२७ उपनीतधर्माः

अथोपनीतधर्माः

तत्र संवर्तः ।

संध्यां प्रातः सनक्षत्राम् उपासीत यथाविधि ।
सादित्यां पश्चिमां संध्याम् अर्धास्तमितभास्कराम् ॥
तिष्ठन् पूर्वां जपं कुर्याद् ब्रह्मचारी समाहितः ।
आसीनः पश्चिमां संध्यां जपं कुर्याद् अतन्द्रितः ॥
अग्निकार्यं च कुर्वीत मेधावी तदनन्तरम् ।
ततो ऽधीयीत वेदं तु वीक्षमाणो गुरोर् मुखम् ॥
सायं प्रातश् च भिक्षेत ब्रह्मचारी समाहितः ।
निवेद्य गुरवे ऽश्नीयात् प्राङ्मुखो वाग्यतः शुचिः ॥

मनुर् अपि ।

नित्यं स्नात्वा शुचिः कुर्याद् देवर्षिपितृतर्पणम् ।
देवताभ्यर्चनं कुर्यात् संध्योपासनम् एव च ॥ इति ।

अत्र दक्षः ।

प्रातर् मध्याह्नयोः स्नानं वानप्रस्थगृहस्थयोः ।
यतेस् त्रिषवणं प्रोक्तं सकृत् तु ब्रह्मचारिणः ॥ इति ।

अत्र विशेषम् आह विष्णुः - “दण्डवन् मज्जनम्” इति । दण्डवद् इत्य् अनेनाङ्गनैर्मल्यं न कार्यम् इत्य् आह । अत एव आपस्तम्बः - “नाप्सु श्लाघमानः स्नयात्” इति । अत्र ये त्व् असाधारणधर्मा अग्नीन्धनादयस् ते यावत् समावर्तनं तावद् एव कार्या इत्य् आह मनुः ।

अग्नीन्धनं भैक्षचर्यम् अधःशय्यां गुरोर् हितम् ।
आ समावर्तनं कुर्यात् कृतोपनयनो द्विजः ॥

एतच् चान्येषाम् अप्य् एवंजातीयानाम् उपलक्षणार्थम् । अत् एव पुराणम् ।

मेखलाम् अजिनं दण्डम् उपवीतं च नित्यशः ।
कौपीनं कटिसूत्रं च ब्रह्मचारी तु धारयेत् ॥

यमो ऽपि ।

दण्डं कमण्डलुं वेदं मौञ्जीं च रशनां तथा ।
धारयेद् ब्रह्मचर्यं च भिक्षान्नाशी गुरौ वसन् ॥

वेदो धर्भमुष्टिः । गुरौ गुरुगृह इत्य् अर्थः । अत्र वसतो ये धर्मास् तान् आह व्यासः ।

जघन्यशायी पूर्वं स्याद् उत्थाय गुरुवेश्मनि ।
यच् च शिष्येण कर्तव्यं कार्यं दासेन वा पुनः ॥
कृतम् इत्य् एव तत् सर्वं कृत्वा तिष्ठेत् तु पार्श्वतः ।
किङ्करः सर्वकार्येषु सर्वकर्मसु कोविदः ॥
नाभुक्तवति नाश्नीयाद् अपीतवति नो पिबेत् ।
न तिष्ठति तथासीत नासुप्ते प्रस्वपेत् तथा ॥

याज्ञवल्क्यो ऽपि ।

गुरुं चैवाप्य् उपासीत स्वाध्यायर्थं समाहितः ।
आहूतश् चाप्य् अधीयीत लब्धं चास्मै निवेदयेत् ॥

हारीतो ऽपि - “अथोदकुम्भकुशपुष्पसमिन्मूलाहरनसंमार्जनोपलेपाङ्गशुश्रूषाप्रभृतिभिर् गच्छन्तं तिष्ठन्तं शयानम् आसीनं भक्त्यानुवर्तेत । नास्य निर्माल्यशयनासनच्छायापादुके वा कामयेत्” इति । आपस्तम्बो ऽपि - “आचार्याधीनः स्याद् अन्यत्र पतनीयेभ्यः” इति । बोधायनो ऽपि - “सर्वत्राप्रतिहतगुरुवाक्यो ऽन्यत्र पातकात्” इति । यमो ऽपि ।

गुर्वधीनो ऽस्वतन्तः स्यात् पूर्वोत्थायी गुरोर् गृहे ।
सदा जघन्यसंवेशी जितशिश्नो जितोदरः ॥
जितनिद्रो जितालस्यो जितक्रोधो जितात्मवान् ।
शुश्रूषुर् अनहंवादी गुरुदेवार्वने रतः ॥

