३० अध्ययनविधिः

**अथाध्ययनविधिः **

तत्र मनुः ।

तपोविशेषैर् विविधैर् व्रतैश् च विधिचोदितैः ।
वेदः कृत्स्नो ऽधिगन्तव्यः सरहस्यो द्विजन्मना ॥

रहस्यम् उपनिषत् । अधिगन्तव्यो ऽध्येतव्य इत्य् अर्थः । तथा च स्रुतिः - “स्वाध्यायो ऽध्येतव्यः” इति । स्वकुलपरंपरागता शाखाध्येतव्येति यावत् । अत एव वसिष्ठः ।

पारम्पर्यागतो येषां वेदः सपरिबृंहणः ।
तच्छाखं कर्म कुर्वीत तच्छाखाध्ययनं तथा ॥ इति ।

शाखान्तराध्ययने शाखारण्डो भवतीत्य् अभिप्रायः । यद् आह स एव ।

एकदेशे ऽपि शाखानां मध्ये यो ऽन्यतमं व्रजेत् ।
स्वशाखां संपरित्यज्य शाखारण्डः स उच्यते ॥

तस्य दोषम् अप् स एवाह ।

स्वशाखां यः परित्यज्य पारक्यम् अधिगच्छति ।
स शूद्रवद् बहिष्कार्यः सर्वकर्मसु साधुभिः ॥
आत्मशाखां परित्यज्य परशाखासु वर्तते ।
उच्छेत्ता तस्य वंशस्य रौरवं नरकं व्रजेत् ॥
स्वीयशाखोज्झिता येन ब्रह्म तेनोज्झितं परम् ।
ब्रह्महैव स विज्ञेयः सद्भिर् नित्यं विगर्हितः ॥ इति ।

लोगाक्षिर् अपि ।

यः स्वशाखां परित्यज्य पारक्यम् अधिगच्छति ।
स शूद्रवद् बहिष्कार्यो हव्यकव्येषु दातृभिः ॥

अनेन स्वशाखाया अपरित्यागेन शाखान्तराध्ययनम् अविरुद्धम् इत्य् आह । अत एव वसिष्ठः ।

अधीत्य शाखाम् आत्मीयां परशाखां ततः पठेत् ।

तथा नियमान्तरम् अपि स एवाह ।

यच् छाखीयैस् तु संस्कारैः संस्कृतो ब्राह्मणो भवेत् ।
तच् छाखाध्ययनं कुर्यात् त्यागेन पतितो भवेत् ॥

यस् तु स्वशाखीयं कर्म परित्यज्य शाखान्तरोक्तम् आचरति, सो ऽपि शाखारण्ड इत्य् आह वसिष्ठः ।

न जातु परशाखोक्तं बुधः कर्म समाचरेत् ।
आचरन् परशाखोक्तं शाखारण्डः प्रकीर्तितः ॥

संग्रहकारस् त्व् अस्याप् दोषम् आह ।

यः स्वशाखोक्तम् उत्सृज्य परशाकोक्तम् आचरेत् ।
अप्रमाणम् ऋषिं कृत्वा सो ऽन्धे तमसि मज्जति ॥

कात्यायनो ऽपि ।

स्वशाखाश्रयम् उत्सृज्य परशाखाश्रयं तु यः ।
कर्तुम् इच्छति दुर्मेधा मोघं तस्य विचेष्टितम् ॥

अनेनापि स्वशाखीयकर्मापरित्यागेन शाखान्तराश्रयणम् अविरुद्धम् इति ज्ञायते । तद् अपि तेनैवोक्तम् ।

यन् नाम्नातं स्वशाखायां परोक्तम् अविरोधि च ।
विद्वद्भिस् तद् अनुष्ठेयम् अग्निहोत्रादिकर्मवत् ॥ इति ।

अथाध्ययनारम्भं प्रकृत्याह मनुः ।

ओङ्कारपूर्विकास् तिस्रो महाव्याहृतयो ऽव्ययाः ।
त्रिपदा चैव सावित्री विज्ञेया ब्रह्मणो मुखम् ॥

ॐ भूर् भुवः सुवर् इति महाव्याह्र्तयस् तिस्रः । तत् सवितुर् इति सावित्री ब्रह्मणो मुखं वेदस्य मुखम् आरम्भ इत्य् अर्थः । गौतमस् तु पञ्च व्याहृतयः प्रयोज्या इत्य् आह - “ॐपूर्वा व्याहृतयः पञ्च सत्यान्ताः” इति । एतच् चान्वहं वेदितव्यम् । तथा च संवर्तः ।

