२६ भिक्षाटनम्

अथ भिक्षाटनम्

तत्र मनुः ।

प्रतिगृह्येप्सितं दण्डम् उपस्थाय च भास्करम् ।
प्रदक्षिणं परीत्याग्निं चरेद् भैक्षं यथाविधि ॥

यथाशास्त्रम् इत्य् अर्थः । तत् कथम् इत्य् अपेक्षिते गौतमः - “आदिमध्यान्तेषु बवच्छब्दः प्रयोज्यो वर्णानुपूर्व्येण” इति । भिक्षाप्रार्थनावाक्ये वर्णक्रमेणादिमध्यवसानेषु भवच्छब्दः प्रयोक्तव्य इत्य् अर्थः । तथा च मनुः ।

भवत्पूर्वं चरेद् भैक्षम् उपनीतो द्विजोत्तमः ।
भवन्मध्यं तु राजन्यः वैश्यस् तु भवदुत्तरम् ॥

अत्रैवं प्रयोगः - भवति भिकां देहीति ब्राह्मणः, भिक्षां भवति देहीति क्षत्रियः, भिक्षां देहि भवतीति वैश्यः । अत्र याज्ञवल्क्यः ।

ब्राह्मणेxउ चरेद् भैक्षम् अनिन्द्येष्व् आत्मवृत्तये ।

भिक्षाणां समूहो भैक्षम् । तत्प्राप्तं चरेद् इत्य् अर्थः । तच् च ब्राह्मणविषयम् । तद् आह व्यासः ।

ब्राह्मणक्षत्रियविशश् चरेयुर् भैक्षम् अन्वहम् ।
सजातीयगृहेष्व् एव सार्ववर्णिकम् एव वा ॥

अत्र विशेषम् आह मनुः ।

वेदयज्ञैर् अहीनानां प्रशस्तानां स्वकर्मसु ।
ब्रह्मचार्य् आहरेद् भैक्षं गृहेभ्यः प्रयतो ऽन्वहम् ॥

उक्तेष्व् अपि केषुचिद् अपवादम् आह स एव ।

गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ।

गुरोः कुले गुरुगृह इत्य् अर्थः । यत् तु तेनैवोक्तम्,

मातरं वा स्वसारं वा मातुर् वा भगिनीं निजाम् ।
भिक्षेत भिक्षां प्रथमां या चैनं नावमानयेत् ॥

इति, तद् उपनयनाङ्गभिक्षाविषयम् इति, “गुरोः कुले न भिक्षेत” इत्य् अनेनाविरुद्धम् । अन्यत्र भिक्षालाभे गुरोः कुले भिक्षाटनम् अविरुद्धम् इत्य् आह गौतमः - “आचार्यज्ञातिगुरुस्वेष्व् अलाभे ऽन्यत्र” । स्वेषु स्वकीयेषु बन्धुष्व् इत्य् अर्थः । अत्रापि पूर्वं पूर्वं परित्यजेद् यद्य् उत्तरोत्तरगृहेषु भिक्षा लभ्येत । तद् अपि तेनैवोक्तम् - “तेषां पूर्वं पूर्वं परिहरेत्” इति । व्यासस् तु त्रैवर्णिकं भिक्षाचरणम् आह ।

ब्राह्मणक्षत्रियविषश् चरेयुर् भैक्षम् अन्वहम् ।
सजातीयगृहेष्व् एव सार्ववर्णिकम् एव वा ॥

सर्वशब्दस्य प्रकृतवर्णत्रयपरत्वाद् इत्य् अभिप्रायः । एतत् पूर्वोक्तसजातीयालाभविषयम् । तथा च भविष्यत्पुराणम् ।

सर्वं वा चिवरेद् ग्रामं पूर्वोक्तानाम् असंभवे ।
अन्त्यवर्ज्यं महाबाहो इत्य् आह भगवान् विभुः ॥