गुर्वर्चनं गुरुपूजा । तस्याः फलम् आह शङ्खः ।

न स्नानेन न होमेन नैवाग्निपरिचर्यया ।
ब्रह्मचारी दिवं याति स याति गुरुपूजनात् ॥

मनुर् अपि नियमान्तराण्य् आह ।

नीचशय्यासनं चास्य नित्यं स्याद् गुरुसंनिधौ ।
गुरोश् च चक्षुर्विषये न यथेष्टासनो भवेत् ॥

एतच् च गवादिव्यतिरिक्तविषयम्, तत्र सहासनविधानात् । तद् आह स एव ।

गो ऽश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च ।
आसीत गुरुणा सार्धं शिलाफलकनौषु च ॥

विष्णुर् अपि - “नास्यैकासनो भवेद् ऋते शिलाफलकयानेभ्यः” इति । तथा न गुरोः परीवादाद्य् आकर्णनीयम् । तथा च मनुः ।

गुरोर् यत्र परीवादो निन्दा वापि प्रवर्तते ।
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततो ऽन्यतः ॥ इति ।

सद्दोषख्यापनं परीवादः । असद्दोषाभिधानं निन्दा । न च स्वेनापि परीवादादि कार्यम् । यद् आह स एव ।

परीवादात् खरो भवति श्वा वै भवति निन्दकः ।
परिभोक्ता क्रिमिर् भवति कीटो भवति मत्सरी ॥

अननुज्ञातगुरुधनोपजीवी परिभोक्ता । हारीतो ऽपि ।

अमृतस्य प्रदातारं गुरुं यस् त्व अवमन्यते ।
तच् चैनं दहति ब्रह्म तिर्यग्योनौ च जायते ॥
ऋचं वा यदि वा पादम् अर्धं वा यदि वाक्षरम् ।
सकाशाद् यस्य गृह्णीयान् नियतं तस्य गौरवम् ॥

तथा च गुर्वादेर् नामापि न कीर्तनीयम् । तथा च स्मृतिः ।

आचार्यं चैव तत्पुत्रं तद्भार्यां दीक्षितं गुरुम् ।
पितरं च पितृव्यांश् च मातरं मातुलं तथा ।
हितैषणं च विद्वांसं श्वशुरं यतिम् एव च ।
न ब्रूयान् नामतो विद्वान् मातुश् च भगिनीं तथा ॥ इति ।

यत्र पुनर् गुर्वादिनामग्रहणम् आवश्यकं तत्रोपाध्यायादिशब्देन स ब्रूयात् । तथा च गौतमः - “नामगोत्रे गुरोः समानतो निर्दिशेत्” इति । समानतो मानेन सहेत्य् अर्थः । अत एव मनुः ।

नोदाहरेद् अस्य नाम परोक्षं अपि केवलम् ।
न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ॥

तथा गुरुभार्यादेर् अपि शुश्रूषा कार्येत्य् आह विश्वामित्रः ।

तद्भार्यापुत्र्योश् चैव वृद्धानां धर्मशालिनाम् ।
शुश्रूषा सर्वथा कार्या प्रणामो भक्तिर् एव च ॥ इति ।

नारदो ऽपि ।

आ विद्याग्रहणाच् छिष्यः शुश्रूषाप्रयतो गुरुम् ।
तद्वृत्तिर् गुरुदारेषु गुरुपुत्रे तथैव च ॥ इति ।

सुमन्तुर् अपि ब्रह्मचारिनियमम् आह ।

ब्रह्मचर्यं तपो भैक्षं संध्ययोर् अग्निकर्म च ।
स्वाध्यायो गुरुवृत्तिश् च चर्येयं ब्रह्मचारिणः ॥ इति ।

तपःशब्देनात्र ब्रह्मचारिनियमा उच्यन्ते । तथा चापस्तम्बः - “नियमेषु तपःशब्दः । तदतिक्रमे विद्याकर्म निःस्रवति” इति । अतो नियमानुष्ठानम् आवश्यकम् इत्य् अभिप्रायः । अत एव मनुः ।

सेवेतेमांस् तु नियमान् ब्रह्मचारी गुरौ वसन् ।
संनियम्येन्द्रियग्रामं तपोवृद्ध्यर्थम् आत्मनः ॥
इन्द्रियाणां तु सर्वेषां यद्य् एकं क्षरतीन्द्रियम् ।
तेनास्य क्षरति प्रज्ञा दृतेः पादाद् इवोदकम् ॥

ते च याज्ञवल्क्येनोक्ताः ।

मधुमांसाञ्जनोच्छिष्टशुक्तं स्त्रीप्राणिहिंसनम् ।
भास्करालोकनाश्लीलपरीवादादि वर्जयेत् ॥

