२२ अग्निकार्यम्

अथाग्निकार्यम्

तत्र संवर्तः ।

अग्निकार्यं च कुर्वीत मेधावी तदनन्तरम् । इति ।

संध्योपासनानन्तरम् इत्य् अर्थः । एतच् च कालद्वये ऽपि कार्यम् । तद् आह याज्ञवल्क्यः ।

अग्निकार्यं ततः कुर्यात् संध्ययोर् उभयोर् अपि । इति ।

सुमन्तुर् अपि ।

ब्रह्मचर्यं ततो भक्षं संध्ययोर् अग्निकर्म च । इति ।

केचित् सायम् एवाग्निकार्यम् इच्छन्ति । तद् आह आपस्तम्बः - “सायम् एवाग्निपूजेत्य् एके” इति । अग्नीन्धनम् अग्निपूजा । अत एव लोगाक्षिः - “सायम् एवाग्निम् इन्धीतेत्य् एके” इति । एतच् च होमात्मकम् एव न समिदाधानमात्रम् । अत एव शङ्खः ।

प्रयतः काल उत्थाय स्नातो हुतहुताशनः ।
कुर्वीत प्रयतो भक्त्या गुरूणाम् अभिवादनम् ॥ इति ।

हुतशब्दप्रयोगाद् धोम एवायम् इत्य् अभिप्रायः । देवता चात्र मान्त्रवर्णिकी । मनुर् अपि ।

दूराद् आहृत्य समिधः संनिदध्याद् विहायसि ।
सायं प्रातश् च जुहुयात् ताभिर् अग्निम् अतन्द्रितः ॥ इति ।

विहायसि मण्टपादौ । दूराद् अपरिगृहीतदेशाद् इत्य् अर्थः । अत एव आपस्तम्बः - “यथा कथा च परपरिग्रहम् अभिमन्यते स्तेनो ह भवति” इति । बैजावापस् तु समिदाहरणे दिङ्नियमम् आह - “पुरास्तमयात् प्राग् उदीचीं दिशं गत्वाहिंसन्न् अरण्यात् समिधम् आहरेत् । शुष्का ब्रह्मवर्चसकाम आर्द्रस् तेजःकाम उभयीर् उभयकामः” इति । पुरास्तमयाद् इति वदन्न् अस्तम् इते निषेधम् आह । अत एव आपस्तम्बः - “नास्तम् इते समिद्धारो गच्छेत्” (आप्ध् १।४।१५) इति । समिन्नियमो ऽपि वायुपुराणे दर्शितः ।

पालाश्यः समिधः कार्याः खादिर्यस् तदलाभतः ।
शमीरौहिताश्वत्थास् तदभावे ऽर्कवेतसौ ॥ इति ।

कात्यायनस् तु सावित्रिकं समित्प्रमाणम् आह ।

नाङ्गुष्ठाद् अधिका कार्या समित् स्थूलतया क्वचित् ।
न वियुक्ता त्वचा चैव न सकीटा न पाटिता ॥
प्रादेशान् नाधिका न्यूना तथा न स्याद् विशाखिका ।
न सपर्णा न निर्वीर्या होमेषु च विजानता ॥
विशीर्णा विदला ह्रस्वा वक्रा ससुषिरा कृशा ।
दीर्घा स्थूला धुणैर् दष्टा कर्मसिद्धिविनाशिका ॥ इति ।

आपस्तम्बो ऽपि सार्वत्रिकं नियमविशेषम् आह - “नाप्रोक्षितम् इन्धनम् अग्नाव् आदध्यात्” इति । अग्निकार्याकरणे दृष्टदोषम् अप्य् आह हारीतः ।

पुरा जग्राह वै मृत्युः हिंसयन् ब्रह्मचारिणम् ।
अग्निस् तं मोक्षयमास तस्मात् परिचरेद् धि तम् ॥
ब्रह्मचारी यदा त्व् अग्नाव् आदध्यात् समिधो न हित् ।
गृह्णीयात् तं तदा मृत्युर् अदध्यात् समिधस् ततः ॥ इति ।

इति स्मृतिचन्द्रिकायाम् अग्निकार्यम्