अन्त्यः शूद्रः । यत् तु मनुनोक्तम्,

सर्वं वा विचरेद् ग्रामं पूर्वोक्तानाम् असंभवे ।
नियम्य प्रयतो वाचम् अभिशस्तांश् च वर्जयेत् ॥

इति, तद् अपि पुराणेन समानार्थं न पुनः शूद्राद् अपि प्राप्त्यर्थम्, “वेदयज्ञैर् अहीनानाम्” इति तेनैवोक्तत्वात् । यद् अपि भविष्यत्पुराणे,

चातुर्वर्ण्यं चरेद् भैक्षम् अलाभे कुरुनन्दन ।

इति, तद् अप्य् आपदि पूर्वपूर्वालाभे वेदितव्यम् । अत एव विष्णुः ।

क्षत्रवैश्यगृहेष्व् एव क्रियावर्तिषु साधुषु ।
चातुर्वर्ण्यं चरेद् भैक्षम् आपत्काल उपस्थिते ॥ इति ।

एतच् च सायं प्रातः कार्यम्, “सायं प्रातर् अमत्रेण भिक्षाचर्यं चरेत्” इत्य् आपस्तम्बस्मरणात् । अमत्रं शरावादि । अत एवैकान्नाशित्वनिषेधम् आह मनुः ।

भैक्षेण वर्तयेन् नित्यं नैकन्नादी भवेद् व्रती ।

एतद् अनापद्विषयम् । तद् आह याज्ञवल्क्यः ।

ब्रह्मचर्ये स्थितो नैकम् अन्नम् अद्याद् अनापदि । इति ।

भैक्षासिनः फलम् आह मनुः ।

भैक्षेण व्रतिनो वृत्तिर् उपवाससमा स्मृता ।

अत्रिर् अपि ।

शाकभक्षाः पयोभक्षाः ये चान्ये यावकाशिनः ।
सर्वे ते भक्षभक्षस्य कलां नार्हन्ति षोडशीम् ॥
तप्तकाञ्चनवर्णेन गवां मूत्रेण यावकम् ।
पिबेद् द्वादश् वर्षाणि न तद् भैक्षसमं भवेत् ॥

यावको यवकृतो यवागूः । न चात्र फलश्रवणाद् अनियतं भिक्षाचरणम् इति वाच्यम्, अकरणे मनुना प्रायश्चित्तविधानात् -

अकृत्वा भक्षवरणम् असमिध्य च पावकम् ।
अनातुरः सप्तरात्रम् अवकीर्णिव्रतं चरेत् ॥ इति ।

आपस्तम्बस् तु भिक्षमाणं ब्रह्मचारिणं न प्रत्याचक्षेतेत्य् आह - “स्त्रीणां प्त्र्याचक्षाणानां समाहितो ब्रह्मचारीष्टं दत्तं हुतं प्रजां पशून् ब्रह्मवर्चसम् अन्नाद्यं वृङ्क्ते । तस्माद् उ ह वै ब्रह्मचारिसङ्घं चरन्तं न प्रत्याचक्षीत” इति । एतच् च व्रताध्यय्नादियोगिब्रह्मचारिविषयम् । अत एव मनुः ।

भिक्षां च भिक्षवे दद्याद् विधिवद् ब्रह्मचारिणे । इति ।

विधिवद् इत्य् अनेन तद्विहीनस्य निषेधम् आह । अत एव वसिष्ठः ।

अव्रता ह्य् अनधीयाना यत्र भैक्षचरा द्विजाः ।
तं ग्रामं दण्डयेद् राजा चोरभक्तप्रदो हि सः ॥ इति ।

भिक्षादानं प्रकृत्याह मनुः ।

हस्ते दत्ता तु या भिक्षा लवणं व्यञ्जनानि च ।
भुक्त्वा ह्य् अशुचितां याति दाता स्वर्गं न गच्छति ॥ इति ।

