२८ वेदप्रशंसा

अथ वेदप्रशंसा

तत्र मनुः ।

चातुर्वर्ण्यं त्रयो लोकाश् चत्वारश् चाश्रमाः पृथक् ।
भूतं भव्यं भविष्यच् च सर्वं वेदात् प्रसिद्ध्यति ॥

याज्ञवल्क्यो ऽपि ।

यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् ।
वेद एव द्विजातीनां निःश्रेयसकरः परः ॥

यज्ञादीनां कर्मणां मध्ये वेदाभ्यास एव द्विजातीनां पर उत्कृष्टो निःश्रेयसकरः, तस्य तपोरूपत्वात् । तथा च मनुः ।

वेदम् एव सदाभ्यसेत् तपस् तप्स्यन् द्विजोत्तमः ।
वेदाभ्यासो ऽपि विप्रस्य तपः परम् इहोच्यते ॥
आ हैव स नखाग्रेभ्यः परमं तप्यते तपः ।
यः स्रग्व्य् अपि द्विजो ऽधीते स्वाध्यायं शक्तितो ऽन्वहम् ॥

यः प्रत्यहं यथाशक्ति स्वाध्यायम् अधीते स आ नखाग्रेभ्यः परम् उत्कृष्टं तपः करोतीत्य् अर्थः । हेय्ति प्रसिद्धौ । स्रग्वी घृतमाल्यो नियमविहीनो ऽपीति यावत् । व्यासो ऽपि ।

नान्यतो ज्ञायते धर्मः वेदाद् एवैष निर्बभौ ।
तस्मात् सर्वप्रयत्नेन धर्मार्थी वेदम् अभ्यसेत् ॥

धर्मार्थी धर्मज्ञानार्थम् । अत एव मनुः ।

पितृदेवमनुष्याणां वेदश् चक्षुर् सनातनः । इति ।

वेदविदः फलम् अपि स एवाह ।

यथा जातबलो वह्निर् दहत्य् आर्द्रान् अपि द्रुमान् ।
तथा दहति वेदज्ञः कर्मजं दोषम् आत्मनः ॥

तथा वेदविहीनस्य सर्वक्रियानैष्फल्यम् अपि स एवाह ।

यथा षण्डो ऽफलः स्त्रीषु यथा गौर् गवि चाफला ।
यथा चाज्ञे ऽफलं दानं तथा विप्रो ऽनृचो ऽफलः ॥

वसिष्ठो ऽपि ।

यश् च काष्ठमयो हस्ती यश् च चर्ममयो मृगः ।
यश् च विप्रो ऽनधीयानस् त्रयस् ते नामधारकाः ॥

यथा दार्वादिनिर्मितो हस्ती युद्धादिकर्मयोग्यो न भवति तथानधीयानो ऽपि स्वकर्मयोग्यो न भवतीत्य् अर्थः । अत एवायं ब्राह्मणो न भवतीत्य् आह स एव ।

नानृचो ब्राह्मणो भवति न वणिङ् न कृषीवलः ।
न शूद्रप्रेषणं कुर्वन् न स्तेनो न चिकित्सकः ॥

मनुर् अपि ।

यो ऽनदीत्य द्विजो वेदान् अन्यत्र कुरुते श्रमम् ।
स जीवन्न् एव शूद्रत्वम् आशु गच्छति सान्वयः ॥

अतः पूर्वं वेदाध्ययनेन भवितव्यम् इत्य् अर्थः । अत एव शङ्खः - “न वेदम् अनधीत्यान्यां विद्याम् अधीयीतान्यत्र वेदाङ्गस्मृतिभ्यः” इति । अङ्गादेर् अपि तदर्थपरिज्ञानार्थत्वाद् इत्य् अभिप्रायः । तथा च हारीतः - “वेदो वै विद्या ब्राह्मणस्य । तत्परिज्ञानार्थम् अङ्गानि” इति ।

इति स्मृतिचन्द्रिकायां वेदप्रशंसा