प्रणवं प्राक् प्रयुञ्जीत व्याहृतीस् तदनन्तरम् ।
सावित्र्याश् चानुवचनं ततो वृत्तान्तम् आरभेत् ॥

वृत्तान्तं यत् प्रस्तुतम् इत्य् अर्थः । प्रणवोच्चारणम् अपि प्राणायामत्रयाद् उपरि वेदितव्यम् । तद् आह मनुः ।

प्राक्कूलान् पर्युपासीनः पवित्रैश् चैव पावितः ।
प्राणायामैस् त्रिभिः पूतस् तत ॐकारम् अर्हति ॥

प्राक्कूलान् प्रागग्रान् इत्य् अर्थः । पवित्रं पावनम् इति । गौतमेनोक्तम् - “प्राणोपस्पर्शनं दर्भैः” इति । प्राणा इति चक्षुरादीन्द्रियाणि श्रीषन्यान्य् उच्यन्ते । तानि दर्भैर् उपस्पृशेद् इत्य् अर्थः । प्राणायामा अपि तेनैवोक्ताः - “प्राणायामास् त्रयः पञ्चदशमात्राः” इति । प्राणायामः प्राणनिरोधः निरुच्छ्वासेनावस्थानम् इति यावत् । लघ्वक्षरोच्चारणकालो मात्रा । पञ्चदशमात्रा इत्य् अनेन “सव्याहृतिकां सप्रणवाम्” इत्य् अस्य प्रतिषेधम् आह । एतच् च प्रणवोच्चारणम् अधीत्यापि कार्यम् । तद् आह मनुः ।

ब्रह्मणः प्रणवं कुर्याद् आदाव् अन्ते च सर्वदा ।
स्रवत्य् अन्ॐक्र्तं पूर्वं परस्ताच् च विशीर्यति ॥ इति ।

नियमान्तरम् अपि स एवाह ।

ब्रह्मारम्भे ऽवसाने च पादौ ग्राह्यौ गुरोः सदा ।

पादग्रह्णम् उपसंग्रहणम् । यद् आह अङ्गिराः ।

प्राप्ते वेदानुवचने विसर्गे चान्वहं गुरोः ।
उपसंग्रहणं कार्यं विप्रोष्य त्व् आगतेन च ॥ इति ।

गौतमस् त्व् अध्येत्तुर् दिङ्नियमम् आह - “प्राङ्मुखो दक्षिणतः शिष्य उदङ्मुखो वा” इति । मनुर् अपि ।

अध्येष्यमाणस् त्व् आचान्तो यथाशास्त्रम् उदङ्मुखः ।
ब्रह्माञ्जलिकृतो ऽध्याप्यो लघुवासा जितेन्द्रियः ॥

अध्येष्यमाण इति वचनाद् एतद् आचमनम् अध्ययनाङ्गम् । ब्रह्माञ्जलिम् अपि स एवाह ।

संहत्य हस्ताव् अध्येयं स हि ब्रह्माञ्जलिः स्मृतः । इति ।

अत्र विशेषम् आह संवर्तः ।

ततो ऽधीयीत वेदं तु वीक्षमाणो गुरोर् मुखम् ।
हस्तौ तु संहतौ कार्यौ जानुभाम् उपरि स्थितौ ॥

गुरोर् मुखं वीक्षमाण इत्य् अनेन गुरुमुखाद् एव वेदो ऽध्येतव्य इत्य् आह । अत एव नारदः ।

पुस्तकप्रत्ययाधीतं नाधीतं गुरुसंनिधौ ।
भ्राजते न सभामध्ये जारगर्भ इव स्त्रियाः ॥

गुरुसंनिधाने ऽपि तदनुज्ञयाध्येतव्यम्, अन्यथा दोषश्रवणात् । तद् आह लघुव्यासः ।

ऋचम् अर्धर्चम् अथ वा पादं वा यदि वाक्षरम् ।
गृह्णाति यो ऽननुज्ञातो परस्मात् परतो द्विजः ॥
स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते ।

तथा शूद्रसंनिधाने ऽपि नाध्येतव्यम् । तद् आह स एव ।

अनध्यायेष्व् अधीतं यद् यच् च शूद्रस्य संनिधौ ।
प्रतिग्रहनिमित्तं च नरकाय तद् उच्यते ॥