एतच् च भैक्षं यावदर्थम् एवाहर्तव्यम् अन्यथा दोषश्रवणात् । तद् आह स एव ।

आहारमात्राद् अधिकं न क्वचिद् भैक्षम् आहरेत् ।
युज्यते स्तेयदोषेण कामतो ऽधिकम् आहरन् ॥
माधूकरीं य आदाय ब्राह्मणेभ्यः प्रयच्छति ।
स याति नरकं घोरं भोक्ता भुङ्क्ते च किल्बिषम् ॥
तस्मान् नोपहरेद् भैक्षम् अतिरिक्तं कदचन ।

माधूकरी भिक्षा । कामत इति वदन् अकामतो ऽधिकाहरणे न दोष इत्य् आह । अत एवाधिकस्य प्रतिपत्तिनियमम् आह आपस्तम्बः - “न चोच्छिष्टं कुर्याद् अशक्तौ भूमौ निखनेद् अप्सु वा प्रविशेद् आचार्याय वा पर्यवदध्याद् अन्तर्धिने वा शूद्राय” इति । अन्तर्धिने आचार्यदासायेत्य् अर्थः । न चात्रोच्छिष्टशब्देनाशुचिद्रव्याभिधानम् आशङ्कनीयम्, “नोच्छिष्टं कस्यचिद् दद्यात्” इति मनुना तस्य दाननिषेधात् । एवम् आहृत्य तद् भैक्षं गुरवे निवेद्याश्नीयात् । तथा च मनुः ।

समाहृत्य तु तद् भैक्षं यावद् अर्थम् अमायया ।
निवेद्य गुरवे ऽश्नीयाद् आचम्य प्राङ्मुखः शुचिः ॥ इति ।

गुर्वसंनिधाने तु तद्भार्यादिभ्यो निवेदयेत् । तद् आह गौतमः - “असंनिधौ तु तद्भार्यापुत्रसब्रह्मचारिसद्भ्यः” इति । सब्रह्मचारी सहाध्यायी सन्तः श्रोत्रियाः । तथा चापस्तम्बः - “विप्रवासे गुरोर् आचार्यगुलाय तैर् विप्रवासे ऽन्येभ्यो ऽपि श्रोत्रियेभ्यः” इति । ततो गुर्वाद्यनुज्ञया भुञ्जीत । तथा च हारीतः - “भैक्षम् अवोक्षितं पर्यग्निकृतम् आदित्यदर्शितम् अनुज्ञातम् अमृतसंमितं प्राहुस् तद् अश्नन् ब्रह्मचारी ब्रह्मसिद्धिम् अवाप्नोति” इति । याज्ञवल्क्यो ऽपि ।

कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया ।
आपोशनक्रियापूर्वं सत्कृत्यान्नम् अकुत्सयन् ॥

आपोशनक्रिया अमृतोपस्तरणम् असीत्य् एवमादिका । तां पूर्वं कृत्वा भुञ्जीत । सत्कृत्य पूजयित्वेत्य् अर्थः । तथा च मनुः ।

पूजयेद् अशनं नित्यम् अद्याच् चैतद् अकुत्सयन् ।
पूजितं ह्य् अशनं नित्यं बलम् ऊर्जं च यच्छति ॥
अपूजितं तु यद् भुक्तम् उभयं तु हिनस्ति तत् ।

कुत्सयन्न् अनिन्दयन्न् इत्य् अर्थः । गौतमो ऽपि - “सायं प्रातस् त्व् अन्नम् अभिपूजितम् अनिन्दन् भुञ्जीत” इति । सायं प्रातर् इति वदन् मध्ये भोजननिषेधम् आह मनुः ।

सायं प्रातर् द्विजातीनाम् अशनं श्रुतिचोदितम् ।
नान्तरा भोजनं कुर्याद् अग्निहोत्रसमो विधिः ॥

अग्निहोत्रसम इत्य् अनेन कलद्वये ऽपि भोजनम् आवश्यकम् इत्य् आह । तथा च श्रुतिः - “तस्मात् सायं प्रातर् आश्येव स्यात्” इति । अत्र वसिष्ठः ।

