३२ उत्सर्जनम्

अथोत्सर्जनम्

तत्र मनुः ।

पुष्ये तु छन्दसां कुर्याद् बहिर् उत्सर्जनं द्विजः ।
माधशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमे ऽहनि ॥

शुक्लप्रतिपदि पूर्वाह्णि इत्य् उभयत्रापि संबध्यते । अत्र यः श्रावण्याम् उपाकुर्याद् असौ पुण्यमासस्य शुक्लप्रतिपत् पूर्वाह्णे उत्सृजेत् । इतरस् तु माघे । अर्धपञ्चमान् मासान् अधीयीतेति तेनैवोक्तत्वात् । आपस्तम्बस् तु तैष्यां पौर्णमास्याम् उत्सर्जनम् आह - “तैष्यां पौर्णमास्यां रोहिण्यां वा विरमेत्” इति । रोहिण्य् अपि तिष्यस्यैव ग्राह्या । तथा च याज्ञवल्क्यः ।

पौषमासस्य रोहिण्याम् अष्टकायाम् अथापि वा ।
जलान्ते छन्दसां कुर्याद् उत्सर्गं विधिवद् बहिः ॥ इति ।

अत्र पुराणम् ।

उपाकर्मणि चोत्सर्गे यथाकालं समेत्य च ।
ऋषीन् दर्भमयान् कृत्वा पूजयेत् तर्पयेत् ततः ॥ इति ।

एवम् उत्सृज्यानन्तरं छन्दांसि शुक्लपक्षेष्व् अधीयीत । वेदाङ्गानि कृष्णपक्षेष्व् अधीयीत । तथा च मनुः ।

अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् ।
वेदाङ्गानि तु सर्वाणि कृष्णपक्षेषु संपठेत् ॥

वसिष्ठो ऽपि - “अत ऊर्ध्वं शुक्लपषेष्व् अधीयीत कामं तु वेदाङ्गानि” इति । कामम् इति वदन्न् अङ्गाध्ययनम् अनध्याये ऽप्य् अविरुद्धम् इत्य् आह । अत एव मनुः ।

वेदोपकरणे चैव स्वाध्याये चैव नैत्यके ।
नानुरोधो ऽस्त्य् अनध्याये होममन्त्रेषु चैव हि ॥

वेदोपकरणान्य् अङ्गानि । नित्यस्वाध्यायो ब्रह्मयज्ञः । एतत् कर्मद्वयं छन्दसाम् अयातयामत्वायेत्य् आह कात्यायनः ।

प्रत्यब्दं यद् उपाकर्म सोत्सर्गं विधिवत् द्विजैः ।
क्रियते छन्दसां तेन पुनर् आप्यायनं भवेत् ॥
अयातयामैश् छन्दोभिर् यत् कर्म क्रियते द्विजैः ।
क्रीडमानैर् अपि सदा तत् तेषां सिद्धिकारणम् ॥ इति ।

इति स्मृतिचन्द्रिकायाम् उत्सर्जनम्