मनुर् अपि ।

नाविस्पष्टम् अधीयीत न शूद्रजनसंनिधौ ।
न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत् ॥

अविस्पष्टं वर्णस्वरादिरहितम् । निशान्ते रात्रेर् अपरभागे । ब्रह्माधीत्य श्रान्तो ऽपि पुनर् न स्वपेद् इत्य् अर्थः । तथा च गौतमः - “नापररात्रम् अधीत्य पुनः प्रतिसंविशेत्” इति । हारीतो ऽपि - “ब्राह्मे मुहूर्ते प्रतिबुध्य स्वाद्यायम् आवर्त्य न प्रतिसंविशेत्” । नारदस् तु वर्णस्वरादिरहिताध्ययने दोषम् आह ।

हस्तहीनं तु यो ऽधीते स्वरवर्णविवर्जितम् ।
ऋग्यजुःसामभिर् दग्धो वियोनिम् अधिगच्छति ॥
हस्तेनाधीयमानस् तु स्वरवर्णान् प्रयोजयन् ।
ऋग्यजुःसामभिः पूतो ब्रह्मलोकं स गच्छति ॥

एतच् चाध्ययनादिफलं गर्भाधानादिसंस्कारवत एव नान्यस्येत्य् आह लघुव्यासः ।

संस्कारवद्भिः कर्तव्यं वेदस्याध्ययनं द्विजैः ।
शूद्रस्य फलवत् तत् स्याद् अन्यथा निष्फलं स्मृतम् ॥

नियमान्तराण्य् अपि स एवाह ।

मेखलाजिनदण्डानां धारिभिर् ब्रह्मचारिभिः ।
वेदः कृत्स्नो ऽधिगन्तव्यः सत्पथाचारवर्तिभिः ॥
भिक्षाशिभिर् गुरोर् नित्यं शुश्रूषायां रतैस् तथा ।
आ समाप्तेर् व्रतं कुर्याद् वेदस्य विधिर्वाद् (?) द्विजैः ॥

शुश्रूषा परिचर्या । तस्याः फलम् आह मनुः ।

यथा खनन् कनित्रेण नरो वार्य् अधिगच्छति ।
एवं गुरुगतां विद्यां शुश्रूषुर् अधिगच्छति ॥

नारदो विद्याधिगमोपायम् आह ।

यो ऽहेर् इव ऋणाद् भीतः सौहित्यान् नरकाद् इव ।
राक्षसीभ्य इव स्त्रीभ्यः स विद्याम् अधिगच्छति \।
यत् कीटैः पांसुभिः श्लक्ष्णैर् वल्मीकः क्रियते महान् ।
न तत्र बलसामर्थ्यम् उद्योगस् तत्र कारणम् ॥
शनैर् विद्यां शनैर् अर्थान् आरोहेत् पर्वतं शनैः ।

तृप्तिः सौहित्यम् । तथा विघनहेतून् अपि स एवाह ।

द्यूतं पुस्तकशुश्रूषा नाटकासक्तिर् एव च ।
स्त्रियस् तन्द्री च निद्रा च विद्याविघ्नकराणि षट् ॥

शुस्रूषा श्रोतुम् इच्छा । तन्द्री आलस्यम् । एवम् उक्तनियमविहीनाद् अध्ययनाभावो वरम् इत्य् आह लघुव्यासः ।

ऋक्पादम् अप्य् अधीयीत मार्गेणोक्तेन धर्मवित् ।
न त्व् एव चतुरो वेदान् अन्यायेन कदाचन ॥
वेदविप्लावनात् तेन वरं मौनं समाश्रितम् ।
वेदविप्लावनाद् विप्रो नरकं यात्य् अधोमुखः ॥

वेदविप्लावकस्य लक्षणम् आह यमः ।

यो ऽर्थार्थीमान् द्विजे दद्यात् पठेद् एवाविधानतः ।
अनधाये च तं प्राहुर् वेदविप्लावकं बुधाः ॥

अत्र याज्ञवल्क्यः ।

कृतज्ञो ऽद्रोही मेधावी शुचिः कल्पो ऽनसूयकः ।
अध्याप्याः साधुशक्ताप्तस्वार्थदा धर्मतस् त्व् इमे ॥

