने त्रिरात्रम् उपवासस् त्र्यहं च विवसेत्” इति हारीतस्मरणात् । एतेनार्थात् त्र्यहम् अनध्याय इत्य् उक्तं भवति । वसिष्ठस् त्व् अहोरात्रोपवासम् आह - “श्वमार्जारनकुलशीघ्रगानां त्व् अहोरात्रम्” इति । अभोजनम् इति शेषः, तस्यैवाधिकारात् । एतं च त्रिरात्राशक्तौ वेदितव्यम् । मार्जारगमने तु प्रायश्चित्तविसेषम् अह उशनाः - “मार्जारान्तरागमने तु घृतं प्राश्य त्र्यहम् उपवसेत्” इति । आपस्तम्बस् तु चण्डालादिव्यवाये षण्मासानध्ययनम् आह - “चण्डालश्वपाकशशकस्य षण्मासान्” इति । हस्तिव्याघ्रयोस् तु संवत्सरं वेदितव्यम् । तद् आह स एव - “यदि हस्ती संवत्सरम् । व्याघ्रस् तथैव च” इति । मनुस् तु पश्वादिगमने द्युनिषम् अनध्यायम् आह ।

पशुमण्डूकमार्जारश्वसर्पनकुलादिभिः ।
अन्तरागमने विद्याद् अनध्यायम् अहर्निशम् ॥

याज्ञवल्क्यो ऽपि ।

पशुमण्डुकनकुलश्वाहिमार्जारमूषिकैः ।
कृते ऽन्तरे त्व् अहोरात्रं शक्रपाते तथोच्छ्रये ॥

शक्र्क़्पातोच्छ्रयोपलक्षितकाल इत्य् अर्थः । अत्र शक्रोच्छ्रयस्य कालम् आह गर्गः ।

द्वादश्यां तु सिते पक्षे मासि प्रौष्ठपदे तथा ।
शक्रम् उत्थापयेद् राजा विश्वश्रवणवासवे ॥ इति ।

विश्वशब्देन वैश्वदेवम् उत्तराषाढानक्षत्रम् उच्यते । वासवशब्देन वसुदैवत्यं धनिष्ठानक्षत्रम् उच्यते । शक्रपातो ऽपि तस्मिन्न् एव मासे । तथा च पुराणम् ।

मासि भाद्रपदे राजन् शक्रयष्टिप्रपातनम् । इति ।

अत्र याज्ञवल्क्यः ।

श्वक्रोष्टृगर्दभोलूकसामवाणार्तनिस्वने ।

क्रोष्टा सृगालः । उलूको घूकः (?) । वाणो वीणा, “वाणः शततन्तुर् भवति” इत् महाव्रते दर्शनात् । आर्तो दुःखितः । एतेषां निःस्वने शब्दे श्रूयमाणे तावत्कालं नधीयीत, “एतांस् तात्कालिकान् विधुः” इत्य् तेनैवोक्तत्वात् । मनुर् अपि ।

नीहारे वाणशब्दे च संध्ययोर् उभयोर् अपि ।

एवं भेर्यादिनिःस्वने ऽपि द्रष्टव्यम्, “वानभेरीमृदङ्गगर्दार्तशब्देषु” इति गौतमस्मरणात् । गर्दः शकटः । सामशब्दे तु ऋग्यजुषोर् एवानध्यायो नान्यस्य । तद् आह मनुः ।

सामध्वनौ ऋग्यजूंषि नाधीयीत कदाचन ।

यमो ऽपि ।

सामशब्दे नर्ग्यजुषी मारुते चातिवायति । इति ।

तत्र हेतुम् आह मनुः ।

ऋग्वेदो देवदैवत्यो यजुर्वेदस् तु मानुषः ।
सामदेदः स्मृतः पित्र्यस् तस्मात् तस्याशुचिर् ध्वनिः ॥ इति ।

एवं मृदङ्गादिस्वने ऽपि साम्नाम् अनध्यायः, “शाखान्तरे च साम्नाम् अनध्ययः” इत्य् आपस्तम्बस्मरणात् । एवम् अमेध्यादिसंनिधाने ऽपि द्रष्टव्यम् । तथा च याज्ञवल्क्यः ।

अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ।

अन्तिके समीपे । विष्णुर् अपि - “न शूद्रपतित्योः समीपे न देवयतनश्मशानचतुष्पथरथ्यासु नोदकान्ते न पीठोपनिहितपादो न वान्तो न विरिक्तो नाजीर्णः” इति । मनुर् अपि ।

