३१ उपाकरणम्

अथोपाकरणम्

तत्र याज्ञवल्क्यः ।

अध्यायानाम् उपाकर्म श्रावण्यां श्रवणेन वा ।
हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु ॥

अधीयन्त इत्य् अध्याया वेदाः । तेषाम् उपाकर्माख्यं कर्म श्रावण्यां पौर्णमास्यां श्रवणेन वा नक्षत्रेण हस्तेन वा युक्तायां पञ्चम्याम् ओषधिप्रादुर्वावे सति कार्यम् । तथा च आश्वलायनः - “अथातो ऽध्यायानाम् उपाकरणम् ओषधीनां प्रादुर्भावे श्रवणेन श्रावण्यां पञ्चम्यां हस्तेन वा” इति । यदा तु श्रावणे मासि न प्रादुर्भवन्त्य् ओधयस् (?) तदा प्रौष्ठपद्यां कर्यम् । अत एव शौनकः - “तद् वार्षिकम् इत्य् एतद् आचक्षते” इति । वसिष्ठो ऽपि - “अथातः स्वाध्यायोपाकर्म श्रावण्यां पौर्णमास्यां प्रौष्ठपद्यां वा” इति । प्रौष्ठपदी भाद्रपदस्य पौर्णमासी । तत्र श्रवणे नक्षत्रे विशेषम् आह व्यासः ।

श्रवणेन तु यत् कर्म उत्तराषाढसंयुतम् ।
संवत्सरकृतो ऽध्यायस् तत्क्षणाद् एव नश्यति ॥
धनिष्ठासंयुतं कुर्याच् छ्रावणे कर्म तद् भवेत् ।
तत् कर्म सफलं विद्याद् उपाकरणसंज्ञितम् ॥ इति ।

बोदायनस् त्व् आषाढ्याम् एवोपाकरणम् आह - “श्रावण्यां पौर्णमास्याम् आषाढ्यां वोपाकृत्य तैष्यां माघ्यां वोत्सृजेत्” इति । तैषी तिष्यस्य पौर्णमासी । एवं छन्दांस्य् उपाकृत्यानन्तरं पक्षद्वये ऽपि सार्धांश् चतुरो मासान् अधीयीत । तथा च मनुः ।

श्रावण्यां प्रौष्ठपद्यां वाप्य् उपाकृत्य यथाविधि ।
युक्तः छन्दांश्य् अधीयीत मासान् विप्रो ऽर्धपञ्चमान् ॥

युक्तो यत्नवान् वसिष्ठस् त्व् अर्धषष्ठान् मासान् अधीयीतेत्य् आह - “अर्धपञ्चमान् मासान् अर्धषष्ठान् वा” इति । एतच् चाध्ययनं गृहस्थस्याप्य् अविरुद्धम् । अत एवाधीयीतेत्य् अनुवृत्तौ शौनकः - “समावृत्तो ब्रह्मचारिकल्पेन यथान्यायम् इतरे जायोपेयीत्य् एके” । इतरे ब्रह्मचारिण इत्य् अर्थः ।

इति स्मृतिचन्द्रिकायाम् उपाकरणम्