कृतज्ञ उपकारस्मर्ता । अद्रोह्य् अनपराधी । मेधावी धारणावान् । शुचिः प्रयतः । कल्यो विरोगः । अनसूयकः परपुरुषदोषान् आविष्करणशीलः । साधुः वृत्तवान् । शक्तः शुश्रूषायां । आप्तो ऽप्रतारकः । स्वः ज्ञातिः । अर्थदो गुर्वर्थप्रदाता । इमे धर्मतः धर्मानतिरेकेणाध्याप्याः । नन्व् अर्थदो ऽध्याप्य इत् न घटते,

भृताद् अध्ययनादानं भृत्काध्यापनं तथा ।

इत्य् उपपातकमध्ये पठितत्वात् ।

मैवं भृतिसंप्रतिपत्तिपूर्वकम् एवाध्यापनं प्रतिषिद्धम् इतरस्य वृत्तिहेतुत्वेनाविरोधात् । अत एव मनुः ।
धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा ।
तत्र विद्या न वक्तव्या शुभं बीजम् इवोषरे ॥

यमो ऽपि ।

यतो धर्मागमो न स्यान् न शुस्रूषाधनागमौ ।
विद्यया सह मर्तव्यं न विद्याम् ऊषरे वपेत् ॥

मनुस् तु ज्ञानदो ऽप्य् अध्याप्य इत्य् आह ।

आचार्यपुत्रः शुस्रूषुर् ज्ञानदो धार्मिकः सुचिः ।
आप्तः शक्तो ऽर्थदः साधुः स्वो ऽध्याप्या दश धर्मतः ॥

शक्तो विद्याग्रहणसमर्थः । ज्ञानदो विद्याप्रदः । नारदो ऽपि ।

गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा ।
अथ वा विद्यया विद्या चतुर्थं नोपलभ्यते ॥

इमे ऽध्याप्या इति वदन्न् असूयकदयो नाध्याप्या इत्य् आह । अत एव वसिष्ठः ।

विद्या ह वै ब्राह्मणम् आजगाम् गोपाय मा शेवधिस् ते ऽहम् अस्मि ।
असूयकायानृजवे ऽयताय न मां ब्रूया वीर्यवती तथा स्याम् ॥
यम् एव विद्याः शुचिम् अप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम् ।
यस् ते न द्रुह्येत् कतमच् च नाह तस्मै मां ब्रूया निधिपाय ब्रह्मन् ॥ इति ।

शेवधिः निधिः । विष्णुर् अपि - “नपरीक्षितं यजयेन् नाध्यापयेन् नोपनयेत्” इति । अध्यापने नियमविशेषान् आह यमः ।

सततं प्रातर् उत्थाय दन्तधावनपूर्वकम् ।
स्नात्वा हुत्वाथ शिष्येभ्यो कुर्याद् अध्यापनं नरः ॥

आपस्तम्बो ऽपि - “शयानश् चाध्यापनं वर्जयेन् न च तस्यां शय्यायाम् अध्यपयेद् यस्यां शयीत” इति । मनुर् अपि ।

अध्येष्यमाणस् तु गुरुर् नित्यकालम् अतन्द्रितः ।
अधीष्व भो इति ब्रूयाद् विरोमो ऽस्त्व् इति चारमेत् ॥

आरमेद् अध्यपनान् निवर्तयेतेत्य् अर्थः । यः पुनर् अनन्यमना नाधीते तं निर्भर्त्सनादिना शिक्षयेत् । तद् आह गौतमः - “शिष्यशिष्तिर् अवधेन” इति । शिष्टिः शासनम् । अवधेन ताडनम् अकृत्वेत्य् अर्थः । शिष्यग्रहणम् अन्यस्यापि भार्यादेः शासनीयस्यान्यस्योपलक्षणार्थम् । अत एव मनुः ।

भार्या पुत्रश् च दासश् च प्रेष्यो भ्राता च सोदरः ।
प्राप्तापराधास् ताड्याः स्यू रज्ज्वा वेणुदलेन वा ॥

एतच् च निर्भर्त्सनादिना शासितुम् अशक्तौ वेदितव्यम् । अत एव गौतमः - “अशक्तौ रज्जुवेणुदलाभ्यां तनुभ्याम्” इति । तादनम् इति शेषः । तच् च शिरसि न कार्यम् । तद् आह मनुः ।

पृष्ठतस् तु शरीरस्य नोत्तमाङ्गे कथं चन ।
अतो ऽन्यथा तु प्रहरन् प्राप्तः स्याच् चोरकिल्बिषम् ॥