मधु क्षौद्रम् । मांसं छागादेर् अपि वर्ज्यम् । एतच् च व्याधिराहित्ये वेदितव्यम्, अन्यथा तु वैद्योपदिष्टं मधुमांसादिकं गुरोर् उच्छिष्टं कृत्वा प्राश्नीयात् । तथा च वसिष्ठः - “स चेद् व्याधीयीत कामं गुरोर् उच्छिष्टं भैषय्जार्थं सर्वं प्राश्नीयात्” इति । व्याधीयीत व्याधिमत्ताम् अनुभवतीत्य् अर्थः । अञ्जनं तैलादिना गात्रस्य, कज्जलादिना चाक्ष्णोः । एतद् अप्य् अन्यत्र वैद्योपदेशात् । औषधस्याव्रतघ्नत्वात् । तथा च स्मृतिः ।

अष्टौ तान्य् अव्रघ्नानि आपो मूलं घृतं पयः ।
हविर् ब्राह्मणकाम्या च गुरोर् वचनम् औषधम् ॥ इति ।

उच्छिष्टं गुरुव्यतिरिक्तस्य वर्जयेत् । तद् आह वसिष्ठः - “उच्छिष्टम् अगुरोर् अभोज्यम्” इति । अगुरोर् अभोज्यम् इत्य् अनेन गुरोर् उच्छिष्टं भोज्यम् इत्य् आह । अत एव आपस्तम्बः - “पितुर् ज्येष्ठस्य च भ्रातुर् उच्छिष्टं भोक्तव्यम्” इति । न च, “आचार्यः श्रेष्ठो गुरूणां मातेत्य् एके” इति मातुर् अपि गुरुत्वश्रवणात् तस्या उच्छिष्टं भोक्तव्यम् इति शङ्कनीयम्, “स गुरुर् यः क्रियाः कृत्वा वेदम् अस्मै प्रयच्छति” इति गुरुलक्षणवैलक्षण्यात् । अतस् तत्रौपचारिको गुरुशब्द इति मन्तव्यम् । अत एव मनुः ।

गुरुवत् संप्रपूज्याः स्युः सवर्णा गुरुयोषितः । इति ।

अत एव गौतमो ऽपि - “तद्भार्यापुत्रेषु चैवम्” इति गुरुधर्मातिदेशं कृत्वा तदुच्छिष्टभोजनापवादम् आह - “नोच्छिष्टाशनस्नापनप्रसाधनपादप्रक्षालनोन्मर्दनोपसंग्रहणानि” इत् । प्रसाधनम् अलंकरणम् । उन्मर्दनम् अङ्गमर्दनम् । एवम् अतिशेषेण गुरोर् उच्छिष्टभोजने प्राप्ते क्वचिद् अपवादम् आह आपस्तम्बः - “धर्मविप्रतिपत्ताव् अभोज्यम्” इति । अधर्मोपेतस्य पितुर् उच्छिष्टम् अभोज्यम् इत्य् अर्थः । शुक्तं निष्ठुरं वाक्यम् । तद् अपि वर्जयेत् । अत एव वर्जयेद् इत्य् अनुवृत्तौ गौतमः - “शुक्ता वाचः” इति । भास्करालोकम् आदित्यावेक्षणम् । तद् अपि न कार्यम् इत्य् आह मनुः ।

नेक्षेतोद्यन्तम् आदित्यम् अस्तंयन्तं कदाचन ।
नोपस्पृष्टं न वारिस्थं न मध्यनभसो गतम् ॥

उपस्पृष्टं राहुग्रस्तम् । अश्लिलम् असत्यभाषणम् । परीवादः परनिन्दा । आदिग्रहणम् अन्येषाम् अपि नियमानाम् उपलक्षणार्थम् । अत एव गौतमः - “वर्जयेन् मधुमांसगन्धमाल्य-दिवास्वप्नाञ्जनाभ्यञ्जनयानोपानच्छत्रकामक्रोधलोभमोहवादनस्नानदन्तधावन-हर्षनृत्तगीतपरिवादभयानि” इति । गन्धश् चन्दनादि । तस्य भोगार्थस्य प्रतिषेधो न देवताशिष्टस्य । तथा च स्मृतिः - “देवताशिष्टम् एव गृह्णीयाद् ब्रह्मचारी” इति । एवं मालायाम् अपि द्रष्टव्यम् । यानं शिबिकादि । वादो बहुप्रलापः । वादनं भेरीताडनादि । स्नानम् उपभोगार्थम्, नित्यस्य विहितत्वात् । भयं परस्य । मनुर् अपि ।

वर्जयेन् मधु मांसं च गन्धमाल्यरसान् स्त्रियः ।
शुक्तानि चैव सर्वाणि प्राणिनां चैव हिंसनम् ॥
अभ्यङ्गम् अञ्जनं चाक्ष्णोर् उपानच्छत्रधारणम् ।
कामं क्रोधं च लोभं च नर्तनं गीतवादनम् ॥
द्यूतं च जनवादं च परिवादं तथानृतम् ।
स्त्रीणां च प्रेक्षणालम्भम् उपघातं परस्य च ॥ इति ।