नाधीयीत श्मशानान्ते ग्रामान्ते गोव्रजे ऽपि वा ।
वसित्वा मैथुनं वासः श्राद्धिकं प्रतिगृह्य च ॥ इति ।

अन्ते समीपे । मैथुनं वासः येन सह मैतुनम् आचरितं तद् वासः परिधायेत्य् अर्थः । एतद् अनिर्णिक्तवासोविषयम् । अत एव यमः ।

वासस्य् अपि ह्य् अनिर्णिक्ते मैथुनाचरिते सदा ।

वसिष्ठो ऽपि - “मैथुनव्यपेतायां शय्यायां वाससा च मिथुनव्यपेतेनानिर्णिक्तेन ग्रामान्तरे छर्दितस्य” इति । छर्दिते त्व् अहोरात्रम् अनध्ययः, “छर्दितश्राद्धमनुष्ययज्ञभोजनेष्व् अहोरात्रम्” इति गौतमस्मरणात् । अथ वा घृतं प्राश्यधीयीत । तद् आह आपस्तम्बः - “छर्दयित्वा स्वप्नान्तं सर्पिर् वा प्राश्य” इति । स्वप्नान्तम् ओदयाद् इत्य् अर्थः । मनुस् तु ग्रामे ऽपि नधीयीतेत्य् आह ।

नित्यानध्याय एव स्याद् ग्रमेषु नगरेषु च ।
धर्मनैपुणकामानां पूतिगन्धे च सर्वतः ॥

ये गृहीतवेदास् ते धर्मनैपुणकामाः । इतरे विद्यानैपुणकमाः । अनेन विद्यानैपुणकामानां ग्रामेष्व् अध्ययनम् अविरुद्धम् इत्य् आह । अत एव वसिष्ठः - “नगरेषु कामं गोमयपर्युक्षिते परिलिखिते वा” इति । अत एव मनुर् अपि ।

अन्तर्गतशवे ग्रामे वृषलस्य च संनिधौ ।
अनध्यायो रुद्यमाने समवाये जनस्य च ॥

वसिष्ठो ऽपि - “संध्यास्व् अन्तःशवदिवाकीर्त्ये” इत् । दिवाकीर्त्यश् चण्डालः । अन्तःचण्डाले ग्रामे नाधीयीतेत्य् अर्थः । एतच् चतुष्पथादिष्व् अपि द्रष्टव्यम् । तथा च प्रचेताः - “चतुष्पथमहापथरथ्याम् उद्यानेषु न देवसमीपे” । अधीयीतेति शेषः । गौतमो ऽपि - “श्मशानग्रामान्तमहापथाशौचेषु” इति । श्मशाने तु विशेषम् आह आपस्तम्बः - “श्मशाने सर्वतः शम्याप्रासात् ग्रामेणाध्यवसिते क्षेत्रेण वा नानध्यायः । श्मशानवच् छूद्रपतितौ । समानागार इत्य् एके । शूद्रायां तु प्रेक्षणप्रतिप्रेक्षणयोर् एवानध्यायः” इति । तथाश्वारूधो ऽपि नाधीयीत । तथा च मनुः ।

नाधीयीताश्वम् आरूढो न वृक्षं च न हस्तिनम् ।
न नावं न खरं नोष्ट्रं नेरिणस्थो न यानगः ॥
शयानः प्रौढपादश् च कृत्वा चैवावसक्थिकाम् ।
नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यम् एव च ॥
न विवादे न कलहे न सेनायां न सङ्गरे ।
न भुक्तमात्रे नाजीर्णे न वमित्वा न सूतके ॥ इति ।

इरिणम् ऊषरम् । प्रौढपाद आसनाद्यारूढपादः । अवसक्थिका जान्वोर् मध्यस्य च वस्त्रादिना बन्धनम् । भुक्तमात्रे यावद् आर्द्रपाणिर् इत्य् अर्थः । तथा च याज्ञवल्क्यः ।

देशे ऽशुचाव् आत्मनि च विद्युत्स्तनितसंप्लवे ।
भुक्त्वार्द्रपानिर् अम्भो ऽन्तरर्धरात्रे ऽतिमारुते ॥

