२९ श्रुतप्रशंसा

अथ श्रुतप्रशंसा

तत्र लघुव्यासः ।

न वेदपाठमात्रेण संतोषं कारयेद् बुधः ।
पाठमात्रावसायी तु पङ्के गौर् इव सीदति ॥ इति ।

निरुक्ते ऽपि - “स्थाणुर् अयं भारहरः किलाभूद् अधीत्य वेदं न विजानाति यो ऽर्थम्” इति । लघुव्यासो ऽपि ।

वेदस्वाध्ययनं सर्वं धर्मशास्त्रस्य चापि यत् ।
अजानतो ऽर्थं तत् सर्वं तुषाणां खण्डनं यथा ॥
यथा पशुर् भारवाही न तस्य भजते फलम् ।
द्विजस् तदर्थानभिज्ञो न वेदफलम् अश्नुते ॥

वैदिककर्मफलभाङ् न भवतीत्य् अर्थः । अत एवास्य शूद्रसमानत्वम् आह स एव ।

यो ऽधीत्य विधिवद् विप्रो वेदार्थं न विचारयेत् ।
स सान्वयः शूद्रसमः पात्रतां न प्रपद्यते ॥

अत एव चैतेषां वाङ्मात्रेणापि पूजा न कार्येत्य् आह स एव ।

पाठमात्रपारान् नित्यं द्विजातींश् चार्थवर्जितान् ।
पशून् इव स तान् प्राज्ञो वाङ्मात्रेणापि नार्चयेत् ॥

अतो ऽधीतवेदस्य तदर्थविचार आवश्यक इत्य् अभिप्रायः । अत एव दक्षः ।

वेदस्वीकरणं पूर्वं विचारो ऽभ्यसनं जपः ।
तद्दानं चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा ॥

विचारो वेदार्थविचारः । लघुव्यासो ऽपि ।

श्रुतहीनम् अधीतं यत् नह नापुत्र तद् भवेत् ।
श्रुतं तु केवलम् अपि समुद्दाराय कल्पते ॥

किं पुनः समुच्चितम् इत्य् अभिप्रायः । तद् आह स एव ।

ज्ञानं कर्म च संयुक्तं मुक्त्यर्थं कथितं यथा ।
अधीतं श्रुतसंयुक्तं तथा श्रेष्ठं न केवलम् ॥
समुच्चितं स्तोकम् अपि श्रुताधीतं विशिष्यते ।
चतुर्णाम् अपि वर्णानां केवलाध्ययनाद् द्विजात् ॥ इति ।

वेदार्थविदः फलम् आह मनुः ।

वेदशास्त्रार्थतत्त्वज्ञो यत्र यत्राश्रमे वसेत् ।
इहैव तिष्ठन् लोके स ब्रह्मभूयाय कल्पते ॥

हारीतो ऽपि ।

मन्त्रार्थ्ज्ञो जपन् जुह्वंस् तथैवाध्यापयन् द्विजः ।
स्वर्गलोकम् अवाप्नोति नरकं तु विपर्यये ॥

निरुक्ते ऽपि - “यो ऽर्थवित् सकलं भद्रम् अश्नुते स नाकम् एति ज्ञानविधूतपाप्मा” इति । मनुस् त्व् अभ्यसनीयानि शास्त्राण्य् आह ।

बुद्धिवृद्धिकराण्य् आशु धान्यानि च हितानि च ।
नित्यं शास्त्राण्य् अवेक्षेत निगमांश् चैव वैदिकान् ॥

पुराणे ऽपि ।

धर्मशास्त्रं तु विज्ञेयं शब्दशास्त्रं तथैव च ।
पुराणानीतिहासाश् च तद् आख्यानानि यानि च ॥
महात्मनां च चरितं श्रोतव्यं नित्यम् एव च । इति ।

इति स्मृतिचन्द्रिकायां श्रुतप्रशंसा