अष्टौ ग्रासा मुनेर् भक्ष्या वानप्रस्थस्य षोडश ।
द्वात्रिंशतं गृहस्थस्य ह्य् अमितं ब्रह्मचारिणः ॥ इति ।

आपस्तम्बो ऽपि ।

आहिताग्निर् अनड्वांश् च ब्रह्मचारी च ते त्रयः ।
अश्नन्त एव सिध्यन्ति नैषां सिद्धिर् अनश्नताम् ॥ इति ।

न चात्रामितम् इत्य् अनेनात्यशनम् आशङ्कनीयम् । अत आह पैठीनसिः - “काले ऽन्नाद्यं लघुक्षिप्रम् अल्पम् अद्याद् रसोत्तरम्” । मनुर् अपि ।

न चैवात्यशनं कुर्यान् न चोच्छिष्टः क्वचिद् व्रजेत् ।
अनारोग्यम् अनायुष्यम् अस्वर्ग्यं चातिभोजनम् ॥
अपुण्यं लोकविद्विष्टं तस्मात् तत् परिवर्जयेत् ॥

तथा भोक्तुर् दिङ्नियमम् आह स एव ।

आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिनामुखः ।
श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्त उदङ्मुखः ॥

आयुषे हितम् आयुष्यम् । तत् प्राङ्मुखो भुङ्क्ते भुञ्जीतेत्य् अर्थः । एवं चायुष्कामः प्राङ्मुखो भुञ्जीतेत्य् उक्तं भवति । एवं यशसे हितं यशस्यम् । तद् दक्षिणामुखो भुञ्जीत । श्रियम् इच्छन् प्रत्यङ्मुखः । ऋतं सत्यम् । तद् इच्छन्न् उदङ्मुख इति । हारीतो ऽपि - “प्राङ्मुख आयुष्कामो ऽश्नीयाद् यशो ऽर्थी दक्षिणामुखः श्रीकामः प्रत्यङ्मुखः” इति । यत् तु मनुनोक्तम्,

यद् वेष्टितशिरा भुङ्क्ते यद् भुङ्क्ते दक्षिणामुखः ।
सोपानत्कश् च यद् भुङ्क्ते तद् वै रक्षांसि गच्छति ॥

इति, तच् छ्राद्धविषयम्, तस्य तत्प्रकरणे पाठात् । अत्र पात्रनियमम् आह हारीतः - “लोहमये मृन्मये वा पात्रे भुञ्जीत” । तच् च भुक्त्वा स्वयं प्रक्षालयेत् । तद् आह आपस्तम्बः - “भुक्त्वा स्वयम् अमत्रं प्रक्षालयीत” इति । “भैक्षेण वर्तयेन् नित्यम्” इत्य् उक्तम् । तस्य क्वचिद् अपवदम् आह याज्ञवल्क्यः ।

ब्राह्मणः कामम् अश्नीयाच् छ्राद्धे व्रतम् अपीडयन् ।

अपीडयन् मधुमांसादि वर्जयन्न् इत्य् अर्थः, तस्य ब्रह्मचरिणः प्रतिषिद्धत्वात् । अत एव मनुः ।

प्रतिषिद्धं न भोक्तव्यं मधुमांसादि नित्यसः । इति ।

मधुनः पुनर् अकामेनोपपन्नस्य नैव दोषो ऽस्तीत्य् आह वसिष्ठः - “अकामोपन्नं मधु वजसनेयके न दुष्यति” इति । यत् तु विष्णुनोक्तम् - “श्राद्धक्र्तलवणशुक्तपर्युषितवर्जनम्” इति, तद् अनभ्यर्थिताभिप्रायम् । अत एव मनुः ।

कामम् अभ्यर्थितो ऽश्नीयाद् व्रतम् अस्य न लुप्यते । इति ।

इति स्मृतिचन्द्रिकायां भिक्षाटनम्