यस् तु हस्तादिना ताडयति स राज्ञा शासनीय इत्य् आह गौतमः - “अन्येन निघ्नन् राज्ञा शास्यः” इति । य पुनर् अर्थिने विद्यां न प्रयच्छति तस्य दोषम् आह वसिष्ठः - “यो हि विद्याम् अधीत्यार्थिने न संप्रदद्यात् स कर्मानर्हः स्यात्” इति । यमो ऽपि ।

संवत्सरोषिते शिष्ये गुरुर् ज्ञानं न निर्दिशेत् ।
हरते दुष्क्र्तं तस्य शिष्यस्य वसतो गुरुः ॥

एतच् च शूद्रशिष्यव्यतिरिक्तविषयम् । तस्याध्ययननिषेधात् तथा चापस्तम्बः - “अशूद्राणाम् अदुष्टकर्मणाम् उपायनं वेदाध्ययनम् अग्न्याधेयं फलवन्ति च कर्माणि” इति । एतच् चाध्ययनं ब्राह्मणाद् एव कार्यम् । तस्यैव प्रवचने ऽधिकारात् । तथा च मनुः ।

अधीयीरंस् त्रयो वर्णाः स्वकर्मस्था द्विजातयः ।
प्रब्रूयाद् ब्राह्मणस् तेषां नेतराव् इति निश्चयः ॥

एतद् अनापद्विषयम् । आपदि क्षत्रियादेर् अप्य् अध्ययनविधानात् । तद् आह स एव ।

अब्राह्मणाद् अध्ययनम् आपत्काले विधीयते ।
अनुव्रज्या च शुश्रूषा यावद् अध्ययनं गुरोः ॥

तत्रानुगमनमात्रम् एव शुश्रूषा । सापि यावद् अध्ययनं तावद् एव कार्यम् इत्य् अर्थय् । गौतमो ऽपि - “आपत्कल्पो ब्राह्मणस्याभ्राह्मणाद् विद्योपयोगो ऽनुगमनं शुश्रूषा समाप्ते ब्राह्मणो गुरुः” इति । विद्याग्रहणम् अन्येषां रत्नप्रभृतीनाम् उपलक्षणार्थम् । अत एव देवलः ।

रत्नान्य् आपः स्त्रियो विद्या धर्मः शौचं सुभाषितम् ।
विविधानि च शिल्पानि समादेयानि सर्वतः ॥

मनुर् अपि ।

श्रद्दधानः सुभां विद्याम् आददीतावराद् अपि ।
अन्त्याद् अपि परं धर्मं स्त्रीरत्नं दुष्कुलाद् अपि ॥
विषाद् अप्य् अमृतं ग्राह्यं बालाद् अपि सुभाषितम् ।
अमित्राद् अपि सद्वृत्तम् अमेध्याद् अपि काञ्चनम् ॥

तथा विद्याफलम् अपि स एवाह ।

तपो विद्यापि विप्रस्य निःश्रयसकरं परम् ।
तपसा कल्मषं हन्ति विद्ययामृतम् अश्नुते ॥

देवलो ऽपि ।

विद्या वित्तं तपश् चेति त्रीणि तेजांसि देहिनः ।
इह चामुत्र च श्रेयस् तद् एतैः साध्यते त्रिभिः ॥
विद्यया निर्मलं ज्योतिर् वित्तत्यागात् सुखोदयम् ।
तपसा विमलां भूतिं प्राप्नुयान् मानवस् त्रिभिः ॥ इति ।

विद्यादानस्य फलम् आह यमः ।

दशानां तु सहस्राणां युक्तानां धुर्यवाहिनाम् ।
सुपात्रे विनियुक्तानां कन्या विद्या च तत्समम् ॥ इति ।

बृहस्पतिर् अपि ।

सहस्रसंमिता धेनुर् अनड्वान् दश धेनवः ।
दशानडुत्समं यानं दशयानसमो हयः ॥
दशवाजिसमा कन्या भूमिदानं च तत्समम् ॥
भूमिदानात् परं नास्ति विद्यादानं ततो ऽधिकम् ॥

मनुर् अपि ।

सर्वेषाम् एव दानानां ब्रह्मदानं विशिष्यते ।
वार्यन्नगोमहीवासस्तिलकाञ्चनसर्पिषाम् ॥

संवर्तो ऽपि ।

विद्यादानेन सुमनाः शिवलोके महीयते । इति ।

इति स्मृतिचन्द्रिकायाम् अध्ययनविधिः