संप्लवः पुनःपुनर् उद्भवः । मनुर् अपि ।

उदके मध्यरात्रे च विण्मूत्रस्य विसर्जने ।
उच्छिष्टश्राद्धभुक् चैव मनसापि न चिन्तयेत् ॥

बोधायनो ऽपि - “मनसापि जननमरणयोर् अनध्यायः” इति । मनुस् तु पांसुवर्षादाव् अपि नाध्येतव्यम् इत्य् आह ।

पांसुवर्षे दिशां दाहे गोमायुविरुते तथा ।
श्वखरोष्ट्रे च रुवति पङ्क्तौ च न पठेद् द्विजः ॥

सर्वत्र ज्योतिषो दर्शनं दिग्दाहः । याज्ञवल्क्यो ऽपि ।

पांसुवर्षे दिशां दाहे संध्यानीहारभीतिषु ।
धावतः पूतिगन्धे च शिष्टे च गृहम् आगते ॥

धावतस् त्वरितं गच्छतः । शिष्टे चोक्तलक्षणे गृहम् आगते तदनुज्ञावधिर् अनध्याय इत्य् अर्थः । तथा च यमः ।

आगतं चातिथिं दृष्ट्वा नाधीयीतैव बुद्धिमान् ।
अभ्यनुज्ञापिते तस्मिन्न् अध्येतव्यं प्रत्नतः ॥

मनुर् अपि ।

अतिथिं चानुज्ञाप्य मारुते वाति वा भृशम् ।
रुधिरे च स्रुते गात्राच् छस्त्रेण च परिक्षते ॥

तथानृताव् अब्भ्रदर्सने ऽप्य् अनध्यायम् अह गौतमः - “अब्भ्रदर्शने चापर्तौ” । अब्भ्रं जलधरो मेघः । एवं वृक्षविसेषच्छायायाम् अपि द्रष्टव्यम् । तथा च यमः ।

श्लेष्मान्तकस्य छायायां शल्मलेर् मधुकस्य च ।
कदाचिद् अपि नाध्येयं कोविदारकपित्थयोः ॥ इति ।

यत् पुनर् मनुनोक्तम्,

द्वाव् एव वर्जयेन् नित्यम् अनधायौ प्रयत्नतः ।
स्वाध्ययभूमिं चाशुद्धाम् आत्मानं चाशुचिं द्विजः ॥ इति ।

तद् ब्रह्मयज्ञाध्ययनविषयम् । तथा च श्रुतिः - “तस्य वा एतस्य यज्ञस्य द्वाव् अनध्यायौ यद् आद्ताशुचिर् यद् देशः” इति । अत एव मनुः ।

वेदोपकरणे चैव स्वाध्याये चैव नैत्यके ।
नानुरोधो ऽस्त्य् अनध्याये होममन्त्रेषु चैव हि ॥ इति ।

वेदोपकरणान्य् अङ्गानि । नित्यस्वाध्यायो ब्रह्मयज्ञसंबन्धी । शौनको ऽपि ।

नित्ये जपे च काम्ये च क्रतौ पारायणे ऽपि च ।
नानध्यायो ऽस्ति वेदानां ग्रहणे ग्रहणे स्मृतः ॥ इति ।

एवम् उक्तानध्यायाध्ययने दोषम् आह लिखितः ।

छिद्राण्य् एतानि विप्राणां ये ऽनध्यायाः प्रकीर्तिताः ।
छिद्रेभ्यः स्रवति ब्रह्म ब्राह्मनेन यद् आर्जितम् ॥
तत्काले तस्य रक्षांसि श्रियं ब्रह्म यशो बलम् ।
सर्वं आदाय गच्छन्ति वर्जयन्तीप्सितं फलम् ॥

यमो ऽपि ।

आयुः प्रज्ञां पशून् मेधां कृन्तामि सुक्र्तं च यत् ।
अनध्ययेष्व् अभ्यसतो ब्रह्म व्याहरतस् तथा ॥

इन्द्रनारदसंवादे ऽपि ।

अनध्यायेष्व् अधीयानान् किं शक्र न गतो ऽसि तान् ।
असुरास् ते दुरात्मानो ब्रह्मघ्ना ब्रह्मदूषकाः ॥
अनध्यायेष्व् अधीतं हि नाधीतं यदि वैदिकम् ।
मृताः स्वर्गं न गच्छन्ति किं नारद न ते हताः ॥ इति ।

इति स्मृतिचन्द्रिकायाम् अनध्यायः