रसा इष्ङुरसादयः । मधुनो रसत्वे ऽपि पृथङ्ग्रहणं प्रायश्चित्तगुरुत्वख्यापनार्थम् । स्त्रीप्रेक्षणालम्भने तु यत्र मैथुनशङ्का तत्रैव वर्जयेत्, इतरत्राशक्यपरिहारत्वात् । अत एव वर्जयेद् इत्य् अनुवृत्तौ गौतमः - “स्त्रीप्रेक्षणालम्भने मैथुनशङ्कायाम्” इति । तथा नियमान्तराण्य् अपि स एवाह - “गुरुदर्शने कण्ठप्रावृतावसक्थिकापाश्रयणपादप्रसारणानि निष्ठीवितहसितविजृम्भितावस्फोटनानि” । अत्रापि वर्जयेद् इत्य् अनुवर्तते । कण्ठप्रावृतं वस्त्रादिना कण्ठप्रावरणम् । अवसक्थिका जान्वोर् मध्यस्य च वस्त्रादिना बन्धनम् । अपाश्रयणं कुड्यादिसंश्रयणम् । विजृम्भितं जृम्भणम् । अवस्फोटनं भुजास्फालनादि । हसितं प्रसिद्धम् । तच् च यद्य् अशक्यपरिहारं तदा मुखं पिधाय कार्यम् । तद् आह आपस्तम्बः - “यदि स्मयेतापिगृह्य स्मयेतति हि ब्राह्मणम् । नोपजिघ्रेत् स्त्रियं मुखेन न हृदयेन प्रार्थयेन् नाकारणाद् उपस्पृशेत्” इति । पुनर् आपस्तम्बः - “दत्वा नानुकथयेत् कृत्वा च ननुस्मरेद् आत्मप्रशंसा परगर्हाम् इति च वर्जयेत्” इति । हारीतो ऽपि - “हयगमरथचैत्य-वृक्षविषमारोहणप्रचयनसंसिद्धिसर्पणमहानद्यर्णवप्रतरणमहासाहसविरुद्धानि वर्जयेत्” इति । आपस्तम्बो ऽपि - “स्त्रीभिर् यावद् अर्थसंभाषी मृदुः शान्तो दान्तो ह्रीमन् दृढधृतिः” इति । विष्णुर् अपि - “कृतलवणं ब्रह्मचारी वर्जयेत्” इति । कृतलवणम् ऊषरलवणम् । मनुर् अपि ।

नैनं ग्रामे ऽभिनिम्लोचेत् सूर्यो नाभ्युदयात् क्वचित् ।
सूर्येण ह्य् अभिनिर्मुक्तः शयानो ऽभ्युदितश् च यः ॥
प्रायश्चित्तम् अकुर्वाणो युक्तः स्यान् महतैनसा ।
मुण्डो वा जटिलो वा स्याद् अथ वा स्याच् छिखाजटः ॥ इति ।

मुण्डः शिखाविहीनः, “मुण्डः शिखी वा” इति गौतमस्मरणात् । कात्यायनो ऽपि ।

सशिखं वपनं कार्यम् आ स्नानाद् ब्रह्मचारिणः ।
आ शरीरविमोक्षात् तु ब्रह्मचर्यं न चेद् भवेत् ॥ इति ।

एतच् छन्दोगाभिप्रायम् । तथा च श्रीविष्णुपुराणे भरतवाक्यम् ।

एते लूनशिखास् तस्य दशनैर् अचिरोद्गतैः ।
कुशकाशा विराजन्ते वटः सामगा इव ॥

“अधः शयीत” इत्य् उक्तं गौतमेन । तत्र विशेषम् आह यमः ।

खट्वासनं च शयनं वर्जयेद् दन्तधावनम् ।
स्वपेद् एकः कुशेष्व् एव न रेतः स्कन्दयेत् क्वचित् ॥

मनुर् अपि ।

एकः शयीत सर्वत्र न रेतः स्कन्दयेत् क्वचित् ।
कामाद् धि स्कन्दयेद् रेतो हिनस्ति व्रतम् आत्मनः ॥

व्रतं ब्रह्मचर्यम् । अकामत उत्सर्गे प्रायश्चित्तमात्रं न व्रतलोप इत्य् आह स एव ।

स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्लम् अकामतः ।
स्नात्वार्कम् अर्चयित्वापि पुनर् माम् इत्य् ऋचं जपेत् ॥ इति ।

इति स्मृतिचन्द्रिकायाम् उपनीतधर्माः